मुनिवचनश्रवणानन्तरकालिकं वृत्तमाह अथेति । पुरुषशार्दूलः महापुरुषः अप्रमेयस्य इयत्तारहितप्रभावस्य तस्य मुनेः विश्वामित्रस्य अथ मङ्गलमूलमुत्तमं वचनं श्रुत्वा शुभां गिरं प्रत्युवाच ॥ १।२५।१ ॥
तदुक्तिमेवाह अल्पवीर्येति । हे मुनिपुङ्गव यदा यतः यक्षी ताटका अबला श्रूयते भवदुक्त्या ज्ञायते अतः अल्पवीर्या भवितुमर्हतीति शेषः । अतः नागसहस्रस्य बलं कथं धारयति ॥ १।२५।२ ॥
इतीति । अमितौजसः इयत्तारहितबलविशिष्टस्य राघवस्य इति अनेन प्रकारेण उक्तं वचनं श्रुत्वा येन हेतुना बलोत्कटा तं हेतुं त्वं शृणु इति वाक्यं विश्वामित्रो ऽब्रवीत् । अमितौजस इत्यस्याग्रे ऽहर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम्ऽ इत्यपि श्लोकार्धं क्वचिद्दृश्यते ॥ १।२५।३ ॥
विश्वामित्रवाक्यमेवाह वरेति । अबला ताटका वरदानकृतं बलं वीर्यं शौर्यं च धारयति । तद्वरप्रदानकारणमुपन्यस्यन्नाह वीर्यवान् अतिवीर्यविशिष्टः अनपत्यः अपत्यरहित शुभाचारः यथोक्ताचारविशिष्टः महायक्षः यः सुकेतुर्नाम पूर्वमेवासीत् सः महत्तपस्तेपे । चशब्द एवार्थे । अनपत्यस्तेपे इत्यनेन अपत्यार्थमेव तस्य तप इति ध्वनितम् ॥ १।२५।४ ॥
पितामह इति । हे राम तदा तपश्चरणसमये एव सम्प्रीतः पितामहस्ताटकां नाम कन्यारत्नं तस्य तपोनिरतस्य यक्षपतेः सुकेतोर्ददौ । नामतः प्रसिद्धमेतत् । प्रथमान्तात्तसिः । तुशब्द एवार्थे । यक्षपतेरित्यत्र सम्बन्धसामान्ये षष्ठी ॥ १।२५।५ ॥
ददाविवि । पितामहो ब्रह्मा अस्याः ताटकाया एव नागसहस्रस्य सहस्रसङ्ख्याकगजस्य बलमिव बलं ददौ । महायशाः ब्रह्मा यक्षाय सुकेतवे पुत्रं नैव ददौ । पुत्रं नैव ददावित्यनेनास्य पुत्रो यदि स्यात्तर्हि महान्तं लोकोपद्रवं करिष्यतीति हेतुः सूचितः । चशब्द इवार्थकः । तुशब्द एवार्थकः ॥ १।२५।६ ॥
तामिति । जातां सुकेतोरुत्पन्नां विवर्धन्तीं विवर्धमानां रूपयौवनशालिनीं यशस्विनीं ताटकां भार्यां पाणिगृहीतीं जम्भपुत्राय सुन्दाय ददौ । तुशब्द एवार्थे । शाटकं वयेतिवत् भार्यां ददाविति प्रयोगः । क्वचित्तु ऽतां तु बालां विवर्धन्तीम्ऽ इति पाठः । जम्भपुत्रायेत्यत्र खञ्जुपुत्रायेति पाठे खञ्जोः पुत्रः ख्ाञ्जुपुत्रः । असुरयक्षयोर्देवयोनित्वेनोचितः सम्बन्ध इति नागोजिभट्टाः । अत्र पाठे खञ्जुरिति जम्भस्यैव नामान्तरं बोध्यम् ॥ १।२५।७ ॥
कस्यचिदिति । कस्यचित्कालस्य अपगमे सतीति शेषः । यक्षी यक्षकुलोत्पन्ना ताटका यः शापादेव राक्षसो ऽभवत् तं दुर्धर्षं धर्षयितुमशक्यं मारीचं नाम पुत्रं व्यजायत अजनयत् । तुशब्द एवार्थे ॥ १।२५।८ ॥
