मेधावीति । ततः राजवचनश्रवणानन्तरमेव मेधावी परमबुद्धिमान् वेदज्ञः निखिलवेदशब्दार्थतत्त्वज्ञाता अत एव लब्धसञ्ज्ञः लब्धा विचारेण प्राप्ता सञ्ज्ञा रघुनाथसम्यग्ज्ञानं येन । अत एव ततः सकलयागविस्तारकर्ता स ऋष्यशृङ्गः उत्तरं रामप्राकट्यहेतुभूतकरिष्यमाणकृत्यं किञ्चित्कालं ध्यात्वा विचार्य इदं वचनं नृपमब्रवीत् । तुशब्द एवार्थे ॥ १।१५।१ ॥
तदुक्तिमेवाह इष्टिमिति । तं पुत्रकारणान्नित्यपुत्रप्रकटनार्थं पुत्रीयां पुत्रप्राकट्यहेतुभूतां अथर्वशिरसि अथर्ववेदे प्रोक्तैः पुत्रेष्टिसाधकत्वेन निर्णीतैर्मन्त्रैः सिद्धां निष्पाद्यामिष्टिं विधानतः यथाविधि अहं करिष्यामि ॥ १।१५।२ ॥
तत इति । ततः इष्टिं करिष्यामीत्युत्तरानन्तरं पुत्रकारणात् पुत्रीयामिष्टिं प्रारब्धवान् । तेजस्वी ऋष्यशृङ्गः अत एव मन्त्रदृष्टेन वेदबोधितेन कर्मणा विधिनैव जुहाव । ततः प्राक्रमदिष्टिं तामित्यपि क्वचित्पठ्यते ॥ १।१५।३ ॥
ततः स्वांशभूतसत्यलोकादिस्थब्रह्मादिद्वारा जगत्सृष्ट्यादिविस्तारकर्तारः
साकेतस्थब्रह्मविष्णुमहेश्वराः सगन्धर्वाः गन्धर्वसहिता देवाश्च सिद्धाः सिद्धगणाश्च परमर्षयश्च भागप्रतिग्रहार्थं यथाविधि समवेताः प्रकटीभूय भागे स्थिताः । वैशब्दश्चार्थे । स च हीनेपि अन्वेति । इमे सर्वे साकेतस्था एवेत्यत्र बीजम् त्वां नियोक्ष्यामहे इत्यादौ वक्ष्यामः ॥ १।१५।४ ॥
ता इति । तस्मिन्प्रसिद्धे सदसि यागसभायां ता आगता देवताः यथान्यायं समेत्य ब्रह्मसमीपं प्राप्य लोककर्तारं स्वांशभूतसत्यलोकस्थब्रह्मद्वारा लोकानां कर्तारं किञ्च लोकनं लोको दृष्टिः तत्कर्तारम् । यज्ञद्रष्टृत्वेनाहूतं साकेतस्थब्रह्माणमित्यर्थः । महत्सर्वप्रशंसनीयं वचनमब्रुवन् ॥ १।१५।५ ॥
तदाकारमाह भगवन्निति । हे भगवन् त्वत्प्रसादेन त्वत्कृपया प्राप्तं यद्वीर्यं साकेताधीशातिरिक्तसर्वावध्यत्वं तस्माद्वीर्यात् नो ऽस्माकं विहारास्पदीभूताः ये सर्वलोकास्तान् रावणो नाम राक्षसो बाधते । तं रघुनाथेच्छया साकेतादवतीर्णे रावणं शासितुं स्वांशभूतदेवादिद्वारा साक्षाद्वा न शक्नुमः । एतेन साकेतपुरवासिनां यथाकामं सर्वत्र गमनमिति व्यज्यते । यथा च साकेताद्रावणावतारः तथा तज्जन्मप्रतिपादञ्च ग्रन्थे वक्ष्यामः ॥ १।१५।६ ॥
