०१८ रामजन्म

सर्वेश्वरेश्वररघुनाथप्राकट्यमुपक्रममाण आह निर्वृत्त इत्यादिभिः । महात्मनः सर्वपूज्यस्य दशरथस्य तस्मिन्प्रसिद्धे हयमेधे क्रतौ निवृत्ते सिद्धे समाप्ते । सतीत्यर्थः । तुना पुत्रेष्टौ समाप्तायां सत्यां सुराः स्वर्गादिसाकेतोभयनिवास्यङ्गाङ्गिदेवाः भागान् स्वस्वसम्प्रदानकांशान्प्रतिगृह्य यथागतम् आगतक्रममनतिक्रम्य प्रतिजग्मुः स्वस्वस्थानं प्रापुः ॥ १।१८।१ ॥

समाप्तेति । समाप्तो दीक्षानियमो यस्य सः पत्नीगणसमन्वितः पत्नीनां गणैः समन्वितो युक्तः सभृत्यबलवाहनः भृत्यबलवाहनसहितः राजा पुरीं प्रविवेश ॥ १।१८।२ ॥

यथार्हमिति । तेन कृतयागेन राज्ञा राजराजदशरथेन यथार्हं यथायोग्यं पूजिताः प्राप्तसत्काराः अत एव मुदिताः प्रमोदं प्राप्ताः पृथिवीश्वराः राजानः मुनिपुङ्गवम् वसिष्ठऋष्यशृङ्गवामदेवान् । एकवचनं जात्यभिप्रायेण । वैशब्देनान्यानपि प्रणम्य देशान् स्वान् स्वान् विषयान् प्रययुः ॥ १।१८।३ ॥

श्रीमतामिति । ततः तस्मात् पुरात् अयोध्यातः स्वपुराणि गच्छतां तेषां श्रीमतां परमैश्वर्ययुक्तानां राज्ञां शुभ्राणि स्वच्छानि प्रहृष्टानि प्राप्तप्रमोदानि बलानि सैन्यानि चकाशिरे ॥ १।१८।४ ॥

गतेष्विति । पृथिवीशेषु राजसु गतेषु श्रीमान्राजा दशरथः द्विजोत्तमान्ब्राह्मणान्पुरस्कृत्याग्रे कृत्वा पुरीं पुनः प्रविवेश । पुनः प्रवेशोक्त्या पूर्वं पुरीं प्रविश्य राजप्रस्थापनार्थं बहिर्निर्गत इति ध्वनितम् ॥ १।१८।५ ॥

शान्तयेति । अथ पुरप्रवेशानन्तरं धीमता परमबुद्धिविशिष्टेन सानुयात्रेण भृत्यवर्गसहितेन राज्ञा दशरथेन शान्तया सार्धं सुपूजितः प्राप्तातिसत्कारः अन्वीयमानः अनुगम्यमानश्च ऋष्यशृङ्गः प्रययौ स्वं स्थानं प्राप ॥ १।१८।६ ॥

एवमिति । एवमुक्तप्रकारेण तान्सर्वान्पूर्वोक्तान्विसृज्य सम्पूर्णमानसः प्राप्तमनोरथः अत एव सुखितः प्राप्तसुखः राजा पुत्रोत्पत्तिं स्वनित्यपुत्रप्रादुर्भावं विचिन्तयन् सन् तत्रायोध्यानगरे उवास ॥ १।१८।७ ॥

तत इति । ततः तस्मिन्यज्ञे पुत्रेष्ठियागे समाप्ते सति ऋतूनां षट् षड्ऋतवः समत्ययुः व्यतीता अभवन् । ततस्तेषु षट्सु ऋतुषु मध्ये द्वादशे चैत्रे मासे नावमिके नवम एव नावमिकः तस्मिन्तिथौ । विनयादित्वात्स्वार्थिकष्ठक् । तिथिर्द्वयोरित्यनुशासनात्तिथिशब्दस्य पुंस्त्वम् । ऋतूनामित्यत्र षष्ठी राहोश्शिर इतिवत् बोध्या । चैत्रशब्दार्थस्तु चित्रया युक्ता पौर्णमासी चैत्री “नक्षत्रेण युक्तः कालः” इत्यण् । सास्त्यस्मिन्निति चैत्रः “सास्मिन्पौर्णमासीति” इत्यण् ॥ १।१८।८ ॥

नक्षत्र इति । अदितिदैवत्ये अदितिः देवता ऽस्य “दित्यदित्या” इति ण्यः । तस्मिन्नक्षत्रे । पुनर्वसुसञ्ज्ञके इत्यर्थः ॥ १।१८।९ ॥

पञ्चसु ग्रहेषु रविमङ्गलगुरुशुक्रशनिषु स्वोच्चसंस्थेषु मेषमकरकर्कमीनतुलास्थेषु ऽअजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाःऽ इत्युच्चलक्षणं वराहमिहिरेणोक्तम् ।

कर्कटे कर्कलग्ने वाक्पतौ बृहस्पतौ इन्दुना सह प्रोद्यमाने उदयं प्राप्ते लग्ने सति जगन्नाथं ब्रह्मविष्णुमहेश्वरद्वारा सर्वलोकनियन्तारमत एव सर्वलोकनमस्कृतं निखिलं ब्रह्माण्डवर्तिजीवेश्वरादिनमस्कारकर्मीभूतं दिव्यलक्षणसंयुतं दिव्यानि सामुद्रिकादिशास्त्रसूचितप्राकृतविलक्षणानि लक्षणानि तैः संयुतञ्च ॥ १।१८।१० ॥

