अथेति । अथ रामप्रश्नानन्तरमप्रमेयस्य इयत्तारहितप्रभावादिमतः तत् पर्वतनिकटवर्ति वनं परिपृच्छतो रामस्य महातेजा विश्वामित्रो व्याख्यातुमुपचक्रमे प्रारेभे । सम्बन्धसामान्यविवक्षया षष्ठी । सम्मुख इत्यध्याहारो वा अप्रमेयस्येत्युक्त्या लीलार्थमेव प्रश्नादिक्रिया रामस्येति ध्वनितम् ॥ १।२९।१ ॥
तद्वचनमेवाह इहेति । त्रयोविंशत्या श्लोकैः । हे महाबाहो हे राम देववरप्रभः देववरस्येन्द्रस्य प्रभा यस्मात् सः सुमहातपाः विष्णुः इहास्मिन् वने युगशतानि तथा सुबहूनि वर्षाणि अन्यान्यपि तपश्चरणयोगार्थं तपश्चरणानां तपस्विनां यो योगस्त्वयि चित्तवृत्तिनिरोधस्तदर्थमुवास । चशब्दोप्यर्थे । एतेन विष्णो रामोपासकशिरोमणित्वं ध्वनितम् । तेन विष्णोरयं पूर्वाश्रम इति ध्वनितम् ॥ १।२९।२ ॥
विष्ण्ववतारभूतवामनस्यापीह स्थितिरिति बोधयन्नाह एष इति । हे राम महात्मनः सर्वत्र परिपूर्णस्य वामनस्यापि सिद्धाश्रम इति ख्यातः प्रसिद्धः एषः पूर्वाश्रमः पौर्वकालिकं स्थानमासेति शेषः । सिद्धाश्रम इति ख्यातौ हेतुमाह यतः महातपाः विष्णुः वामनस्थितिपूर्वकाले अत्र सिद्धः तपश्चरणानां चित्तैकाग्र्यं स्वस्मिन् रामोपासकाचार्यत्वं साधितवान् । सिद्ध इति अन्तर्भावितणिजर्थः । किञ्च सिद्धः सकलसिद्ध्याश्रयो ऽपि विष्णुः अत्र महातपाः अतिविचारशील आस । स्वस्मिन् रामोपासकत्वाभिधानार्थमिति शेषः । अतः सिद्धाश्रम इत्यर्थः । अस्मिन्पक्षे सिद्धानां रामोपासनपरिपक्वानां विष्ण्वादीनामाश्रमः स्थानमिति व्युत्पत्तिरिति भावः । विष्णो रामोपासकत्वे प्रमाणम् ऽब्रह्मविष्णुमहेशाद्या यस्यांशा लोकसाधकाः । तं रामं सच्चिदानन्दं नित्यं रासेश्वरं भजेऽ इति हनुमत्संहितावचनादि । अत एव “अव्यक्तात्पुरुषः परः” इत्यादिश्रुतिः सङ्गच्छते ॥ १।२९।३ ॥
वामनावतारस्य प्रयोजनं वदन्नाह एतस्मिन्निति । एतस्मिन् विष्णोस्तपश्चरणसम्बन्धिनि काले एव वैरोचनिः विरोचनसुतो राजा बलिः सेन्द्रान् इन्द्रसहितान् समरुद्गणान् मरुद्गणसहितान् दैवतगणान् निर्जित्य त्रिषु लोकेषु विश्रुतः सन् तद्राज्यं इन्द्रराज्यं कारयामास चकार । कारयामासेति रामो राज्यमचीकरदितिवत्प्रयोगः ॥ १।२९।४ ॥
यज्ञमिति । मतिमान् प्रशस्तमतिविशिष्टः महाबली अतिवीर्यवान् असुरेन्द्रो बलिर्यज्ञं चकार ॥ १।२९।५ ॥
बलेरिति । साग्निपुरोगमाः पुरस्कृताग्निसहिताः यजमानस्य बलेः देवाः स्वयमेव समागम्य प्राप्य इहाश्रमे एव विद्यमानं विष्णुमूचुः । तुचशब्दावेवार्थे ॥ १।२९।६ ॥
