रामकर्तृकविश्वामित्रकर्मकवन्दनोत्तरकालिकरामोक्तिमाह अथेत्यादि श्लोकद्वयेन । अथ प्रणामानन्तरं देशकालज्ञौ देशकालोचितकर्तव्यताया वेदितारौ अरिन्दमौ स्वाश्रितारिनिवर्तकौ देशकालेषु वाक्यज्ञौ देशेषु कालेषु च यद्वाक्यं वक्तव्यं तस्य ज्ञातारौ राजपुत्रौ रामलक्ष्मणौ कौशिकं विश्वामित्रमब्रूताम् ॥ १।३०।१ ॥
तद्वचनमेवाह भगवन्निति । हे भगवन् हे ब्रह्मन् यस्मिन्काले तौ प्रसिद्धौ निशाचरौ सुबाहुमारीचौ संरक्षणीयौ संरक्ष्यते याग आभ्यामिति अपादाने अनीयर् । किञ्च संरक्षणीयौ दुष्टकर्महेतुकनरकपातादितो निवर्तनीयौ तं कालं श्रोतुमिच्छावः यतः तत्क्षणो नातिवर्तेत नाति क्रमेत् ॥ १।३०।२ ॥
एवमिति । एवमुक्तप्रकारेण ब्रुवाणौ कथयन्तौ युयुत्सया त्वरमाणौ वेगवन्तौ नृपात्मजौ दशरथसूनू काकुत्स्थौ रामलक्ष्मणौ प्रीतास्ते सर्वे मुनयः प्रशशंसुः ॥ १।३०।३ ॥
अद्येति । हे राघवौ अद्यप्रभृति एतद्दिवसमारभ्य षड्रात्रं रात्रिषट्कपर्यन्तं युवां रक्षताम् । तत्र हेतुः यतः दीक्षां गतः प्राप्तः एषः मुनिर्विश्वामित्रः अद्यप्रभृति षड्रात्रं मौनत्वं गमिष्यति प्राप्स्यति अद्यप्रभृति षड्रात्रमित्यावृत्या उभयत्रान्वेति । चशब्दो हेत्वर्थे ॥ १।३०।४ ॥
ताविति । तन्मुनिभिरुक्तं वचनं श्रुत्वैव यशस्विनौ अतियशोविशिष्टौ तौ मुनिप्रार्थितौ राजपुत्रौ रामलक्ष्मणौ अनिद्रौ निद्रारहितौ सन्तौ षडहोरात्रमहोरात्रषट्कपर्यन्तं तपोवनमरक्षताम् । चशब्द एवार्थे ॥ १।३०।५ ॥
रक्षणमेव विशदयन्नाह उपेति । वीरौ वीर्यविशिष्टौ अत एव यत्तौ धृतकवचौ परमधन्विनौ समातिशयरहितधनुर्विशिष्टौ अरिन्दमौ स्वाश्रितारिनिवर्तकौ रामलक्ष्मणौ उपासां मुनिसमीपस्थितिं चक्रतुः । मुनिवरं विश्वामित्रं ररक्षतुश्च । विनापि चं समुच्चयः । परमधन्विनावित्यत्र व्रीह्यादित्वादिनिः ॥ १।३०।६ ॥
अथेति । काले पञ्चदिनात्मके गते व्यतीते सति तस्मिन्सुत्यादिनत्वेन प्रसिद्धे षष्ठे अहनि समागते प्राप्ते सति रामः सौमित्रिं लक्ष्मणमथ मङ्गलमब्रवीत् । तद्वचनमेवाह यत्तः प्रयत्नवान् त्वं समाहितो भव ॥ १।३०।७ ॥
रामस्येति । ततः रामोक्त्यनन्तरं युयुत्सया युद्धेच्छया त्वरितस्य प्रकटीकृतवेगस्य एवमनेन प्रकारेण ब्रुवाणस्य रामस्य समीपे सोपाध्यायपुरोहिता उपाध्यायो विश्वामित्रः पुरोहिता ऋत्विजः तत्सहिता वेदिः प्रजज्वाल । राक्षसागमसूचकोत्पातविशेषप्रज्वलनविशिष्टा बभूव ॥ १।३०।८ ॥