विष्णोः जगन्नियन्तुः चतुर्भुजस्य अर्धम् अवतारग्रहणद्वारा तद्यशःप्रख्यापकत्वेन प्रवृद्धवामनादिरूपनियामकत्वेन च वर्धकम् । अत एव सूर्यस्यापि भवेत्सूर्यः इत्यादिना न विरोधः महाभागं महान् इतरभागापेक्षयाधिकः भागः प्रादुर्भावनिमित्तीभूतपायसरूपां ऽशो यस्य स तं, किञ्च

महान् भागो भाग्यं यस्मात्स तं, किञ्च महतीं लोकदर्शनयोग्यां भां दीप्तिं गच्छति प्राप्नोतीति स तं, किञ्च महान्तो ब्रह्मादयो भागाः प्राप्तप्रकाशाः यस्मात्स तं, किञ्च महा सर्वपूज्या या आभा तां गच्छति प्राप्नोतीति स तं, किञ्च महा सर्वपूज्या या आभा तां गच्छति प्राप्नोतीति स तं, किञ्च महतीमाभां परमप्रकाशमागमयति आश्रितान्प्रापयति स तं, किञ्च महती आभा यस्य स महाभः स अगो मणिपर्वतो विहाराधारत्वेन यस्य स तं, किञ्च महानां सर्वपूज्यानां ब्रह्मादीनां कर्तृभूतानामाभागः अतिशयसेवा यस्मिन्स तम् ऐक्ष्वाककुलवर्द्धनम् ऐक्ष्वाकः इक्ष्वाकुकुलप्रादुर्भूतः दशरथस्तस्य कुलं वर्धयतीति स तं रामं सर्वाभिरामदातारं कौसल्या जनयत् प्रादुरभावयत् । विष्णोरर्धमित्यनेन यो हि विष्णोर्वर्धकः, स तत्तुल्यानामन्येषां च वर्धक इति किंवक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः । तेन रघुनाथस्या ऽघटितघटनापटीयस्त्वं व्यक्तम् । सर्वाभिरामदातारमित्यनेन राम एव सर्वहितत्वमिति परिसङ्ख्यालङ्कारो ध्वनितः । तेन यः सर्वहितः सस्वाश्रितहित इति किंवक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः । तेन रघुनाथस्य परमदयालुतातिशयः सूचितः । तेन सर्वाधीशत्वं व्यक्तम् । एतेन विष्णोरर्धं विष्णुमयस्य पायसस्यार्धम् अर्धांशपरिणामभूतमिति भूषणोक्तार्थः आपाततो रमणीयः । वाक्यार्थस्य लाक्षणिकत्वापत्तेः सर्वेश्वरेश्वरस्य लीलार्थं स्वयंप्रादुर्भूतस्य ब्रह्मादिप्रार्थितस्य सर्वोत्पत्त्यादिकारणीभूतेच्छावतः उपादानासम्भवाच्च ईश्वरेश्वराणां सोपादानकत्वे ऽनवस्थापत्तेश्च कार्यत्वापत्त्या ऽनित्यत्वापत्तेश्च । यत्तु भट्टाः विष्णोः शङ्ख्ाचक्रानन्तविशिष्टस्य अर्धं किञ्चिन्न्यूनं शङ्खचक्रादेरभावादिति भावः । तदपि न शोभनम् । तादृशेर्थे विष्णुशब्दस्य सङ्केताभावात् । एतदभिप्रायेणैव इममर्थमनूद्य वस्तुतस्त्वित्यादिना पाठकैरर्थान्तरं वर्णितम् । यत्त्वत्र पाठकाः “प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम्” इत्यादिश्रुतिभ्यो ऽगिरामस्म्येकमक्षरम्ऽ इत्यादिस्मृतिभ्यश्च वाच्यवाचकयोरभेदाच्चात्र विष्णुशब्देन प्रणव उच्यते । तस्यार्धम् अर्धमात्रा तदात्मकम् । राममित्यर्थः । तथा चाथर्वणश्रुतिः “अकाराक्षरसम्भूतः सौमित्रिर्विश्वभावनः । उकाराक्षरसम्भूतः शत्रुघ्नस्तैजसात्मकः । प्राज्ञात्मकस्तु भरतो मकाराक्षरसम्भवः । अर्धमात्रात्मको रामः सच्चिदानन्दविग्रहः” इति । तदपि न सम्यक् वाक्यार्थस्य लाक्षणिकत्वापत्तेः । नहि शक्यार्थेनेष्टसिद्धौ लक्षणां कश्चिदभ्युपैति । किञ्च यत्प्रणवावयवभूतस्य मात्रार्धस्य रामपरत्वं न तत् प्रणवस्येश्वरवाचकत्वं यस्य चाखण्डप्रणवस्येश्वरवाचकत्वं न तदवयवीभूतस्य मात्रार्धस्य रामपरत्वमिति लक्षणास्वीकारे ऽपि तदभीष्टार्थस्य दुरुपपादत्वात् । एतेन विष्णोश्चतुर्भुजस्य अर्धं द्विभुजमित्यर्थं वदन्तो ऽपि प्रत्युक्ताः लाक्षणिकत्वापत्तेस्तुल्यत्वात् । चतुर्भुजमात्रे विष्णुशब्दस्य सङ्केताभावाच्च । अत एव भूमदक्षयज्ञादिप्रादुर्भूतानामष्टभुजादीनां विष्णुत्वेन व्यवहारः सङ्गच्छते । तावन्मात्रार्थकत्वे द्विभुजन्तं महाभागमित्यपहाय विष्णोरर्धमित्युक्त्या तदभिप्रेतार्थस्य ऋष्यभिप्रायविरुद्धत्वाच्च । अर्धशब्दस्य वर्धकपरत्वं न दृष्टमिति तु न भ्रमितव्यम् । अर्धयति वर्धयतीति अर्ध इति व्युत्पत्त्या यौगिकस्वीकारेण वर्धकपरत्वस्य सर्वतन्त्रसिद्धत्वात् । अत एव बृहदारण्यके पञ्चमे ऽध्याये नवमब्राह्मणे “कतमोध्यर्ध” इति प्रश्ने “यो ऽयं पवत” इत्युत्तरम् । “कथमध्यर्ध” इति प्रश्ने “यदस्मिन्निदँ्सर्वमध्यार्द्ध्योत्” इत्यादिश्रतौ अर्धशब्दस्य वर्धकपरत्वमिति दिक् । अत्राधिकव्याख्यानदर्शनकाङ्क्षिभिर्विष्णुना सदृशो वीर्ये इत्यत्र द्रष्टव्यम् ॥ १।१८।११ ॥

