०२० दशरथविज्ञापना

तदिति । विश्वामित्रस्य तत् प्रसिद्धं भाषितं श्रुत्वा मुहूर्तं निस्सञ्ज्ञः सञ्ज्ञानरहित एव राजशार्दूलः राजश्रेष्ठः दशरथः सञ्ज्ञावान् प्राप्तपुनःसञ्ज्ञानः सन् इदं वक्ष्यमाणं वचनमब्रवीत् । इवशब्द एवार्थे ॥ १।२०।१ ॥

तद्वचनमेवाह ऊनेत्यादिभिः । राजीवलोचनः कमलायतनयनः मे रामः ऊनषोडशवर्षः ऊनः अभावप्रतियोगी षोडशः षोडशानां सङ्ख्यापूरको वर्षो यस्य, पञ्चदशवार्षिक इत्यर्थः । किञ्च ऊनयति स्वाधिकवयस्कमपि न्यूनयति स एव स इति कर्मधारयः । किञ्च ऊनयति स्वतपसा सर्वान् न्यूनीकरोतीत्यूनो विश्वामित्रः, तत्सम्बोधनम् । अत्रान्तिमपक्षद्वये षोडशशब्दः

प्रारम्भविषयीभूतषोडशसङ्ख्यापूरकवर्षपरः । अपूर्णषोडशवर्षक इत्यर्थः । अतः अस्य बालस्य राक्षसैः सह युद्धयोग्यतां न पश्यामि । अत्र ऊनषोडशवर्षो मे इत्युक्त्या विश्वामित्रसहगमनसमये रामस्य षोडशो वर्षं प्रविष्ट इति फलितम् । तस्मिन्नेव वर्षे रामसीताविवाहस्य प्रसिद्धत्वेन षोडशवार्षिकस्य रामस्य विवाह इति सिद्धम् । ऽसमा द्वादश तत्राहं राघवस्य निवेशनेऽ इति रावणं प्रति वक्ष्यमाणसीतावचनाद्विवाहानन्तरं द्वादशवर्षपर्यन्तं राघवनिकेते सीतानिवासः ततो वनप्रस्थानमिति वनगमनसमये ऽष्टाविशंतिवर्षको राम इति निष्पन्नम् । एतदनुरोधेन ऽदश सप्त च वर्षाणि जातस्य तव पुत्रकऽ इति कौसल्योक्तिपद्यघटकीभूतदशशब्दस्यैकशेषेण विंशतिरर्थः । चशब्दस्य चन्द्रवाचकत्वेनैकत्वलाभः । तथा च दश सप्त च युक्तान्येव वर्षाणीत्यष्टाविंशतिलाभः । ऽचश्चण्डीशे पुमानुक्तः कच्छपे चन्द्रचौरयोःऽ इति मेदिनी । ऽमम भर्ता महातेजा वयसा पञ्चविंशकःऽ इत्यपि न विरुद्धम् । पञ्चविंशयुक्ताः कास्त्रयो यस्येति तदर्थात् कशब्दस्य वह्निवाचकत्वेन त्रित्वलाभः । कशब्दस्य वह्निवाचकत्वं तु ऽकः प्रजापतिरुद्दिष्टः को ऽर्कवाय्वनलेष्वितिऽ कोशादवगन्तव्यम् । ऽऊनद्वादशवर्षोयमकृतास्त्रश्च राघवःऽ इति मारीचपद्यघटकद्विशब्देनैकशेषात् षड्लाभस्तेनोनषोडशवार्षिक इत्यर्थः सम्पन्नः । अत एव ऊनषोडशवर्षोयमिति भट्टोक्तपाठान्तरेण न विरोधः । किञ्च ऽमम भर्ता महातेजा वयसा पञ्चविंशकःऽ इति श्रुतानुरोधात् ऽऊनषोडशवर्षो मेऽ इत्येतद्घटकीभूतोनशब्देन पादोनं गृह्यते । तेन तस्मिन्समये रामस्य द्वादशवार्षिकत्वं फलितम् । ततस्त्रयोदशे वर्षे विवाहः । अत एव मारीचवचनं सानुकूलम् । एवं चोक्तदिशा वनप्रवेशसमये रामस्य पञ्चविंशतिवार्षिकत्वं सिद्धम् । दश सप्त च वर्षाणीत्यत्र सप्तशब्दस्यैवैकशेषेण चतुर्दशलाभ इति न विरोधः । उपनयनादिप्रभृतिवर्षव्यवस्थापनया भूषणादिव्याख्यानं तु चिन्त्यमेव । लोके अप्रसिद्धेः । क्वचिज्जन्मप्रभृतिवर्षपरिगणनम्, क्वचिदुपनयनात् परिगणनमित्यत्र विनिगमनाविरहाच्चेति दिक् । न चेह कस्मान्न भवति एकश्च एकश्च द्वावित्यर्थः । द्वौ च द्वौ च चत्वार इत्यर्थ इति प्रश्ने “सङ्ख्याया अर्थासम्प्रत्ययात् अन्यपदार्थत्वाच्च नैकशेषः” इति सरूपसूत्रस्थभाष्यं विरुध्येतेति वाच्यम् । यत्तावदुच्यते “सङ्ख्याया अर्थासम्प्रत्ययात्” इति । अर्थासम्प्रत्यये ऽपि हि सति एकशेषो भवति । तद्यथा गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ न चोच्यते वृद्धयुवानाविति भवति चैकशेषः । यदप्युच्यते अन्यपदार्थत्वाच्चेति । अन्यपदार्थेप्येकशेषो भवति । तद्यथा “विंशतिश्च विंशतिश्च विंशती चत्वारिंशदित्यर्थः” इति भाष्येण हेतोर्बाधितत्वात् नहि हेतोर्बाधितत्वे साध्यसिद्धिः क्वचिद्दृष्टा । अत एव ह्रदो वह्निमान् धूमादित्यादावनुमितिर्नोत्पद्यते धूमादेर्बाधितत्वात् । नहि विंशती एकौ इत्यनयोर्वैलक्षण्यमुपलभ्यते ऽएकादिदशान्तसङ्ख्यावाचिनामेकशेषद्वन्द्वावनभिधानान्न भवतःऽ इति शेखरग्रन्थस्तु प्रचुरतरप्रयोगदर्शनाभावमूलकः । अत एव एकद्वित्रिमात्राणां क्रमेण प्रश्लेषनिर्देशो व्याख्यानादित्यादौ न क्लेशकल्पनेति दिक् ॥ १।२०।२ ॥

