निवासानन्तरकालिकं वृत्तमाह ततः इति । प्रभाते प्रातःकाले विमले समूलमलनिवर्तकगङ्गाजले कृतमाह्निकं येन तं विश्वामित्रं पुरस्कृत्य अरिन्दमौ रामलक्ष्मणौ ततः महेश्वराश्रमात् ऩद्याः गङ्गायाः तीरमुपागतौ प्राप्तौ पूर्वमाश्रमसमीपघट्टे स्नानादिक्रियाः निर्वर्त्य तरणार्थं तरणघट्टे समायाता इत्यर्थः ॥ १।२४।१ ॥
ते इति । अथानन्तरमेव महात्मानः पूजनीयस्वरूपाः संशितव्रताः ते उग्राश्रमनिवासिनः सर्वे मुनयः शुभां दृढां नावमुपस्थाप्य तत्सम्मुखं प्रापय्य विश्वामित्रमब्रुवन् । तुशब्द एवार्थे ॥ १।२४।२ ॥
तदुक्तिमाह आरोहत्विति । राजपुत्रपुरस्कृतः राजपुत्राग्रेसरः भवान् शुभां नावमारोहतु । अरिष्टं निर्विघ्नं यथा भवति तथा पन्थानं त्वं गच्छ । कालविपर्ययः कालविलम्बो माभूत् ॥ १।२४।३ ॥
विश्वामित्र इति । ताभ्यां रामलक्ष्मणाभ्यां सहितो विश्वामित्रः तथा इत्युक्त्वा तान् ऋषीन् अभिपूज्य सत्कृत्य च सागरङ्गमां सरितं सङ्गां ततार तरितुमारेभे ॥ १।२४।४ ॥
तत इति । अतिसंरम्भवर्धितमतिसंरम्भेण परस्परसङ्घट्टजनितक्षोभेण वर्धितं तोयस्य शब्दं मध्ये आगम्य कनीयसा लक्ष्मणेन सह महातेजा रामः शुश्राव । ततः श्रवणानन्तरमेव तस्य शब्दस्य निश्चयमेतत्कारणकोयं शब्द इति ज्ञातुकामो मुनिपुङ्गवमृषिश्रेष्ठमथ पप्रच्छ मङ्गलप्रश्नं चकार । श्लोकद्वयमेकान्वयि । वैशब्द एवार्थे ॥ १।२४।५,६ ॥
तत्प्रश्नमेवाह वारिण इति । भिद्यमानस्य वारिणः अयं तुमुलः ध्वनिः किं । किन्निमित्तक इत्यर्थः । किमिति सामान्ये नपुंसकम् । राघवस्येति । कौतूहलसमन्वितं राघवस्य वचो वचनं धर्मात्मा
विश्वामित्रः श्रुत्वा तस्य शब्दस्य निश्चयं निश्चयकारणं कथयामास ॥ १।२४।७ ॥
तत्कथनमेवाह कैलासेति । हे नरशार्दूल हे राम कैलासपर्वते ब्रह्मणा मनसा सरो निर्मितं तेन हेतुना इदं सरः मानसमित्युच्यते ॥ १।२४।८ ॥
तस्मादिति । ब्रह्मसरश्च्युता ब्रह्म ब्रह्मावयवस्तन्नेत्रं तदेव सरस्तस्माच्च्युता अत एव पुण्या परमपवित्रा सरःप्रवृत्ता । सरसि ब्रह्मणा मनसा निर्मितसरोवरे प्रवृत्तं प्रवर्तनं स्थितिरिति यावत् यस्याः सा अत एव सरयूः एतन्नाम्ना प्रसिद्धा । तस्मान्मानससरसः सुस्राव सा सरयूः अयोध्यामुपगूहते तामालिङ्ग्य वहतीत्यर्थः । पूर्वं परमात्मनेत्रात्सम्भूतानन्तरं ब्रह्मणा स्वमानससरसि स्थापिता अनन्तरं तस्मात्सरसः पृथिव्यां समागतेति सरसि याति प्राप्नोति सरसो याति निर्गच्छति वेति सरयूरिति व्युत्पत्त्या सरयूशब्दवाच्यत्वं तस्याः । स्पष्टं चेदं पद्म्पुराणादौ । ब्रह्मशब्देन ब्रह्मावयवग्रहणं तु पटावयवस्य रक्तत्वे पटो रक्त इत्यादिव्यवहारवदवगन्तव्यम् ॥ १।२४।९ ॥
तस्येति । तस्य सरय्वाः वारिसङ्क्षोभजः अतुलः तोलयितुमशक्यः । अयं शब्दः जाह्नवीमभिवर्तते । तच्छब्देन सह प्रवर्धते इत्यर्थः । अतः हे राम नियतः एकाग्रचित्तस्त्वं प्रणामं कुरु । तस्येति सामान्ये नपुंसकम् ॥ १।२४।१० ॥
