तथेति । तथा तेन प्रकारेण वसिष्ठे ब्रुवति सति प्रहृष्टवदनः प्रसन्नमुखः राजा दशरथः सलक्ष्मणं लक्ष्मणसहितं रामं सुतमाजुहाव । एतेन गुरुवाक्ये राज्ञः श्रद्धातिशयः सूचितः ॥ १।२२।१ ॥
कृतेति । मात्रा तज्जनन्या दशरथेन पित्रा च कृतस्वस्त्ययनं कृतमाङ्गलिकद्रव्यभोजनालङ्कारादिसमर्पणम्, वसिष्ठेन पुरोधसा पुरोहितेन मङ्गलैर्मङ्गलजनकवेदवाक्यैरभिमन्त्रितम् ॥ १।२२।२ ॥
प्रियं परमप्रीतिविषयीभूतं पुत्रं मूर्ध्नि उपाघ्राय स राजा दशरथः सुप्रीतेनान्तरात्मना मनसा कुशिकपुत्राय विश्वामित्राय ददौ । द्वयोरेकत्रान्वयः ॥ १।२२।३ ॥
मङ्गलसूचकं शकुनमाह तत इति त्रिभिः । तदा गमनसमये राजीवलोचनं विश्वामित्रसहितं रामं दृष्ट्वा ततः सर्वत्र परिपूर्णः सुखस्पर्शः सुखप्रदस्पर्शविशिष्टः विरजस्कः रजोरहितो वायुर्ववौ ॥ १।२२।४ ॥
पुष्पेति । महात्मनि मुनौ रामे च प्रयाते सति देवदुन्दुभिनिस्वनैः सह महती पुष्पवृष्टिः शङ्खदुन्दुभिनिर्घोषः शङ्खादिनिस्वनश्चासीत् । तुशब्दश्चार्थे ॥ १।२२।५ ॥
गमनप्रकारं वर्णयन्नाह विश्वामित्र इत्यादिभिः । अग्रे विश्वामित्रो ययौ । ततस्तत्पश्चान्महायशाः सर्वत्र परिपूर्णकीर्त्तिः काकपक्षधरः धन्वी धनुर्धारी रामश्च ययौ । सौमित्रिर्लक्ष्मणस्तं राममन्वगात् अन्वगच्छत् ॥ १।२२।६ ॥
तदेव विशदयन्नाह कलापिनावित्यादिभिः । कलापिनौ तूणीरधरौ धनुष्पाणी धनुर्युक्तपाणिविशिष्ठौ दशदिशः शोभयानौ प्रकाशयन्तौ त्रिशीर्षौ पन्नगौ इव शिरस्त्रयविशिष्टपन्नगसदृशौ अक्षुद्रौ दर्शनमात्रेण क्षुद्रतानिवर्तकौ पितामहमश्विनाविव अनुजग्मतुः । त्रिशीर्षत्वं च स्कन्धद्वयस्थिततूणीरद्वयेन शिरसा च । पञ्चशीर्षाविवोरगावितिपाठे तत्वन्तु उन्नतस्कन्धद्वयेन शिरसा चेति बोध्यम् । सार्द्धश्लोक एकान्वयी । आगमशास्त्रस्यानित्यत्वान्मुगभावः । ऽकलापो भूषणे बर्हे तूणीरे संहतावपिऽ इत्यमरः ॥ १।२२।७ ॥
इदानीं ताभ्यां मुनेः परमा शोभा जातेति बोधयन्नाह तदेतिसार्धश्लोकद्वयेन । तदागमनकाले धनुष्पाणी धनुर्युक्तपाणिविशिष्टौ स्वलङ्कृतौ अप्राकृतालङ्कारविशिष्टौ बद्धं गोधाङ्गुलित्राणं गोधाचर्मनिर्मिताङ्गुलित्राणं याभ्याम्, खड्गवन्तौ खड्गविशिष्टौ महाद्युती परमप्रकाशशिष्टौ चारुवपुषौ अतिसुन्दरशरीरौ अनुयातौ विश्वामित्रानुगन्तारौ श्रिया परस्परशरीरकान्त्या दीप्तौ प्रकाशितौ अनिन्दितौ निन्दाकर्तृत्वाभाववन्तौ पावकी कुमराविव पावकप्रादुर्भूतस्कन्धविशाखसदृशौ कुमारौ भ्रातरौ रामलक्ष्मणौ अचिन्त्यं चिन्तयितुमशक्यं स्थाणुं देवमिव देवशम्भुसदृशं कुशिकपुत्रं विश्वामित्रं शोभयेताम् अशोभयेताम् । अड्विरहः आगमशास्त्रस्यानित्यत्वात् ॥ १।२२।८१० ॥
