०२६ ताटकावधः

मुनेरिति । अक्लीबं क्लीबतानिवर्तकं मुनेर्वचनं दृढव्रतः अप्रच्युतसङ्कल्पः नरवरात्मजः महाराजपुत्रो राघवः श्रुत्वा प्राञ्जलिर्भूत्वा पितुर्जनकस्य वचनगौरवाद्वचनस्य आज्ञापनस्य गौरवाद्गुरुत्वेनात्याज्यत्वादित्यर्थः पितुर्वचननिर्देशाद्वचनेन साक्षादुक्त्या यो निर्देशः कौशिकवचनमवश्यं कर्तव्यमित्याज्ञापनं तस्मात्कौशिकस्य विश्वामित्रस्य वचनमविशङ्कया कर्तव्यमिति निश्चित्य प्रत्युवाचेति द्वयोरेकत्रान्वयः । निश्चित्येत्यध्याहारलभ्यम् ॥ १।२६।१,२ ॥

विश्वामित्रं प्रति रामोक्तिमेवाह अनुशिष्ट इत्यादिश्लोकत्रयेण । अयोध्यायां गुरुमध्ये वसिष्ठवामदेवादिसन्निधौ महात्मना दशरथेन पित्रा तद्वचो विश्वामित्रवचनं त्वया नावज्ञेयमित्यहमनुशिष्टः शिक्षितो ऽस्मि । चशब्दः इत्यर्थे ॥ १।२६।३ ॥

स इति । पितुर्वचो वचनं श्रुत्वा आगतः सः भवद्वचनविषयकश्रद्धावानहं ब्रह्मवादिनो भवतः शासनात् आज्ञातः उत्तमं ताटकावधं करिष्यामि सन्देहो नास्मिन् कृत्ये संशयो न कार्य इत्यर्थः ॥ १।२६।४ ॥

गोब्राह्मणेति । गोब्राह्मणहितार्थाय गोब्राह्मणहितरूपप्रयोजनाय लोकस्य अस्मद्दृष्टिपथस्य अस्य देशस्य हिताय । चकारेण यशःप्राप्तिरूपत्वद्धिताय । चकारान्तरेण स्वनिष्ठभवच्छिष्यत्वप्रकटनाय । अप्रमेयस्य इयत्तारहितप्रभावस्य तव वचनमुक्तिं कर्तुं साधयितुमुद्यत एवाहमस्मीति शेषः ॥ १।२६।५ ॥

एवमिति । अरिन्दमः स्वाश्रितारिनिवर्तकः रामः एवमनेन प्रकारेण उक्त्वा धनुर्मध्ये मुष्टिं बद्ध्वा शब्देन दिशः पूरयन्सन् तीव्रं ज्याघोषमकरोत् ॥ १।२६।६ ॥

तेनेति । तेन रामधनुर्ज्याजनितेन शब्देन ताटकावनवासिनः । ताटकानुयायि इत्यर्थः । वित्रस्ताः अत्युद्विग्नचित्ता आसन्निति शेषः । मोहिता दुष्टचित्ता ताटका तु तेन शब्देन सुसङ्क्रुद्धा आसीदिति शेषः । चस्त्वर्थे ॥ १।२६।७ ॥

ताटकाकृत्यमाह तमिति । तं ज्याजनितं शब्दं श्रुत्वा क्रोधमूर्छिता राक्षसी ताटका अभिनिध्याय शब्ददेशं निश्चित्य क्रुद्धा । यतः क्रुद्धस्य क्रोधस्य आयतो विस्तारो यस्मात् सशब्दो यतो विनिःसृतस्तं देशमभ्यद्रवत् । अत एव क्रोधमूर्छिता इत्यनेन क्रुद्धेत्यस्य न पौनरुक्त्यम् । चशब्दो यत इत्यर्थे ॥ १।२६।८ ॥

तामिति । विकृतां विकृतस्वरूपामत एव विकृताननां प्रमाणेन शरीरेयत्तया अतिवृत्तामतिक्रान्तामतिप्रौढशरीरामित्यर्थः । तां ताटकां स राघवः दृष्ट्वैव लक्ष्मणमभ्यभाषत ॥ १।२६।९ ॥

तद्भाषणमेवाह पश्येत्यादिश्लोकत्रयेण । हे लक्ष्मण यक्षिण्यास्ताटकाया भैरवं भयावहं दारुणमत्युत्कटं वपुः शरीरं पश्य । अस्या दर्शनादेव भीरूणां हृदयानि भिद्येरन् । त्वशब्द एवार्थे ॥ १।२६।१० ॥