तदेव विशदयन्नाह त्वयेति । हे भगवन् प्रीतेन त्वया पुरा पूर्वम् अस्मै वरो दत्तः । अतस्तं वरं नित्यं मानयन्तो वयं तस्य क्षमामहे । तस्येति सम्बन्धसामान्ये षष्ठी । अपराधमिति शेषो वा । चो हेतौ ॥ १।१५।७ ॥
उद्वेजयतीति । उच्छ्रितान्समृद्धान् त्रीन् लोकान् दुर्मतिः द्वेष्टि । अत एव उद्वेजयति चालयति । त्रिदशराजानमस्मदंशभूतं शक्रमपि प्रधर्षयितुम् पराभावयितुमिच्छति । समासान्तविधेरनित्यत्वाट्टजभावः ॥ १।१५।८ ॥
ऋषीनिति । दुर्मेधाः दुष्टस्वभावः अत एव वरदानेन मोहितः रावणः ऋष्यादीनतिक्रामतित्तिः बाधते । तथाशब्दश्चार्थे ॥ १।१५।९ ॥
नैनमिति । एनं रावणं सूर्यो न प्रतपति न सन्तापयति । एतद्भिया एतत्सञ्चारादिसमये मन्दकिरणो भवतीत्यर्थः । पार्श्वे ऽस्य समीपे मारुतो वायुर्न वाति । शनैर्वातीत्यर्थः । चलोर्मिमाली स्वाभाविकचञ्चलतरङ्गसमूहविशिष्टो ऽपि समुद्रस्तं दृष्ट्वा न कम्पते । स्थिरतरङ्गो भवतीत्यर्थः ॥ १।१५।१० ॥
तदिति । घोरदर्शनाद्राक्षसात्प्राप्तरक्षःस्वभावाद्रावणाद्यन्महद्भयमस्मदंशानां भीतिः तदस्माकमेव भयं तस्माद्धेतोः हे भगवन् तस्य रावणस्य वधार्थमुपायं यत्नं कर्तुं त्वमर्हसि । योग्योसीत्यर्थः ॥ १।१५।११ ॥
एवमिति । सर्वैः सुरैरेवमनेन प्रकारेण उक्तौ ब्रह्मा ततो देवोक्त्यनन्तरं चिन्तयित्वा पूर्ववृत्तमनुस्मृत्य अब्रवीत् । तद्वचनमेवाह दुरात्मनः प्राप्तरक्षस्स्वभावेन दुष्टमनसस्तस्य रावणस्य अयं वक्ष्यमाणः वधोपायो विहितः परमात्मनैव विनिर्मितः । हन्त इति हर्षे ॥ १।१५।१२ ॥
उपायं वक्तुमुपक्रमते तेनेति । गन्धर्वयक्षाणां देवदानवरक्षसां च अवध्यः अहमस्मि स्यामिति वाक् तेन रावणेन उक्ता प्रार्थिता । तत् तदा तथा इति मया उक्तम् । चकारेणान्येभ्यो ऽपि स्वज्ञानविषयीभूतेभ्यो ऽभयं प्रार्थितं तदपि तथेति मया उक्तम् ॥ १।१५।१३ ॥
नाकीर्तयदिति । अवात् ईश्वरस्यापि रक्षकात् रामात् प्राप्तं यज्ज्ञानं नियोगः आज्ञा इतःप्रभृति प्राप्तरक्षःशरीरे मां न ज्ञास्यसीति सङ्कुचितबोधो वा, इतःप्रभृति मदतिरिक्तमेव ज्ञास्यसीति वा । तस्मात्तद्रक्षो रावणस्तदा वरयाचनसमये मानुषान्परमात्मा नराकृतिरित्यागमगम्यं साकेताधीशं नित्यद्विभुजं नाकीर्तयत् । तस्माद्धेतोः स मानुषात् नराकृतिपरमात्मनो रामात् वध्यः । अन्यः तस्मात् भिन्नः अस्य मृत्युर्विघातको न विद्यते । बहुत्वमादरार्थम् । तेन साकेताधीशरघुनाथस्य