इयमिति । यस्य यस्याः सेनायाः अहं पतिः पालकः ईश्वरो नियन्ता सा इयमक्षौहिणी सेना अस्तीति शेषः । अनया सेनया सहितः युक्तो ऽहं गत्वा तैर्भवद्यज्ञविघ्नकारकैर्निशाचरैः सह योद्धा युद्धं कर्तास्मीति शेषः। एतेन रामगमनस्य न प्रयोजनमिति ध्वनितम् । तेन रामो भवता न नेतव्य इति राजप्रार्थना सूचिता । यस्येति ऽसामान्ये नपुंसकम्ऽ । अत एव संहितायां नार्षकल्पना । अक्षौहिणीस्वरूपं तु ऽएको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ पत्तिं तु त्रिगुणामेकं विदुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥ चमूस्तु पृतनास्तिस्रश्चम्वस्तिस्रस्त्वनीकिनी ॥ अनीकिनीदशगुणं प्राहुरक्षौहिणीं बुधाःऽ इति

भारतादिपर्वणो ऽवगन्तव्यम् ॥ १।२०।३ ॥

इमे इति । शूराः शौर्यविशिष्टाः विक्रान्ताः पराक्रमवन्तः अस्त्रविशारदाः अस्त्रोपलक्षितास्त्रशस्त्रनिपुणाः इमे भवन्निकटे स्थिता मे भृत्या एव रक्षोगणैः योद्धुं योग्याः । सुकुमारत्वात् न राम इत्यर्थः । अतो रामं नेतुं त्वं नार्हसि । च शब्द एवार्थे ॥ १।२०।४ ॥

अहमिति । यावत्कालं प्राणान्धरिष्यामि तावत्कालं धनुष्पाणिरहमेव गोप्ता ते यज्ञस्य स्यामिति शेषः । कथं गोप्तासीत्यत आह समरमूर्धनि निशाचरैः विघ्नकारकराक्षसैः सह योत्स्ये । यदा यदा राक्षसभीतिः भवन्तं प्राप्स्यति तदा तदा तत्र गत्वा निशाचरान्हत्वा यज्ञं रक्षितास्मीत्यर्थः ॥ १।२०।५ ॥

निर्विघ्नेति । सुरक्षिता मयात्यन्तं पालिता, अत एव निर्विघ्ना सा भवत्कर्तृका व्रतचर्या भविष्यति, अतः तत्र भवद्यागनिकटे अहं गमिष्यामि, अतः रामं नेतुं नार्हसि ॥ १।२०।६ ॥

