अथेति । अथ तुरङ्गोत्सर्जनानन्तरं पूर्णे संवत्सरे तस्मिन्नुत्सृष्टे तुरङ्गमे प्राप्ते क्रमेण
यज्ञशालामागते सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत उपाक्रामत् ॥ १।१४।१ ॥
ऋष्येति । सुमहात्मनः अतिप्रयत्नविशिष्टस्यास्य त्रिलोक्यां प्रसिद्धस्य राज्ञो दशरथस्य महायज्ञे ऽश्वमेधे द्विजर्षभाः ब्राह्मणाः ऋष्यशृङ्गं पुरस्कृत्य कर्म स्वस्वोचितकृत्यं चक्रुः । ऋष्यशृङ्गं पुरस्कृत्येत्यनेन तस्य प्रधानऋविक्त्वं ध्वनितम् ॥ १।१४।२ ॥
कर्मेति । वेदपारगाः निखिलवेदतत्वावगन्तारो याजका ऋत्विजः कर्म यागोचितस्वस्वकृत्यं विधिवत्कुर्वन्ति । यथाविधि विधिमनतिक्रम्य यथान्यायं मीमांसकोक्तक्रममनतिक्रम्य शास्त्रतः शिक्षयायुक्ताः शिक्षां कुर्वन्त इत्यर्थः ॥ १।१४।३ ॥
परिक्रामन्ित प्रवर्तन्ते । प्रवर्ग्यमिति । द्विजा ब्राह्मणाः प्रवर्ग्यम् अश्वमेधाङ्गभूतकर्मविशेषं उपसदमिष्टिविशेषं च शास्त्रतः मीमांसाद्यनुसारेणैव कृत्वा शास्त्रतः साक्षादुपदिष्टात् अधिकमतिदिष्टं सर्वं कर्म च विधिवच्चक्रुः सम्पादयामासुः । तथाशब्दश्चार्थे ॥ १।१४।४ ॥
अभीति । अभिपूज्य तत्तद्देवतापूजनं विधाय ततः पूजनात् हृष्टाः सर्वे मुनिपुङ्गवाः प्रातःसवनपूर्वाणि प्रातःसवनप्रभृतीनि कर्मविशेषाणि यथाविधि चक्रुः ॥ १।१४।५ ॥
ऐन्द्र इति । ऐन्द्रः इन्द्रदेवताको हविर्विशेषो विधिवद्दत्तः । अनघः पापनिवर्तकः राजा सोमवल्ली अभिष्टुतः मन्त्रैर्यथाविधि प्रशंसितः । अभिषुत इत्यपि पाठः । अश्मभिरभिहत्य निस्सारितसारो ऽभवदित्यर्थः । माध्यन्दिनं सवनं च यथाक्रमं प्रावर्त्तत । अत्रार्थे सूत्रं सोमं राजानं दृषदि निधाय दक्षिणतो ब्रह्मा पश्चादध्वर्युः उत्तरतो होता प्रागुद्गाता स्थित्वा दृषद्भिर्हन्यात् ॥ १।१४।६ ॥
तृतीयेति । सुमहात्मानो ऽस्य राज्ञो दशरथस्य तृतीयसवनं च ते ब्राह्मणपुङ्गवाः ब्राह्मणश्रेष्ठाः शास्त्रतो दृष्ट्वा ज्ञात्वा तथैव पूर्वोक्तप्रकारेणैव चक्रुः ॥ १।१४।७ ॥
आह्वयामिति । शिक्षाणि शिक्षितानि पाठनकाले गुरुणा बोधितानि एव अक्षराणि तैः समन्वितैः । यथावत् स्वरवर्णविशिष्टैरित्यर्थः । मन्त्रैः ऋष्यशृङ्गादयो विबुधोत्तमान् सुरश्रेष्ठान् शक्रादीन् तत्र यागे आह्वयाञ्चक्रिरे ॥ १।१४।८ ॥
गीतिभिरिति । गीतिभिः यथोचितगानविशिष्टैर्मधुरैः मधुरस्वरविशिष्टैः स्निग्धैर्मनोरमैः मन्त्राह्वानैः आह्वानमन्त्रैर्होतार आवाह्य दिवौकसामर्हतो योग्यान्हविर्भागान्ददुः तेभ्यः समर्पयामासुः ॥ १।१४।९ ॥