विष्ण्वादिवैलक्षण्यमीश्वरेश्वरत्वं च व्यक्तम् । एतेन नाकीर्तयदवज्ञानादित्यस्य अवज्ञानात् अनादरात् मानुषान्नाकीर्तयदित्यर्थः । प्रत्युक्तः दशरथनहुषादीनां देवसाहाय्यकर्तृत्वस्य प्रसिद्धत्वान्मानुषानादरस्यासम्भवात् । किञ्च रावणस्य सुराद्यवध्यत्वे वरदानमेव कारणं वा, रावणबलवत्वं वा, उभयं वा । न प्रथमम् तात्कालिकमानुषैरेव तस्य वध्यत्वे सिद्धे तद्वधार्थं परमात्मप्रार्थना व्यर्था स्यात् । न द्वितीयम् वाल्यादिभिः कृततत्पराभवस्यासम्भवापत्तेः । अत एव न तृतीयम् । किञ्च विष्ण्ववध्यत्वं स्वस्य रावणेन प्रार्थितं वा न वा । न प्रथमम् त्वन्मते रामस्यापि विष्ण्वभिन्नत्वेन तेनाप्यवध्यत्वापत्तेः । नान्त्यम् मानुषानादरोक्तेर्निष्प्रयोजनत्वापत्तेरित्यतो ऽस्मदुक्त एवार्थो ग्रन्थकृदभिमतः । अत एव विष्णुप्रहृतचक्रेण न रावणमृतिः । वक्ष्यति च चक्रव्रणवत्त्वं रावणस्येति इति दिक् । रघुनाथाज्ञया रावणावतारे प्रकाणम् ऽप्रतापी राघवसखो भ्रात्रा वै सह रावणःऽ इत्यादि ॥ १।१५।१४ ॥
एतदिति । तदा तस्मिन्काले ब्रह्मणा समुदीरितं सम्यक् कथितं प्रियं सर्वहितमेतत् वाक्यं ते तत्रागताः सर्वे महर्षयः सर्वे देवाश्च श्रुत्वा प्रहृष्टा अभवन् ॥ १।१५।१५ ॥
एतस्मिन्निति । एतस्मिन्नन्तरे देवब्रह्मसंवादानन्तरकाले महाद्युतिः समाधिकरहितप्रकाशविशिष्टः शङ्खचक्रगदापाणि शङ्खचक्रगदादिभिः पाति लोकमिति शङ्खचक्रगदापो विष्णुस्तेन अण्यते प्रार्थनावचनमुच्चार्यते असौ सः । किञ्च शङ्खचक्रसहिता गदा यस्य स शङ्खचक्रगदो विष्णुस्तेनासमन्तात्पाण्यते स्तूयते इति पाणिः । किञ्च शङ्खादयो रेखारूपेण पाणावस्य सः पीतवासाः पीतवस्त्रधारी जगत्पतिः सर्वलोकस्वामी अविष्णुः अस्य वासुदेवस्य विष्णुर्व्यापकः । विष्णोर्विष्णुरित्यर्थः । किञ्च विष्णुः ब्रह्मविष्णुमहेशव्यापकः राम इत्यर्थः । किञ्च आसमन्तादेति सर्वं व्याप्नोतीति एः विष्णुः तस्य विष्णुर्व्यापकः । अन्तर अन्तः बन्धकः प्रापक इत्यर्थः । र रकाराक्षरो यस्य स राम इत्यर्थः । किञ्च अन्तःप्रापकः रः रकाराक्षरो यस्य स अन्तरः । आसमन्तादेति सर्वं व्याप्नोति एर्विष्णुः तस्य विष्णुर्व्यापकः । स एव स इति कर्मधारयः । उपयातः प्राप्तः । अन्तर इत्यादिपक्षद्वये एतस्मिन्देवब्रह्मसंवादानन्तरकाले इत्यार्थो बोध्यः । अस्मिन् प्रकरणे विष्णुशब्दः ब्रह्मादित्रिदेवव्यापकपर एव न तु चतुर्भुजे रूढः । अत एव ततो नारायणो विष्णुरिति वक्ष्यमाणपद्ये न नारायणपदवैयर्थ्यम् । अन्यथा द्वयोस्तत्रैव रूढत्वेनान्यतरवैयर्थ्यं दुर्निवारं स्यात् । अत एव प्रभोः प्रभुरिति वक्ष्यमाणं सानुकूलम् ॥ १।१५।१६ ॥
ब्रह्मणेति । समाहितः ब्रह्मादिष्वपि स्वतेजसा परिपूर्णो रघुनाथस्तत्र यागे तस्थौ । तं रामं ब्रह्मणा सह सन्नता एव सर्वे सुराः समागम्य रघुनाथसमीपं प्राप्य समभिष्टूय सम्यक् स्तुत्वा ऽब्रुवन् प्रार्थयाञ्चक्रुः । समाहित इत्यत्र वृद्ध्यर्थकहिधातोर्निष्ठा । चशब्द एवार्थे ॥ १।१५।१७ ॥
प्रार्थनाकारमाह त्वामिति । हे अविष्णो विष्णुविष्णो किञ्च हे विष्णो ब्रह्मादित्रिदेवव्यापक विभो सर्वसामर्थ्यविशिष्ट लोकानां जनानां हितकाम्यया त्वां नियोक्ष्यामहे । नियोजनमेवाह श्लोकद्वयेन । अयोध्याधिपतेः प्रकटीभूतायोध्यास्वामिनः धर्मज्ञस्य सकलधर्मवेदितुः अत एव वदान्यस्य धर्मोपदेशकर्तुः अत एव महर्षिसमतेजसो राज्ञः महाराजाधिराजस्य तस्य प्रकटीभूतस्य दशरथस्य ह्रीश्रीकीर्त्युपमासु तिसृषु भार्यासु चतुर्विधं चतुरः अर्थधर्मकाममोक्षान् विशेषेण दधाति दानार्थं गृह्णाति तमात्मानं कृत्वा प्रकटय्य पुत्रत्वं स्वनिष्ठदशरथनिरूपितनित्यसुतत्वम् आगच्छ लोकान्बोधय । किञ्च आत्मानं साक्षात्स्वांशद्वारा च चतुर्विधं भरतादिसहितं कृत्वा प्रकटय्येत्यर्थः । अत्र प्रार्थयामहे इति वक्तव्ये नियोक्ष्यामहे इत्युक्त्या साकेतरघुनाथविहारस्थत्वं तेषां सूचितम् । तेन साकेताधीशोद्देश्यकोयं याग इति ध्वनितम् । तेन यागकारकऋषेः यागागतदेवादीनां च साकेतस्थत्वं
ध्वनितम् ॥ १।१५।१८,१९ ॥
तत्रेति । हे र्विष्णो रः रेफस्य वाच्यो विष्णुः । ब्रह्मादिष्वपि परिपूर्णो राम इत्यर्थः । तत्सम्बोधनम् । किञ्च हे विष्णो ब्रह्मादित्रिदेवव्यापक मानुषो नराकृतिर्नित्यद्विभुजः परमात्मा त्वं तत्र तासु भार्यासु भूत्वा साक्षात् स्वांशद्वारा च प्रकटीभूय प्रवृद्धं लोककण्टकं दैवतैः देवतानां इमे अधीशाः दैवताः ब्रह्मविष्णुमहेश्वराः दैवतानि देवाः ते च तानि चेत्येकशेषः । तैरवध्यं रावणं समरे त्वं जहि ॥ १।१५।२० ॥