एनामिति । दुराधर्षामस्मदन्यैर्धर्षयितुमशक्यां मायाबलसमन्वितां मायाबलमन्तर्धानादिक्रियासामर्थ्यं तेन समन्वितां युक्तामेनां ताटकां त्वं पश्य । एनां हृतकर्णाग्रनासिकां हृतं मया छिन्नं कर्णाग्रनासिकं यस्यास्तामत एव विनिवृत्तां पराङ्मुखीमहं करोमीति त्वं पश्य । एतेन कर्णच्छेदादिना तस्या दुष्टपराक्रमध्वंसो भविष्यत्येवेति सूचितम् ॥ १।२६।११ ॥

नन्वस्याः साक्षाद्वधः कुतो न क्रियत इत्यत आह नहीति । स्त्रीस्वभावेन स्त्री स्त्रीत्वं स्वभावः स्वस्यां भावो ऽतिबलप्राप्तिश्चानयोः समाहारः तेन रक्षितां स्त्रीत्वात्वीरशूरकर्तृकवधानर्हत्वेन अतिबलवतीत्वादितरैर्हन्तुमशक्यत्वेन च पालितामेनां हन्तुमहं नैवोत्सहे । अतः अस्याः वीर्यं गतिं च हनिष्यामीत्येव मे मतिः निश्चयः । हिर्हेतौ । एकश्चशब्दो ऽपिश्चैवार्थे । एतेन शूरधर्मसंरक्षणं गुरोः सन्तोषश्च भविष्यतीति ध्वनितम् ॥ १।२६।१२ ॥

एवमिति । रामे एवं ब्रुवाणे सत्येव क्रोधमूर्छिता ताटका बाहू उद्यम्य गर्जन्ती सती एव राममभ्यधावत् । तुशब्द एवार्थे ॥ १।२६।१३ ॥

विश्वामित्र इति । ब्रह्मर्षिर्विश्वामित्रः हुङ्कारेणैव तां ताटकामभिभर्त्स्य राघवयोः रामलक्ष्मणयोः स्वस्ति अस्तु इत्यभ्यभाषत । जयं जयशब्दं चाभ्यभाषत । चशब्द इत्यर्थे ॥ १।२६।१४ ॥

उद्धुन्वानेति । घोरमुत्कटं रजः धुन्वाना उत्किरन्ती ताटका महता रजोमेघेन मेघसदृशरजसा एव उभौ राघवौ रामलक्ष्मणौ मुहूर्तममोहयत् । मोहनानुकूलव्यापारं चकारेत्यर्थः । तुशब्द एवार्थे ॥ १।२६।१५ ॥

तत इति । ततः रजोवर्षणानन्तरं मायामन्तर्धानं समास्थाय स्वीकृत्य सुमहता शिलावर्षेण राघवौ रामलक्ष्मणौ अवाकिरत् । ततः तस्माच्छिलावर्षणाद्राघवो रामः चुक्रोध । तदपकारनिवर्तनहेतुभूतक्रोधं चकारेत्यर्थः ॥ १।२६।१६ ॥

शिलेति । तस्याः ताटकायाः महच्छिलावर्षं शरवर्षेण राघवो रामः प्रतिहत्य विनाश्य उपधावन्त्या तस्याः करौ पत्ित्रभिर्बाणैः चिच्छेद ॥ १।२६।१७ ॥

तत इति । ततः भुजच्छेदनानन्तरं छिन्नभुजां छिन्नौ भुजौ यस्याः तामत एव श्रान्तामभ्याशे समीपे परिगर्जतीं ताटकां सौमित्रिः लक्ष्मणः क्रोधोद्धृतकर्णाग्रनासिकामकरोत् ॥ १।२६।१८ ॥

कामेति । कामरूपधरा ईप्सितस्वरूपधारणसमर्था अत एव सद्यः शीघ्रमनेकशः रूपाणि कृत्वा अन्तर्धानं गता प्राप्ता यक्षी ताटका स्वमायया मोहयन्ती मोहनानुकूलव्यापारं कुर्वती भैरवं भयङ्करमश्मवर्षं प्रसिद्धं विमुञ्चन्ती विचचार । सार्धश्लोक एकान्वयी । हशब्दः प्रसिद्धौ ॥ १।२६।१९,२० ॥

तत इति । ततः राक्षसीकृताश्मवर्षणानन्तरं समन्ततः चतुर्दिक्षु अश्मवर्षेण कीर्यमाणौ तौ रामलक्ष्मणौ श्रीमान् तपःसम्पत्तिविशिष्टः गाधिसुतो विश्वामित्रः दृष्ट्वा इदं वक्ष्यमाणं वचनमब्रवीत् ॥ १।२६।२१ ॥