तद्वचनमेवाह बलिरिति । हे विष्णो वैरोचनिः विरोचनपुत्रो बलिः उत्तमं यज्ञं यजते करोति । तस्मिन् क्रतौ यज्ञे असमाप्ते समाप्तेः पूर्वकाले स्वकार्यमभिपद्यतां प्राप्यताम् । स्वकार्यमभिपद्यतामित्यनेन अस्मत्कार्यार्थमेवायमिह स्थित इति देवानां ज्ञानमस्तीति व्यक्तम् । किञ्च स्वेषामात्मीयानामस्माकं कार्यं प्रयोजनमभिपद्यतां साध्यतामित्यर्थः ॥ १।२९।७ ॥
य इति । यत्रान्नवस्त्रद्रव्यवाहनादिषु यद्याचितारो ये इतो ऽस्माद्देशात्ततो देशान्तराच्च एनं बलिमभिवर्तन्ते प्राप्नुवन्ति तत्सर्वं तेभ्यो याचकेभ्यः यथावत् सम्प्रयच्छति सम्यक् ददात्येव । चशब्द एवार्थे । एकेन चकारेण याचितादधिकमपि ददातीत्यर्थः । सम्पन्नः याचितार इति तृन्नन्तः । अत एव यदित्यत्र न षष्ठी । सर्वं प्रयच्छतीत्यनेन त्वमपि अस्मदुपकारार्थमस्मद्राज्यं याचयेति बोधितम् । तेन अस्मद्राज्यप्राप्तौ उपायान्तरं नास्तीति व्यञ्जितम् । तेन बले परमबलवत्ता सूचिता ॥ १।२९।८ ॥
ननु भवतः पक्षपातिनं मां ज्ञात्वा कथं दास्यतीत्याह स त्वमिति । हे विष्णो मायायोगं
मायायाः अस्मद्विविषयककृपाया योगं सम्बन्धमुपागतः नित्यं प्राप्तस्त्वं सुरकार्यहितार्थाय वामनत्वं स्वकीयं नित्यवामनरूपं गतः प्रकटत्वेन प्राप्तः सन् उत्तममाश्रितपालकत्वेन श्रेष्ठं कल्याणं कुरु प्रकटय ॥ १।२९।९ ॥
एतस्मिन्निति । हे राम एतस्मिन्नन्तरे इन्द्रादिप्रार्थनासमये रामो दीप्यमानः रामनाम्ना प्रकाशमानः देवसहायः देवी पार्वती सहायो यस्य स भगवान्शम्भुरिव अग्निसमप्रभः अग्निप्रभाविशिष्टः ओजसा इव ओजस्तुल्यया अदित्या स्वपत्न्या सहितः कश्यपः दिव्यं वर्षसहस्रकं दिव्यसहस्रसाध्यं व्रतं समाप्य वरदमभीष्टस्य प्रदातारं मधुसूदनं मधुनामकदैत्यनिहन्तारं विष्णुं तुष्टाव । इव उभयान्वयी । श्लोकद्वयमेकान्वयि ॥ १।२९।१० ॥
तत्स्तवनमेवाह तप इति । हे प्रभो तपोमयं तपसा वेदबोधिताभिलाषरहितकृच्छ्रचान्द्रायणादिना मयते अन्तःकरणशुद्धिपूर्वकज्ञानोत्पत्तिद्वारा प्राप्नोति तमत एव तपोराशिं तपसां राशिः समूहो यस्मै यत्प्राप्तिफलकमेव तपआद्याचरणं तमत एव तपोमूर्तिं तपोयुक्ता मूर्तिर्विग्रहो यस्य तं लोकशिक्षणार्थं तपश्चरन्तमित्यर्थः । तपात्मकं तपोज्ञानमात्मा यस्य तं पुरुषोत्तमं पुरुषः उत्तमो ध्येयत्वेन यस्मिन् तं त्वां सुतप्तेन तपसा पश्यामि । तव शरीरे इदं सर्वं जगत्पश्यामि । सार्धश्लोक एकान्वयी ॥ १।२९।११,१२ ॥
त्वमिति । यस्त्वमनादिः आदिरहितः सर्वकारणमित्यर्थः अनिर्देश्यः साकल्येन निर्देष्टुमनर्हः तं शरणं सर्वरक्षितारं त्वामहं गतः प्राप्तः । विष्णूक्तिं वर्णयन्नाह तमिति । प्रीतः कश्यपोक्त्या सन्तुष्टः हरिः शरणागतपापहारकः विष्णुः धूतकल्मषमघरहितं तं कश्यपमुवाच ॥ १।२९।१३ ॥
तद्वचनमेवाह वरमिति । यतस्त्वं वरार्हः ईप्सितप्राप्तियोग्यः अत एव मम मतो ऽभिमतो ऽसि अतः वरं स्वेप्सितं वरय याचस्व ते भद्रं कल्याणमस्तु । तस्य विष्णोस्तद्वचनं श्रुत्वा मारीचः मरीचेः सुतः कश्यपो ऽब्रवीत् ॥ १।२९।१४ ॥