तदेव विशदयन्नाह सदर्भेति । सदर्भचमसस्रुक्का दर्भचमसस्रुक्सहिता ससमित्कुसुमोच्चया समित्कुसुमोच्चयसहिता विश्वामित्रेण सहिता सर्त्विजा ऋत्विक्सहिता वेदिः जज्वाल । हलन्ताट्टाप् ॥ १।३०।९ ॥
मन्त्रवदिति । मन्त्र उद्यते अस्मिन्निति । किञ्च मन्त्रेण वन्यते रच्यते इति मन्त्रवत् अयं षष्ठदिनसाध्यो यज्ञः यथान्यायमेव सम्प्रवर्तते सम्प्रावर्तत । तदा भयानको भयावहः आकाशे महान् शब्दः प्रादुरासीत् । चशब्द एवार्थे द्वितीयस्तदार्थे ॥ १।३०।१० ॥
आवार्येति । प्रावृषि वर्षायां गगनमावार्य प्राव़ृत्य मेघो यथा निर्गतः तथा मायां विकुर्वाणौ राक्षसौ
मारीचसुबाहू अभ्यधावताम् । ऽप्रावृषि दृश्यतेऽ इति भट्टसम्मतः पाठः ॥ १।३०।११ ॥
मारीच इति । मारीचः सुबाहुश्च मेघसङ्काशाः तयोरनुचराश्च आगम्य समीपं प्राप्य रुधिरौघान् रुधिरसमूहान् अवासृजन् ववृषुः । तथाशब्दो मांसपूयादिसङ्ग्राहकः ॥ १।३०।१२ ॥
सेति । तेन मारीचसुबाहुवर्षितेन रुधिरौघेण मण्डिता वेदिः जज्वाल ततो ऽनन्तरं सहसा अभिद्रुतः रुधिरवर्षकान् द्रष्टुं सम्प्रचलितो रामः तान् रुधिरवर्षकान् दिवि आकाशे अपश्यत् ॥ १।३०।१३ ॥
ताविति । सहसा आपतन्तौ तौ मारीचसुबाहू दृष्ट्वैव राजीवलोचनो रामः लक्ष्मणमभिसम्प्रेक्ष्य वचनमब्रवीत् । तुशब्द एवार्थे ॥ १।३०।१४ ॥
तद्वचनमेवाह पश्येति । हे लक्ष्मण दुर्वृत्तान् दुष्टाचारान् पिशिताशनान् मांसभक्षणशीलान्राक्षसान् अनिलेन घनानिव मानवास्त्रसमाधूतान् मनुवंशप्रादुर्भूतमदस्त्र प्रक्षिप्तान् करिष्यामि । अत्र सन्देहो न इति त्वं पश्य । मानवेति तं बोधनं वा ननु हन्तव्या एव ते इत्यत आह ईदृशान् उपद्रवकर्तृ़न् हन्तुं नोत्सहे ॥ १।३०।१५ ॥
इतीति । वेगवान् प्रशस्तहस्तलाघवी विशिष्टो ऽनुक्रुद्धः राघवो रामः इति उक्तप्रकारेण परं लक्ष्मणतोषकं वचनमुक्त्वा परमोदारमतिश्रेष्ठं किञ्च परम एव उत् परमात्मा रामः तमासमन्ताद्भावेन राति ददातीति तत् स्वहतेभ्यो रामप्रापकमित्यर्थः । परमभास्वरमस्त्रं मारीचोरसि चिक्षेष । उत्शब्दस्य परमात्मवाचकत्वमुपनिषत्सु प्रसिद्धम् । सार्धश्लोक एकान्वयी ॥ १।३०।१६,१७ ॥
स इति । तेन मानवेन परमास्त्रेण समाहतः सन्ताडितः स मारीचः सागरसम्प्लवे समुद्रमध्ये सम्पूर्णं यथा स्यात्तथा योजनशतं क्षिप्तः । अत्र श्लोके प्रथमः सकारो गायत्रीद्वितीयवर्ण इति वदन्ति ॥ १।३०।१८ ॥
