०२७ रामायास्त्रप्रदानम्

अथेति । महायशाः विश्वामित्रः तां रजनीमथोष्य समङ्गलं निवासं कृत्वा प्रहस्य मधुराक्षरं मधुराक्षरयुक्तं वाक्यं राघवमुवाच । अथशब्दो मङ्गलार्थः । ल्यबार्षः ॥ १।२७।१ ॥

तद्वचनमेवाह परीत्यादिभिः । हे महायशः राजपुत्र अहं परितुष्टः प्रसन्नो ऽस्मि । अतस्ते भद्रं कल्याणमस्तु । अत एव परमया अत्युत्कृष्टया प्रीत्या त्वद्विषयकप्रेम्णा युक्तो ऽहं सर्वशः

निखिलान्यस्त्राणि ते ददामि । ते इत्युभयान्वयि ॥ १।२७।२ ॥

अस्त्रग्रहणे प्रयोजनं बोधयन्नाह देवेत्यादि । यैः अस्त्रैः सगन्धर्वोरगान्गन्धर्वोरगसहितान्देवासुरगणान् अपिना मनुष्यादीनपि अमित्राञ्छत्रून् आजौ सङ्ग्रामे प्रसह्य हठात् वशीकृत्य जयिष्यसि । तानि सर्वशो निखिलानि दिव्यानि अस्त्राणि ते तुभ्यं ददामि । अतस्ते भद्रं कल्याणमेवास्तु सार्धश्लोक एकान्वयी । वाशब्द एको ऽपिशब्दश्च एवार्थे ॥ १।२७।३ ॥

नामतो ऽस्त्राणि बोधयन्नाह दण्डचक्रमित्यादिभिः । दण्डचक्रादयस्तत्तन्नामकास्त्रभेदाः । शूलवरं शूलश्रेष्ठम् । शूलवतमिति भट्टसम्मतः पाठः । शूलवतनामकमित्यर्थः ॥ १।२७।४,५ ॥

अस्त्रमिति । ब्रह्मशिरोरूपमस्त्रमित्यर्थः । इदं च ब्रह्मास्त्रादन्यदिति वक्ष्यमाणेन न पौनरुक्त्यम् ॥ १।२७।६ ॥

गदे इति । मोदकीशिखरीनामके इत्यर्थः ॥ १।२७।७ ॥

धर्मेति । अनुत्तममतिश्रेष्ठम् ॥ १।२७।८ ॥

अशनी इति ॥ १।२७।९ ॥

आग्नेयमिति । तद्देवताकमित्यर्थः ॥ १।२७।१० ॥

अस्त्रमिति । शक्तिद्वयं विष्णोः रुद्रस्य चेत्यर्थः ॥ १।२७।११ ॥

कङ्कालमिति । एतन्नामकादीनि ददामि ॥ १।२७।१२ ॥

वैद्याधरमिति । विद्याधरसम्बन्धि महास्त्रं नन्दनं नामासिरत्नमिति सम्बन्धः ॥ १।२७।१३ ॥

गान्धर्वमिति ॥ १।२७।१४ ॥

धर्षणमिति । विलापनं रोदनकारकम् ॥ १।२७।१५ ॥

पैशाचमिति । प्रतीच्छ गृहाण ॥ १।२७।१६ ॥

तामसमिति । मौसलं मुसलाद्भिन्नमस्त्रविशेषः ॥ १।२७।१७ ॥

सत्यमिति ॥ १।२७।१८ ॥

सौम्येति । शीतेषुं शीतेषुसञ्ज्ञकम् ॥ १।२७।१९ ॥

एतानिति । हे महाबाहो नृषात्मज राम । कामरूपान् ईप्सितरूपधारणसमर्थान्महाबलानतिबलिन परमोदारानीप्सितदातृ़नेतानस्त्रग्रामान् क्षिप्रं शीघ्रमेव त्वं गृहाण ॥ १।२७।२० ॥

