राज्ञः वचनश्रवणानन्तरं विश्वामित्रोक्तिं वर्णयन्नाह तदित्यादिभिः । अद्भुतत्वसमानाधिकरणविस्तरत्वविशिष्टमित्यर्थः । राजसिंहस्य महाराजाधिराजदशरथस्य तत्प्रसिद्धं वाक्यं श्रुत्वा हृष्टं रोम यस्य हृष्टरोमा महातेजाः पारमतेजस्वी विश्वामित्रो ऽभ्यभाषत ॥ १।१९।१ ॥
तद्भाषणाकारमाह सदृशमिति । हे राजशार्दूल तवैतद्वचः भुवि पृथिव्यां महाकुलप्रसूतस्य प्रशस्तकुलप्रादुर्भूतस्य वसिष्ठव्यपदेशिनः वसिष्ठकृतोपदेशविशिष्टस्य तव सदृशं त्वदनुरूपं न अन्यथा अननुरूपं न ॥ १।१९।२ ॥
यदिति । हे राजशार्दूल राजश्रेष्ठ वाक्यं वक्तव्यं वाचा ज्ञाप्यं कार्यं यन्मे हृद्गतं तस्य कार्यस्य निश्चयमवश्यमहं करिष्यामीत्यध्यवसायं कुरुष्व । तस्मात्सत्यप्रतिश्रवः सत्यप्रतिज्ञस्त्वं भव ॥ १।१९।३ ॥
कार्यं बोधयन्नाह अहमिति । हे पुरुषर्षभ सिद्ध्यर्थं स्वाभीष्टसिद्धये अहं नियमं यागदीक्षामातिष्ठे । तस्य नियमस्य विघ्नकरौ कामरूपिणौ द्वौ राक्ष्ासौ स्तः । तुशब्दस्तदनुयायिराक्षससङ्ग्रहार्थः विध्यर्थमिति भट्टपाठः ॥ १।१९।४ ॥
विघ्नकरणप्रकारमाह व्रते इति सार्धश्लोकद्वयेन । व्रते यागनिश्चये बहुशश्चीर्णे प्रवृत्ते सति समाप्त्यां तु यागसमाप्तिकाले वा वीर्यवन्तौ अतिशयपराक्रमविशिष्टौ सुशिक्षितौ अतिशिक्षाविशिष्टौ तौ तस्करप्रायौ इमौ प्रसिद्धौ मारीचः सुबाहुश्च राक्षसौ तां यागसम्बन्धिनीं वेदीं मांसरुधिरौघेण मांसरुधिरसमूहेन अभ्यवर्षताम् । चकारान्तरं मूत्रादिसङ्ग्राहकम् ॥ १।१९।५ ॥
अवधूते इति । तस्मिन्यागे अवधूते राक्षसाभ्यां विनाशिते सति, अत एव नियमनिश्चये व्रतसङ्कल्पे तथाभूते विनाशिते सति, कृतः श्रमो येन श्रममात्रफलक इत्यर्थः अत एव निरुत्साहः उत्साहरहितो ऽहं तस्मात् देशादपाक्रमे इहागतो ऽस्मि ॥ १।१९।६ ॥
ननु समर्थैर्भवद्भिः शापेन कुतो न प्रध्वंसितावित्यत आह न चेति । हे पार्थिव क्रोधं क्रोधहेतुकं शापमुत्स्रष्टुं दातुं बुद्धिर्न भवति । तत्र हेतुः सा प्रसिद्धा चर्या तपश्चरणं तथाभूता शापदानानर्हा । अतः तत्र मारीचसुबाह्वोः शापो न मुच्यते अमुच्यत । “वर्तमानसामीप्ये” इति सूत्रविहितो ऽत्र लट् । किञ्च क्रोधमुत्स्रष्टुं कर्तुं बुद्धिर्न भवति । तत्र हेतुः सा चर्या तथाभूता क्रोधानर्हा । अत एव शापस्तत्र न मुच्यते शापहेतुभूतस्य क्रोधस्याभावात्ताभ्यां शापो न दत्तः । अन्यत्समानम् । हिर्हेतौ ॥ १।१९।७ ॥
ननु कथं तयोः शान्तिरित्यत आह स्वपुत्रमिति । हे राजशार्दूल सत्यपराक्रमं कापट्यसंसर्गरहितपराक्रमविशिष्टं काकपक्षधरं बालानां कपोलसमीपवर्तिशिखा काकपक्षः तं धरति स तं, शूरं शौर्यविशिष्टं ज्येष्ठं स्वपुत्रं रामं मे मह्यं दातुमर्हसि त्वं योग्यो ऽसि । एतेनानेनैव तच्छान्तिर्भविष्यतीति ध्वनितम् ॥ १।१९।८ ॥