तद्वचनमेवाह अदित्येति । अनुयाचतः प्रार्थयतो मम अनुयाचमानानां देवतानां च अनुयाचमानाया अदित्याश्च वरमीप्सितं हे वरद हे सुव्रत सुप्रीतस्त्वं दातुमर्हसि ॥ १।२९।१५ ॥
ननु किं भवदीप्सितमित्यत आह पुत्रत्वमिति । हे अनघ स्वाश्रितपापनिवर्तक हे भगवन् सर्वसामर्थ्यविशिष्ट हे असुरसूदन अदित्याः मम च पुत्रत्वं गच्छ प्राप्नुहि अतः शक्रस्य इन्द्रस्य यवीयान् कनिष्ठः भ्राता त्वं भव इन्द्रस्य भ्राता भवेत्यनेन इन्द्रेप्सितकार्यकारित्वं स्वस्मिन्ननुसन्धेयमिति प्रार्थना सूचिता । असुरसूदनेत्यनेन सनातनो ऽसुरद्वेषः त्वय्यस्तीति बोधितम् । तेनासुरा निरसनीया भवता इति द्योतितम् ॥ १।२९।१६ ॥
तदेव वाच्यवृत्त्या बोधयन्नाह शोकार्तानामिति । हे भगवन् शोकार्तानां राज्यापहरणेन शोकसन्तप्तानां देवानां साहाय्यं कर्तुं त्वमर्हस्येव ते प्रसादात् त्वदत्यन्तवासादयं सिद्धाश्रमो नाम भविष्यति । अतः देवेशः इन्द्रस्य कर्मणि कार्ये सिद्धे इन्द्रकार्यसिद्ध्यर्थमित्यर्थः इतः अस्मात् स्थानात् उत्तिष्ठ मम गृहे प्रादुर्भवेत्यर्थः । तुशब्द एवार्थे ॥ १।२९।१७ ॥
विष्णुवृत्तमाह अथेत्यादिभिः । अथ कश्यपप्रार्थनानन्तरं महातेजाः विष्णुः वामनं रूपमास्थाय प्रकटय्य अदित्यां समजायत प्रादुरभवत् । अथ अनन्तरं वैरोचनिं विरोचनसुतं बलिमुपागमत् प्राप्नोत् ॥ १।२९।१८ ॥
त्रीनिति । अथ बलिसमीपप्राप्त्यनन्तरं त्रीन् पदान् पादत्रयपरिमितभूमिं भिक्षित्वा संयाच्य त्रींल्लोकानाक्रम्य त्रिभिः पादैः परिच्छिद्य प्रतिगृह्य सर्वांल्लोकान् गृहीत्वा च ओजसा बलिं नियम्य मानदः स्वाश्रितप्रतिष्ठाप्रदाता लोकार्थी त्रिलोकीग्रहणप्रयोजनकः, किञ्च
लोको ऽवलोकनमर्थोस्त्यस्मिन्निति साक्षीत्यर्थः । अत एव सर्वलोकहिते रतः वामनः त्रैलोक्यं महेन्द्राय पुनः प्रादात् । अनेन प्रकारेण महातेजाः स वामनः त्रैलोक्यं शक्रवशमिन्द्राधीनं पुनश्चक्रे । श्लोकद्वयमेकान्वयि त्रीन् इत्यावृत्त्या उभयत्रान्वेति ॥ १।२९।१९,२० ॥
तेनेति । श्रमनाशनः अयमाश्रमः तेन वामनरूपविष्णुना पूर्वमेवाक्रान्तः तस्य वामनरूपविष्णोरयमाश्रमः मयापि भक्त्या त्वद्विषयकप्रीत्यैव निषेव्यते । यद्वा तेन वामनेन श्रमनाशनो ऽयमाश्रमः भक्त्या त्वद्विषयकप्रीत्या पूर्वमेव आक्रान्तः सेवितः । मयापि त्वद्विषयकप्रीत्यैव तस्य वामनस्यायमाश्रमः निषेव्यते । एतेन रामस्याखेटखेलने वनं तदिति ध्वनितम् । तेनाप्रकटरूपेण सदैव तत्र रामस्य स्थितिरिति व्यञ्जितम् । तेन रामप्रश्नः विश्वामित्रज्ञानपरीक्षार्थमेवेति व्यक्तम् ॥ १।२९।२१ ॥