स इति । राक्षसः रघुनाथेच्छया प्राप्तरक्षःस्वभावः । अत एव मूर्खः कार्याकार्यविचाररहितः स प्रसिद्धो रावणः वीर्योत्सेकेन वीर्यहेतुकगर्वविशिष्टेनैव देवादीन्बाधते । हिशब्द एवार्थे ॥ १।१५।२१ ॥
ऋषय इति । ततः प्राप्तरक्षस्स्वभावत्वात् ऋषयः नन्दनवने क्रीडन्तो गन्धर्वाप्सरसश्च रौद्रेण भयङ्करेण तेन रावणेनैव किल प्रसिद्धौ हिंसिताः । तुशब्दश्चार्थे । तथाशब्द एवार्थे ॥ १।१५।२२ ॥
वधार्थमिति । तस्य रावणस्य वधार्यं वधरूपप्रयोजनमुद्दिश्य वयं मुनिभिः सह सिद्धगन्धर्वयक्षाश्च आयाताः सम्मिलिताः । ततो वै तस्मादेव हेतोः शरणं रक्षकं त्वां गताः प्राप्ताः ॥ १।१५।२३ ॥
त्वमिति । हे देव नित्यं क्रीडाविशिष्ट हे परन्तप आश्रितशत्रुसूदन सर्वेषां नो ऽस्माकं परमा उत्कृष्टा गतिः । अतः नृणां लोके विद्यमानानां देवशत्रूणां वधाय त्वं मनः कुरु ॥ १।१५।२४ ॥
एवमिति । देवेशः देवे नित्यं क्रीडने ईशः समर्थः त्रिदशां ब्रह्मादयः पुङ्गवा नसि प्रोता वृषभा इव यस्य सो ऽविष्णुः विष्णुव्यापकः । अत एव सर्वलोकनमस्कृतो रघुनाथः पितामहपुरोगान् ब्रह्मप्रभृतीन् धर्मसंहितान् रामोपासनरूपधर्मं प्राप्तान् समेतान् मिलितान् सर्वान् त्रिदशानब्रवीत् । धर्मसंहितमिति पाठ इति भट्टाः ॥ १।१५।२५ ॥
तद्वचनमेवाह भयमित्यादि सार्द्धश्लोकद्वयेन । भयं त्यजत वो युष्माकं भद्रं कल्याणम् । भवितेति शेषः । कल्याणहेतुमाह देवर्षीणां भयावहं भयप्रदं दुरात्मानं दुर्व्यसनं क्रूरं क्रूरकर्माणं सपुत्रपौत्रं पुत्रपौत्रसहितं सामात्यम् अमात्यसहितं समन्त्रिज्ञातिबान्धवं मन्त्रिज्ञातिबान्धवसहितं रावणं वो हितार्थं युधि हत्वा क्रूरकर्महेतुभूतशरीरं सन्त्यज्य दशवर्षसहस्राणि दशगुणितत्रिसहस्रवर्षाणि । त्रिंशत्सहस्रवर्षाणीत्यर्थः । दशवर्षशतानि दशगुणितत्रिशतवर्षाणि च । त्रिसहस्रवर्षाणीत्यर्थः । सङ्कलनया त्रयस्त्रिंशत्सहस्रवर्षाणि इमां पृथिवीं पालयन्साक्षद्रक्षन्मानुषे लोके मनुष्यदृष्टिपथे वत्स्यामि । अत्र यद्वक्तव्यं तत् ऽदशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वाऽ इत्यत्र प्रथमसर्गे उक्तम् । सार्धं श्लोकद्वयमेकान्वयि ॥ १।१५।२६,२७ ॥
एवमिति । आत्मवान् आत्मानो नियम्यत्वेन सन्ति अस्येति आत्मवान् विष्णुः ब्रह्मादित्रिदेवव्यापकः । एवमनेन प्रकारेण देवानां देवेभ्यो वरं दत्त्वा मानुषे लोके प्रकटीभूतामथ सकलमङ्गलरूपामात्मनो जन्मभूमिमयोध्यां चिन्तयामास सस्मार ॥ १।१५।२८ ॥