नन्वयं बालत्वात् तच्छान्तिं कथं विधास्यतीत्यत आह शक्त इति । दिव्येन प्राकृतविलक्षणेन स्वेन स्वकीयेन तेजसा विशिष्टः मयापि गुप्तः तत्तेजःस्मारकत्वेन रक्षितः एषः रामः ये विकर्तारो विघ्नकर्तारो राक्षसाः तेषां विनाशने शक्तः समर्थ एव । एतेन यदि सर्वराक्षसविनाशने समर्थस्तर्हि एतयोर्विनाशने समर्थ इति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः ॥ १।१९।९ ॥
तवापि यशो भविष्यतीति बोधयन्नाह श्रेय इति । अस्मै रामाय बहुरूपमनेकविधं श्रेयः कल्याणसाधनं प्रदास्यामि येन कल्याणसाधनेन त्रयाणां लोकानां ख्यातिं गमिष्यत्येव, अत्र अस्मिन्विषये संशयः नैव कार्यः । एतेनास्य विवाहं कारयिष्यामीति सूचितम् । चापी एवार्थौ ॥ १।१९।१० ॥
न चेति । तौ मारीचसुबाहू राममासाद्य प्राप्य स्थातुं कथञ्चनापि न शक्तौ भविष्यत इति शेषः । नन्वितो योद्धारो नीयन्तां किं रामेणेत्यत आह राघवात् रामात् अन्यो भिन्नः पुमान् तौ मारीचसुबाहू हन्तुं नैवोत्सहते । च शब्दो ऽप्यर्थे । अपरे एवार्थे ॥ १।१९।११ ॥
ननु तयोरतिबलवत्त्वात् कथं बालेन पराभूतिरित्यत आह वीर्येति । हे राजशार्दूल वीर्योत्सिक्तौ अतिवीर्यहेतुकगर्वविशिष्टौ, अत एव पापौ पापाचारौ, अत एव कालपाशवशं गतौ तौ मारीचसुबाहू रामस्य रणाजिरे रामरणभूमौ पर्याप्तौ योद्धुं परिपूर्णौ नैव भविष्यतः । हिशब्द एवार्थे ॥ १।१९।१२ ॥
न चेति । हे पार्थिव पुत्रकृतं पुत्रविषयकं स्नेहं तद्दानप्रतिबन्धकीभूतप्रेमाणं कर्तुं नैवार्हसि । अनेन नैव तयोः शान्तिर्भविष्यतीत्येतद्गमनं निरर्थकमित्यपि संशयो न कार्य इति बोधयन्नाह तौ राक्ष्ासौ अनेन हतौ निहतप्रायौ इति ते तवाग्रे अहं प्रतिजानामि इति । विद्धि जानीहि इति शब्दावध्याहृतौ ॥ १।१९।१३ ॥
नन्वनेन तौ राक्षसौ निहतप्रायौ इति भवद्भिः कथं निश्चितमित्यत आह अहमिति । महात्मानं महः सर्वपूजनीयः आत्मा स्वरूपं यस्य, किञ्च महानां सर्वपूज्यानामात्मानं नियन्तारम्, किञ्च महान् साक्षात्स्वप्रकाशब्रह्मद्वारा ब्रह्मादीनां च सर्वत्र परिपूर्णः आत्मा स्वरूपं यस्य तं, सत्यपराक्रमं सत्यः कापट्यरहितः पराक्रमो यस्य स तं रामं सहृदयाभिरामदातारमहं वेद्मि । स्वकार्यवशादेष एवं वदतीति भ्रमं निवारयन्नाह महातेजाः परमतेजस्वी वसिष्ठश्च वेत्ति । एवं तपसि परमविचारे इह स्थिताः निरताः ये ऽन्ये महात्मानः वामदेवप्रभृतयः ते ऽपि विदन्ति । हिशब्दोप्यर्थे । एतेन यो ब्रह्मादिनियन्ता यस्य ब्रह्मादिसृष्टिजनितराक्षसादिकर्मकं हननं न किञ्चित् श्रमावहमिति स्वनिश्चये हेतुर्ध्वनितः । न च “यस्यामतं तस्य मतं मतं यस्य न वेद सः” इत्यादिश्रुत्या परमात्मा मम विज्ञात इति वदतामज्ञानवत्ता प्रतिपादनात् परमप्रमाणभूतेन ज्ञानिना विश्वामित्रेण राममहं वेद्मीति कथमुक्तमिति वाच्यम् तच्छ्रुतीनां परमात्मैश्वर्यादिसाकल्यज्ञानविषयत्वनिषेधतात्पर्यकत्वात् । अत एव “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । वेदाहमेतं पुरुषं महान्तम्” इत्यादिश्रुतयः सानुकूलाः इति दिक् ॥ १।१९।१४ ॥
इदानीं रामदाने किञ्चिच्चेष्टादिना राज्ञो वैमनस्यमालक्ष्याह यदीति । हे गजेन्द्र महाराजाधिराज ते तव धर्मलाभम् अपूर्वधर्मप्राप्तिं स्थितं स्थिरं परममत्युत्कृष्टं भुवि यशश्च यदीच्छसि तर्हि मे मह्यं रामं दातुमेव अर्हसि त्वं योग्यो ऽसि । एतेन यदि रामं न दास्यसि तर्हि ते यशःप्रभृतीनां वृद्धिर्न भविष्यत्यतो ऽवश्यं दातव्यो राम इति बोधितम् । एकश्चशब्द एवार्थे ॥ १।१९। १५ ॥
यदीति । हे काकुत्स्थ दशरथ वसिष्ठप्रमुखाः सर्वे तव मन्त्रिणः यदि अभ्यनुज्ञामनुमतिं ददते
ततस्तर्हि मे मदर्थं रामं विसर्जय प्रेषय ॥ १।१९।१६ ॥
अभिप्रेतमिति । यज्ञस्य दशरात्रमेवावशिष्टमिति शेषः । अतः अभिप्रेतमस्मदिच्छाविषयीभूतमसंसक्तं प्राप्तपौगण्डावस्थाकत्वेन भ्रात्रादिविषयकात्यन्तासक्तियोग्यतारहितम्, किञ्च सर्वविलक्षणत्वेन सर्वत्रामिलितं राजीवलोचनमात्मजं पुत्रं रामं दातुमर्हसि । हिरेवार्थे ॥ १।१९।१७ ॥
नेति । हे राघव रघुकुलोद्भव दशरथ यथा येन दानप्रकारेण अयं मम यज्ञस्य कालः नात्येति नातिक्रामति तथा तेन प्रकारेण कुरुष्व । शीघ्रं रामं देहीत्यर्थः । ततस्ते तव भद्रं कल्याणम्, अतो ऽतिशोके मनो मा कृथाः । राघव इति सम्बोधनेन रघुकुलोद्भवत्वेनापि दानाद्विरामस्तवानुचित इति सूचितम् ॥ १।१९।१८ ॥
इतीति । धर्मात्मा वेदबोधितकर्मप्रवर्तनविषयकयत्नवान् महातेजाः महामुनिः अतितपश्चर्यावत्त्वेन सर्वमुनिश्रेष्ठो विश्वामित्रः धर्मार्थसहितमितीदं वचः एवमनेन प्रकारेण उक्त्वा विरराम निववृते ॥ १।१९।१९ ॥
स इति । राजेन्द्रो महाराजाधिराजः स प्रसिद्धो दशरथः शुभं मङ्गलप्रदं तद्विश्वामित्रवचो निशम्य श्रुत्वा तीव्रं दुःसहं शोकमभ्यागमत्प्राप । भयान्वितः पुत्रदानाभावे तच्छापहेतुकभीतिविशिष्टः सन् व्यषीदत च । विनापि चं समुच्चयः । ऽशोकेन महता विष्टश्चचाल च मुमोह चऽ इत्यपि पाठान्तरम् ॥ १।१९।२० ॥
तदेव भङ्ग्यन्तरेणाह इतीति । सहृदयमनोविदारणं हृदयसहितमनश्चालकं तन्मुनिवचनमतीव अत्यन्तं शुश्रुवान् महान् सर्वपूज्यो महात्मा अतिधैर्यविशिष्टो नरपतिः राजा व्यथितमना अभवत् । आसनात्प्रचचाल च । मूर्च्छितो ऽभवदित्यर्थः । एतेन राजनिष्ठप्रीतेरतिशयो ध्वनितः ॥ १।१९।२१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकोनविंशः सर्गः ॥ १९ ॥