०१७ ऋक्षवानरोत्पत्तिः

पुत्रत्वमिति । अविष्णौ विष्णुव्यापके रामे महात्मनः सर्वपूज्यस्वरूपस्य तस्य प्रसिद्धस्य राज्ञो दशरथस्य पुत्रत्वं प्रकटपुत्रधर्मं गते प्राप्ते सत्येव भगवान् नियोजनसमर्थः स्वयम्भूः साकेतस्थब्रह्मा सर्वाः देवता इदं वक्ष्यमाणं वचः उवाच ॥ १।१७।१ ॥

तद्वचनमेवाह सत्येति । सत्यसन्धस्य सत्यप्रतिज्ञस्य वीरस्य समाधिकरहितवीरत्वविशिष्टस्य नो ऽस्माकं सर्वेषां हितैषिणः विष्णोः ब्रह्मादित्रिदेवव्यापकस्य रामस्य सहायान् प्राकट्यावस्थायां तेन सह यन्ति गच्छन्तीति तान् बलिनः अतिबलवतः कामरूपिणः ईप्सितरूपधारणसमर्थान् सृजध्वम् स्वान् स्वानंशान् प्रकटयध्वमित्यर्थः ॥ १।१७।२ ॥

तदेव विशदयन्नाह मायेत्यादिचतुर्भिः । मायाविदः राक्षसादिनिर्मितदम्भवेदितृ़न् शूरान् युद्धोत्साहविशिष्टान् जवे वायुवेगसमांश्च नयज्ञान् नीतिविज्ञान् बुद्धिसम्पन्नान् परमबुद्धिमतः विष्णुतुल्यपराक्रमान् ॥ १।१७।३ ॥

असंहार्यानिति । असंहार्यान् शत्रुभिर्विनाशयितुमशक्यान् उपायज्ञान् शमादियत्नाभिज्ञान् सिंहसंहननान्वितान् सिंहसदृशावयवविशिष्टान् सर्वास्त्रगुणसम्पन्नान् सर्वैरस्त्रगुणैः प्रयोगोपसंहारादिभिर्युक्तान् अमृतप्राशनान् देवान् एव । इवशब्दा एवार्थे ॥ १।१७।४ ॥

अप्सरस्स्विति । मुख्यासु अप्सरस्सु गन्धर्वीणां तनूषु च यक्षपन्नगकन्यासु च ऋक्षविद्याधरीषु च ॥ १।१७।५ ॥

किन्नरीणामिति । किन्नरीणां गात्रेषु च वानरीणां तनूषु च हरिरूपेण उपलक्षितान् तुल्यपराक्रमान् । स्वस्वपितृसदृशानित्यर्थः । किञ्च तुल्यपरान् तुल्यबलविशिष्टशत्रून् अपि आक्रमन्ते पराभावयन्तीति ते तान् । किञ्च स्वस्वप्रादुर्भावककुलेन तुल्यः पराक्रमो येषां तान् पुत्रान् तत्तत्पुत्रत्वेन प्रतीयमानान् सृजध्वम् प्रकटयध्वम् ॥ १।१७।६ ॥

पूर्वमिति । ऋक्षपुङ्गवः ऋक्षश्रेष्ठः जाम्बवान् मया सृष्टः प्रादुर्भावितः । प्रादुर्भावप्रकारमाह जृम्भमाणस्य मम वक्त्रात्सहसा शीघ्रम् अयाजत प्रादुरभवत् ॥ १।१७।७ ॥

त इति । भगवता साकेतनिवासिब्रह्मणा तथा तेन प्रकारेण उक्ताः ते साकेतनिवासिसुराः तत् ब्रह्मोक्तं शासनं शिक्षां प्रतिश्रुत्याङ्गीकृत्य एवं वक्ष्यमाणप्रकारेण वानररूपिणः पुत्रान् तत्तत्पुत्रत्वेन प्रतीयमानान् जनयामासुः प्रादुर्भावयाञ्चक्रुः ॥ १।१७।८ ॥

