०२१ वसिष्ठवचनाद् रामप्रेषणम्

राजवचनश्रवणानन्तरकालिकं वृत्तमाह तदिति । स्नेहपर्याकुलाक्षरं परमप्रीतिहेतुकसङ्कलिताक्षरविशिष्टं तस्य दशरथस्य तद्रामगमनाभावप्रतिपादकं वचनं श्रुत्वा समन्युः क्रोधविशिष्टः कौशिकः महीपतिं दशरथं प्रत्युवाच ॥ १।२१।१ ॥

तदुक्तिमाह पूर्वमित्यादिभिः । पूर्वमर्थं याचितं प्रतिश्रुत्य दास्यामीति प्रतिज्ञाय प्रतिज्ञां हातुं त्यक्तुं त्वमिच्छसि । अयं प्रतिज्ञात्यागः राघवाणां कुलस्य राघवकुलोद्भवस्य अयुक्तः अनुचितः । तत्र हेतुः यतः प्रतिज्ञात्यागादस्य तव विपर्ययः मिथ्यावादित्वं स्यात् । एतेन सत्यवादिकुले ऽयं मिथ्यावादी उत्पन्नः इति तवाकीर्तिर्भवितेति सूचितम् । तेन ऽसम्भावितस्य चाकीर्तिर्मरणादतिरिच्यतेऽ इत्यादिन्यायेनातिदुःखं भवितेति बोधितम् ॥ १।२१।२ ॥

यदीति । हे राजन् यदीदमकीर्त्तिजनितं दुःखं ते तव क्षमं सह्यं तर्हि यथागतमागतमनतिक्रम्य गमिष्यामि । राममगृहीत्वैव स्वाश्रमं यास्यामीत्यर्थः । हे काकुत्स्थ मिथ्याप्रतिज्ञः सबान्धवः बान्धवसहितः सुखी भव । एतेन सत्यप्रतिज्ञत्वत्यागे ते दुःखमेव भविष्यतीति ध्वनितम् । तेन रामं देहीति बोधितम् ॥ १।२१।३ ॥

तस्येति । रोषपरीतस्य क्रोधयुक्तस्य धीमतः धैर्यविशिष्टस्य विश्वामित्रस्य कृत्स्ना निखिला वसुधा पृथिवी चचाल चकम्पे । अत एव सुरान्भयं विवेश । एतेन विश्वामित्रस्य प्रभावातिशयः सूचितः । तेनास्मन्मित्रीभूतदशरथोपरि कोपे ऽस्मदुपरि अपि विश्वामित्रकोपो भविष्यतीति देवभये हेतुः सूचितः । चशब्दो हेत्वर्थे । पृथिव्याः कम्पनं पृथिव्यभिमानिदेवभियेति बोध्यम् । धीमत इत्यनेन राज्ञे भयदानार्थमेव कोपवत्ताप्रीतिः, नतु वास्तवः कोप इति ध्वनितम् ॥ १।२१।४ ॥

त्रस्तेति । महान् ईश्वरेश्वरपूज्यः ऋषिः सर्वज्ञः सुव्रतः ईश्वरेश्वररामोपदेशरूपव्रतविशिष्टः धीरः निश्चलचित्तः स वसिष्ठः सर्वं जगत् त्रस्तरूपं विज्ञाय वाक्यमब्रवीत् ॥ १।२१।५ ॥

तद्वाक्यमेवाह इक्ष्वाकूणामित्यादिभिः । इक्ष्वाकूणां कुले जातः प्रादुर्भूतः, अत एव अपरः सर्वश्रेष्ठः साक्षात् प्रत्यक्षो धर्म इव, धृतिमान् धैर्यविशिष्टः, अत एव सुव्रतः अत्यक्तव्यसङ्कल्पविशिष्टः सत्यप्रतिज्ञ इत्यर्थः अत एव श्रीमान् सर्वसम्पत्तिविशिष्टः त्वं धर्मं नित्यसत्यप्रतिज्ञत्वरूपं स्वस्वभावं हातुं त्यक्तुं नार्हसि योग्योसि । धर्माधिक्यं बोधयितुं तत्तया निर्देशः ॥ १।२१।६ ॥