कौसल्येति । अमिततेजसा इयत्तारहिततेजोविशिष्टेन तेन प्रादुर्भूतेन पुत्रेण दशरथकौसल्यानिरूपितनित्यपुत्रत्वविशिष्टेन कौसल्या आशुशुभे अप्रमेयशोभां प्राप । तत्र दृष्टान्तः वज्रपाणिना वज्रहस्तेन देवानां वरेण इन्द्रेण अदितिस्तन्माता यथा । ईश्वरप्रकाशिनि परमात्मनि रामे इन्द्राद्युपमेयत्वं दुर्लक्ष्यतद्वस्तुबोधनाय इषुवत्सविता गच्छतीत्यादिवद्बोध्यम् ॥ १।१८।१२ ॥

भरत इति । सत्यपराक्रमः सत्यायोध्याराजधान्यस्येति सत्यः रामः, तस्येव पराक्रमो यस्य, तस्मादेव पराक्रमो यस्येति वा, स एव पराक्रमो यस्येति वा । रघुनाथाज्ञाकारीत्यर्थः । किञ्च सत्यः कापट्यरहितः पराक्रमो यस्य सः । साक्षाद्विष्णोर्वैकुण्ठेशस्य चतुर्मागः चत्वारो भागा यस्मिन् । सर्वांश इत्यर्थः । अत एव विष्णोस्तदवस्थापन्नस्य सर्वैर्गुणैः समुदितः । यदि च विष्णोरित्यत्र षष्ठी राहोः शिर इतिवत्तर्हि सवैर्गुणैः समुदितः चतुर्भागः साक्षाद्विष्णुरेवेत्यर्थः । विष्णोरित्युभयान्वयि । अत्रार्थे प्रमाणम् ऽवैकुण्ठेशस्तु भरतः क्षीराब्धीशश्च लक्ष्मणः । शत्रुघ्नस्तु स्वयं भूमा रामसेवार्थमागताःऽ इति नारदपञ्चरात्रवचनम् । निरूपितञ्चैतत्प्रथमसर्गे, विरोधोद्धारप्रकरणे ऽइदं त्वयि न वक्तव्यं शत्रुघ्ने भरते ऽपि ।ऽ वेत्युत्तरकाण्डघटकश्लोकव्याख्यावसरे । भरते न वक्तव्यमिति निषेधतात्पर्यवर्णनेन निरूपयिष्यामश्चोत्तरकाण्डे विशेषतः । भरतो नामेति प्रसिद्धौ केकय्यां जज्ञे प्रादुर्बभूव ॥ १।१८।१३ ॥

अथेति । अथ भरतप्रादुर्भावानन्तरं सर्वास्त्रकुशलौ निखिलास्त्राणां विज्ञातारौ विष्णोर्नारायणस्यार्धो वर्धको यो रामस्तत्र समन्वितौ । तदनुयायिनावित्यर्थः । वीरौ विना गरुडेन ईरो गतिर्ययोस्तौ गरुडगामिभूमक्षीराब्धीशौ लक्ष्मणशत्रुघ्नौ सुतौ सुमित्रा ऽजनयत् । एतेन शत्रुघ्नस्य भरतानुयायित्वं रामाज्ञयैवेति ध्वनितम् ॥ १।१८।१४ ॥

भरतादीनां जन्मनक्षत्रादि बोधयन् आह पुष्ये इति । प्रसन्नधीर्भरतः पुष्ये पुष्यनक्षत्रयुक्ते तिथौ मीनलग्ने भरतो जातः प्रादुर्भूतः । सौमित्री सुमित्राया नित्यसुतौ लक्ष्मणशत्रुघ्नौ तु सार्पे आश्लेषानक्षत्रयुक्ते तिथौ कुलीरे कर्कटे लग्ने रवौ अभ्युदिते प्रवृद्धे । मध्याह्नकाले इत्यर्थः । सौमित्री जातौ प्रादुर्भूतौ । पुष्ये सार्पे इत्यत्र “नक्षत्रेण युक्तः कालः” इत्यण् “लुबविशेषे” इति लुप् । सौमित्रीत्यत्र बाह्वादित्वादिञ् ॥ १।१८।१५ ॥

