०१६ पायसप्रदानम्

तत इति । ततः देवस्तवनानन्तरं सुरसत्तमैः सुरश्रेष्ठैः । साकेतस्थैरित्यर्थः । नियुक्तः प्रार्थितः नारायणो विष्णुः नारायणश्च आः ब्रह्मा च उः शिवश्च नारायणावस्तेषां विष्णुर्व्यापको रघुनाथः जानन् वधोपायं विज्ञातापि एवं वक्ष्यमाणप्रकारेण श्लक्ष्णं मनोहरं वचनमब्रवीत् । अत एव पर्यायीभूतोच्चरितविष्णुनारायणान्यतरस्य न वैयर्थ्यम् । पूर्वोत्तरग्रन्थश्चाविरुद्धः ॥ १।१६।१ ॥

तद्वचनमेवाह उपाय इति । हे सुराः तस्य राक्षसाधिपतेः रावणस्य वधे उपायः कः । यमुपायं आस्थाय सम्पाद्य ऋषिकण्टकं तं रावणमहं हन्याम् ॥ १।१६।२ ॥

एवमिति । एवमनेन प्रकारेण उक्ताः रघुनाथेन पृष्टाः सर्वे सुराः अव्ययं प्राकृतदेशकालवस्तुपरिच्छेदशून्यं विष्णुं ब्रह्मादित्रिदेवव्यापकं रामं प्रत्यूचुः । तदुक्तिमेवाह मानुषीमिति । मानुषीं नित्यद्विभुजनराकृतिं स्वविग्रहम् आस्थाय प्रकटायोध्यायां प्रकटय्य संयुगे सङ्ग्रामे रावणं जहि ॥ १।१६।३ ॥

रावणस्यान्यावध्यत्वे हेतुमाह स इति सार्धश्लोकद्वयेन । हे अरिन्दम आश्रितारिनिवर्तक स रावणः दीर्घकालं तीव्रं तपस्तेपे । हि प्रसिद्धमेतत् येन तपसा लोककृत्साक्षात् स्वांशद्वारा च लोककर्ता अत एव लोकपूर्वजः लोके सत्यलोके पूर्वजः स्वांशद्वारा पूर्वं प्रादुर्भूतो ब्रह्मा तुष्टो ऽभवत् ॥ १।१६।४ ॥

सन्तुष्ट इति । सन्तुष्टः तत्तीव्रतपसा सन्तोषं प्राप्तः प्रभुः समर्थः साकेतस्थो ब्रह्मा तस्मै सङ्केतादवतीर्णाय राक्षसाय रघुनाथेच्छया प्राप्तरक्षस्स्वभावाय रावणाय वरं प्रददौ । वरमेवाह मानुषात् नराकृतिपरमात्मनो ऽन्यत्र भूतेभ्यः तत्स्मृतिविषयेभ्यः नानाविधेभ्यः प्राकृतमनुष्यादिभ्यः देवादिभ्यः ब्रह्मादिभ्यश्च भयं न । भवेदिति शेषः ॥ १।१६।५ ॥

ननु नराकृतिपरमात्मनो ऽपि भयाभावः कुतो न याचितः इत्यत आह अवेति । हे अव अस्मद्रक्षक पुरा पौर्वकालिके वरदाने वरदापने वरयाचनसमय इत्यर्थः । ते अवाङ्मनसगोचराः मानवाः मनुवंशत्वेन प्रसिद्धाः नराकृतिनित्यद्विभुजपरमात्मानो भवन्तो नैव ज्ञाताः । हिशब्द एवार्थे । वरदानेन मानवा इति पाठे तेन रावणेन मानवा न ज्ञाता इत्यर्थः । अन्तर्भावितणिजर्थको ऽत्र दाधातुः ॥ १।१६।६ ॥