तत इति । ततः देवप्रार्थितस्वीकाराद्धेतोः तदा अयोध्यास्मृत्यनन्तरकाले पद्मपलाशाक्षः पद्मपत्रायतनेत्रो रामः चतुर्विधं साक्षात्स्वांशद्वारा च चतुर्मूर्तिमात्मानं कृत्वा पितृमनसि प्रापय्य नृपं राजराजं पितरं नित्यपितरं दशरथं रोचयामास प्रकाशयामास । विनापि प्रत्ययमित्यनेन नित्यपदलोपः ॥ १।१५।२९ ॥
तत इति । ततः प्रार्थितस्वीकारानन्तरं सरुद्राः ब्रह्मरुद्रविष्णुसहिताः साप्सरोगणा अप्सरोगणसहिताः देवर्षिगन्धर्वा दिव्यरूपाभिः दिव्यं प्राकृतविलक्षणं रूपमस्ति वर्णनीयत्वेन यासु ताभिः गुणबोधनवाक्यैः मधुसूदनं तुष्टुवुः । मधुसूदनशब्दार्थस्तु मधुं दैत्यं नारायणद्वारा सूदयति
हिंसयतीति मधुसूदनः । यद्वा मधौ चैत्रे सूः प्रादुर्भावो यस्य स मधुसूः, ईश्वरानुत्कर्षेणानिति पालयतीति उदनः, मधुसूश्चासौ उदनश्च मधुसूदनः । यद्वा उना शम्भुना उद्यते अहर्निशमुच्यते इति ऊत् रामतारकमन्त्रः । तेनानिति संसारमृत्युवारणेन शरणागतान् पालयतीति ऊदनः । मधुसूश्चासौ ऊदनश्च मधुसूदनस्तम् ॥ १।१५।३० ॥
स्तुत्यनन्तरं पुनः प्रार्थितं तदाह तमिति । उद्धतं प्रसिद्धमुग्रतेजसमुत्कटप्रतापं प्रवृद्धदर्पं प्रभूतगर्वविशिष्टं त्रिदशेश्वरद्विषमिन्द्रद्रोहिणम् । अत एव विरावणं सर्वसज्जनदुःखप्रदं तपस्विकण्टकं तपस्विनां परमात्मविचारशीलानां कण्टकं शत्रुम् । विचारविघातकमित्यर्थः । तपस्विनां व्रतपरायणानां भयावहं भयप्रदं तं रावणं साधु यथा स्यात्तथा उद्धर विनाशय । ऽक्षुद्रे शत्रौ च कण्टकम्ऽ इति वैजयन्ती ॥ १।१५।३१ ॥
तमेवेति । सबलं ससैन्यं सबान्धवं राक्षसधर्मकत्वेन बन्धुतां प्राप्तं विरावणं सर्वसज्जनदुःखप्रदमुग्रपौरुषमतिबलवन्तं तं रावणं हत्वैव हे सुरेन्द्र सुष्ठु रा दानं येषां तेषामिन्द्रः तत्सम्बोधनम् । दानिश्रेष्ठेत्यर्थः । गतदोषकल्मषं गतं नित्यं निवृत्तं दोषकल्मषं रागद्वेषादिरूपं मलं यस्मात्, गुप्तं वाङ्मनसगोचरातीतं स्वःपरलोके गोलोके लोक्यते दृश्यते इति स्वर्लोकं साकेतं गतज्वरः निवर्तितसुरसन्तापस्त्वमागच्छ प्राप्नुहि । अत्र गच्छेति वक्तव्ये आगच्छेत्युक्त्या तेषां देवानां साकेतनिवासित्वं व्यक्तम् ॥ १।१५।३२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चदशः सर्गः ॥ १५ ॥