चतुर्णां प्रादुर्भावमुपसंहरन्नाह राज्ञ इति । महात्मानः ईश्वरादिपूजनीयस्वरूपाः अत एव पृथग्ज्ञानविषयेभ्यो विलक्षणाः अत एव गुणवन्तः प्राकृतविलक्षणदिव्यगुणविशिष्टाः सुरूपाः शोभनानि रूपाणि येषां ते, किञ्च शोभनो रूपो वेदेषु निरूपणं येषां ते रुच्या कान्त्या परमशोभया युक्ताः ये चत्वारो राज्ञः पुत्रा जज्ञिरे । ते प्रोष्ठपदोपमाः प्रोष्ठो गौस्तस्य पदे खुरौ उपमा येषान्ते द्वौ द्वौ मिलित्वा स्थिता बभुवुरित्यर्थः ॥ १।१८।१६ ॥

प्रादुर्भावकालिकसर्वहर्षं बोधयन् तत्तत्कृत्यमाह जगुरिति । गन्धर्वपतयो जगुः, अप्सरोगणाश्च ननृतुः, दवदुन्दुभयः नेदुः, खादाकाशात्पुष्पवृष्टिश्च च्युताः । एतेन अचेतनानामपि तस्मिन्काले चेतनत्वं व्यक्तम् । तेन तात्कालिकहर्षस्य पराकाष्ठा बोधिता । खात्पतदितिभट्टसम्मतः पाठः । तत्राडभावश्छन्दस इति तैरुक्तम् ॥ १।१८।१७ ॥

उत्सव इति । जनाकुलः जनैराकुलो व्याप्तः महानतिशय एव उत्सवो ऽयोध्यायामासीत् । चशब्द एवार्थे । अर्धं पृथगन्वयि । रथ्या इति । नटनर्तकसङ्कुलाः नटादिव्याप्ताः । अत एव जनसम्बाधाः जनानां सम्बाधाः परस्परमङ्गसम्मर्दो यासु ॥ १।१८।१८ ॥

विपुलाः विस्तीर्णाः सर्वरत्नसमन्विताः जनग्रहणार्थं प्रक्षिप्तसकलरत्नसम्पूर्णाः, गायकैर्गानकर्तृभिः वादकैर्वादनकर्तृभिश्च परैः वेदपाठकर्तृभिश्च विराविण्यः शब्दवत्यः सत्य एव रथ्या मार्गास्तत्र महोत्सवसमये विरेजुः शुशुभिरे । सार्धश्लोक एकान्वयी । चकारान्तरेण राजद्वारादिसङ्ग्रहः । तथाशब्द एवार्थे ॥ १।१८।१९ ॥

प्रदेयानिति । राजा दशरथः सूतमागधबन्दिनां प्रदेयान् प्रदातुं योग्यान्पदार्थान्ददौ । तत्र सूताः पौराणिकाः मागधाः वंशप्रशंसाकर्तारः । बन्दिनः स्तुतिपाठकाः । सम्बन्धसामान्ये षष्ठी । ब्राह्मणेभ्यः वित्तं

धनं सहस्रशो गोधनानि च ददौ ॥ १।१८।२० ॥

अतीत्येति । एकादश अहानि यस्मिन् दिनसमूहे स तं किञ्च एकश्च एकश्च एकौ तौ च दश एकादश तेषां सङ्ख्यापूरकं एकादशं तदेव अहः द्वादशदिनानीत्यर्थः । अतीत्य अतिक्रम्य त्रयोदशे दिने इत्यर्थः । नामकर्म अकरोत् । तदेव विस्पष्टयति महात्मानं ईश्वरादिपूजनीयस्वरूपं ज्येष्ठं कौसल्यातः पूर्वं प्रादुर्भूतं रामं नाम अकरोत् । प्रादुरभावयत् । केकयीतः प्रादुर्भूतं भरतं नाम च अकरोत् । सौमित्रिं सुमित्रातः प्रादुर्भूतं ज्येष्ठमित्यर्थः । लक्ष्मणं नाम च अकरोत् । अपरं तत्कनिष्ठं सौमित्रिं शत्रुघ्नं नाम च अकरोत् । राजेति शेषः । किञ्च अकरोत् वसिष्ठो राज्ञा अकारयदित्यर्थः । अन्तर्भावितणिजर्थः । तदा राजकर्तृकरामादिनामकरणसमये परमप्रीतो वसिष्ठः नामानि तथा इति कुरुते । योग्यानीमानि नामानीत्यवददित्यर्थः । एकादशाहमित्यत्र प्रथमपक्षे अच्प्रत्यन्ववेत्यत्र अजिति योगविभागादच् । तुशब्दः एकस्तथाशब्दश्च चार्थे । स चावृत्त्या च हीनेप्यन्वेति । अत एव क्षत्रियस्य द्वादशाहं सूतकम्, त्रयोदशे राज्ञो नामकरणमित्यादिस्मृतयः सानुकूलाः । राजेति शेषादेव द्वादशे ऽहनि जातस्य पिता नाम कुर्यादित्यादिस्मृत्या न विरोधः । क्षत्रियस्य नामकरणे ऽनधिकार इत्युक्तौ तु मूलं मृग्यम् । कुरुते तथा इति पाठे तु तथाशब्दस्तदार्थकः द्वयोरेकत्रान्वयः ॥ १।१८।२१,२२ ॥