अध्यर्द्धेति । विश्वामित्रः सरय्वा दक्षिणे तटे अध्यर्धयोजनं सार्द्धयोजनं गत्वा रामेति मधुरां वाणीमभ्यभाषत ॥ १।२२।११ ॥
तद्भाषणमेवाह गृहाणेति । हे वत्स सलिलं त्वं गृहाण आचमनं कुर्वित्यर्थः । तत्र हेतुः कालविपर्ययः अवश्यकर्त्तव्यकालातिक्रमः मा भूत् । तथा अनन्तरं मन्त्रग्रामं बलां बलाख्यामतिबलामतिबलाख्यां विद्यां गृहाण । तथाशब्द आनन्तर्ये ॥ १।२२।१२ ॥
बला ऽतिबलाविद्याप्रभावं वर्णयन्नाह न श्रम इत्यादिभिः । तवानघ तवानां समीपं प्राप्तानां न अघं यस्मात्तत्सम्बोधनं हे तवानघ आश्रितपापनिवर्तक राम अते विद्ययोः प्राप्तौ सत्यां श्रमो न
भ्रमश्च न रूपस्य विपर्ययश्च न नैर्ऋताः राक्षसाः सुप्तं प्रमत्तमनवधानं वा न धर्षयिष्यन्ति पराभवितुं प्रगल्भा भविष्यन्ति । लृडुपात्तकालाविवक्षा “कर्तुरीप्सततमम्” इत्यादाविव । एको वाशब्दश्चार्थे ॥ १।२२।१३ ॥
न बाह्वोरिति । बाह्वोः विद्याधारिजनभुजयोर्वीर्ये सदृशः त्रिषु लोकेषु पृथिव्यां त्रिलोकीस्थाने कश्चन जातो नास्ति न च भविष्यति । अभवदित्यस्याप्युपलक्षणमेतत् । श्लोकद्वयमेकान्वयि । वाशब्दश्चार्थे ॥ १।२२।१४ ॥
तदेव विशदयन्नाह बलामिति । हे राघव हे अनघ यद्यपि लोके प्राकृताप्राकृतजनेषु सौभाग्ये तव समो नास्ति न च भविता । दाक्षिण्ये सामर्थ्यातिशये च समो न ज्ञाने ज्ञापने समो न बुद्धिनिश्चये बुद्धिजन्ये निश्चये समो न ॥ १।२२।१५ ॥
प्रतिवक्तव्ये उत्तरे समो न । तथापि ते तव बलामतिबलां च लब्धे मदुपदेशादपि प्राप्ते एतद्विद्याद्वये अतः अमृतहेतुभूतस्त्वं पथि मार्गे पठ । एतेन स्वमर्यादापालकत्वं स्मरेति प्रार्थना सूचिता । तेन ऋषेः परमधार्मिकत्वं व्यक्तम् । कथमनयोरेतादृशः प्रभाव इत्यत आह यतः बला अतिबला च विद्ये सर्वज्ञानस्य मातरौ हेतू । एवो ऽनुक्तसमुच्चयार्थस्तेन सकलातिशयैश्वर्यहेतुतवसङ्ग्रहः । ऽएतद्विद्याद्वये लब्धे न भवेत्सदृशस्तवऽ इति भट्टपाठः ॥ १।२२।१६ ॥
पाथि पाठस्य फलमाह क्षुदिति । हे राघव नरोत्तमराम पथि बलामतिबलां च पठतः पुरुषस्य ते प्रसिद्धे क्षुत्पिपासे नैव भविष्येते । अत्र प्रकरणे प्रातिभासिको ऽर्थो न युज्यते । “आनन्दरूपममृतं यद्विभाति” ऽयो वेत्ति भौतिकं देहं रामस्य परमात्मनः । स सर्वस्माद्बहिः कार्यः श्रौतस्मार्तविधानतःऽ इत्यादिश्रुतिस्मृतिभिः प्रतिषिद्धभौतिकत्वस्यापत्तेः ॥ १।२२।१७ ॥