एवमिति । एवमनेन प्रकारेण तस्मात्पितामहाद्ब्रह्मणः वरं प्राप्यैव दर्पितः प्राप्तगर्वः सः त्रीन् ल्लोकानुत्सादयति पीडयति स्त्रियश्चापकर्षति हरति । उपसंहरन्नाह तस्मादिति । हे परन्तप तस्मादुक्तहेतोः तस्य रावणस्य वधः मानुषेभ्यः मनुवंशविशेषाद्भवतः दृष्टः ज्ञातः । बहुत्वमादरार्थम् । एतेन प्रकटीभूय तद्वधं कुरु इति प्रार्थना सूचिता ॥ १।१६।७ ॥

इतीति । आत्मवान् आत्मानो नियम्याः सन्ति अस्येति । विष्णुः ब्रह्मादित्रिदेवव्यापको रामः इति । अनेन प्रकारेण सुराणामेतद्वचनं श्रुत्वा नृपं राजराजं पितरं नित्यपितरं दशरथं रोचयामास ॥ १।१६।८ ॥

स इति । अपुत्रः पुत्रप्राकट्यरहितः महाद्युतिः पूर्वतोप्यतिदीप्तिमान् अरिसूदनः शत्रुनाशनः पुत्रेप्सुः पुत्रप्राकट्यकामः स प्रसिद्धो दशरथः पुत्रियां पुत्रप्राकट्यहेतुर्भूतामिष्टिं तस्मिन्काले अयजदकरोत् ॥ १।१६।९ ॥

स इति । विष्णुः ब्रह्मादित्रिदेवव्यापकः स रघुनाथः निश्चयं स्वप्रादुर्भावदार्ढ्यं कृत्वा पितामहं साकेतस्थब्रह्माणमामन्त्र्य सम्भाष्य च महर्षिभिः कृतसाक्षात्कारपरमात्मभिः ऋष्यशृङ्गादिभिः देवैः साकेतस्थब्रह्मादिभिश्च पूज्यमानः

सन्नन्तर्धानं अन्तः वृन्दावनमहावैकुण्ठमहाशम्भुलोकचित्रकूटमध्ये धीयते रघुनाथेन नित्यं पाल्यते यत् तत् अप्रकटसाकेतपुरं गतः प्राप्तः । किञ्च अन्तर्धानं सर्वाप्रत्यक्षतां गतः अप्रकटायोध्यायां स्थित इत्यर्थः । चकार आवृत्त्यान्यत्राप्यन्वेति ॥ १।१६।१० ॥

रघुनाथोपदिष्टब्रह्मणा रघुनाथप्रादुर्भावसूचकं तेजोमयपापसम्प्रेषितमिति वर्णयन्नाह तत इत्यादिपञ्चभिः श्लोकैः । ततः रघुनाथोपदिष्टब्रह्मप्रेरणातः यजमानस्य पावकात्प्रादुर्भूतमतुलप्रभम् अतुला तोलयितुमशक्या प्रभा यस्य अत एव महत् सर्वपूज्यं अत एव भूतं चिन्तनीयं महावीर्यम् अघटितघटनापटीयो देहबलविशिष्टं महाबलं तादृशेन्द्रियबलविशिष्टम् । वैशब्दो हेत्वर्थे ॥ १।१६।११ ॥

कृष्णं कृष्णवर्णं रक्ताम्बरधरम् अरुणवस्त्रयुक्तं रक्ताक्षम् अरुणनेत्रं दुन्दुभिस्वनं दुन्दुभिसदृशगम्भीरनादविशिष्टं स्निग्धाः दर्शनमात्रेण स्नेहोत्पादकाः हर्यक्षस्य सिंहस्येव तनुजाः लोमसमूहाश्च श्मनि मुखे श्रयते इति श्मश्रु च प्रवराः दीर्घाः मूर्धजाः केशाश्च यस्य तत् ॥ १।१६।१२ ॥