तद्वचनमेवाह अलमिति । हे वीर ते तव घृणया कृपया अलं विशेषणमात्रत्याजनेपि घृणां न कुरु इत्यर्थः । दुष्टचारिणी दोषविशिष्टाचरणशीला अत एव यज्ञविघ्नकरी यक्षी ताटका पुरा राम पूर्वसन्ध्यायां मायया वर्धेत अतो यावत्पुरा सन्ध्या प्रवर्तते प्रवर्तिष्यते तावदेवैषा ताटका वध्यताम् । तत्र हेतुः सन्ध्याकालेषु रक्षांसि दुर्धर्षाण्येव भवन्ति । वैशब्द एवार्थे । “यावत्पुरानिपातयोः” इति विहितः प्रवर्तत इत्यत्र लट् द्वयोरेकत्रान्वयः ॥ १।२६।२२,२३ ॥

इतीति । इति अनेन प्रकारेण उक्तः स रामः शब्दवेधित्वं श्रूयमाणः शब्दो यस्मादुत्पन्नः तद्वेधित्वं गुणं दर्शयन्सन् अश्मवृष्ट्या तथा अभिवर्षतीमभिवर्षन्तीं तां यक्षीं ताटकां सायकैः बाणैः रुरोध । वृष्टिप्रतिबन्धं चकारेत्यर्थः ॥ १।२६।२४ ॥

सेति । शरजालेन बाणसमूहेन रुद्धा मायाबलसमन्विता अन्तर्धानादिक्रियानिपुणा सा ताटका विनेदुषी अतिनादं कुर्वती सती काकुत्स्थं रामं लक्ष्मणं च अभिदुद्राव । अन्तर्धानं हित्वा रामसम्मुखं द्रुतं जगामेत्यर्थः ॥ १।२६।२५ ॥

तामिति । विक्रान्तां प्रक्षिप्तामशनीं वज्रमिव वेगेनापतन्तीं तां ताटकां शरेण उरसि विव्याध तताड । (ताडयामासेति युक्तम्) अतः सा ताटका ममार मं शिवसन्निधिमार जगाम पपात च तद्देशं प्राप्य शिवसन्निधावपतदित्यर्थः । किञ्च अपपातमम् अपगतः पातः पुनरावृत्तिर्यस्मात्स एव मः शिवस्तं कैलासाद्रिमित्यर्थः । आर प्राप । बाणवेगेन तत्र प्रक्षिप्तेत्यर्थः । एतेन स्त्रीत्वादेव त्वं न हतास्यतस्तत्र पुनर्न गन्तव्यमिति शिव उपदेक्ष्यतीति हेतुर्व्यक्तः । अत एव ऽन ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्ऽ इतिप्रतिज्ञया न विरोधः । अत एव ऽरामो द्विर्नाभिभाषतेऽ, इति सानुकूलमत एव ऽसुन्दस्त्रीदमनप्रमोदमुदितादास्थाय विद्योदयं रामः सत्यवतीसुतादथ गतस्तस्याश्रमं लीलया । क्लृप्ते कौशिकनन्दनेन च मखे तत्रागतान्राक्षसान्हत्वा ऽमूमुचदाशुभाविविदसौ मारीचमुग्राकृतिम्ऽ इति हनुमन्नाटकपद्यघटकीभूतसुन्दस्त्रीदमनप्रमोदमुदितादिति पद्यघटकदमनप्रयोगः सङ्गच्छते । अन्यथा सुन्दस्त्रीहननप्रमोदमुदितादिति वदेदिति दिक् । ऽमो यमे समये ऽपि स्याद्विषे च मधुसूदने । मा स्त्री पद्मालयायां स्यात्पुँल्लिङ्गश्चन्द्रशेखरेऽ इति मेदनी । अस्मिन्नर्थे चेवे । अशनीमित्यत्र “कृदिकारादक्तिनः” इति ङीप् ॥ १।२६।२६ ॥

तामिति । तदा पतनकाले भीमसङ्काशां भयङ्कररूपां हतां तां ताटकां दृष्ट्वा सुरपतिरिन्द्रः सुराश्च काकुत्स्थं रामं साधु साध्विति समपूजयन् प्रशशंसुः । चाप्यभिपूजन्निति भाट्टपाठः । अडभाव आर्ष इति तद्व्याख्या ॥ १।२६।२७ ॥

उवाचेति । परमप्रीतः अतिप्रसन्नः सहस्राक्षः सहस्रनेत्रविशिष्टः पुरन्दर इन्द्रः विश्वामित्रमुवाच । अथानन्तरं संहृष्टाः सर्वे सुराः देवाश्च अब्रुवन् । एकस्य यौगिकत्वस्वीकारेण न पौनरुक्त्यम् ॥ १।२६।२८ ॥