१।१८।२१ ॥ किञ्च अकरोत् वसिष्ठो राज्ञा अकारयदित्यर्थः । अन्तर्भावितणिजर्थः । एकादशाहमित्यत्र प्रथमपक्षे अच्प्रत्यन्ववेत्यत्र अजिति योगविभागादच् ।

ब्राह्मणानिति । पौरजानपदान् पुरदेशप्रभवान्ब्राह्मणान्भोजयामास । अमितमपरिमितं बहुप्रकारं रत्नौघं रत्नसमूहं ब्राह्मणानामददात् । चकारेण वस्त्रालङ्कारादिसङ्ग्रहः । सम्बन्धसामान्यविवक्षया षष्ठी ॥ १।१८।२३ ॥

तदेवोपसंहरन्नाह तेषामित्यर्धेन । तेषां रामादीनां जन्मक्रियादीनि जातकर्मप्रभृतीनि सर्वकर्माणि उपनयनान्तनिखिलकर्तव्यानि अकारयत् । वसिष्ठ इति शेषः । तेषामिति । तेषां चतुर्णां मध्ये श्रेष्ठः पितुः रतिकरः पितृप्रमोदवर्धकः केतुरिव ध्वजसदृशप्रकाशकः रामो भूयो भूतानां राजवर्धितजनानां स्वयम्भूरिवृ स्वयम्भूसदृशः सम्मतः पूजितो बभूव ॥ १।१८।२४ ॥

सर्व इति । ज्ञानोपपन्नाः सर्वविषयकनित्यज्ञानवन्तो ऽपि सर्वे चत्वारो भ्रातरः वेदविदः गुरूपदेशात्प्राप्तसकलवेदाः । बभूवुरितिशेषः । अत एव सर्वे शूराः अत एव सर्वे पौरहिते रताः अत एव सर्वेः गुणैर्निखिलक्षात्रधर्मैः समुदिताः सम्प्रकाशिताः बभूवुः । गुरूपदेशात्प्राप्तवेदा इत्यनेन गुरूपदेशादेव वेदो ऽवगन्तव्य इति लोकोपदेशः सूचितः । चशब्दो ऽप्यर्थे सर्वे ज्ञानोपसम्पन्नाः इति भट्टसम्मतः । तत्राक्षरस्वारस्यादपिशब्दोध्याह्रियते ॥ १।१८।२५ ॥

सिंहावलोकनन्यायेन रामं वर्णयन्नाह तेषामिति । महातेजाः समाधिकरहिततेजोविशिष्टः सत्यपराक्रमः कापट्यसंसर्गरहितपराक्रमविशिष्टः सुधांशुः शरत्पूर्णचन्द्र इव सर्वस्य लोकस्य इष्टः ईप्सितः । अपिशब्देन त्रयाणामपि ईप्सितः । निर्मलः आश्रितमलनिवर्तनहेतुः । किञ्च निर्गतो यो मः परिमाणं तल्लाति गृह्णाति । इयत्तारहितप्रभावविशिष्ट इत्यर्थः । गजस्कन्धे गजस्कन्धारोहे अश्वपृष्ठे अश्वपृष्ठारोहे च रथचर्यासु रथसञ्चारेषु च सम्मतः सर्वजनप्रशंसास्पदीभूतः धनुर्वेदे अस्त्रशस्त्रादिज्ञाने निरतः परिनिष्ठितः पितुः शुश्रूषणे पित्रादिसेवायां रतः नितरां प्रवृत्तः तेषां चतुर्णां मध्ये राम आसीदिति शेषः । द्वयोरेकत्रान्वयः ॥ १।१८।२६,२७ ॥

रामाचरणमुक्त्वा लक्ष्मणाचरणमाह बाल्यादिति । लक्ष्मिवर्धनः आश्रितसम्पत्तिवर्धकः लक्ष्मणः लोकरामस्य लोकाभिरामदातुः ज्येष्ठस्य पूर्वं प्रादुर्भूतस्य भ्रातुः नित्यभ्रातृत्वविशिष्टस्य रामस्य बाल्यात्प्रभृति नित्यशः सुस्निग्धः अतिप्रीतिविशिष्ट आसीदिति शेषः । लाक्ष्मवर्धन इत्यत्र ह्रस्व आर्षः ॥ १।१८।२८ ॥

सर्वेति । तस्य रामस्य बहिःस्थितः अपरः द्वितीयः प्राण इव प्राणसदृशः लक्ष्मिसम्पन्नः नित्यं सर्वसम्पत्तिविशिष्टः लक्ष्मणः तस्य रामस्य शरीरतो ऽपिना मनआदिभिः सर्वप्रियकरः निखिलप्रियकारक आसीदिति शेषः । बहिः प्राण इवापर इत्यभूतोपमालङ्कारेण लक्ष्मणसदृशो रामस्य प्रियः लक्ष्मण एवेत्यनन्वयालङ्कारो ध्वनितः । तेन रामप्रसादाकाङ्क्षिभिर्लक्ष्मणो ऽवश्यमाश्रयणीय इति वस्तु व्यक्तम् ॥ १।१८।२९ ॥