रामगमनायोग्यत्वं विशदयन्नाह बाल इत्यादिभिः । बालः ऊनषोडशवार्षिकः, अत एव अकृतविद्यः न कृता गुरूपदेशप्राप्त्या प्रकटिता विद्या येन, अत एव न अस्त्रविद्यासंयुक्तः अस्त्रोपलक्षितगुरूपदिष्टास्त्रशस्त्रादिज्ञानविशिष्टो न, अत एव न युद्धविशारदः गुरूपदिष्टयुद्धनैपुण्यविशिष्टश्च न, अत एव बलाबलं न वेत्ति गणयति । हिश्चत्रयं च हेतौ । एतेन रामनयनमयुक्तमिति ध्वनितम् । अत एव ऽसर्वे वेदविदः शूराःऽ, ऽसर्वे ज्ञानोपसम्पन्नाःऽ इति पूर्वोक्तो न विरोधः ॥ १।२०।७ ॥

ननु शिक्षयित्वा यागशालां नेष्यामि इत्यत आह नचेति । असौ रामः रक्षसां योग्यो न च । राक्षसैर्योद्धुं नैवार्हतीत्यर्थः । तत्र हेतुः हि यतः राक्षसाः कूटयुद्धाः कपटयुद्धकर्त्तारः । रामो न नेतव्य इत्यत्र हेत्वन्तरमाह हे मुनिशार्दूल मुनिश्रेष्ठ रामेण विप्रयुक्तो विश्लिष्टः अहं जीवितुं मुहूर्तमपि नोत्सहे न समर्थो ऽस्मि । तस्माद्रामं नेतुं त्वं नार्हसि । एतेन स्वगमनेच्छा ऽपि रामेण सहैवेति सूचितम् । सार्धश्लोक एकान्वयी चशब्द एवार्थे ॥ १।२०।८ ॥

तदेव स्पष्टमाह यदीति । हे ब्रह्मन् हे सुव्रत यदि राघवं रामं नेतुमिच्छस्येव तर्हि चतुरङ्गसमायुक्तं साङ्गसेनायुक्तं मया च सहितं रामं नय स्वाश्रमं प्रापय । वाशब्द एवार्थे ॥ १।२०।९ ॥

रामविश्लेषासहिष्णुत्वे कारणं बोधयन्नाह षष्टिरिति । हे कौशिक जातस्य इह प्रादुर्भूतस्य मम वर्षसहस्राणि षष्टिर्व्यतीतानि । अनन्तरं दुःखेन दुःखसाध्ययत्नेन अयं राम उत्पादितः प्रादुर्भावितस्तस्माद्रामं नेतुं त्वं नार्हसि । चो ऽनन्तरार्थे । कृच्छ्रेणोत्पादित इति भ्ाट्टसम्मतः पाठः ॥ १।२०।१० ॥

चतुर्णामिति । चतुर्णामात्मजानां मध्ये ज्येष्ठे इति शेषः । मे मम प्रीतिः परमिका अत्यधिका, अतः ज्येष्ठं प्रथमं प्रादुर्भूतं धर्मप्रधानं धर्मरक्षकं रामं नेतुं त्वं नैवार्हसि । चशब्द एवार्थे हिशब्दो हेत्वर्थे । ऽज्येष्ठे धर्मप्रधाने चऽ इति भट्टसम्मतः पाठः ॥ १।२०।११ ॥

वस्तुतस्तु धर्मयुद्धकर्तृभिरस्माभिः कपटयुद्धकर्तारो राक्षसाः निवारयितुमशक्या इति तत्रास्मद्गमनं निरर्थकमिति मनसि निश्चित्य तदेव मुनिवचनेन द्रढयितुं योद्धव्यस्वरूपं पृच्छति किंवीर्या इत्यादिभिः । हे मुनिपुङ्गव ते भवद्यज्ञविघ्नकर्तारो राक्षसाः किंवीर्याः कीदृक्वीर्यविशिष्टा इत्यर्थः । कस्य पुत्राश्च ते के च । किन्नामान इत्यर्थः । कथंप्रमाणाः कीदृक्प्रमाणविशिष्टाश्च एतान् राक्षसान् के रक्षन्ति च ॥ १।२०।१२ ॥

कथमिति । हे ब्रह्मन् कूटयोधिनां तेषां रक्ष्ासां रामेण वा मामकैः बलैः सैन्यैर्वा मया वा कथं