ऋषय इति । ऋष्यादयः वनचारिणः वीरान्सुतान् ससृजुः ॥ १।१७।९ ॥

तदेव विशदयन्नाह वानरेन्द्रमिति । महेन्द्राभं महेन्द्रः पर्वतविशेषः शक्रो वा, तदाभं वानरेन्द्रं वालिनमिन्द्रो जनयामास । तपतां वरः परमतेजस्वी तपनः सूर्यः सुग्रीवं जनयामास । न च विष्णोः सहायान् सृजध्वमिति ब्रह्मोक्त्या तदसहायभूतस्य वालिनः सर्जनं विरुद्धं निरर्थकं चेति वाच्यम् । साक्षात्तस्य तत्सहचारित्वाभावे ऽपि सुग्रीवविपत्तिसम्पादनद्वारा सर्ववानरतत्सहचारित्वसम्पादनहेतुत्वेन पुत्रादिद्वारा च एतस्यापि तत्सहचारित्वाक्षतेः ॥ १।१७।१० ॥

बृहस्पतिरिति । बृहस्पतिस्तु सर्ववानरमुख्यानां बुद्धिमन्तमत एव अनुत्तमं सर्वोत्कृष्टं तारं नाम महाकपिमजनयत् प्रादुरभावयत् ॥ १।१७।११ ॥

धनदस्येति । श्रीमान्परमैश्वर्यविशिष्टः गन्धमादनो गन्धमादनाख्यो वानरः धनदस्य कुबेरस्य

सुतः । प्रादुरभूदिति शेषः । विश्वकर्मा तु नलं नाम महाहरिम् महाकपिमजनयत् ॥ १।१७।१२ ॥

पावकस्येति । श्रीमान् नित्यश्रीविशिष्टः अग्निसदृशी प्रभा यस्य सः पावकस्य सुतो नीलः तेज आदिभ्यः अत्यरिच्यत । विलक्षणं बभावित्यर्थः ॥ १।१७।१३ ॥

रूपेति । रूपद्रविणसम्पन्नौ अश्विनौ रूपसम्मतौ रूपयति प्रतिष्ठां प्रापयतीति रूपो ऽर्थः रूपं सौन्दर्यं च तयोरेकशेषः । ताभ्यां सम्मतौ युक्तौ एवं मैन्दं द्विविदं च स्वयमेव जनयामासतुः । एवेन मात्रादिव्यवच्छेदः । तेन मानसत्वं तयोर्व्यक्तम् । एकश्च एवार्थकः ॥ १।१७।१४ ॥

वरुण इति । सुषेणो नाम वानरं वरुणो जनयामास । पर्जन्यः तदभिमानिदेवस्तु शरभं जनयामास ॥ १।१७।१५ ॥

मारुतस्येति । श्रीमान्नित्यैश्वर्यविशिष्टः वज्रसंहननोपेतः वज्रमपि स्पर्शमात्रेण संहन्ति इति वज्रसंहननो देहः तेनोपेतः नित्यं युक्तः जवे वेगे वैनतेयः समो यस्य सः । सर्ववानरमुख्येषु बुद्धिमानतिशयबुद्धिविशिष्टः बलवानतिशयबलविशिष्टश्च । अपिश्चार्थे । हनूमान्नाम वानरो मारुतस्य पवनस्यौरसः । पुत्रो ऽभवदिति शेषः । यथा चास्यौरसत्वं तथा ऋष्यशृङ्गस्य विभाण्डकौरसवर्णनावसरे निरूपितम् ॥ १।१७।१६ ॥

त इति । अप्रमेयं बलं येषां ते वीराः शौर्यविशिष्टाः विक्रान्ताः विशिष्टाः क्रान्ताः पादविक्षेपा येषां ते कामरूपिणः ईप्सिरूपधारणसमर्थाः दशग्रीववधे रताः दशग्रीवोपलक्षितरावणादिराक्षसहनने उद्युक्ताः बहुसाहस्राः अनेकसहस्रसङ्ख्यातास्ते प्रसिद्धा वानराः सृष्टाः ॥ १।१७।१७ ॥

