रात्रिव्यतीतानन्तरकालिकं वृत्तमाह प्रभातायामिति । शर्वर्यां रात्रौ प्रभातायां प्रभातत्वं प्राप्तायां महामुनिः विश्वामित्रः पर्णसंस्तरे तृणमिश्रपर्णकल्पितासने शयानं काकुत्स्थमभ्यभाषत । संस्तरस्य तृणपर्णोभयनिर्मितत्वेन तृणशयने इति पूर्वोक्त्या न विरोधः ॥ १।२३।१ ॥
तद्भाषणमेवाह कौसल्येति । कौसल्यासुप्रजराम कौसल्यायाः सुप्रजासु प्रादुर्भूतः स एव राम इति कर्मधारयः तत्सम्बोधनम् हे नरशार्दूल पुरुषश्रेष्ठ पूर्वा सन्ध्या प्रातःसन्ध्या प्रवर्तते अतः त्वमुत्तिष्ठ दैवं देवसम्बन्धि आह्निकमहःसन्ध्यानिर्वर्त्यं स्वशक्तिस्मरणादि त्वया कर्तव्यम् ॥ १।२३।२ ॥
तस्येति । तस्य प्रसिद्धस्य ऋषेः विश्वामित्रस्य परमोदारं वचो वचनं श्रुत्वा स्नात्वा कृतोदकौ कृतमुदकमुदकसम्बन्ध्यर्घ्यप्रदानादिकं याभ्यां तौ वीरौ नरोत्तमौ रामलक्ष्मणौ परमं सर्वश्रेष्ठं जपं जपनीयं गायत्र्यादि जेपतुः ॥ १।२३।३ ॥
कृताह्निकाविति । कृताह्निकौ सम्पादितपूर्वसन्ध्याकर्माणौ महावीर्यो समातिशयरहितवीर्यविशिष्टौ अभिसंहृष्टौ नित्यानन्दविशिष्टौ रामलक्ष्मणौ तपोधनं विश्वामित्रमभिवाद्य प्रणम्य गमनाय गमनं कर्तुमुपतस्थतुः गुरोराज्ञां प्राप्य जग्मतुरित्यर्थः ॥ १।२३।४ ॥
ताविति । तदा तस्मिन्काले प्रयातौ तस्मात्स्थानाद्गुरुणा सह प्रचलितौ महावीर्यौ रामलक्ष्मणौ तत्र प्रसिद्धे शुभे सकलमङ्गलमूले सरय्वाः सङ्गमे सरयूगङ्गासङ्गमप्रदेशसमीपे दिव्यां प्राकृतविलक्षणां त्रिपथगां नदीं ददृशाते ॥ १।२३।५ ॥
तत्रेति । बहुवर्षसहस्राणि परमं तपस्तप्यतां तपतामत एव उग्रतेजसामृषीणामाश्रमपदं श्रमनिवर्तकस्थानं तत्र गङ्गासरयूसङ्गमसमीपे ददृशाते इत्यनुकृष्यते सञ्ज्ञापूर्वकविधेरनित्यत्वान्न परस्मैपदम् ॥ १।२३।६ ॥
तमिति । पुण्यं तमाश्रमं स्थानं दृष्ट्वा परमप्रीतौ राघवौ रामलक्ष्मणौ महात्मानं तं विश्वामित्रमिदं वक्ष्यमाणं वचः ऊचतुः ॥ १।२३।७ ॥
तद्वचनमेवाह कस्येति । हे भगवन् पुण्यनिर्मलः अयमाश्रमः कस्य अस्मिन्नाश्रमे कः पुमान्वसते
वसति इति श्रोतुमावामिच्छावः तत्र हेतुः नौ आवयोः परं कौतूहलमाश्चर्यं भातीति शेषः । नुरित्यर्थे । हिर्हेतौ ॥ १।२३।८ ॥
तयोरिति । तयोः रामलक्ष्मणयोः तत्प्रश्नरूपं वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवो विश्वामित्रः अब्रवीत् । तद्वचनमेवाह हे राम यस्यायं पूर्व आश्रमः सः श्रूयताम् ॥ १।२३।९ ॥
कन्दर्प इति । बुधैः यः काम इत्युच्यते स कन्दर्पः मूर्तिमानासीत् यद्वा यः कामः कन्दर्पः परमसुखहेतुगर्वविशिष्टो मूर्तिमानासीदिति बुधैरुच्यते सः दुर्मेधा इहाश्रमे तपस्यन्तं तप आचरन्तं समरुद्गणं तपःकुर्वत्पार्वतीविवाहप्रार्थनामनस्कमरुद्गणसहितं कृतोद्वाहं कृतः उदि नराकृतिद्विभुजपरमात्मरघुनाथविचारे वाहः प्रयत्नो येन अत एव देवेशं ब्रह्मादित्रिदेवनियन्तारमप्रकटितमवन्तं गच्छन्तं स्वाश्रितेभ्यो बोधयन्तमत एव नियमेन समाहितं नियमपूर्वकसम्यक्स्थितिविशिष्टं स्थाणुं महेश्वरं धर्शयामास चित्तविकारोत्पादनद्वारा धर्षणं चकार । ततो महात्मना महेश्वरेण स हुंकृतः । द्वयोरेकत्रान्वयः चकारस्तत इत्यर्थे । किञ्च दर्पशब्दो दृप्तार्थकः । कमिति सुखार्थकं स्थाणुविशेषणम् । अन्यत्समानम् । हुंकृतश्च महात्मना इत्येतदग्रे ऽअवध्यातश्च रुद्रेण चक्षुषा रघुनन्दनऽ इत्यर्धश्लोको भट्टसम्मतः । उत्शब्दस्य परमात्मवाचकत्वमुपनिषत्सु प्रसिद्धम् । तदर्थस्तु उद्यते तात्पर्यवृत्त्या वेदैः प्रतिपाद्यते असाविति प्रयत्नार्थकवाहधातोभावे घञ् । गमो बोधनार्थकत्वं तु गमिरबोधने इत्यादिव्याख्याने स्पष्टम् ॥ १।२३।१०११ ॥
