विश्वामित्रकथनमेवाह ब्रह्मयोनिरिति । ब्रह्मा हिरण्यगर्भः योनिः उत्पत्तिकारणं यस्य सः ब्रह्मपुत्र इत्यर्थः । अत एव महायशाः उत्तमयशोविशिष्टः अक्लिष्टव्रतधर्मज्ञः अक्लिष्टं बाधारहितं व्रतं सङ्कल्पो यस्य स सत्यसङ्कल्प इत्यर्थः । धर्मं जानाति धर्मज्ञः स एव स इति कर्मधारयः । अत एव सज्जनप्रतिपूजकः महात्मप्रतिपूजनस्य कर्ता अत एव महान्सर्वश्रेष्ठः कुशो नामासीत् ॥ १।३२।१ ॥
स इति । महात्मा स कुशनामा कुलीनायामुत्कृष्टकुलविशिष्टायां युक्तायामात्मसदृशायां वैदर्भ्यां सुमहाबलान् अत्यन्तबलविशिष्टान् कुशाम्बं कुशनाभं च अमूर्तिरजसं च वसुं च चतुरः सदृशान्सुतान् जनयामास । एक एव चः स्वहीनयोरप्यन्वेति ॥ १।३२।२ ॥
दीप्तियुक्तानिति । दीप्तियुक्तानतिप्रकाशविशिष्टान् धर्मिष्ठान् अतिशयधर्मविशिष्टान्सत्यवादिनः सत्यवचनांस्तान् चतुरः सुतान् क्षत्रधर्मचिकीर्षया क्षत्रियधर्मप्रवृत्तीच्छया उवाच ॥ १।३२।३ ॥
तद्वचनमेवाह क्रियतामित्यर्धेन । हे पुत्राः पालनं प्रजारक्षणं क्रियतां तेन पुष्कलं सम्पूर्णं धर्मं प्राप्स्यथ । तदा तस्मिन् काले लोकसम्मताः नृवराः नरश्रेष्ठाः सर्वे ते चत्वारः पुत्राः पितुर्वचनं श्रुत्वा पुराणां निवेशं निर्माणं चक्रिरे ॥ १।३२।४ ॥
तत्प्रकारमाह कुशाम्ब इति । महातेजाः कुशाम्बस्तु कौशाम्बीं पुरीमकरोत् । धर्मात्मा कुशनाभस्तु महोदयं नाम पुरं चक्रे ॥ १।३२।५ ॥
अमूर्तिरजस इति । हे राम महीपतिः अमूर्तिरजसः धर्मारण्यं पुरवरं चक्रे राजा वसुः गिरिव्रजं पुरवरं चक्रे पुरवरमित्युभयान्वयि ॥ १।३२।६ ॥
एषेति । हे राम महात्मनः तस्य वसोः एषा वसुमती पृथ्वी समन्ततः एते पञ्च शैलवराश्च प्रकाशन्ते । विनापि चं समुच्चयः ॥ १।३२।७ ॥
सुमागधीति । पञ्चानां शैलमुख्यानां मध्ये माला इव या शोभते सा विश्रुता प्रसिद्धा रम्या रमणीया सुमागधी नदी मगधान् ययौ । येति सेति चाध्याहृतम् ॥ १।३२।८ ॥
सेति । हे वीर पूर्वाभिचरिता पूर्वदिग्वाहिनी सुक्षेत्रा शोभनानि क्षेत्राणि उभयकूलवर्तीनि यस्या अत एव सस्यमालिनी सस्याभिन्नमालास्ति अस्या “व्रीह्यादिभ्यश्च” इतीनिः एषा मागधीनामनदी अपि महात्मनस्तस्य वसोः सम्बन्धिनी । हिशब्दो ऽप्यर्थे ॥ १।३२।९ ॥
कुशनाभ इति । हे रघुनन्दन धर्मात्मा धर्मस्वभावः राजर्षिः कुशनाभस्तु अनुत्तमं सर्वश्रेष्ठं
कन्याशतं शतसङ्ख्याककन्याः घृताच्यामप्सरस्सु जनयामास ॥ १।३२।१० ॥