प्रतिकर्तव्यम् । शान्तिर्विधेया इत्यर्थः । वार्थश्चकारः ॥ १।२०।१३ ॥

सर्वमिति । हे भगवन् वीर्योत्सिक्ताः ये राक्षसाः तेषां दुष्टभावानां निषिद्धविचारशीलानां रणे मया कथं केन प्रकारेण स्थातव्यम् इति सर्वं मे मह्यं शंस कथय । एतेन तस्य युद्धोत्साहराहित्यं सूचितम् । तेन तस्य वात्सल्यरसमग्नत्वं व्यक्तम् । तेन वीररसाद्वात्सल्यरसस्याधिक्यं सूचितम् ॥ १।२०।१४ ॥

तस्येति । तस्य राज्ञः तत्प्रसिद्धं वचनं श्रुत्वा विश्वामित्रः अभ्यभाषत । तदुक्तिमेवाह पौलस्त्यवंशप्रभवः रावणो नाम राक्षसो ऽस्तीति शेषः ॥ १।२०।१५ ॥

स इति । महाबलः महासैन्यस्वामी महावीर्यः महापराक्रमः, अत एव बहुभिः राक्षसैर्वृतः ब्रह्मणा दत्तः वरः यस्मै स रावणः त्रैलोक्यं भृशं बाधते । एतेन त्रैलोक्यान्तःपातित्वात्स्वयज्ञस्यापि विघ्नकर्ता रावण इति ध्वनितम् ॥ १।२०।१६ ॥

श्रूयते इति । महावीर्यः साक्षादौरसः विश्रवसः मुनेः । हि यतः पुत्रः अत एव वैश्रवणभ्राता यः रावणो नाम राक्षसः श्रूयते स महाबलः महासेनावान् यदा यज्ञस्य साक्षान्नैव विघ्नकर्ता तदैव तेनैव रावणेन सञ्चोदितौ महाबलौ तौ प्रसिद्धौ मारीचः सुबाहुश्च राक्षसौ एव यज्ञविघ्नं करिष्यतः कुरुतः । खलुशब्दः साक्षादर्थे वैतुचशब्दाः एवार्थकाः । सार्द्धश्लोकद्वयमेकान्वयि ॥ १।२०।१७१८ ॥

इतीति । तेन प्रसिद्धेन मुनिना रामनयनयत्नशीलेन विश्वामित्रेण इति अनेन प्रकारेण उक्तः राजा महाराजाधिराजस्तदा तस्मिन्काले एव मुनिमुवाच । तदुक्तिमाह दुरात्मनः दुष्टस्वभावस्य दुर्ज्ञेयप्रयत्नस्य वा तस्य राक्षसस्य सङ्ग्रामे स्थातुं नैव शक्तः अस्मि । एतेन वीररसस्य वात्सल्यरसविरोधित्वं सूचितम् तेन तत्सदृशवात्सल्यरसवान्स एवेत्यनन्वयालङ्कारः सूचितः ॥ १।२०।१९ ॥

स इति । हे धर्मज्ञ अल्पभाग्यस्य अल्पात् अल्पकालतः प्राप्तं भाग्यं प्रकटपुत्रप्राप्तिरूपं यस्य तस्य मम दैवतं देवता गुरुश्च यतो भवान्, अतः सः प्रसिद्धस्त्वं मम पुत्रके प्रसादं कुरुष्वैव । हिर्हेतौ ॥ १।२०।२० ॥

स्वाशक्तत्वे हेतुमाह देवेति । युधि युद्धे रावणं सोढुं यदि देवादयो न शक्तास्तर्हि मानवा न शक्ताः इति किं वक्तव्यम् । पुनरिति यद्यर्थे । एतेन काव्यार्थापत्त्यलङ्कारेण सामान्याभावे विशेषाभावस्य निश्चितत्वेन यदि सर्वे न शक्तास्तर्हि अहं न शक्त इति किंवक्तव्यमिति काव्यार्थापत्त्यलङ्कारो ध्वनितः । तेन ब्रह्मणा दत्तवर इति विश्वामित्रसामान्योक्त्या सर्वावध्यत्वं रावणस्येति राज्ञा निश्चितमिति वस्तु व्यक्तम् ॥ १।२०।२१ ॥