निषेधमुखेन धर्मः स्वीकर्त्तव्य इत्युक्त्वा एव तदत्र विधिमुखेनाह त्रिष्विति । त्रिषु ऊर्ध्वाधोमध्येषु लोकेषु धर्मात्मा इति विख्यातः राघवः रघुकुलप्रादुर्भूतः स्वधर्मं नित्यसत्यप्रतिज्ञत्वरूपं स्वस्वभावं प्रतिपद्यस्व संस्मर । अतः अधर्मं नित्यसत्यप्रतिज्ञत्वरूपस्वस्वभावविरोधिस्वभावं वोढुमङ्गीकर्त्तुं नार्हसि ॥ १।२१।७ ॥

संश्रुत्येति । हे राघव रघुकुलप्रादुर्भूत दशरथ एवं करिष्यामीति संश्रुत्य प्रतिज्ञाय अकुर्वाणस्य प्रतिज्ञातार्थमकुर्वतस्तव इष्टापूर्त्तवधः इष्टमश्वमेधपर्यन्तयागः आपूर्त्तं वापीकूपतडागादिनिर्माणं तयोर्वधः निष्फलत्वं भूयात्स्यात् । तस्मान्निष्फलत्वभयाद्रामं विसर्जय प्रेषय । ऽप्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतःऽ इति भट्टसम्मतः पाठः । करिष्येति सन्धिरार्ष इति तैरुक्तम् ॥ १।२१।८ ॥

रामदानावश्यकत्वमुक्त्वा रामो राक्षसान् जेतेति बोधयन्नाह कृतास्त्रमिति । कृतास्त्रं शिक्षितास्त्रोपलक्षितास्त्रशस्त्रमकृतास्त्रं वा कुशिकपुत्रेण विश्वामित्रेण गुप्तं

रक्षितमेनं रामं स्ववशीकर्त्तुमिति शेषः । राक्षसाः न शक्ष्यन्ति । तत्र दृष्टान्तः ज्वलनेनाग्निचक्रेण गुप्तममृतं यथा अमृतस्य अग्निचक्ररक्षितत्वं भारते व्यक्तम् । कृतास्त्रमकृतास्त्रं वेत्यनेन रामस्य नित्यकृतास्त्रत्वं ध्वनितम् ॥ १।२१।९ ॥

विश्वामित्रकोपाभासनिवृत्तये तन्माहात्म्यं बोधयन्नाह एष इत्यादिभिः । एषः विश्वामित्रः विग्रहवान् शरीरधारी धर्मः, एषः वीर्यवतां वरः श्रेष्ठः, एषः विद्याधिकः, तपसः परायणं च । एतेन सर्वऋषिभ्यः अयं विशेषऋषिरिति व्यतिरेकालङ्कारो व्यक्तः ॥ १।२१।१० ॥

एष इति । सचराचरे चराचरसहिते त्रैलोक्ये विविधानस्त्रान् एषः विश्वामित्रो वेत्ति । अन्यः मदतिरिक्तः पुमान् एवं वर्णितगुणविशिष्टं न वेत्ति । अत एव न केचन वेत्स्यन्ति । आगमशास्त्रस्यानित्यत्वादिडभावः । चो हेतौ । अस्त्रानिति लिङ्गव्यत्यय आर्षः । किञ्च एनं विश्वामित्रज्ञानविषयीभूतास्त्रशस्त्रसमूहमन्यो विश्वामित्रभिन्नः पुमान् न वेत्ति । अन्यत्समानम् ॥ १।२१।११ ॥

वेदनकर्त्तृत्वाभाववतः विशिष्य बोधयन्नाह नेति । देवादयो न विदन्तीत्यर्थः । नर्षय इति पाठान्तरम् ॥ १।२१।१२ ॥

विश्वामित्रस्य देवाद्यवेद्यशस्त्रादिवेदितृत्वे कारणं बोधयन्नाह सर्वास्त्राणीति । सर्वास्त्राणि

परमधार्मिकाः अधर्मसंसर्गशून्याः कृशाश्वस्य प्रजापतेः पुत्राः पुत्रत्वं प्राप्तास्ते सर्वे यदायं विश्वामित्रो राज्यं प्रशासति तदा कौशिकाय विश्वामित्राय पुरा पूर्वं प्रथममित्यर्थः, दत्ताः शिवेनेति शेषः । प्रथमं विश्वामित्राय दत्ता इत्यनेन तत्काले तद्देवाद्यविद्यमानत्वं ध्वनितम् । तेन ऋषेः परममहत्वं व्यक्तम् । गणकार्यस्यानित्यत्वात् शपो लुगभावः ॥ १।२१।१३ ॥