स्थित इति । तदा तस्मिन्काले शूचिः कृतस्नानादिक्रियः सुप्रीतः रामविषयकप्रीतिविशिष्टः प्राङ्मुखी भूत्वा स्थितः मुनिवरः विश्वामित्रः मन्त्रग्रामं मन्त्रसमूहमनुस्मरन् तत्तदस्त्रनियोजकत्वेन अनुस्मारयन् रामाय ददौ । तुना लक्ष्मणाय च ददौ । स्मरन्निति अन्तर्भावितणिजर्थः । तेन रामज्ञानविषयीभूता एव ते मन्त्राः इति बोधितम् । तेन मन्त्रग्रहणं मर्यादापालनायैवेति ध्वनितम् ॥ १।२७।२१ ॥

सर्वेति । येषामस्त्राणां यैरस्त्रैः सर्वसङ्ग्रहणं निखिलविषयकज्ञानमत एव दैवतैरपि दुर्लभं दुष्प्रापं दुर्ज्ञेयमिति यावत् तानि सर्वाण्यस्त्राणि तदास्त्रमन्त्रदानोत्तरकाले विप्रो विश्वामित्रो राघवाय रामलक्ष्मणाय न्यवेदयत् ॥ १।२७।२२ ॥

अस्त्रप्रदानकाले ऽस्त्रवृत्तं बोधयन्नाह जपत इत्यादिसार्धश्लोकद्वयेन । जपतस्तत्तदस्त्रतत्तन्मन्त्रानुच्चारयतः धीमतः प्रशस्तबुद्धिविशिष्टस्य मुनेः राममननशीलस्य तस्य प्रसिद्धस्य विश्वामित्रस्य महार्हार्णि अतिपूज्यानि सर्वाणि निखिलान्यस्त्राणि राघवं रामलक्ष्मणमुपतस्थुः सशरीराणि प्रापुः । तुना नेमुश्च ॥ १।२७।२३ ॥

ऊचुरिति । मुदिताः रामदर्शनजनितप्रमोदं प्राप्ताः अत एव प्राञ्जलयः सर्वे अस्त्रसमूहाः तदा

उपस्थितिकाले एव ऊचुः । तद्वचनमेवाह हे परमोदार राघव राम इमे वयं तव किङ्करा भृत्याः अतः यद्यदिच्छसि तत्सर्वं वयं करवामैव । ते भद्रं कल्याणमस्तु । सार्धश्लोक एकान्वयी चवैशब्दौ एवार्थौ । स्मशब्दो हेत्वर्थे ॥ १।२७।२४२५ ॥

तत इति । ततः अस्त्रप्रार्थनानन्तरमेव महाबलैः अतिबलविशिष्टैः तैः अस्त्रैः इत्यनेन प्रकारेण उक्तः प्रार्थितः स प्रसन्नात्मा प्रसन्नचित्तः काकुत्स्थः रामः प्रतिगृह्य मदीया भवन्तः इति स्वीकृत्य पाणिना समालभ्य संस्पृश्य च मे मानसाः मनोधीनत्वं यूयं भविष्यध्वं प्राप्नुत इति तानस्त्रग्रामानभ्यचोदयदाज्ञापयत् । मानसशब्दो भावप्रधानः भूः प्राप्त्यर्थकः अत एव आत्मनेपदसिद्धिः । सार्धश्लोक एकान्वयी । एकश्चकार एवार्थे ॥ १।२७।२६ ॥

तत इति । ततः अस्त्रस्वीकारानन्तरं प्रीतमनाः महातेजाः समाधिकरहितप्रतापविशिष्टः रामः महामुनिं विश्वामित्रमभिवाद्य प्रणम्य गमनाय गमनं कर्तुमुपचक्रमे प्रारभत ॥ १।२७।२७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्तविंशः सर्गः ॥ २७ ॥