ताभ्यामिति । अतिधार्मिकौ उभौ द्वौ तौ रामलक्ष्मणौ ताभ्यां गङ्गासरयूभ्यां प्रणामं कृत्वैव दक्षिणतीरमासाद्य प्राप्य लघुविक्रमौ शीघ्रपादविक्षेपौ सन्तौ जग्मतुः विश्वामित्रेण सह चक्रमतुः । तुश्ाब्द एवार्थे ॥ १।२४।११ ॥
स इति । ऐक्ष्वाकः इक्ष्वाकुकुलोद्भवः नरवरात्मजः राजपुत्रः स रामः घोरसङ्काशं घोररूपमत एव अविप्रहतं सञ्चाररहितत्वेन अक्षुण्णं वनं दृष्ट्वा मुनिपुङ्गवं विश्वामित्रं पप्रच्छ ॥ १।२४।१२ ॥
तत्प्रश्नमेव वर्णयन्नाह अहो इत्यादिभिः । झिल्लिकागणनादितं झिल्लिकानामन्तरिक्षस्थकीटविशेषाणां गणैः समूहैः नादितं भैरवैः भयङ्करैः श्वापदैः कुटिलमृगैः पूर्णं दारुणैः कुटिलशब्दैः शकुन्तैः भाससञ्ज्ञकजन्तुविशेषैः । ऽशकुन्तौ भासपक्षिणौ, इत्यमरः । पूर्णमत एव दुर्गमनवगाह्यमिदं वनमहो आश्चर्यम् ॥ १।२४।१३ ॥
नानेति । भैरवैः स्वनैः वास्यद्भिः नानाप्रकारैः अनेकजात्याकृतिविशिष्टैः शकुनैः पक्षिभिः सिंहादिभिश्चोपशोभितम् ॥ १।२४।१४ ॥
धवेति । धवाश्वकर्णककुभैर्धवैः अश्वकर्णैः ककुभैश्च बिल्वकिंशुकैः पाटलैः बदरीभिश्च सङ्कीर्णमेतद्दारुणं वनं किम् । किंनामकं किंस्वामिकं चेत्यर्थः । तुश्चार्थे ॥ १।२४।१५ ॥
तमिति । महातेजा महामुनिः विश्वामित्रः तं प्रश्नकर्तारं राममुवाच । तद्वचनमेवाह हे वत्स हे काकुत्स्थ यस्य एतद्दारुणं वनं स श्रूयताम् ॥ १।२४।१६ ॥
एताविति । हे नरोत्तम स्फीतौ स्वच्छौ देवनिर्माणनिर्मितौ देवानां निर्माणं प्रयत्नस्तेन निर्मितौ एतौ प्रसिद्धौ मलदाः करूषाश्च जनपदौ पूर्वमेवास्ताम् । मलदकरूषशब्दयोर्बहुत्वं दारशब्दादेरिव स्वभावसिद्धम् ॥ १।२४।१७ ॥
पुरेति । हे राम वृत्रवधे जाते पुरा पूर्वं मलेन पापेन क्षुधा च समभिप्लुतं व्याप्तं सहस्राक्षमिन्द्रं ब्रह्महत्या समाविशत् । पूर्वं ब्रह्महत्याचिह्नं मलं क्षुधा च इन्द्रं प्राप । पश्चात् स्वयं ब्रह्महत्या प्रत्यक्षतो ऽदृश्यतेत्यर्थः ॥ १।२४।१८ ॥
तमिति । देवास्तपोधना ऋषयश्च अस्य इन्द्रस्य मलं तदुपलक्षितकरूषं च स्नापयन् निवर्तयितुं कलशैः प्रार्थितगङ्गाजलविशिष्टघटैः तं मलादिमन्तमिन्द्रं स्नापयामासुः । इहास्यां भूम्यां महेन्द्रस्य
शरीरजं मलं कारूष्यं क्षुधं च दत्त्वा महेन्द्रस्य मलं मलिनतां कारूष्यं च प्रमोचयन् प्रामोचयन् । पूर्वस्नातेर्निवर्तनमर्थः । “लक्षणहेत्वोः क्रियायाः” इति शता व्यत्ययेनैकत्वम् । ततोनन्तरं हर्षं प्रषेदिरे प्रापुः । द्वयोरेकत्रान्वयः । ऽतमिन्द्रं मलिनं देवाऽ इति भट्टसम्मतः पाठः । दत्त्वा देवा इति च । कारूष्यशब्दः स्वार्थष्यञन्तः ॥ १।२४।१९२० ॥