मेर्विति । मेरुमन्दरसङ्काशाः मेरुमन्दरवद्भासमानाः, तत्र हेतुः वपुष्मन्तः अतिबृहच्छरीरयुक्ताः महाबलाः अतिशयबलविशिष्टाः ऋक्षवानरगोपुच्छाः क्षिप्रं त्वरितमेव अभिजज्ञिरे प्रादुर्बभूवुः । तत्र ऋक्षाः भल्लूका गोपुच्छाः गोपुच्छसदृशपुच्छविशिष्टवानरजातिविशेषाः । ते गजाचलसङ्काशा इति भट्टसम्मतः पाठः ॥ १।१७।१८ ॥

यस्येति । यस्य यस्य देवस्य यद्रूपं सौदर्न्यं यो यो वेषः अवयवसन्निवेशः यो यश्च पराक्रमो बलं तेन तेन रूपादिना समः तुल्यः तस्य तस्य सुतः पृथक् परस्परं विलक्षणो ऽजायत । तस्य तस्येत्येतदनुरोधेन यस्येत्यादय आवर्तन्ते ॥ १।१७।१९ ॥

तेषामुत्पत्तिक्षेत्राणि बोधयन्नाह गोलाङ्गूलेष्विति । सम्मतविक्रमाः सम्यक् पूजनीयपराक्रमा एव । केचित् गोलाङ्गूलेषु तज्जातिषु उत्पन्नाः तथा तादृशपराक्रमविशिष्टाः केचिद्वानरा ऋक्षेषु च किन्नरेषु च उत्पन्नाः प्रादुर्भूताः । ऋक्षीषु च किन्नरीषु चेति भट्टसम्मतः पाठः ॥ १।१७।२० ॥

एतदेव विशदयन्नाह देवा इत्यादिभिरेकादशभिः श्लोकैः ॥ १।१७।२१,२२ ॥

चारणा इति । वनचारिणः प्रमोदवनविहारिणः कामरूपबलोपेताश्चारणाः वनचारिणो यथाकामं विचारिणः यथेच्छं सर्वत्र विचरणशीलान् वानरान् ससृजुः । एतेनैतेषां रघुनाथनित्यपरिकरस्थत्वं व्यक्तम् ॥ १।१७।२३,२४ ॥

सृष्टानां प्रभावमाह सिंहेत्यादिभिः । सर्वास्त्रकोविदा इत्यनेन प्रादुर्भावपौर्वकालिकवस्तुस्मृतिध्वंसाभावः सूचितः ॥ १।१७।२५ ॥

विचालयेयुरिति । “शकि लिङ् च” इति शक्यार्थे लिङ् । तत्तच्चालनादिसामर्थ्यविशिष्टा इत्यर्थः । कम्पने चलिरिति मित्त्वे ऽपि सर्वेषां मितां वैकल्पिकत्वाच्चालयेयुरिति दूरप्रक्षेपार्थकत्वे तु न शङ्कावसरः ॥ १।१७।२६ ॥

दारयेयुरिति । पद्भ्यां क्षितिं दारयेयुः, महार्णवं समुद्रमाप्लवेयुः उत्तरेयुः, नभस्तलं विशेयुः । तोयदानपि गृह्णीयुश्च ॥ १।१७।२७ ॥

गृह्णीयुरिति । वने प्रव्रजतो मत्तानपि मातङ्गान् गृह्णीयुः, नादेन नर्दमानान् विहङ्गमांश्च पातयेयुः ॥ १।१७।२८ ॥

सर्ववानराणामसङ्ख्येयत्वात् यूथपसङ्ख्यां बोधयन्नाह ईदृशानामिति । वातरंहसां पवनसदृशवेगवतां यूथपानां यूथस्वामिनां महात्मनामतिप्रयत्नवतामीदृशानामुक्तसुग्रीवादिसदृशानां प्रसूतप्रादुर्भूतानां हरीणां वानराणां शतसहस्राणि । लक्षाणीत्यर्थः । शतं कोटिरित्यर्थः । बभूवुरिति हरीणां प्रधानेषु मुख्येषु यूथेषु ये हरियूथपाः सुग्रीवादयो बभूवुस्ते ऽपि यूथपश्रेष्ठान् वीरान् हरीन् अजनयन् । चशब्दो ऽप्यर्थे ॥ १।१७।२९,३० ॥