शुभेति । शुभलक्षणसम्पन्नं सामुद्रिकोक्तसल्लक्षणसंयुक्तं दिव्याभरणभूषितं प्राकृतविलक्षणभूषणभूषितं शैलस्य पर्वतस्य शृङ्गवत्समुत्सेधमुन्नतं दृप्तो यः शार्दूलो व्याघ्रस्तद्विक्रम इव विक्रमः पादन्यासो यस्य तत् ॥ १।१६।१३ ॥

दिवाकरेति । दिवाकरसमाकारं दिवाकरस्य सूर्यस्य समः तुल्य आकार आकृतिर्यस्य तेजोविशेषेण । अ(आ?)लक्ष्यमाणावयवविभागक इत्यर्थः । स एव दीप्तानलशिखोपमं तप्तजाम्बूनदमयीं तप्तं सद्यः प्रतप्तमिव यज्जाम्बूनदं सुवर्णं तन्मयीं राजतो रजतविकारो ऽन्तः उपरिभागवर्ती परिच्छद आच्छादनं यस्यास्ताम् ॥ १।१६।१४ ॥

दिव्येति । दिव्यपायससम्पूर्णां प्राकृतविलक्षणपायसपूरितां प्रियां प्रीतिविषयीभूतां पत्नीमिव पत्नीसदृशीं विपुलां बृहतीम् । हस्तमात्रेण ग्रहीतुमशक्यामित्यर्थः । मायामयीं अद्भुतत्वेन मायारचितामिव सत्यामित्यर्थः ॥ १।१६।१५ ॥

पात्रीं दोर्भ्यां स्वयं प्रगृह्य समवेक्ष्य नृपं दर्शयित्वा नृपं दशरथमिदं वाक्यमब्रवीत् । तद्वाक्यमेवाह हे नृप प्राजापत्यं प्रजापतिप्रेषितमिह भवत्समीपे अभ्यागतं प्राप्तं नरं पुरुषविशेषं मां विद्धि जानीहि ॥ १।१६।१६ ॥

अत इति । तदा नरवचनश्रवणानन्तरकाले कृताञ्जलिर्बद्धयुगलकरो राजा अतः तदुक्तिश्रवणाद्धेतोः परं तृप्तिकरं वचः प्रत्युवाच सम्यगूचे । तदेवाह ते तवागतमागमनं सु अस्मत्प्रेरकमस्तु । आज्ञापयेत्यर्थः । प्रेरणार्थकषूधातोर्निष्पन्नं सु इति । हे भगवन् अघटितघटनापटीयस्ते तव अहं किं करवाणि ॥ १।१६।१७ ॥

अथो इति । अथो महाराजवचनानन्तरं प्राजापत्यो नरः इदं वक्ष्यमाणं वाक्यं पुनः अब्रवीत् । तदेवाह हे राजन् देवान् नित्यं क्रीडापरान् साकेतनिवासिनः अर्चयता पूजनं कारयता त्वया इदं स्वाभिलषितसूचकं सद्यः प्राप्तम् ॥ १।१६।१८ ॥

इदमिति । देवनिर्मितं देवैः साकेतनिवासिसुरैः निर्मितं रचितं प्रजाकरं पुत्रप्राकट्यनिमित्तं धन्यम् धनहेतुम् अरोगस्य भाव आरोग्यं तस्य वर्द्धनम् इदं पायसं हे नरशार्दूल पुरुषश्रेष्ठ त्वं गृहाण । तुना एतदभिवादय ॥ १।१६।१९ ॥

पायसग्रहणानन्तरं यत्कर्तव्यं तदाह भार्याणामिति । अश्नीत यूयं भक्षयत इत्युक्त्वा अनुरूपाणां दिव्यपायसभक्षणयोग्यानाम् । समानकुलोद्भवानामेवेत्यर्थः । भार्याणां प्रयच्छ । भार्याणामिति सम्बन्धसामान्ये षष्ठी । तासु पायसभक्षिकासु पुत्रान् त्वं लप्स्यसे एव यदर्थं यत्प्राकट्यार्थं यजसे । वैशब्द एवार्थे ॥ १।१६।२० ॥