विचेतनमिति । विचेतनं चैतन्यरहितं विघूर्णन्तं भ्रमणविशिष्टं तत्र हेतुः शीतेषुबलताडितम् । शीतेषुरिति मानवास्त्रस्य सञ्ज्ञा । तद्बलेन ताडितमत एव निरस्तं मारीचं दृश्य दृष्ट्वा रामः लक्ष्मणमब्रवीत् ॥ १।३०।१९ ॥
तद्वचनमेवाह पश्येति । हे लक्ष्मण धर्मसंहितं धर्मात्मानं मानवं मनुसम्बन्धिनं शीतेषुनामकमस्त्रं त्वं पश्य तत्र हेतुं वदन्नाह एनं मारीचं मोहयित्वैव नयति शीतेषुरिति शेषः । अतः प्राणैः न वियुज्यते प्राणकर्तृकत्यागाश्रयो मारीचो न भवतीत्यर्थः । च शब्द एवार्थे ॥ १।३०।२० ॥
इमानिति । निर्घृणान् दयारहितानत एव दुष्टचारिणः दोषविशिष्टाचरणशीलानत एव पापकर्मस्थान्पापकर्मसु स्थः प्रतिक्षणं स्थितिः चिन्तनमिति यावत् येषाम् । किञ्च पापकर्मसु तिष्ठन्ति तानत एव यज्ञघ्नान्यज्ञविध्वंसकर्तृ़निमानपि राक्षसानहं वधिष्यामि ताडयिष्यामि दुष्टचारित्वं निवारयिष्यामीति वा दूरदेशं प्रक्षेपयिष्यामीत्यर्थः । अत एव नोत्सहे हन्तुमीदृशानस्त्रसमाधूतान्करिष्यामीत्यत्र बहुवचनं सङ्गच्छते ॥ १।३०।२१ ॥
प्रतिज्ञातमाह सङ्गृह्येति । सुमहदतिश्रेष्ठमाग्नेयमस्त्रं रघुनन्दनः सुबाहूरसि चिक्षेप तदा विद्धः बाणताडितः स सुबाहुः भुवि ताटकापतनभूमौ प्रापतत् । चशब्दस्तदार्थे ॥ १।३०।२२ ॥
शेषानिति । महायशाः समाधिकरहितयशोविशिष्टः परमोदारो राघवः मुनीनां मुदं प्रमोदमावहन् प्रापयन्सन् वायव्यं वायुदेवताकमस्त्रमादाय गृहीत्वा शेषानुर्वरितान्राक्षसान्निजघान तताड । दूरदेशं प्रचिक्षेपेत्यर्थः ॥ १।३०।२३ ॥
स इति । यज्ञघ्नान्सर्वान्राक्षसान् हत्वा सन्ताड्य वर्तमानः स रघुनन्दनः तत्र तस्मिन्वने ऋषिभिः पूजित आसीत् इति शेषः । तत्र दृष्टान्तः पुराविजये असुरपराभवमूलकदेवकर्तृकविजयप्राप्तौ
इन्द्रो यथा ॥ १।३०।२४ ॥
अथेति । अथ असुरहननानन्तरमेव यज्ञे समाप्ते सति महामुनिर्विश्वामित्रः निरीतिकाः बाधारहिताः दिशो दृष्ट्वा काकुत्स्थं राममिदं वचनमब्रवीत्ष । तुशब्द एवार्थे ॥ १।३०।२५ ॥
तद्वचनमेवाह कृतार्थ इति । हे महाबाहो यतस्त्वया गुरुवचः कृतम् । अतः अहं कृतार्थो ऽस्मि । हे महायशः राम इदं सिद्धाश्रमं सत्यं सार्थकम् । किञ्च राक्षसोपद्रवरहितं वनं सत्यलोकवत् कृतं सम्पादितम् । त्वयेत्यत्राप्याकृष्यते ॥ १।३०।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे त्रिंशः सर्गः ॥ ३० ॥