रामस्य लक्ष्मणविषयकप्रीतिं वर्णयन्नाह नेति । पुरुषोत्तमः समाधिकरहितपुरुषत्वविशिष्टो रामः तेन लक्ष्मणेन विना निद्रां नैव लभते । चशब्द एवार्थे । उपानीतं कौसल्याद्युपहृतं मृष्टमन्नं तं लक्ष्मणं विना नैवाश्नाति । हिशब्द एवार्थे ॥ १।१८।३० ॥

लक्ष्मणाचरणमाह यदेति । राघवो रामः यदा यस्मिन्काले इयमश्वमारूढः मृगयामाखेटं याति तदा एनं रामं परिपालयन् सर्वतो रक्षन् सधनुः धनुस्सहितः लक्ष्मणः पृष्ठतो ऽभ्येति समीपतो गच्छति ॥ १।१८।३१ ॥

भरतशत्रुघ्नयोः परस्परं प्रीतिं वर्णयन्नाह भरतस्येति । लक्ष्मणावरजः लक्ष्मणानुजभ्राता शत्रुघ्नः भरतस्य प्राणैश्च प्राणैरपि नित्यं प्रियतरः अतिप्रीतिकारी आसीत् । तस्य शत्रुघ्नस्यापि तथा प्राणैरपि आप्रियः प्रियतरः स भरतः नित्यमेवासीत् । हिशब्द एवार्थे ॥ १।१८।३२ ॥

महाराजाधिराजदशरथस्य मोदं वर्णयन्नाह स इति त्रिभिः । महाभागैः प्रशंसनीयातिशयभाग्यविशिष्टैः प्रियैः सर्वप्रीतिविषयभूतैः चतुर्भिः पुत्रैः करणभूतैः स दशरथ देवैः पितामहो ब्रह्मा इव परमप्रीतः परमानन्दविशिष्टो बभूव ॥ १।१८।३३ ॥

ते इति । ह्रीमन्तः लोकापवादाल्लज्जावन्तः अत एव कीर्तिमन्तः परममर्यादापालकास्ते इति यशोविशिष्टाः । सर्वज्ञाः निखिलविषयकनित्यज्ञानवन्तः अत एव दीर्घदर्शिनः अनागतातीतद्रष्टारः ते अवाङ्मनसगोचरा रामादयः यदा ज्ञानसम्पन्नाः ज्ञानसम्भवकावस्थाविशिष्टाः तदा गुणैः नित्यराजधर्मैः समुदिताः सम्प्रकाशिताः बभूवुरिति शेषः । ज्ञानसम्पन्नशब्दः ज्ञानं सम्पन्नं भवति यस्यां सावस्थास्ति एषामिति अर्शआद्यजन्तः ॥ १।१८।३४ ॥

तेषामिति । दीप्ततेजसामेवम्प्रभावाणामुक्तप्रकारेण प्रभावविशिष्टानां सर्वेषां रामादीनां पिता नित्यपितृत्वविशिष्टो दशरथः लोकाधिपो लोकनियन्ता ब्रह्मा यथा इव हृष्टो बभूवेति शेषः ॥ १।१८।३५ ॥

ते इति । वैदिकाध्ययने वेदसम्बन्धिसाङ्गशब्दार्थतदुपबृंहणभूतस्मृतीतिहासादीनां पठने रताः पितृशुश्रूषणरताः पित्रुपलक्षितगुर्वादिसेवानिरताश्च । धनुर्वेदे अस्त्रशस्त्रादिज्ञाने निष्ठिता निपुणाश्च । अपिना मात्रादिलालिताः मनुजव्याघ्राः पुरुषसिंहाः ते रामादयः आसन्निति शेषः । एतेन परममर्यादापालकत्वं तेषां व्यक्तम् ॥ १।१८।३६ ॥

तेषां समावर्तनकालमालक्ष्य राजचिन्तनं वर्णयन्नाह अथेति । सोपाध्यायः उपाध्यायवसिष्ठवामदेवसहितः सबान्धवः रोमपादादिसहितः धर्मात्मा धर्ममनाः राजा महाराजाधिराजदशरथः अथ मङ्गलरूपां तेषां दारक्रियां दारप्राप्तिविषयीणीं क्रियां विवाहं प्रति चिन्तयामास विचारयामास ॥ १।१८।३७ ॥

तस्येति । मन्त्रिमध्ये चिन्तयमानस्य तेषां विवाहं विचारयतः महात्मनः परमोदारचित्तस्य तस्य दशरथस्य द्वारमिति शेषः । महातेजाः परमतेजस्वी महामुनिः मुनिश्रेष्ठः विश्वामित्रः अभ्यागच्छत् ॥ १।१८।३८ ॥

स इति । राज्ञः दशरथस्य दर्शनाकाङ्क्षी स विश्वामित्रः द्वाराध्यक्षान् द्वारपालकान् उवाच । तद्वचनमाह कौशिकं कुशिकगोत्रोत्पन्नं गाधिनन्दनम् गाधिपुत्रमिह प्राप्तं मां यूयं शीघ्रमाख्यात कथयत । ह इति इहार्थे ॥ १।१८।३९ ॥