नेति । तत्र तस्मिन्यागे अहुतं यथोक्तहुतविरुद्धं नाभूत् । स्खलितं च्युतं च किञ्चन कर्म नाभूत् । तत्र हेतुः सर्वं कर्म ब्रह्मवन्मन्त्रयुक्तं दृश्यते । हि यतः क्षेमयुक्तमेव यथा स्यात्तथा चक्रिरे ॥ १।१४।१० ॥
नेति । तेषु अहस्सु भोजनाद्यनर्हयागदिवसेषु श्रान्तः पिपासितः क्षुधितो वा नैव दृश्यते । तत्र तस्मिन्यागे अविद्वान् ब्राह्मणो न । सर्वे विद्वांस एव समागता इत्यर्थः । अशतानुचरः शतसङ्ख्याकानुचररहितश्च न । तथाशब्दश्चार्थे । एको वाशब्द एवार्थे ॥ १।१४।११ ॥
ब्राह्मणा इति । ब्राह्मणा नित्यं यथेच्छं भुञ्जते । नाथवन्तः ब्राह्मणस्वामिकाः क्षत्रियविट्शूद्राश्च यथेच्छं भुञ्जते । तापसा ब्रह्मचारिप्रभृतयः भुञ्जते । तथा श्रमणाः सन्न्यासिनो ऽपि भुञ्जते । वाशब्देन वर्णाश्रमबहिर्भूतपरिग्रहः । तुशब्देन यथेच्छलाभः ॥ १।१४।१२ ॥
वृद्धा इति । वृद्धाः वृद्धतां प्राप्ताः व्याधिता व्याधिग्रस्ताश्च स्त्रीबालाः कन्याश्च चकारेण पुंबालाश्च तथैव भुञ्जते इति पूर्वेणान्वयः । अनिशं निरन्तरं भुज्यमानानां भोज्यमानानां जनानां तृप्तिर्नोपलभ्यते । एतेन भोज्यानामतिस्वादुत्वं ध्वनितम् । किञ्च अमानानां गर्वरहितानां भोजनदातृ़णामनिशं निरन्तरं भुजि भोजनायां भोजनदाने इत्यर्थः । अन्तर्भावितणिजर्थकभुजेर्भावे
क्विप् । तृप्तिर्नैव लभ्यते ॥ १।१४।१३ ॥
अतृप्तिचिह्नमाह दीयतामिति । अन्नं विविधानि वासांसि च दीयतां दीयतामित्यनेन प्रकारेण सञ्चोदिताः अधिकारिभिः प्रेरिता अनेकशः जनास्तत्र यागे । तथा चक्रुर्ददुरित्यर्थः ॥ १।१४।१४ ॥
अन्नेति । पर्वतोपमाः पर्वततुल्याः अन्नकूटा आमान्नसमूहाः बहवस्तत्र दृश्यन्ते । दिवसे दिवसे विधिवत्सिद्धस्यान्नस्य पर्वतोपमसमूहश्च । दृश्यते इत्यध्याहृतम् ॥ १।१४।१५ ॥
नानेति । नानादेशादनेकविधदेशादनुप्राप्ताः समागताः पुरुषास्तथा स्त्रीगणाः स्त्रीसमूहाश्च महात्मनो राज्ञः तस्मिन्प्रसिद्धे यज्ञे अन्नपानैः सुविहिताः सुतर्पिताः । आसन्निति शेषः । उपसर्गवशादेतदर्थलाभः । किञ्च तृप्तिमत्यन्तं प्राप्ताः । प्राप्त्यर्थकहिधातोः कर्तरि निष्ठा । किञ्चान्नपानकर्तृकात्यन्तप्राप्तिकर्मीभूता इत्यर्थः । अस्मिन्पक्षे कर्मणि निष्ठा ॥ १।१४।१६ ॥
अन्नमिति । विधिवत् पाकशास्त्रोक्तविधिनिर्मितमतः स्वादु अतिस्वादु अहो विचित्रमन्नमतस्तृप्ताः स्म अतितृप्तिप्राप्ता वयम् । अतस्ते तव भद्रं कल्याणमस्तु इति द्विजर्षभा ब्राह्मणाः प्रशंसन्तेति राघवो महाराजाधिराजो दशरथः शुश्राव । इतिरुभयान्वयी । हिर्हेतौ ॥ १।१४।१७ ॥