शापकारणं वदन्नाह सुन्द इति । हे राम सुन्दे ताटकापतौ निहते अगस्त्यशापेन मृते सत्येव पुत्रेण सह सहिता सा ताटका मुनिपुङ्गवमगस्त्यं प्रधर्षयितुं हिंसितुमिच्छति । “वर्तमानसामीप्ये”
इति भूते लट् । तुशब्द एवार्थे ॥ १।२५।९ ॥
प्रधर्षणप्रकारं वदन्नाह भक्षार्थमिति । जातसंरम्भा स्वपतिवधजनितकोपविशिष्टा अत एव गर्जन्ती सा ताटका भक्षार्थमगस्त्यभक्षणाय अभ्यधावत । तुना मारीचोप्यभ्यधावत भगवान्समर्थः ऋषिः सर्वज्ञः अगस्त्यः आपतन्तीं तान्तदुपलक्षितमापतन्तं मारीचं च दृष्ट्वा राक्षसत्वं भजस्व प्राप्नुहीति मारीचं व्याजहार । सः मारीचशापदाता परमक्रुद्धः अगस्त्यः ताटकामपि शप्तवान् । ताटकायाः सुन्दवच्छापेन प्राणवियोगाकरणं तु स्त्रीत्वेनानर्हत्वात् । मारीचस्य तथात्वं तु बालत्वेन ज्ञातत्वात् ॥ १।२५।१०११ ॥
शापस्वरूपमाह पुरुषादीति । महायक्षी त्वमिदं रूपं यक्षीस्वरूपं विहाय त्यक्त्वा विरूपा कूत्सितस्वरूपा विकृतानना विकारविशिष्टाननविशिष्टा पुरुषादी पुरुषभक्षणशीला राक्षसी भवेति शेषः । अथ अतः दारुणं क्रूरं रूपं स्वरूपं ते ऽस्तु ॥ १।२५।१२ ॥
सेति । शापकृतामर्षा शापेन कृतः उत्पादितः अमर्षो यस्यामत एव क्रोधमूर्छिता सा प्राप्तशापा एषा ताटका शुभं मङ्गलमगस्त्यचरितमगस्त्येनाचरितमगस्त्यकर्तृकाचरणविशिष्टं पौर्वकालिकागस्त्याश्रमवन्तमित्यर्थः एनं देशमुत्सादयति पीडयति । अत्र शापानन्तरमगस्त्यभक्षणान्निवृत्त्या तदा तयोर्भीत्यतिशयः सूचितः ॥ १।२५।१३ ॥
एषा देशपीडानिवृत्तिः त्वया कर्तव्येति बोधयन्नाह एनामिति । हे राघव दुर्धर्षामन्यकर्तृकधर्षणानर्हां परमदारुणामतिक्रूरां दुष्टपराक्रमां दुष्टः गोब्राह्मणादिहिंसाहेतुत्वेन दोषविशिष्टः पराक्रमो यस्याः तामेनां यक्षीं ताटकां गोब्राह्मण्ाहितार्थाय गोब्राह्मणहितार्थं साधयितुं जहि । मालाहत इव द्विप इत्यादाविव ताडनार्थो ऽत्र हन्तिः । किञ्च अत्र शिखी नष्ट इत्यादाविव विशेषणीभूतदुष्टपराक्रममात्रनिवर्तने तात्पर्यमत एव परमधर्मज्ञरामस्य ऽवचनं कौशिकस्येति कर्तव्यमविशङ्कयाऽ इति प्रतिज्ञानान्तरं ऽनह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्ऽ इत्युक्तिः सङ्गच्छते । अत एव ऽरामो द्विर्नाभिभाषतेऽ इत्याद्युक्तिः सानुकूला । तथा च मीमांसा ऽसविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधेऽ ॥ १।२५।१४ ॥