तदिति । तस्य विश्वामित्रस्य तत् शीघ्रमाख्यात इति वचनं श्रुत्वा तेन विश्वामित्रोक्तेन वाक्येन चोदिताः प्रेरिताः अत एव सम्भ्रान्तमनसः अत्यादरयुक्तमनोयुक्ताः सर्वे द्वारपालाः राज्ञो वेश्म प्रदुद्रुवुः शीघ्रं जग्मुः । प्रदुद्रुवुरित्यनेन तेषां हर्षातिशयो ध्वनितः । तेन विश्वामित्रस्य राजपरमप्रीतिविषयत्वं व्यक्तम् । ऽसम्भ्रमत्रयमिच्छन्ति भयमुद्वेगमादरम्ऽ इत्यनुशासनम् । त्रासाद्राजवेश्मेतिपाठः क्वचित् । त्रासाद्राजभयादित्यर्थः ॥ १।१८।४० ॥

त इति । तदा विश्वामित्राज्ञापनकाले ते द्वारपालाः राजभवनं गत्वा प्राप्तमृषिं विश्वामित्रं तथा विश्वामित्रोक्तप्रकारेण इक्ष्वाकवे इक्ष्वाकुवंशप्रभवाय नृपाय दशरथाय आवेदयामासुः ॥ १।१८।४१ ॥

तेषामिति । तेषां द्वारपालानां तत् विश्वामित्रप्राप्तिबोधकं वचनं श्रुत्वा सपुरोधाः वसिष्ठसहितः समाहितः एकाग्रचित्तः संहृष्टः परमानन्दं प्राप्तः दशरथः ब्रह्माणं बृहस्पतिं चतुर्मुखं वा वासव इन्द्र इव प्रत्युज्जगाम । श्रुतिश्च ऽबृहस्पतिर्देवानां ब्राह्माऽ इति । संहृष्ट इत्यनेन सदा महात्मजनदर्शनाकाङ्क्षीति ध्वनितम् ॥ १।१८।४२ ॥

तमिति । ततः प्रत्युद्गमनानन्तरं दीप्त्या तपोजनितपरमप्रकाशेन ज्वलितं प्रकाशितं संशितव्रतमत्युग्रनियमकर्तारं तापसं तं विश्वामित्रं दृष्ट्वा प्रहृष्टवदनो राजा अर्घ्यमुपहारयत् अददात् । रामो राज्यमचीकरदितिवत् णिच्प्रयोगः । आगमशास्त्रस्यानित्यत्वादड्विरहः ॥ १।१८।४३ ॥

स इति । शास्त्रदृष्टेन विधिबोधितेनैव कर्मणा राज्ञः अर्घ्यं राजसमर्पितार्घोदकं चकारेण पाद्याचमनीयादीन् प्रतिगृह्य स्वीकृत्य स विश्वामित्रः अव्ययं विनाशरहितं नित्यमपि कुशलं नराधिपं पर्यपृच्छत् । चकारान्तरमप्यर्थकम् । नित्यमपि कुशलं पर्यपृच्छदित्यनेन विश्वामित्रस्य प्रेमाधिक्यं सूचितम् ॥ १।१८।४४ ॥

तदेव विशदयन्नाह पुरे इति द्वाभ्याम् । सुधार्मिकः परमधर्मविशिष्टः कौशिकः विश्वामित्रः राज्ञः दशरथस्य पुरे कोशे च जनपदे देशे च बान्धवेषु च सुहृत्सु च कुशलं पर्यपृच्छत् ॥ १।१८।४५ ॥

अपीति । ते तव रिपवः सामन्ताः खण्डमण्डलेश्वराः जिताः त्वया पराजिताः सन्तः सन्नताः त्वां शरणं प्राप्ताः अपि किम् । दैवं देवोद्देश्यकयागादिकं मानुषमतिथ्यभ्यागतोद्देश्यकभोजनादिकं च कर्म ते तव साध्वनुष्ठितं सम्पादितं च । किञ्चापी किमर्थकौ ॥ १।१८।४६ ॥

वसिष्ठमिति । मुनिपुङ्गवो मुनिश्रेष्ठो विश्वामित्रः वसिष्ठं महाभागान् अति भाग्यवतः तान् तत्र प्राप्तान् ऋषीन् वामदेवप्रभृतींश्च यथान्यायं यथोचितं समागम्य समालिङ्ग्य । चकारेण यथोचितं प्रणामादिकं च कृत्वा कुशलमुवाच । कुशलप्रश्नं कृतवान् इत्यर्थः । हेति हर्षद्योतकम् ॥ १।१८।४७ ॥

त इति । यथार्हतो यथायोग्यं पूजिताः परस्परं सत्कृताः अत एव धृष्टमनसः प्रमुदितान्तःकरणास्ते सर्वे वसिष्ठविश्वामित्रप्रभृतयः तस्य राज्ञो निवेशनं सभां विविशुः तत्र निषेदुश्च ॥ १।१८।४८ ॥

सभाप्रवेशनानन्तरं राजकर्तृकसत्कृतिवचनं वर्णयन्नाह अथेत्यादि आसर्गसमाप्ति । अथ सभास्थित्यनन्तरं हृष्टमना हृष्टान्यतिसत्कारादिना हर्षितानि सर्वेषां मनांसि येन परमोदारः दातृशिरोमणिः अत एव हृष्टः हर्षं प्राप्तः राजा महाराजो दशरथः तमागतं महामुनिं