अथेति । हे रघुनन्दन अथ हुङ्कारानन्तरं रुद्रेण चक्षुषा दग्धः । काम इति शेषः । अत एव दुर्मतेः कामस्य स्वात्स्वकीयाच्छरीरादवयवसमूहात्सर्वगात्राणि व्यशीर्यन्त । गात्रशब्दो ऽवयवपरः । किञ्च शरे शिवतपोनिवृत्तये ईरः कम्पनानुकूलो व्यापारः तस्माद्धेतोः रुद्रेण दग्धः । शेषं पूर्ववत् ॥ १।२३।१२ ॥
तत्रेति । तत्र तदा महात्मना महेश्वरेण निर्दग्धस्य तस्य कामस्य गात्रं हतं विनष्टं निर्दग्धम् । ह अनेन प्रकारेण देवेश्वरेण क्रोधात्कामः अशरीरः शरीररहितः कृतः ॥ १।२३।१३ ॥
अनङ्गेति । हे राघव तदाप्रभृति कामदेहपातादारभ्य कामः अनङ्ग इति विख्यातः अनङ्ग इति नाम्ना प्रसिद्धः । स कामः यत्राङ्गं मुमोच स श्रीमान् सम्पत्तिविशिष्ट अङ्गविषयः अङ्गदेश इति विख्यातः । हशब्दः इतिविख्यात इत्यनुकर्षणार्थः ॥ १।२३।१४ ॥
तस्येति । हे वीर तस्य महेश्वरस्य पुण्यः पुण्यजनकः अयमाश्रमः । पुरा पूर्वकालतो विद्यमानाः इमे मुनयः तस्य महेश्वरस्य शिष्याः । अत एव धर्मपराः अत एव तेषां मुनीनां पापं न विद्यते ॥ १।२३।१५ ॥
इहेति । हे शुभदर्शन हे राम पुण्ययोः सरितोः सरयूगङ्गयोर्मध्ये इह शिवाश्रमे अद्य रजनीं वयं वत्स्यामः, श्वस्तरिष्यामहे तरिष्यामः । गङ्गामिति शेषः । अनद्यतनत्वस्याविवक्षायां लृट्प्रयोगः ॥ १।२३।१६ ॥
स्नानादिकं कृत्वा निवासार्थमाश्रमो गन्तव्य इत्याह अभीति । शुचयः कृतस्नानादिक्रियाः सर्वे वयं पुण्यमाश्रममभिगच्छामहे अभिगच्छामः । इहाश्रमे ऽस्माकं वासः परः अत्युत्कृष्टः । अतः हे नरोत्तम स्नाताः कृतजप्याः हुतहव्याश्च वयं निशां सुखमेव वत्स्यामहे वत्स्याम । अभिगच्छामहे इत्यत्र वर्तमानसामीप्ये भविष्यति काले लट् ॥ १।२३।१७ ॥
विश्वामित्रदर्शनेन तेषां हर्षो जात इत्याह तेषामिति । तत्र संवदतां तेषां विश्वामित्रादीनां तपोदीर्घेण चक्षुषा तपःप्राप्तविप्रकृष्टवस्तुदर्शननेत्रेण विज्ञाय परमप्रीताः
रामादिविषयकपरमप्रीतिविशिष्टा मुनयो हर्षम् परमानन्दमागमन् प्रापुः । संवदतामित्यत्र षष्ठी कर्मणः शेषत्वविवक्षया ॥ १।२३।१८ ॥
ततो रामादीनां समीपे प्राप्त ऋषीणां कृत्यमाह अर्घ्यमिति । कुशिकात्मजे विश्वामित्रे अर्घ्यादिकं निवेद्य पश्चात् रामलक्ष्मणयोः अतिथिक्रियामकुर्वन् ॥ १।२३।१९ ॥
सत्कारमिति । समाहिताः एकाग्रचित्तास्ते परस्परसम्मिलिताः मुनयो विश्वामित्रस्तत्रत्याश्च कृतसत्कारं परस्परकृतसत्कृतिं समनुप्राप्य सम्यग् लब्ध्वा कथाभिः रामस्वभावादिवर्णनैः अभिरञ्जयन् परस्परमनुरागमुदपादयन् । आगमशास्त्रस्यानित्यत्वादड्विरहः । अनन्तरं ते सर्वे मुनयः यथार्हं यथायोग्यं सन्ध्यामजपन् सन्ध्यासम्बन्धिजपादिकमकुर्वन् । उपलक्षणविधया रामलक्ष्मणयोरपि सान्ध्यप्रवृत्तिर्बोध्या ॥ १।२३।२० ॥
तत्रेति । तदा तस्मिन्काले तत्र वासिभिः सुव्रतैः शोभनव्रतशीलैः मुनिभिः आनीताः विश्वामित्रादयः तत्र तस्मिन् कामाश्रमपदे सुसुखं यथा स्यात्तथा सह न्यवसन् ॥ १।२३।२१ ॥
कथाभिरिति । धर्मात्मा धर्मशीलः मुनिपुङ्गवः कौशिको विश्वामित्रः अभिरामौ परमानन्ददातारौ नृपात्मजौ रामलक्ष्मणौ अभिरामाभिः कथामिः पुण्यश्लोकचरितप्रतिपादकप्रबन्धैः रमयामास ॥ १।२३।२२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ त्रयोविंशः सर्गः ॥ २३ ॥