तदेव विशदयन्नाह स इति । हे मुनिश्रेष्ठ हे ब्रह्मन् राक्षसः प्राप्तराक्षसस्वभावः स प्रसिद्धो रावणः युधि वीर्यवतां वीर्यमादत्ते गृह्णाति एव । अतस्तेन रावणेन तस्य बलैः सैन्यैर्वा संयोद्धुं ममात्मजैः स्वभावजनितैः अयोद्धव्ययोधनादिक्षात्रधर्मैरुपलक्षितो ऽहमेकाकी वा सबलः ससैन्यो वा अहं कथमपि न शक्तोस्मि । एतेन स्वगमनानर्हत्वं सूचितम् । अतः अमरप्रख्यं देवविशेषवत्प्रतीयमानं सङ्ग्रामाणामकोविदं गुरूपदिष्टसङ्ग्रामविषयकज्ञानाभाववन्तम्, अत एव बालमतनयमतमयोध्याविशेषशोभावलोकनार्थं मत्सततगमनं नयति प्रापयति तम् । अत एव पुत्रकमित्यनेन न गतार्थता । पुत्रकमनुकम्पितसुतं नैव दास्यामि । सार्धश्लोकद्वयमेकान्वयि । चशब्दो हेत्वर्थे । हिशब्द एवार्थे । सत्वितिभट्टपाठः । सबल इत्यत्रापि अहमित्यनुकृष्यते । एतेन मारीचसुबाहुपराभवं श्रुत्वा रावणो ध्रुवं तत्रागन्तेति तस्याप्यस्मदादिकर्तृकवधे ब्रह्मानादरः स्यादिति राज्ञो विचारः सूचितः । तेन तस्य मर्यादापालकत्वं सूचितम् ॥ १।२०।२२२३ ॥

तदेवोपसंहरन्नाह अथेति । युद्धे कालोपमौ कालसदृशौ सुन्दोपसुन्दयोः सुतौ तौ मारीचसुबाहू यतस्ते यज्ञविघ्नकरौ अतः ते तुभ्यं सुतमहं नैव दास्यामि । अथशब्दो हेत्वर्थे । एतेन ऽविवाहश्च विवादश्च समयोरेव शस्यतेऽ इति न्यायादतिकठोराङ्गकातिक्रूरचेष्टितराक्षसाभ्यां साकमतिकोमलाङ्गसकारणक्रूरतासंसर्गशून्यमत्सुतस्य युद्धमन्याय्यमिति राज्ञो विचारः सूचितः ॥ १।२०।२४ ॥

ताविति । दैत्यकुलोद्धहौ अत एव वीर्यवन्तौ सुशिक्षितौ शोभनशिक्षायुक्तौ तौ प्रसिद्धौ यक्षस्य कन्यायां जातौ चकारेणागस्त्यशापेन राक्षसत्वं प्राप्तौ यौ मारीचः सुबाहुश्च तयोः सम्बन्धिनमन्यतरमन्यो भिन्नः तरः पराभूतिकारी च स एव स इति कर्मधारयः, तं सम्भावितभवदरिमित्यर्थः योद्धुं ससुहृद्गणः सुहृद्गणसहितः अहं यास्यामि । एतेन मारीचसुबाहू योद्धुं न यास्यामीति व्यञ्जितम् । राक्षसत्वं प्राप्तावित्यनेन ब्रह्मप्राप्तवररावणसम्बन्धः सूचितः । तेन तत्र गमनाभावे हेतुर्व्यक्तः । यक्षस्य कन्यायां जातावित्यनेन तयोर्यक्षत्वं फलितम् । तेन यक्षा न हन्तव्या इति ध्रुवं प्रति मनूक्तेः स्मरणं राज्ञो जातमिति ध्वनितम् । तेनापि तयोर्हनने मन्वनादरः स्यादिति गमनाभावे हेतुर्बोधितः । अन्यथा ताभ्यां युद्धमन्तरापि अस्मदादिगमनस्यावश्यकत्वे सहबान्धवः बान्धवसहितः अहं भवन्तमनुनेष्याम्येव भवद्भिः सह गमिष्याम्येवेत्यर्थः ॥ १।२०।२५२६ ॥

इतीति । द्विजेन्द्रं द्विजश्रेष्ठं कुशिकसुतं विश्वामित्रमित्यनेन प्रकारेण नरपतिजल्पनात् राजभाषणात् सुमहानतिप्रवृद्धः मन्युः कोपः विवेश । अतः समिद्भिः सुहुत आज्यसिक्तः, अत एव उज्ज्वलितः प्रदीप्तो वह्निरिव महर्षिवह्निः समभवत् । वह्निरित्यध्याहृतम् ॥ १।२०।२७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे विंशः सर्गः ॥ २० ॥