गमिष्यतो रामस्य वृत्तमाह प्रतीतिश्लोकद्वयेन । प्रहृष्टवदनः शुचिः काकुत्स्थो रामः अस्त्राणि प्रतिगृह्य ततः ताटकावनाद्गच्छन् गमिष्यन्नेव विश्वामित्रमथ समङ्गलमब्रवीत् । माङ्गलिकं वचनमुच्चारयामासेत्यर्थः । गच्छन्नित्यत्र वर्तमानसामीप्ये भविष्यति लट् ॥ १।२८।१ ॥
तदाकारमाह गृहीतेति । हे भगवन् सकलसामर्थ्यविशिष्ट हे मुनिपुङ्गव गृहीतास्त्रः गृहीतमस्त्रं येन सो ऽहमस्मि अत एव सुरासुरैः दुराधर्षः अहमस्त्राणां संहारं ज्ञातुमिच्छामि । ज्ञातुमित्यध्याहृतम् ॥ १।२८।२ ॥
एवमिति । महायशाः धृतिमान् प्रशस्तधैर्यविशिष्टः सुव्रतः सत्यसङ्कल्पः शुचिः नित्यं पूतो विश्वामित्रः काकुत्स्थे रामे एवमनेन प्रकारेण ब्रुवति कथयति सति संहारमथ मङ्गलं यथा स्यात्तथा व्याजहार उवाच ॥ १।२८।३ ॥
अस्त्रसंहारान्नामतो गणयन्नाह सत्यवन्तमित्यादिनवभिः श्लोकैः । सत्यवन्तं सत्यवत्सञ्ज्ञकं सम्प्रतीच्छेत्यपकृष्यते एवमन्यद्वितीयान्तेष्वपि बोध्यम् । अत्र यत्र प्रथमान्तं तत्र यो ऽस्ति तमित्यध्याहार्यम् ॥ १।२८।४ ॥
लक्ष्येति ॥ १।२८।५ ॥
पद्मनाभेति ॥ १।२८।६ ॥
योगन्धरेति ॥ १।२८।७ ॥
पित्र्य इति ॥ १।२८।८ ॥
कामरूपमिति ॥ १।२८।९ ॥
नामतः उपसंहारानुपदिश्य रामं प्रत्याह कृशाश्वेति । हे राघव रघुकुलप्रादुर्भूत राम कामरूपिणः ईप्सितरूपधारणसमर्थान्भास्वरान्प्रकाशमानान्कृशाश्वतनयान् त्वं प्रतीच्छ गृहाण ते भद्रमस्तु । तत्र हेतुः यतः मम दानस्य पात्रभूतस्त्वमसि ॥ १।२८।१० ॥
बाढमिति । काकुत्स्थो रामः प्रहृष्टेनान्तरात्मना मनसा बाढमिति कृत्वैव जग्राहेति शेषः । उपसंहारा अपि मूर्तिमन्तः सन्तीति वर्णयंस्तत्प्रार्थनामाह दिव्येतिसार्धश्लोकद्वयेन । दिव्यभास्वरदेहाः दिव्याः प्राकृतविलक्षणाः भास्वरा प्रकाशवन्तो देहाः येषां ते मूर्तिमन्तः काठिन्यविशिष्टशरीराः सुखप्रदाः दर्शनमात्रेणाश्रितानां सुखप्रदातारः प्रह्वाञ्जलिपुटाः प्रह्वाः प्रणतिसूचकाः देवादीनामञ्जलिपुटा येषु ते मधुरभाषिणः मधुरभाषणशीला एव सन्तीति शेषः । च एवार्थे । तत्र केचिदङ्गारसदृशाः अङ्गारप्रतियोगिकसादृश्यविशिष्टाः प्रतीयन्ते । केचिद्धूमोपमाः धूमप्रतियोगिकसादृश्यविशिष्टाः प्रतीयन्ते । केचिच्चन्द्रार्कसदृशाः चन्द्रार्कप्रतियोगिकसादृश्यविशिष्टाः प्रतीयन्ते । ते सर्वे प्राञ्जलयो बद्धयुगलकरा भूत्वैव राममब्रुवन् । तद्भाषणमेवाह हे नरशार्दूल इमे वयं ते तव स्मः । अतः किं करवाम इति त्वं शाधि शिक्षय । आज्ञापयेत्यर्थः सार्धश्लोकद्वयमेकान्वयि । तत्र ते सर्वे प्रतीयन्ते इत्यध्याहृतम् । स्मेत्यार्षम् ॥ १।२८।१११३ ॥