निर्मल इति । निर्मलः निवृत्तमलिनताकः निष्करूषः निर्गतक्षुत्कः अत एव शुचिः ब्रह्महत्यादोषरहितश्च इन्द्रो यदा ऽभवत्तदा सुप्रीतः प्रसन्नचितः प्रभुः समर्थः इन्द्रः देशस्य अनुत्तमं परमोत्कृष्टं वरं ददौ । देशस्यैकत्वं जात्यभिप्रायेण ॥ १।२४।२१ ॥
तद्वरप्रदानमेवाह इमाविति । ममाङ्गमलधारिणौ इमौ जनपदौ स्फीतौ प्रवृद्धौ सन्तौ लोके मलदाः करूषाश्चेति ख्यातिं गमिष्यत एव । चशब्द एवार्थे ॥ १।२४।२२ ॥
साध्विति । धीमता शक्रेण इन्द्रेण कृतां तां प्रसिद्धां देशस्य पूजां वरप्रदानेन सत्कृतिं दृष्ट्वा ज्ञात्वा देवास्तं पाकशासनमिन्द्रं साधुसाध्वित्यब्रुवन् । हर्षे वीप्सा । देवा इति ऋषीणामप्युपलक्षकम् ॥ १।२४।२३ ॥
एताविति । हे अरिन्दम आश्रितारिनिवर्तक राम स्फीतौ मलदाः करुषाश्चैतौ जनपदौ ततः प्रभृति दीर्घकालं धनधान्यतो मुदिताः । आसन्निति शेषः । एकश्चकारः ततः प्रभृतीत्यर्थे ॥ १।२४।२४ ॥
कस्यचिदिति । अथ इन्द्रवरप्रदानानन्तरं कस्यचित्कालस्यापगमे सतीति शेषः । कामरूपिणी ईप्सितरूपधारणसमर्था नागसहस्रस्य सहस्रसङ्ख्यातगजस्य बलं धारयन्ती धीमतः सुन्दस्य भार्या यक्षी यक्षजाता शक्रपराक्रमः मारीचो राक्षसः यस्याः पुत्रः सा ताटका नाम अभूत् । ते तुभ्यं भद्रं कल्याणमेव तदैव अस्मभ्यमपि भद्रं भवतु इति शेषः । तस्याः भीतिस्ते माभूदित्यर्थः । श्लोकद्वयमेकान्वयि । वैशब्द एवार्थे । हिः प्रसिद्धार्थः ॥ १।२४।२५,२६ ॥
वृत्तेति । वृत्तबाहुः वृत्तौ बाहू यस्य महाशीर्षः बृहच्छिरोविशिष्टः विपुलास्यतनुः विपुलास्ययुक्ता तनुर्यस्य महान् अत्युन्नतः भैरवाकारः भयङ्कराकारविशिष्टः भैरवसदृशो वा राक्षसो मारीचः प्रजाः नित्यं त्रासयते ॥ १।२४।२७ ॥
पुत्रकृतमुपद्रवं निवेद्य मातृकृतोपद्रवमाह इमाविति । हे राघव दुष्टचारिणी ताटका इमौ प्रसिद्धौ मलदान् करूषाँश्च जनपदौ नित्यमेव विनाशयति । एकश्चशब्द एवार्थे ॥ १।२४।२८ ॥
सेयमिति । सा इयं ताटका पन्थानमावृत्य निरुध्यैव यतः अध्यर्धयोजने वसति अतस्ताटकायाः वनं गन्तव्यमेव ॥ १।२४।२९ ॥
तत्र गत्वा किं कर्तव्यमित्यत आह स्वबाह्विति । स्वबाहुबलमाश्रित्य संस्मृत्य मन्नियोगान्मदाज्ञातः दुष्टचारिणीमिमां ताटकां त्वं जहि ताडय । तत्फलमाह इमं देशं पुनः निष्कण्टकं पीडारहितं कुरु । मन्नियोगादित्युक्त्या स्त्रियं न हनिष्यामीति प्रत्युत्तरं त्वया न वक्तव्यमिति हेतुर्ध्वनितः ॥ १।२४।३० ॥
नहीति । ईदृशं रमणीयमिमं देशमागन्तुं कश्चित्पुरुषो नैव शक्नोति । तत्र हतुः हे राम घोरया भयावहया असह्यया अन्यैः पराभवितुमशक्यया यक्षिण्या ताटकया उत्सादितं सर्वं पीडितम् । हिशब्द एवार्थे ॥ १।२४।३१ ॥
तदेवोपसंहरन्नाह एतदिति । यथा येन प्रकारेण एतद्वनं दारुणमेतत्ते तुभ्यं सर्वं कथितम् । तदेवाह यया यक्ष्या एतत्सर्वमुत्सादितं सा यक्षी अद्यापि न निवर्तते । चकारेण पीडयति च या सेत्यध्याहृतम् ॥ १।२४।३२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