तथेति । प्रीतः सर्वप्रीतिविषयीभूतो नृपतिः देवान्नसम्पूर्णां दिव्यपायसपूरितां देवदत्तां साकेतनिवासिप्राजापत्यनरदत्तां हिरण्मयीं तां विपुलां पात्रीं तथेत्युक्त्वा प्रतिगृह्य शिरसा ऽभिवाद्य च अद्भुतं प्राकृतविलक्षणं प्रियदर्शनं मनोहररूपं भूतं प्राप्तं तत् प्राजापत्यनररूपं तेजश्च शिरसाभिवाद्य परमया मुदा युक्तः सन् अभिप्रदक्षिणं चकार । द्वयोरेकत्रान्वयः ॥ १।१६।२१ ॥

तत इति । देवनिर्मितं पायसं ततः प्राजापत्यनराद्दशरथः प्राप्य वित्तं प्राप्या ऽधन इव परमप्रीतो बभूव ॥ १।१६।२३ ॥

तत इति । अद्भुतप्रख्यम् अद्भुताकारविशिष्टं ततः पावकात् भूतं प्राप्तं परमभास्वरं तत् प्राजापत्यनररूपतेजः तत् पुत्रेष्टिरूपं कर्म संवर्तयित्वा संसाध्य । फलं प्रापय्येत्यर्थः । तत्रैव पावके एवान्तरधीयत ॥ १।१६।२४ ॥

हर्षरश्मिभिरिति । तस्य राज्ञः हर्षरश्मिभिः हर्षवर्धिताङ्गकान्तिभिरुद्योतमतिप्रकाशितम् अन्तःपुरम् अभिरामस्य परमानन्ददातुः पूर्णस्येत्यर्थः । शारदस्य शरत्सम्बन्धिनः चन्द्रस्य अंशुभिः उद्द्योतं नभ इव आबभौ ॥ १।१६।२५ ॥

स इति । स राजा ऽन्तःपुरं प्रविश्य कौसल्यामिदं वक्ष्यमाणमब्रवीत् । तदेवाह आत्मनः पुत्रीयं

पुत्रप्राकट्यहेतुभूतमिदं पायसं प्रतिगृहीष्व । तुशब्देन नमस्कारादिकं कुर्वित्यर्थः । एवो ऽनुक्तसमुच्चयार्थः । तेन अन्या राज्ञीः अपि यथोचितमब्रवीदित्यर्थः ॥ १।१६।२६ ॥

कौसल्यायै इति । तदा पायसप्राप्तिकाले नरपतिः अमृतोपमं पायसार्धं पायासस्यार्धमंशं महाभागमिति वक्ष्यमाणरामविशेषणात् ज्येष्ठपत्नीत्वाच्च कञ्चिदधिकमंशं पुत्रार्थकारणात् कौसल्यायै ददौ । ततो ऽनुचिन्त्य अप्रकटितसाकेते एकः सुमित्रापुत्रः कौसल्यापुत्रानुयायी, द्वितीयः सुमित्रापुत्रः केकयीपुत्रानुयायीति विचार्यैव अर्थात् कौसल्याभागतो ऽर्धं कञ्चिन्न्यूनमंशं नराधिपः सुमित्रायै ददौ ।