ता इति । यौवनशालिन्यः प्राप्तयौवनावस्था अत एव रूपवत्यः प्रशस्तरूपविशिष्टाः स्वलङ्कृताः शोभनकुङ्कुमकस्तूर्यादिभिः प्राप्तालङ्काराः उद्यानभूमिमागम्य प्रावृषि ऋतौ शतह्रदा इव शतह्रदसदृश्यः वराभरणभूषिताः वराभरणैः नूपुरादिभिः भूषिताः शतं कन्याः गायन्त्यः नृत्यमानाश्च वादयन्त्यश्च सत्यः परमामोदं जग्मुः । श्लोकद्वयमेकान्वयि । तुर्हेतौ ॥ १।३२।११,१२ ॥
अथेति । चारुसर्वाङ्ग्यः भुवि रूपेण अप्रतिमाः न प्रतिमाः प्रतिनिधयो यासामनुपमरूपविशिष्टा इत्यर्थः । अथ मङ्गलदर्शनाः ताः शतकन्याः उद्यानभूमिमागम्य घनान्तरे तारा इव शुशुभिरे इति शेषः ॥ १।३२।१३ ॥
ता इति । सर्वगुणसम्पन्नाः रूपयौवनसंयुताः ताः शतं कन्याः सर्वात्मको वायुर्दृष्ट्वा इदं वचनमब्रवीत् ॥ १।३२।१४ ॥
तद्वचनमेवाह अहमिति । वः युष्मान्सर्वा अहं कामये अतो मम भार्या यूयं भविष्यथ । अतः मानुषः मनुष्यविषयको भावो ऽनुरागः त्यज्यतामत एव दीर्घमायुर्यूयमवाप्स्यथ । मम भार्या भविष्यथेत्यनेन मम कामनावैफल्यं न भवतीति हेतुर्ध्वनितः । मानुषशब्दो ऽर्शआद्यजन्तः “तस्येदम्” इत्यणन्तो वा ॥ १।३२।१५ ॥
मत्स्वीकारो ऽवश्यं भवतीभिः कर्तव्य इति बोधयन्नाह चलमिति । मानुषेषु यौवनं विशेषतो नित्यं चलं हि यदि यूयममरीः अमरीत्वं भविष्यथ प्राप्स्यथ तर्हि अक्षयं क्षयरहितं यौवनं प्राप्ता भविष्यथ । अमरीशब्दो भावप्रधानः । अमर्य इति पाठे तु भावप्रधाननिर्देशकल्पना नेति बोध्यम् ॥ १।३२।१६ ॥
तस्येति । अथ वायुवचनकथनानन्तरमक्लिष्टकर्मणः अबाधितक्रियस्य ततः मोहकवचनविस्तारकर्तुः तस्य प्रसिद्धस्य वायोः तन्मोहकं वचनं श्रुत्वा अपहस्य संस्मित्य कन्याशतं वाक्यमब्रवीत् ॥ १।३२।१७ ॥
तद्वाक्यमेवाह अन्तरिति । हे सुरोत्तम वायो सर्वेषां भूतानामन्तर्मध्ये त्वं चरसि । एतेन यः सर्वान्तश्चारी स सर्वान्तर्ज्ञातापीति सूचितम् । तेनास्मदन्तर्ज्ञातृत्वमपि त्वय्यप्यस्तीति ध्वनितम् । तेन एतासां मय्यनुरागो नास्तीति मदनुचितोक्तिं न करिष्यन्तीति ज्ञात्वाप्यनुचिताज्ञापनं तव नोचितमिति व्यञ्जितम् । अतः ते तव प्रभावज्ञाः सर्वा अस्मान् किमवमन्यसे किमर्थमवमानयसि । अवमन्यसे इत्यत्र अन्तर्भावितणिजर्थः ॥ १।३२।१८ ॥
ननु ज्ञातप्रभावान्मत्तः कुतो न बिभिथेत्यत आहुः कुशनाभेति । हे सुरोत्तम सधर्माः धर्मसहिताः सर्वाः कुशनाभसुताः वयं देवं भवन्तं स्थानात् प्राप्ताधिकारात् च्यावयितुं पातयितुं समर्थाः स्मः । ननु अनुचितवचनं श्रुत्वा कुतो न मां पातयथ इत्यत आहुः वयं तपः स्वार्जितधर्ममेव रक्षामः शापेन स्थानात् च्यावने तपो विनष्टं स्यादिति शापो न दीयत इति भावः । तुशब्द एवार्थे । समर्था इत्यध्याहृतम् । सुता देव समस्ताः सुरसत्तम इत्यपि पाठः क्वचित् ॥ १।३२।१९ ॥