स्वलङ्कृता इति । स्वलङ्कृताः शोभनालङ्कारविशिष्टा एव पुरुषाः ब्राह्मणान्पर्यवेषयन्परिवेषणं चक्रुरित्यर्थः । सुमृष्टमणिकुण्डलाः शोधितमणियुक्तकुण्डलविशिष्टा एव अन्ये परिवेषणकर्तृभ्यो भिन्नाः पुरुषाः तान्परिवेषणकर्तृ़नुपासते । साहाय्यार्थं तैः सहैव गच्छन्तीत्यर्थः । चशब्दावेवार्थौ ॥ १।१४।१८ ॥
कर्मेति । तदा यागकाले कर्मान्तरे सवनयोर्मध्ये । विश्रान्तिकाले इत्यर्थः । सुवाग्ग्मिनः सुपटुवचनाः धीराः सावधानाः विप्राः परस्परजिगीषया परस्परं स्वस्वविजयकाङ्क्षया बहून् भिन्नभिन्नशास्त्रप्रतिपादितानपि हेतुवादान् जगत्कारणविषयकविवादान्प्राहुः । अपिना यागादिविषयकविवादसङ्ग्रहः ॥ १।१४।१९ ॥
दिवसे इति । तत्र तस्मिन्संस्तरे यज्ञे कुशलाः निपुणाः प्रचोदिताः प्रेष्य ब्रूहीत्यादिवैदिकशब्दैः प्रेरितास्ते प्रसिद्धाः द्विजा ब्राह्मणाः यथाशास्त्रं सर्वकर्माणि दिवसे दिवसे चक्रुः । ऽसंस्तरप्रस्तराध्वराःऽ इत्यमरः ॥ १।१४।२० ॥
नेति । तस्य प्रसिद्धस्य राज्ञः अत्र यागे सदस्यः द्विजः अषडङ्गविन्नैवासीत् ॥ १।१४।२१ ॥
प्राप्ते इति । तस्मिन्नश्वमेधे यूपोच्छ्रये यूपानां यज्ञस्तम्भानाम् उच्छ्रये उद्धृत्य स्थापनम् । तस्मिन्काले इत्यर्थः । षट् षट्सङ्ख्याकाः बैल्वाः बिल्वविकारयूपाः उद्धृत्य स्थापिता इति शेषः । बिल्वसहिताः बिल्वयूपसमीपवर्तिनस्तावन्तः षट्सङ्ख्याकाः खादिराः खादिराः खादिरविकारयूपाश्च उद्धृत्य स्थापितास्तथा षट्सङ्ख्याकाः परे बैल्वखादिरसाहित्यरहिताः पर्णिनः पलाशविकारयूपाश्च उद्धृत्य स्थापिताः । ऽपलाशे किंशुकः पर्णोऽ इत्यमरः । पूर्वस्तथाशब्दश्चार्थे ॥ १।१४।२२ ॥
श्लेष्मातकमय इति । अग्निष्ठः अग्निसम्मुखवर्ती श्लेष्मातकमयः रज्जुदालविकारयूपः उद्धृत्य स्थापितः । एकत्वस्यात्र विवक्षितत्वादयं यूप एक एव देवदारुमयः देवदारुविकारयूपश्च उद्धृत्य स्थापितः । अत्रैकत्वस्याविवक्षया तत्सङ्ख्याया अनियमे प्राप्ते तां नियमयन्नाह तत्र तस्मिन्यागे देवदारुमयौ द्वावेव विहितौ । तत्परिमाणमाह बाहुव्यस्तपरिग्रहौ बाहुव्यस्ताभ्यां प्रसारितभुजाभ्यां परिग्रहः परिग्रहणं ययोस्तौ । दिष्ट इति पाठे दिष्ट अश्वमेधे उपदिष्ट इत्यर्थः । एवं सङ्कलनया एकविंशतिर्यूपाः सम्पन्नाः । प्रसिद्धाश्चाश्वमेधीयसूत्रश्रुत्योरिति दिक् ॥ १।१४।२३ ॥
कारिता इति । शास्त्रज्ञैः शास्त्रनिपुणैः यज्ञकोविदैः यागप्रयोगनिपुणैः एते पूर्वोक्ताः सर्वे