कौसल्यया दापयामासेत्यर्थः । अन्तर्भावितणिजर्थः । कौसल्याभागादवशिष्टभागं अर्धं कृत्वा सुमित्रायै ददावित्यर्थस्तु न युक्तः, अत्रावशिष्टपदाभावात् उत्तरत्रावशिष्टपदस्य विद्यमानत्वाच्च युक्तितो रामानुयायित्वानुपपत्तेश्च । ततोवशिष्टार्धम् अवशिष्टमर्धं कौसल्याभागतः कञ्चिन्न्यूनांशं कैकेय्यै महीपतिः ददौ । दापयामासेत्यर्थः । पुनरेव पुनरपि एवो ऽप्यर्थे । अवशिष्टार्धम् अवशिष्टस्य दत्तकैकयीभागस्यार्धमंशं सुमित्रायै प्रददौ । कैकेय्या प्रदापयामासेत्यर्थः । अयं भावः पायसे ऽष्टौ अंशाः कृताः । तत्र पञ्चांशान् कौसल्यायै दत्तवान् । कौसल्याभागतः सार्द्धमेकमंशं सुमित्रायै दापयामास । कौसल्याभागत उर्वरितत्रीनंशान् कैकेय्यै दापयामास । कैकेयीभागात् सार्धमेकमंशं सुमित्रायै दापयामासेति सार्धत्रीन्स्वांशानेकीकृत्य कौसल्या बुभुजे । तदेव रामप्रादुर्भावे निमित्तीभूतम् । सार्धमेकं स्वांशमेकीकृत्य कैकयी बुभुजे । तदेव भरतप्रादुर्भावे निमित्तीभूतम् । कौसल्यादत्तं सार्धमंशमेकीकृत्य सुमित्रा पूर्वं बुभुजे । तदेव लक्ष्मणप्रादुर्भावे निमित्तीभूतम् । ततः कैकेयीदत्तं सार्धमंशं बुभुजे । तदेव शत्रुघ्नप्रादुर्भावे निमित्तीभूतम् । भरतलक्ष्मणप्रादुर्भावनिमित्तीभूतपायसयोः समत्वे ऽपि रामोद्देश्यकभागांशप्रभावाल्लक्ष्मणे ऽधिकप्रभावप्रतीतिः । अनुचिन्त्येत्युक्तेर्महाराजाधिराजदशरथस्य सर्वज्ञत्वं सूचितम् । तदेव उपसंहरन्नाह एवमनेन प्रकारेण भार्याणां पायसं पृथक्पृथक् विभज्य राजा ददौ । कौसल्यायै इत्यारभ्य श्लोकत्रयमेकान्वयि । अपिशब्दः एवार्थे । चशब्दौ अनन्तरार्थकौ ॥ १।१६।२७२९ ॥

ता इति । नरेन्द्रस्य राजाधिराजस्य ताः रामादिप्रादुर्भावकर्त्र्यः उत्तमाः सर्वाः कौसल्यादयः स्त्रियः एवं रामादिप्रादुर्भावहेतुभूतं पायसं प्राप्यैव प्रहर्षोदितचेतसः प्रहर्षितचित्ताः सत्यः सम्मानं राजकृतपरमसत्कृतिं मेनिरे । चशब्द एवार्थे ॥ १।१६।३० ॥

तत इति । तदा पायसप्राप्त्यनन्तरकाले एव ततः पायसमाहात्म्यश्रवणात् हुताशनादित्यसमानतेजसः महीपतेरुत्तमाः स्त्रियः पृथक् यथोचितविभक्तं तत् राजदत्तमुत्तमं पायसं प्राश्य अचिरेण अदीर्घकालेन गर्भान्गर्भगतत्वेन प्रतीयमानान्स्वस्वनित्यपुत्रान् प्रतिपेदिरे प्रकटतः प्राप्तप्रायान् मेनिरे । तुशब्द एवार्थे ॥ १।१६।३१ ॥

तत इति । ततो गर्भधारणानन्तरमेव सुरेन्द्र इन्द्रः सिद्धर्षीणां गणाश्च तैरभिपूजितः प्रकटीभूतरघुनाथपितृत्वात् नित्यं सेवितः राजा महाराजाधिराजदशरथः प्ररूढगर्भाः प्रादुर्भावप्राप्तरामदितेजस्काः अत एव प्रतिलब्धमानसाः प्राप्तमनोरथाः ताः साकेतात्प्रादुर्भूताः स्त्रियः वीक्ष्य त्रिदिवे हरिरिन्द्रो यथा इव हृष्टो ऽत्यन्तहर्षं प्राप्तो बभूव । तुशब्द एवार्थे ॥ १।१६।३२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षोडशः सर्गः ॥ १६ ॥