मेति । हे दुर्मेधः दुष्टबुद्धिकारक यस्मिन्काले सत्यवादिनं पितरमवमन्यानादृत्य स्वधर्मेण शोभनो अतिशयितो यो ऽधर्मः पितरि सति स्वातन्त्र्याचरणं तेन वरं स्वयमुपास्महे स्वीकुर्मः । सकालो मा भूत् नावमन्यस्वेति पाठे तु यं सत्यवादिनमत एव वरं सर्वश्रेष्ठं पितरं स्वधर्मेण वयमुपास्महे सेवामहे । तं पितरं स्वयं त्वं नावमन्यस्व । यतः स पिता कालः शापादिना त्वद्विघातको मा भूत् । एतेन नावमन्यस्वेति पाठो ऽपाठ इति भट्टोक्तिश्चिन्त्या ॥ १।३२।२० ॥
पिता नावमन्तव्य इत्यत्र हेतुं वदन्त्य आहुः पितेति । अस्माकं प्रभुः नियन्ता परमं दैवतं देवता च सः प्रसिद्धः पितैव अतो नः पिता नो ऽस्मान् यस्य यस्मै दास्यति स नो ऽस्माकं भर्ता भविष्यति
हिशब्द एवार्थे यस्येति सम्बन्धसामान्ये षष्ठी ॥ १।३२।२१ ॥
तासामिति । तासां कन्यानां तत्स्वास्वीकारबोधकं वचनं श्रुत्वा परमकोपनो भगवान् माहात्म्यविशिष्टः प्रभुः समर्थो हरिः सर्वव्यापको वायुः प्रविश्य तच्छरीरान्तः प्राप्य सर्वगात्राणि बभञ्ज । ऽभगं श्रीकाममाहात्म्य ऽ इति कोशः । क्वचिद्वायुरिति पाठः । तत्रान्ते हरिरिति ॥ १।३२।२२ ॥
ता इति । वायुना भग्ना अत एव सम्भ्रान्ताः उद्विग्नाः सलज्जाः लज्जासहिताः साश्रुलोचनाः अश्रुयुक्तलोचनविशिष्टास्ताः कन्याः नृपतेर्गृहं विविशुः । भुवि प्रापतंश्च । विनापि चं समुच्चयः ॥ १।३२।२३ ॥
स इति । तदा कन्याप्रवेशनसमये भग्नाः वायुकृतशरीरकुटिलतां प्राप्ताः अत एव दीनाः परमशोभनाः अतिकान्तिमतीः दर्षिताः प्रियाः ताः कन्याः दृष्ट्वैव सम्भ्रान्तः उद्विग्नचित्तः स राजा इदमब्रवीत् । चशब्द एवार्थे ॥ १।३२।२४ ॥
तद्वचनमेवाह किमिति । हे पुत्र्यः धर्मं को ऽवमन्यते तिरो ऽकरोत् ननु को ऽपि नावमन्यते इत्यत आह कुब्जाः केन हेतुना यूयं कृताः चेष्टन्त्यः सर्वा यूयं किं किमर्थं नाभिभाषथ इदं कथ्यताम् । को धर्ममवमन्यते इत्यनेन केनचिदिमाः अवश्यमवमानिताः इति चेष्टादिना ज्ञातमिति ध्वनितम् । अवमन्यते इत्यत्र वर्तमानसामीप्य इति भूते लट् ॥ १।३२।२५ ॥
एवमिति । राजा एवमनेन प्रकारेण पृष्ट्वा ततः तद्विकलताहेतोः विनिःश्वस्य शोकसूचकोर्ध्वश्वासं प्राप्य समाधिं चित्तैकाग्र्यं सन्दधे विचारतः कारयामासेत्यर्थः ॥ १।३२।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