एकविंशतिर्यूपाः कारिताः । यथाशास्त्रं पूर्वं निर्मापितास्ते च तस्य प्रसिद्धस्य यज्ञस्य शोभार्थं काञ्चनालङ्कृता भवन् । आगमशास्त्रस्यानित्यत्वादड्विरहः ॥ १।१४।२४ ॥
एकेति । एकविंशत्यरत्नयः एकविंशत्यरत्निपरिमितोन्नताः एकविंशतियूपाः एकविंशद्भिः एकविंशत्या वासोभिर्वस्त्रैः एकैकं समलङ्कृताः एकेन वाससा एकः समलङ्कृतः अपरेणैकेन वाससा अपरः समलङ्कृतः । एवं क्रमेण सर्वे समलङ्कृता इत्यर्थः । अरत्निश्चतुर्विंशतिरङ्गुलयः । तथा हि ऽएकविंशत्यरत्नीरश्वमेधस्यऽ इति श्रुतिः । “चतुर्विंशत्यङ्गुलयो ऽरत्निः” इति सूत्रम् । एकविंशतीत्यत्र सुलोप आर्षः । एकैकमिति सामान्ये नपुंसकम् । एकविंशद्भिरित्यत्र बहुत्वेकारलोपावार्षौ ॥ १।१४।२५ ॥
विन्यस्ता इति । शिल्पशास्त्रक्रियाभिज्ञैः विधिवत् यथाविधि विन्यस्ताः सन्निवेशिताः सुकृताः शोभनं कृतं क्रिया येषु ते अत एव दृढाः अदार्ढ्यशङ्कारहिताः अष्टास्रयः अष्टकोणयुक्ताः अत एव श्लक्ष्णरूपसमन्विताः । एवं सर्वे एकविंशतिः यूपाः ॥ १।१४।२६ ॥
वासोभिः आच्छादिताः पुष्पैर्गन्धैश्च पूजिताः दीप्तिमन्तः ते प्रसिद्धाः सर्वे दिवि सप्तर्षयो यथा सप्तर्षय इव विराजन्ते शोभन्ते । श्लोकद्वयमेकान्वयि ॥ १।१४।२७ ॥
इष्टका इति । तत्र प्रसिद्धे शुल्बकर्मणि यज्ञकर्मणि कुशलैः निपुणैः ब्राह्मणैः यथान्यायं यथोक्तं प्रमाणतः शास्त्रोक्तपरिमाणतः इष्टकाः कारिताः । अग्निः अग्निस्थापनयोग्यो देशश्च चितो निर्मितः । ऽशुल्बं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौऽ इति वैजयन्ती । क्वचिद्यज्ञकर्मणीति पाठः ॥ १।१४।२८ ॥
स चित्य इति । कुशलैर्द्विजैः राजसिंहस्य निखिलराजशिरोमणेर्दशरथस्य स चित्यः चयननिष्पादितोग्निः सञ्चितः यथाशास्त्रं स्थापितः । सञ्चयनप्रकारं बोधयंस्तद्विशेषणान्याह गरुडः गरुडाकृतिः प्रसारितोभयपक्षपुच्छवत्वेन अधोवीक्षमाणत्वेन प्राङ्मुखस्थित्या गरुडाकृतित्वं रुक्मपक्षः सुवर्णमयपक्षविशिष्टः तत्वञ्च सुवर्णेष्टकाभिः पक्षयोर्निर्माणात् त्रिगुणः त्रिगुणितप्रस्तारविशिष्टः । प्रकृतौ षट्प्रस्तारा अत्राष्टादश प्रस्तारा इत्यर्थः । अत एवाष्टादशात्मकः । वैशब्दः प्रसिद्धिद्योतकः । रुक्मपक्षत्वे सूत्रमपि “सहस्रं हिरण्यशकलैः प्रतिदिशमग्निं चिनोति” इति । गरुडाकृतित्वे श्रुतिः “श्येनचित्तिं चिन्वीत” इति । तत्र ऽसुपर्णोसि गरुत्मान्ऽ इति मन्त्रात् श्येनशब्दो गरुडार्थकः ॥ १।१४।२९ ॥
नियुक्ता इति । तत्तद्दैवतं यथोक्तेन्द्रादिदैवतमुद्दिश्य तत्र तेषु यूपेषु प्रचोदिताः शास्त्रविहिताः पशवः उरगाः सर्पाश्च पक्षिणश्च यथाशास्त्रं यथाशिक्षं नियुक्ता निबद्धाः । एवश्चार्थे ॥ १।१४।३० ॥