अन्ये इति । अन्ये प्राकृतविलक्षणाः सहस्रशो वानराः ऋक्षवतः पर्वतविशेषस्य प्रस्थान् शिखराणि उपतस्थुः स्थिता बभूवुः । अन्ये ततो विलक्षणाः नानाविधान् अनेकप्रकारान् शैलान् पर्वतान् काननानि वनानि च भेजिरे सिषेविरे ॥ १।१७।३१ ॥

सूर्यपुत्रमिति । सर्वे ते हरियूथपाः वानरश्रेष्ठा सूर्यपुत्रं सुग्रीवं शक्रपुत्रं वालिनं च भ्रातरौ एव उपतस्थुः सिषेविरे । अत एव नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् वालिसुग्रीवान्तरङ्गानुपतस्थुः । वालिसुग्रीवप्रसन्नार्थं सेवयामासुरित्यर्थः । चो हेतौ । अपरश्चशब्द एवार्थे ॥ १।१७।३२ ॥

ते इति । तार्क्ष्यबलसम्पन्नाः गरुडतुल्यवेगवन्तः युद्धविशारदाः युद्धनिपुणाः विचरन्तो वनादिषु विहरन्तस्ते सर्वे वानराः दर्पात् दर्पमालक्ष्य सिंहव्याघ्रमहोरगान् अर्दयन् आर्दयन् तत्तद्गर्वं दूरीचक्रुरित्यर्थः ॥ १।१७।३३ ॥

तानिति । महान्तौ दीर्घौ बाहू यस्य सः विपुलविक्रमः महापराक्रमविशिष्टः वाली भुजवीर्येण तान् पूर्वोक्तान् सर्वान् निखिलान् ऋक्षगोपुच्छवानरान् जुगोप ररक्ष । चकारेण यथोचितं तैः स्वं सेवयामास ॥ १।१७।३४ ॥

तैरिति । शूरैः युद्धोत्साहविशिष्टैः विविधसंस्थानैः विलक्षणावयवविशिष्टैः नानाव्यञ्जनलक्षणैः परस्परं भेदबोधकलक्षणविशिष्टैः तैर्वानरैः सपर्वतवनार्णवा पर्वतवनार्णवसहिता इयं प्रसिद्धा पृथिवी कीर्णा व्याप्ता ॥ १।१७।३५ ॥

उक्तमर्थमुपसंहरन्नाह तैरिति । मेघवृन्दाचलकूटकल्पैः मेघवृन्दं मेघसमूहः अचलकूटः पर्वतशृङ्गं तत्कल्पैस्तत्सदृशैरित्यर्थः । महाबलैः अतिपराक्रमविशिष्टैः भीमशरीररूपैः भयोत्पादकशरीररूपविशिष्टैः वानरयूथपैः रामसहायहेतोः रामेण सह अयः गमनं तदर्थं तत्सेवार्थमित्यर्थः । समावृता व्याप्ता भूः भूमिर्बभूव । नचास्मिन्सर्गे ऽधनदस्य सुतः श्रीमान् वानरो गन्धमादनः । वरुणो जनयामास सुषेणं नाम वानरम् ॥ शरभं जनयामास पर्जन्यस्तु महाबलम् ।ऽ इत्युक्तम् । युद्धकाण्डे तु रावणं प्रति शार्दूलवचनम् ऽसुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान् । पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः ।ऽ इति परस्परं विरुद्धमिति वाच्यम् । शार्दूलवचनस्य भ्रान्तिप्रयुक्तत्वेनादोषात् । अभ्रान्तप्रयुक्तविरुद्धवचनयोरेव दोषावहत्वात् । प्रसिद्धा च शार्दूलभ्रान्तिः ऽरुधिरासक्तसर्वाङ्गो विह्वलश्चलितेन्द्रियःऽ इति तत्रत्योक्तेः । किञ्च धर्मस्य अतिधर्मवतः । वरुणस्येत्यर्थः । सुषेणद्वयस्वीकारो वा ॥ १।१७।३६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्तदशः सर्गः ॥ १७ ॥