विश्वामित्रमभिपूजयन् उवाच ॥ १।१८।४९ ॥

तदुक्तिमाह यथेति । अमृतस्य सुधायाः सम्प्राप्तिः यथा प्रशस्यते अनूदके दुर्योगादुदकहीने श्रावणादौ वर्षं वृष्टिं यथा सदृशदारेषु समानकुलशीलादिविशिष्टाङ्गनासु पुत्रजन्म यथा । अनूदके इत्यत्र दीर्घः “अन्येषामपि” इतिविहितः ॥ १।१८।५० ॥

प्रनष्टस्येति । प्रनष्टस्य तिरोहितस्य मण्यादेर्लाभो यथा महोदये पुत्रविवाहाद्युत्सवे हर्षो यथा । ऽमह उद्धव उत्सवःऽ इत्यमरः । तथा ते तवागमनम् प्राप्तिमहं मन्ये । अतः हे मुने स्वागतमतिशोभनमागमनमेतत् । एवो हेत्वर्थे ॥ १।१८।५१ ॥

किमिति । ते तव परममावश्यकं किम् । किं कार्यमस्तीति शेषः । तत्तत् हर्षितः सन्नहं करोमि कर्तास्मि एव उ एतद्वितर्कयामि । चशब्द एवार्थे । हे ब्रह्मन् पात्रभूतो ऽसि सर्वप्रकारसेवायोग्यस्त्वमसि अतः मे दिष्ट्या भाग्येन धार्मिकस्त्वं प्राप्तोसि । कं च ते परमं कामम् इति पूर्वार्धे प्राप्तो ऽसि मानद इत्युत्तरार्धे च क्वचित्पाठः । अर्थः स्पष्ट एव ॥ १।१८।५२ ॥

अद्येति । अद्य भवत्कर्मकदर्शनसमये मे मम जन्म सफलं मे जीवितं जीवनं च सुजीवितम् । तत्र हेतुमाह यस्माद्विप्रेन्द्रं विप्रश्रेष्ठं भवन्तमद्राक्षम् अत एव मम निशा मत्सम्बन्धिनीयं व्यतीता । रात्रिः सुप्रभाता सुष्ठु शुभकार्योत्पादिका पूर्वमङ्गलविशिष्टः प्रभातो यस्याः सा ॥ १।१८।५३ ॥

पूर्वमिति । द्योतितप्रभस्त्वं पूर्वं राजर्षिशब्देन बोधितः । अनु पश्चात् तपसा ब्रह्मर्षित्वं प्राप्तः । अतः मया बहुधा बहुप्रकारेण त्वं पूज्यो ऽसि ॥ १।१८।५४ ॥

तदिति । हे विप्र हे प्रभो तत्तस्माद्धेतोः अद्भुतमिदं भवद्दर्शनं मम परमं पवित्रमतिपवित्रतोत्पादकम् । तत्र हेतुः यतः तव सन्दर्शनात् अहं शुभक्षेत्रगतः शुभानि यानि क्षेत्राणि तानि सर्वाणि गतः प्राप्तः । सर्वशुभक्षेत्रयात्राफलं प्राप्तो ऽहमित्यर्थः चो हेतौ ॥ १।१८।५५ ॥

ब्रूहीति । यद्यस्मात् मया तुभ्यं प्रार्थितं तवावश्यकं किम् । किं कार्यमस्ति । तत्तदहं कर्तास्मीत्येवं प्रार्थना कृता । तस्मादागमनं प्रति भवदागमने यत्कार्यं प्रयोजनं तत्त्वं ब्रूहि । त्वदर्थपरिवृद्धये भवत्प्रयोजनवृद्धिं कर्तुमनुगृहीतः त्वदनुग्रहपात्रीभूतोहमिच्छामि । “क्रियार्थोपपदस्य” इति चतुर्थी ॥ १।१८।५६ ॥

कार्यस्येति । हे सुव्रत कार्यस्य विमर्शं सेत्स्यति नवेति संशयं गन्तुं प्राप्तुं त्वं नैवार्हसि । तत्र हेतुः यतः अहमशेषेण कर्ता भवत्कार्यं निःशेषतः साधयितास्मीत्यर्थः । तत्र हेतुः यतो भवान् मम दैवतम् इष्टदेवः । हिचौ हेत्वर्थौ ॥ १।१८।५७ ॥

ममेति । हे द्विज तवागमनजः त्वदागमनजन्यः मम । चकारेणास्मदीयानां महानेवाभ्युदयः । अभ्युदये हेतुः अनुत्तमः सर्वोत्तम एव कृत्स्नः सम्पूर्णो ऽयं धर्मः पुण्यमनुप्राप्तः । चकारावेवार्थकौ ॥ १।१८।५८ ॥

इतीति । आत्मवता परमबुद्धिमता उक्तं हृदयसुखं ईप्सितसिद्धिसूचकत्वादन्तःकरणसुखकारकम् । अत एव श्रुतिसुखं विनीतम् उच्चारयितुर्नम्रताबोधकमितीदं वाक्यं निशम्य श्रुत्वा धर्मैर्विशिष्टः अत एव प्रथितगुणयशाः प्रथितं विस्तृतं गुणसम्बन्धि यशो यस्य परमऋषिः ऋषिश्रेष्ठो विश्वामित्रः परमतुलं हर्षं जगाम प्राप ॥ १।१८।५९ ॥

इति श्रीमद्रामायणबालकाण्डे व्याख्याने रामायणशिरोमणौ अष्टादशः सर्गः ॥ १८ ॥