शामित्र इति । तत्र तस्मिन्शामित्रे विहितहिंसाविशसनादिकर्मणि हयो ऽश्वः शास्त्रतः शास्त्रोक्तत्वेनैवानयनयोग्या ये जलचराः कूर्मादयस्ते सर्वे आनीता एव सन्तीति शेषः । तदा तस्मिन् काले एव एतत्सर्वमानीतहयादि शास्त्रतः शास्त्रविधानत एव ऋत्विग्भिः नियुक्तम् यूपेषु निबद्धम् । तुचतथाशब्दा एवार्थकाः । शास्त्रत इत्युभयान्वयि ॥ १।१४।३१ ॥
नियोजितपशुसङ्ख्यामाह पशूनामिति । तदा तस्मिन्काले तत्र तेषु यूपेषु पशूनां त्रिशतं नियतम् बद्धम् । राज्ञः राजराजस्य दशरथस्य अश्वरत्नोत्तमं च तत्र नियतम् बद्धम् । अश्वरत्नोत्तरमित्यपि क्वचित्पठ्यते । अत्र त्रिशतमित्युक्तिः प्रधानपश्वपेक्षया । अत एव पञ्चशतैकोनविंशतिप्रतिपादकभास्करग्रन्थेन न विरोधः ॥ १।१४।३२ ॥
कौसल्येति । कौसल्या महिषी तत्र शामित्रकर्मणि तं नियतमेनं हयं समन्ततः परिचर्यप्रोक्षणादिना संस्कृत्य परमया मुदा परमहर्षेण त्रिभिः कृपाणैः असिभिः विशशास ।
कौसल्येति पत्न्यन्तरस्याप्युपलक्षकम् । तथा च सूत्रम् “महिष्यश्चास्यासिना कल्पयन्ति” इति ॥ १।१४।३३ ॥
पत्न्याः कर्तव्यान्तरमाह पतत्रिणेति । तदा विशसनानन्तरकाले सुस्थितेन चेतसा युक्ता कौसल्या पतत्ित्रणा पक्षविशिष्टेनाश्वेन सार्द्धं धर्मकाम्यया एकां रजनीमवसत् । पतत्ित्रणा गरुडसदृशवेगविशिष्टेनेति केचित् । ऽपतत्त्रीपक्षितुरगौऽ इत्यमरः ॥ १।१४।३४ ॥
रात्रिवासौत्तरकालिकं होत्रादिकृत्यमाह होतेति । होत्रादयस्त्रयः, तथाशब्देन ब्रह्मा च महिष्या कृताभिषेकया परिवृत्त्या उपेक्षितया च सहितां वावाताम् भोगिनीम् अपरां पालाकलीं च हयेन अश्वेन समयोजयन् । अश्वाङ्गसंयोजनरूपविधिं कारयामासुरित्यर्थः । तथाशब्दश्चार्थे । एतेन “महिषीं ब्रह्मणे ददाति वावातां होत्रे परिवृत्तिमुद्गात्रे पालाकलीमध्वर्यवे” इति सूत्राण्युपन्यस्य पत्नीदानपरत्वेन व्याख्यानं प्रत्युक्तम् । दानस्यात्रानुक्तेः अध्याहारे गौरवाच्च । हस्तेन समयोजयन्निति पाठे तु हयहस्तेनेत्यर्थः । पशूनामग्रिमपादयोर्हस्तत्वात् । अत एव हयेन समयोजयन्निति पाठेन न विरोधः । ऽकृताभिषेका महिषी परिवृत्तिरुपेक्षिता । वावाता भोगिनी पात्रप्रदा पालाकली मताऽ इति वैजयन्ती ॥ १।१४।३५ ॥
पतत्ित्रण इति । नियतेन्द्रियः यतचित्तः परमसम्पन्नः श्रौतप्रयोगादिनिपुणः ऋत्विक् तस्य विधिना हिंसितस्य पतत्रिणो ऽश्वस्य वपां चन्द्रापरनामकं मेदः उद्धृत्य निस्सार्य शास्त्रतः यथाशास्त्रं श्रपयामास पपाच ॥ १।१४।३६ ॥