त्वदन्यः कश्चिन्नास्याः नियन्तेति बोधयन्नाह नेति । हे रघुनन्दन शापसंस्पृष्टां शापयुक्तामेनां ताटकां निहन्तुं त्वामृते विना त्रिषु लोकेषु कश्चित्पुमान्नैवोत्सहते । हिशब्द एवार्थे । शापसंसृष्टामिति भट्टपाठः ॥ १।२५।१५ ॥
ननु स्त्रीनिष्ठदुष्टपराक्रमनाशो ऽपि कथं मया कार्य इत्यत आह नहीति । हे नरोत्तम स्त्रीवधकृते स्त्रीकर्तृकहिंसानिवृत्तये ते तव घृणा स्त्रीनिष्ठदुष्टपराक्रमविघातविषयकदयालुता नैव कार्या । तत्र हेतुः राजसूनुना राजपुत्रेण चातुर्वर्ण्यहितार्थं कर्तव्यमेव स्त्रीवधादिकमपीति शेषः । हिशब्दावेवार्थौ ॥ १।२५।१६ ॥
तदेव विशदयन्नाह नृशंसमिति । प्रजारक्षणकारणात्प्रजारक्षणहेतोरेव पातकमन्येषां पातकावहं नृशंसं क्रुरं कर्म असदोषं सदोषरहितमनृशंसमक्रूरकर्म वा रक्षता प्रजापालनकर्त्रा सदेव कर्तव्यम् । वाशब्दावेवार्थौ ॥ १।२५।१७ ॥
राज्येति । हे काकुत्स्थ एषः अन्येषां दोषावहः राज्यभारनियुक्तानां राज्ञां सनातनः नित्यो धर्मः । अतः हेतो यतः अस्याः ताटकायाः धर्मो न विद्यते अतः अधर्म्यां धर्मादपेतां ताटकां जहि । तद्दुष्टतां निवर्तयेत्यर्थः । हिर्हेतौ ॥ १।२५।१८ ॥
स्त्र्यादिवधे शिष्टाचारं प्रमाणयन्नाह श्रूयते इत्यादिश्लोकद्वयेन नृप हे राजन् शक्रः इन्द्रः
पृथिवीं हन्तुमिच्छन्तीं विरोचनसुतां मन्थरां मन्थराख्यामभ्यसूदयत् इति श्रूयते । हिशब्द इत्यर्थे ॥
१।२५।१९ ॥
विष्णुनेति । हे राम दृढव्रता अप्रच्युतसङ्कल्पा अनिद्रं निद्रानन्दरहितं लोकमिच्छन्ती काव्यमाता शुक्राचार्यजननी भृगुपत्नी पुरा विष्णुना निषूदिता इत्यपि श्रूयते इत्यनुकृष्यते । एतेन यदि विशिष्टहतिः वृद्धव्यवहारसिद्धा तर्हि विशेषणमात्रहतिरिति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः । चकार इत्यपीत्यर्थे अनिन्द्रमिति पाठे इन्द्ररहितमिति भट्टाः । शुक्रे तपश्चरणार्थं गते सति देवपीडितदैत्यप्रार्थितां देवहननोद्योगवतीं शुक्रमातरं भृगुपत्नीमिन्द्रप्रार्थितो विष्णुर्जघानेति मत्स्यपुराणे प्रसिद्धम् ॥ १।२५।२० ॥
तदेवोपसंहरन्नाह एतैरिति । एतैः शक्रादिभिः अन्यैः महात्माभः बहुभिः पुरुषसत्तमैः राजुपत्रै ऽअधर्मसहिता नार्यो हता एव महात्माभिःऽ इत्यादिविशेषणैस्तेषां परमाप्तत्वं ध्वनितम् । तेन विशेषणमात्रनिवर्तने संशयो न कार्य इति ध्वनितम् । एकश्चशब्द एवार्थे ॥ १।२५।२१ ॥
प्रकृतमाह तस्मादिति । हे नृप तस्मात् आप्तैराचरितत्वात् घृणामबला न हन्तव्येत्याकारिकां करुणां त्यक्त्वा मच्छासनात्समुचितमदाज्ञातः एनां ताटकां जहि ॥ १।२५।२२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