ऋषिमहत्त्वद्योतनाय तदस्त्राणां महत्वं द्योतयन्नाह ते ऽपीति । नैकरूपाः विलक्षणानेकरूपविशिष्टाः महावीर्याः परमपराक्रमवन्तः दीप्तिमन्तः अतिप्रकाशविशिष्टाः अत एव जयावहाः विजयप्रापकाः प्रजापतिसुतासुताः प्रजापतेर्दक्षस्य ये सुते कन्ये तयोः सुताः प्रादुर्भूताः शस्त्रास्त्रसमूहाः कृशाश्वस्य प्रजापतेः पुत्राः आसन्निति शेषः । अपिर्हेतौ ॥ १।२१।१४ ॥

अस्त्रसङ्ख्यां तन्मातृनाम च बोधयन्नाह जयेति । सुमध्यमे दक्षकन्ये जया सुप्रभा च परमभास्वरमतिप्रकाशविशिष्टशतमस्त्राणि शस्त्राणि च सुवाते । वर्त्तमानसामीप्ये इति भूते लट् । परमभास्वरमित्येकवचनं शतापेक्षया ॥ १।२१।१५ ॥

विभज्य तत्तत्सुतान्प्रदर्शयन्नाह पञ्चाशतमिति द्वाभ्याम् । असुरसैन्यानां वधाय वरान् श्रेष्ठानमेयानपरिमेयप्रभावान् कामरूपिणः अभीप्सितरूपधारणसमर्थान् पञ्चाशतं सुतान् जयानाम दक्षकन्या पुरा पूर्वं लेभे । ऽअप्रमेयानरूपिणःऽ इति भट्टसम्मतः पाठः ॥ १।२१।१६ ॥

सुप्रभेति । दुर्धर्षानतिप्रगल्भान्दुराक्रमान् शत्रुभिः पराभवितुमशक्यान्बलीयसः अतिबलविशिष्टान् संहारान्नाम पञ्चाशतं सुतान् पुनः अनन्तरमेव सुप्रभापि दक्षसुता अजनयत । अपिशब्द एवार्थे । संहारानिति अन्वर्थसञ्ज्ञया असुरसंहारार्थमेतेषामपि जन्मेति ध्वनितम् ॥ १।२१।१७ ॥

तानिति । धर्मविदेषः कुशिकात्मजः विश्वामित्रः तानि शतमस्त्राणि यथावद्वेत्ति एव । चकारेण अन्यान्यपि दिव्यान्यस्त्राणि वेत्ति । अपूर्वाणां विलक्षणास्त्राणां जनने उत्पादने भूयोत्यन्तं शक्तः समर्थश्च ॥ १।२१।१८ ॥

तत्प्रभाववर्णनमुपसंहरन्नाह तेनेति । हे राघव मुनिमुख्यस्य सर्वज्ञस्य अत एव महात्मनः सर्वपूज्यस्वरूपस्यास्य विश्वामित्रस्य तेन हेतुना भूतं भूतकालकं भव्यं भविष्यत्कालकं च किञ्चिदविदितं नैव अपिरेवार्थे क्रियाविशेषणं वा ॥ १।२१।१९ ॥

(कालिकमिति भाति ।)

एवमिति । हे राजन् । महायशाः महातेजाः विश्वामित्रः यतः एवंवीर्यः वर्णितप्रभावविशिष्टः ततः रामगमने रामप्रेषणे संशयं गन्तुं प्राप्तुं त्वं नार्हसि ॥ १।२१।२० ॥

इदानीं त्वदनुग्रहार्थमेव एतदागमनमिति बोधयन्नाह तेषामिति । कुशिकात्मजः विश्वामित्रः यद्यपि तेषां राक्षसानां निग्रहणे स्वयं शक्तः समर्थस्तथापि तव पुत्रहितार्थाय त्वामुपेत्य प्राप्य अभियाचते । चशब्दो यद्यपीत्यर्थे । पुत्रहितार्थायेत्युक्त्या सकलां स्वविद्यामस्मै समर्पयितेति ध्वनितम् ॥ १।२१।२१ ॥

इतीति । इत्यनेन प्रकारेण मुनिवचनाद्वसिष्ठोक्त्या प्रसन्नचित्तः अत एव भास्वरः अतिप्रभाविशिष्टः प्रथितयशा अतियशस्वी रघुवृषभः रघुकुलश्रेष्ठः मुमोद मुमुदे । अत एव कुशिकात्मजाय कुशिकात्मजं प्रसादयितुं राघवस्य रामस्य गमनं बुद्ध्या अभिरुरोच स्वीचकार ॥ १।२१।२२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ एकविंशः सर्गः ॥ २१ ॥