वपाहोमं व्यञ्जयन्नाह धूमेति । नराधिपो दशरथः वपायाः धूमगन्धं यथाकालं विहितकालमनतिक्रम्यैव यथान्यायं यथाविधि आत्मनः पापं प्रकटपुत्रवियोगहेतुत्वेन प्रतीयमानविघ्नाविशेषं निर्णुदन् दूरीकुर्वन् जिघ्रति स्म । तु शब्द एवार्थे ॥ १।१४।३७ ॥
वपाहवनकृत्यं बोधयित्वाङ्गहवनमाह हयस्येति । हयस्य यानि अङ्गानि तानि सर्वाणि समस्ताः सम्मिलिताः षोडशर्त्विजः ब्राह्मणाः अग्नौ विधिवत्प्रास्यन्ति ॥ १।१४।३८ ॥
अवदाने शाखानियममाह प्लक्षेति । अन्येषामश्वमेधभिन्नानां यज्ञानां हविः देवतोद्देश्यकपशुविशेषः प्लक्षशाखासु क्रियते धृत्वा अवदीयते । अश्वमेधस्य यज्ञस्य भागः, देवतोद्देश्यकपशुविशेषः वैतसे वेतसशाखावस्तुनि क्रियते धृत्वा अवदीयते इष्यते । इत्याचार्यैर्वाञ्छ्यत इत्यर्थः । अत्रार्थे श्रुतिः “प्लक्षशाखायामन्येषां पशूनामवद्यन्ति वैतसशाखायामश्वस्य” इति । एतेन वैतसे कटे इत्यर्थो निर्मूलः ॥ १।१४।३९ ॥
अश्वमेधसाधकदिनसङ्ख्यामाह त्र्यह इति । कल्पसूत्रेण ब्राह्मणैस्तत्कारणभूतब्राह्मणवाक्यैश्च अश्वमेधः त्र्यहसङ्ख्यातः । अत्राहःशब्देन यथोक्ताहःसाध्यसवनानि उच्यन्ते । एवं च त्रीणि यथोक्ताहस्साध्यसवनानि यस्मिन् “अच्प्रत्यन्वव৷৷” इत्यत्राजिति योगविभागादच् । तान्यहान्येव पृथक्कृत्याह तस्य सवनत्रयात्मकयागस्य प्रथममहः तत्साध्यसवनं चतुष्टोमं परिकल्पितम् कथितम् । द्वितीयमहस्साध्यसवनमुक्थ्यं सङ्ख्यातं कथितम् । उत्तरं तृतीयमतिरात्रं तथा सङ्ख्यातम् ॥ १।१४।४० ॥
यागान्तराण्यपि कृतवानिति वर्णयन्नाह कारिता इति । तत्र अश्वमेधसमाप्त्युत्तरकाले शास्त्रदर्शनात् शास्त्रावलोकनमाश्रित्य विहिताः कर्तव्यत्वेन बोधिता बहवः अन्ये ऽपि यज्ञाः कारिता महाराजेन सम्पादिताः ॥ १।१४।४१ ॥
तानेव गणयन्नाह ज्योतिष्टोमेति । ज्योतिष्टोमायुषी अग्निष्टोमायुष्टोमौ प्रथमद्वितीयौ । अतिरात्राविति द्विवचनान्तेनातिरात्रद्वयलाभः । तृतीयचतुर्थौ चेत्यर्थः । निर्मितौ विधिना सम्पादितौ ।
पञ्चमो ऽभिजिच्च षष्ठो विश्वजिच्च आप्तोर्यामौ सप्तमाष्टमौ च महाक्रतुः । एते महाक्रतव इत्यर्थः ॥ १।१४।४२ ॥
दक्षिणाप्रकारमाह प्राचीमित्यादिभिः । पुरा पूर्वं स्वयम्भूविहिते ब्रह्मणाप्रकटीकृते महायज्ञे यागश्रेष्ठे हयमेधे ऽश्वमेधे स्वकुलवर्द्धनो राजा प्राचीं दिशं होत्रे ददौ । प्रतीचीं पश्चिमां च दिशं अध्वर्यवे ददौ । दक्षिणां दिशं ब्रह्मणे ददौ । उदीचीमुत्तरां च दिशमुद्गात्रे तथा ददौ । एषा सर्वदिग्दानरूपा दक्षिणा विनिर्मिता सूत्रे उक्ता द्वयोरेकत्रान्वयः । तथा च सूत्रम् ऽप्रतिदिशं ददाति प्राची दिक् होतुः दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुःऽ इति । यागस्य पूर्वं ब्रह्मनिष्पाद्यत्वे श्रुतिः “प्रजापतिरश्वमेधमसृजत” इति ॥ १।१४।४३,४४ ॥