विद्याग्रहणे लोकोपकृतिरस्तीत्याह गृहाणेति । हे रघुनन्दन सर्वलोकस्य गुप्तये रक्षायै विद्याद्वयं गृहाण । तत्र हेतुः यतः त्वयि विद्याद्वयमधीयाने सति भुवि सर्वलोके अतुलं यशः । चकारेण प्रतापश्च भविष्यत्येव । अपिरेवार्थे । सर्वलोकस्य गुप्तये इत्यनेन स्वतःसिद्धनित्यसकलपरमकल्याणगुणकस्य सर्वेश्वरेश्वरस्य सर्वविद्यानियन्तुर्विद्यया न प्रयोजनमिति ध्वनितम् ॥ १।२२।१८ ॥
सिंहावलोकनन्यायेन विद्ययोः सर्वविद्याहेतुत्वे कारणं वदन्नाह पितामहेति । हे काकुत्स्थ हे धार्मिक तेजस्समन्विते परमतेजोविशिष्टे एते द्वे विद्ये पितामहसुते ब्रह्मणः पूर्वं प्रादुर्भूते । अतः सदृशः अनयोर्विद्ययोर्योग्यस्त्वमतस्तव तुभ्यं दातुं समर्पयितुं मे मनो ऽस्तीति शेषः । हिर्हेतौ ॥ १।२२।१९ ॥
काममिति । एते विद्याद्वयकार्यत्वेनोक्ता बहुगुणाः वीरे त्वयि कामं यद्यपि सन्ति अत्र संशयो न तथापि तपसा सम्भृते मया तपोबलेन अर्जिते एते द्वे विद्ये बहुरूपे त्वदुपदेशाद्विस्तृते भविष्यतः । अतः इमे विद्ये त्वया ग्रहीतव्ये इत्यर्थः । चकारो यद्यपीत्यर्थे ॥ १।२२।२० ॥
विश्वामित्राज्ञापनानन्तरकालिकं रामवृत्तमाह तत इति । ततः विश्वामित्राज्ञापनानन्तरं प्रहृष्टवदनः प्रसन्नमुखः शुचिः सर्वपवित्रत्वहेतुः रामः जलं स्पृष्ट्वा आचम्येत्यर्थः भावितात्मनः भावितः परिशीलितः आत्मा ईश्वरनियन्ता येन तस्मात् महर्षेस्ते बला ऽतिबले विद्ये जग्राह ॥ १।२२।२१ ॥
विद्येति । विद्यासमुदितो विश्वामित्रोपदिष्टविद्यासंयुक्तः अत एव भूरिविक्रमः विद्याप्रभावं प्रकटयितुं प्रकटीकृतस्वीयबहुप्रतापः रामः शरदि शरत्काले सहस्ररश्मिर्भगवान् दिवाकर इव शुशुमे ॥ १।२२।२२ ॥
गुर्विति । गुरुकार्याणि गुरौ विधेयानि सर्वाणि पादपीडनादीनि कुशिकात्मजे विश्वामित्रे
नियुज्य तां रजनीं तत्र सरय्वां सरयूतीरे त्रयः रामप्रभृतयः ससुखं यथास्यात्तथा ऊषुः ॥ १।२२।२३ ॥
तत्कालस्यापि शोभनत्वं वर्णयन्नाह दशरथेति । अनुचिते गुरुशुश्रूषणमर्यादापालकानां परमोचिते तृणशयने उषिताभ्यां कुशिकसुतवचोनुलालिताभ्यां दशरथनृपसूनुसत्तमाभ्यां रामलक्ष्मणाभ्यां सुखं यथास्यात्तथैव सा विभावरी रात्रिरपि तदा शयनकाले बभौ शुशुभे । इव शब्द एवार्थे ॥ १।२२।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे द्वाविंशः सर्गः ॥ १।२२ ॥