एतमिति । हे पुरुषव्याघ्र विघ्नकारिणः यज्ञविनाशनशीलाः राक्षसाः एतमाश्रममायान्ति । अतः दुष्टचारिणो राक्षसाः अत्र अस्मिन्काले ते तव हन्तव्याः त्वत्कर्तृकहननयोग्याः ॥ १।२९।२२ ॥
अथेति । हे राम तात हे प्रिय आश्रमपदमत्यन्तश्रमनिवर्तकस्थानमत एव अनुत्तममतिश्रेष्ठं एतन्मम सिद्धाश्रमं सिद्धाश्रमसञ्ज्ञकं तवैव तत्तस्माद्धेतोः अद्य वयं यथा यथावद्गच्छाम हे । अपिशब्द एवार्थे ॥ १।२९।२३,२४ ॥
प्रविशन्निति । रामलक्ष्मणाभ्यां सहित इति शेषः महामुनिः विश्वामित्रः आश्रमपदं प्रविशन् सन् व्यरोचत् । तत्र दृष्टान्तः गतनीहारस्त्यक्तहिमः पुनर्वसुसमन्वितः पुनर्वसू द्वे तारे ताभ्यां समन्वितो युक्तः शशी चन्द्र इव ॥ १।२९।२५ ॥
तमिति । सिद्धाश्रमनिवासिनः सर्वे मुनयः तं रामलक्ष्मणसहितं विश्वामित्रं दृष्ट्वा सहसा उत्पत्योत्पत्य तत्तत्समीपं प्राप्य प्राप्य अपूजयन् ॥ १।२९।२६ ॥
पूजामेव विशदयन्नाह यथेति । धीमते विश्वामित्राय विश्वामित्रं प्रसादयितुं यथार्हं यथायोग्यं पूजां क्रियां चक्रिरे । तथैव राजपुत्राभ्यां रामलक्ष्मणाभ्यामतिथिक्रियामकुर्वन् ॥ १।२९।२७ ॥
मुहूर्तमिति । मुहूर्तमेव विश्रान्तौ मुहूर्तमात्रेण निवर्तिताध्वश्रमौ अरिन्दमौ स्वाश्रितारिनिवर्तकौ रघुनन्दनौ रघुकुलवर्धकौ प्राञ्जली प्रणतिसूचकबद्धयुगलकरौ रामलक्ष्मणौ मुनिशार्दूलं मुनिश्रेष्ठं विश्वामित्रमूचतुः । इवशब्द एवार्थे ॥ १।२९।२८ ॥
तद्वचनमेवाह अद्येति । हे मुनिपुङ्गव त्वमद्यैव दीक्षां प्रविश । ते भद्रं कल्याणमस्तु अयं
सिद्धाश्रमः सिद्धः साधितयागक्रियः स्यात् । तव वचः ऽअत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणःऽ इत्याकारकं वचनं सत्यमस्तु एतेन रामे अतीव युद्धोत्साहो व्यक्तः ॥ १।२९।२९ ॥
एवमिति । एवमनेन प्रकारेण उक्तः रामेण प्रार्थितः महातेजाः अतिप्रभावविशिष्टः नियतः अतिप्रयत्नशीलः नियतेन्द्रियः नियमितान्तर्बहिरुभयकरणः महामुनिः विश्वामित्रः ततो रामप्रार्थनानन्तरं दीक्षां प्रविवेश ॥ १।२९।३० ॥
मुनेर्दीक्षाप्रवेशानन्तरं रामकृत्यमाह कुमाराविति । सुसमाहितौ नित्यैकाग्रचित्तौ कुमारौ रामलक्ष्मणावपि तां रात्रीमुषित्वा प्रभातकाले उत्थाय च स्पृष्टोदकौ शुची सन्तो पूर्वां सन्ध्यामुपास्य च नियमेन जप्यं समाप्य च हुताग्निहोत्रं दीक्षाग्रहणात्पूर्वं हुताग्निहोत्रकमासीनं दीक्षाग्रहणादूर्ध्वं स्वस्थतया तिष्ठन्तं विश्वामित्रमवदेतां ऽदीक्षामध्येनाग्निहोत्रम्ऽ इति अग्निहोत्रस्य निषेधात् । दीक्षापूर्वकाले इत्यध्याहृतम् । श्लोकद्वयमेकान्वयि । इव शब्दो ऽप्यर्थे ॥ १।२९।३१,३२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकोनत्रिशः सर्गः ॥ २९ ॥