तदुक्तिमेवाह मुने इति । हे मुने कौशिक भद्रं कल्याणं ते ऽस्तु यतः सेन्द्रा इन्द्रसहिताः सर्वे

मरुद्गणा वयमनेन ताटकाघातनेन कर्मणा तोषिताः । त्वयेति शेषः । अतः राघवे रामे स्नेहं एतादृशः प्रियः विश्वामित्रस्य कश्चिन्नास्तीत्येतद्गमकव्यापारविशेषं दर्शय प्रकटय ॥ १।२६।२९ ॥

तं व्यापारं बोधयन्त आहुः प्रजेति । हे ब्रह्मन् सत्यपराक्रमान् कापट्यरहितपराक्रमविशिष्टान् तपोबलभृतः तपोबलेन पोषकान् प्रजापतेः कृशाश्वस्य पुत्रान्राघवाय निवेदय ॥ १।२६।३० ॥

कृशाश्वपुत्राः समर्पणीया इत्यत्र हेतुमाहुः पात्रेति । हे ब्रह्मन् तवानुगमने वृतः अनुगमनविषयकवृत्तिविशिष्टः रामः ते तव पात्रभूतः त्वत्कर्तृकदानसम्प्रदानत्वयोग्यः । राजसूनुना सुराणां महत्कार्यं कर्तव्यमेव अतो ऽस्मै निवेदयेति पूर्वेणान्वयः । एकश्चकार एवार्थे, अपरो हेत्वर्थे ॥ १।२६।३१ ॥

एवमिति । हृष्टाः सर्वे सुरा एवमनेन प्रकारेण विश्वामित्रमुक्त्वा पूजयन्तः प्रशंसां कुर्वन्तः सन्तः विहायसं जग्मुः । ततो ऽनन्तरं सन्ध्या प्रवर्तते प्रावर्तत । “वर्तमानसामीप्ये” इति लट् ॥ १।२६।३२ ॥

तत इति । ततो देवगमनानन्तरं ताटकावधतोषितः स्वप्रेरितरामकर्तृकताटकाताडनेन तोषिताः सुरा येन स प्रीतो मुनिवरो विश्वामित्रो रामं मूर्ध्नि अवघ्राय इदं वचनमब्रवीत् ॥ १।२६।३३ ॥

तद्वचनमेवाह इहेति । हे शुभदर्शन राम अद्य रजनीमिह वसाम श्वो ऽनागतेह्नि प्रभाते प्रातःकाले तत्प्रसिद्धं मम आश्रमपदमत्यन्तश्रमनिवर्तकं स्थानं गमिष्यामः । अनद्यतनत्वाविवक्षया लट् ॥ १।२६।३४ ॥

विश्वामित्रेति । विश्वामित्रवचः श्रुत्वा हृष्टो हर्षं प्राप्तो दशरथात्मजो रामः तत्र प्रसिद्धे ताटकाया वने रजनीं सुखं यथा स्यात्तथा उवास ॥ १।२६।३५ ॥

मुक्तेति । मुक्तशापं रहितोपद्रवम्, किञ्च मुक्ता रामबाणस्पर्शेन स्वस्वरूपं प्राप्ता शापा शापविशिष्टा ताटका यस्मिन् तत्प्रसिद्धं वनं तस्मिन् ताटकाहननाधारभूते अहनि दिने तदा ताटकाहननकाले एव रमणीयं चैत्ररथं वनं यथा इव सुबभ्राज । तस्मिन्नेव तदहनीत्येतदग्रे ऽचम्पकाशोकपुन्नागमल्लिकाभिः सुशोभितम् । चूतैश्च पनसैः पूगैर्नारिकेलैश्च शोभितम् ॥ वापीकूपतटाकैश्च दीर्घिकाभिरलङ्कृतम् । मल्लिकाहेमकूटैश्च मण्डपैरुपशोभितम् ॥ ऽ इति श्लोकद्वयं तीर्थभट्टटीकाङ्कितपुस्तके दृश्यते। टीका तु नैतयोरिति दिक् ॥

१।२६।३६ ॥

निहत्येति । तां प्रसिद्धां यक्षसुतां ताटकां पराक्रमात् परेषां महात्मनां य आक्रमः पीडनं तस्मात्तन्निवृत्तये इत्यर्थः । निहत्य सुरसिद्धसङ्घैः प्रशस्यमानः स रामः मुनिना सहैव तस्मिन्वने उवास । ततः प्रभातवेलां प्रति प्रातःकाले बोध्यमानो मुनिना आसीदिति शेषः ॥ १।२६।३७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षड्विंशः सर्गः ॥ २६ ॥