प्रार्थनोत्तरकाले रघुनाथवचनमाह मानसा इति । मम मानसाः सन्तः कार्यकालेषु साहाय्यं करिष्यथ इति हेतोः यथेष्टं यथेच्छं गम्यतामिति रघुनन्दनस्तानुपसंहरन्नाह ॥ १।२८।१४ ॥
अथेति । ते सर्वे उपसंहाराः तं काकुत्स्थं राममेवमस्तु इत्युक्त्वा आमन्त्र्य गमनाय तदाज्ञां गृहीत्वा प्रदक्षिणं च कृत्वा यथागतमथ जग्मुः ॥ १।२८।१५ ॥
स इति । स राघवो रामः तान् उपसंहारमन्त्रान् ज्ञात्वा गच्छन्सन्नेव महामुनिं विश्वामित्रमथ सकलमङ्गलमूलं मधुरं माधुर्यविशिष्टं श्लक्ष्णं श्रवणमात्रेण सुखप्रदं वचनमब्रवीत् ॥ १।२८।१६ ॥
तद्वचनमेवाह किन्त्विति । मेघसङ्काशं मेघसदृशं परमुत्कृष्टं मे कौतूहलमुत्साहोत्पादकं दर्शनीयमृगाकीर्णं दर्शनीया दर्शनयोग्याः ये मृगाः तैः आकीर्णं व्याप्तं वल्गुभाषैः मनोहरवचनैः नानाप्रकारैः अनेकविधैः शकुनैः पक्षिभिश्च अलङ्कृतमत एवातीव मनोहरम् दर्शनीयमिति पाठे तु वनविशेषणम् । वृक्षखण्डं वृक्षसमूहः पर्वतस्याविदूरतः निकटे एव विद्यमानमतः अस्मात्स्थानाद्भाति प्रकाशते एतत् किं स्वत एव भाति देवप्रसादाद्वेति प्रश्ने बीजम् । तुशब्द एवार्थे । हिर्हेतौ । श्लोकद्वयमेकान्वयि ॥ १।२८।१७,१८ ॥
निःसृता इति । हे मुनिश्रेष्ठ रोमहर्षणाद् रोमोद्गमकारणभयप्रापकादित्यर्थः । कान्तारात्ताटकावनाद् वयं निःसृताः स्मः । अनन्तरमनया देशस्य सुखवत्तया देशनिष्ठसुखकारणतयैवावगच्छामि । अतः इदमाश्रमपदं श्रमनिवर्तकं स्थानं कस्येति सर्वं मे हे भगवन् त्वं शंस कथय । श्लोकद्वयमेकान्वयि एकस्तुशब्दः अनन्तरार्थकः । द्वितीयस्तुशब्दः एवार्थकः ॥ १।२८।२० ॥
सम्प्राप्ता इति । हे महामते पापाः पापमयाः अतो ब्रह्मघ्नाः वेदमार्गध्वंसकाः अत एव दुष्टचारिणः दुष्टाचरणशीलाः अत एव दुरात्मानः दुष्टप्रयत्नकाः ते राक्षसाः तव यज्ञस्य विघ्नाय यत्र यस्मिन्काले सम्प्राप्ता भवन्तीति शेषः । तस्य कालस्य सम्बन्धी देशः कः । ननु देशप्रश्नेन किमित्यत आह हे भगवन् हे ब्रह्मन् रक्षितव्या मम रक्षणीया तव याज्ञिकी क्रिया यत्रास्ति तत्रैव मम वध्या राक्षसा भविष्यन्ति । अतो हे मुनिश्रेष्ठ हे प्रभो एतत्सर्वमहं श्रोतुमिच्छामि अतस्त्वं शंसेत्यर्थः । सार्धश्लोकद्वयमेकान्वयि । चशब्द एवार्थे ॥ १।२८।२१२३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