दानानन्तरकालिकब्राह्मणोक्तिमाह (?) क्रतुमिति । यदा कुलवर्द्धनः पुरुषर्षभः पुरुषश्रेष्ठो राजा न्यायतः यथाविधि क्रतुं समाप्य ऋत्विग्भ्यस्तां पूर्वोक्तां धरां पृथ्वीं हर्षतो ददौ । तुशब्द एवार्थे । हिर्हर्षद्योतकः ॥ १।१४।४५ ॥
तदैव सर्वे ऋत्विजः गतकल्मषं स्वाश्रितकल्मषनिवर्तकं राजनं सर्वे ऋत्विजो ऽब्रुवन् । सार्धश्लोक एकान्वयी । तदुक्तिमेवाह श्लोकत्रयेण । एकः अखण्डमण्डलेश्वरो भवानेव कृत्स्नां महीं रक्षितुमर्हति । तुशब्दस्तदार्थे ॥ १।१४।४६ ॥
नेति । हे भूमिप भूम्या ऽस्माकं न कार्यम् न प्रयोजनम् । हि यतः पालने वयं न शक्तास्तत्रापि हेतुः हि यतः स्वाध्यायकरणे वेदाध्यापनादौ वयं नित्यं रताः ॥ १।१४।४७ ॥
निष्क्रयमिति । इति अतः इह अस्मिन्नेव समये किञ्चित् यथाकामं निष्क्रयं दत्तपृथ्वीमूल्यं भवान् प्रयच्छतु । तदेवाह मणिरत्नं मणिश्रेष्ठं सुवर्णं च गावश्च यत् अन्यत्समुद्यतम् अस्मदर्थमुपस्थापितं च ॥ १।१४।४८ ॥
तदेवोपसंहरन्नाह तिदिति । हे नृपश्रेष्ठ तदस्मद्याचितं प्रयच्छ देहि । धरण्या पृथिव्या न प्रयोजनम् नास्मत्कार्यसिद्धिः । एतेन तत्रस्थब्राह्मणानां सन्तोषातिशयः सूचितः । एवमनेन प्रकारेण वेदपारगैर्ब्राह्मणैरुक्तो ऽनरपतिः न नरपतिः राजा यस्य चक्रवर्तीत्यर्थः । नृपो दशरथः ॥ १।१४।४९ ॥
गवां दश दशगुणितानि शतसहस्राणि । दशलक्षगवीरित्यर्थः । सुवर्णस्य सुवर्णमुद्रायाः दशकोटीः । रजतस्य रजतमुद्रायाः चतुर्गुणम् । चत्वारिंशत्कोटिमित्यर्थः । तेभ्यः ऋत्विग्भ्यो ददौ ॥ १।१४।५० ॥
ऋत्विज इति । ततः राजदत्तदक्षिणास्वीकारानन्तरमेव सहिताः मिलिताः सर्वे ऋत्विजः मुनये राममननशीलाय धीमते प्रशस्तबुद्धियुक्ताय ऋष्यशृङ्गाय वसिष्ठाय च वसु सर्वं प्राप्तं धनं प्रददुः तयोरग्रे स्थापयामासुः । तुशब्द एवार्थे ॥ १।१४।५१ ॥
तत इति । ततः द्रव्यस्थापनानन्तरं सर्वे द्विजोत्तमाः ब्राह्मणा मुनयो न्यायतः यथाशास्त्रं प्रविभागं कृत्वा ऋष्यशृङ्गवसिष्ठाभ्याङ्कारयित्वा भृशं सुप्रीतमनसः सन्तः प्रत्यूचुः । कृत्वेत्यत्र अन्तर्भावितणिजर्थः ॥ १।१४।५२ ॥
तत इति । ततः ऋत्विग्दक्षिणादानानन्तरं तदा तत्प्रसादकाले सुसमाहितः एकाग्रचित्तो राजा प्रसर्पकेभ्यो यज्ञदर्शनार्थमागतेभ्यो ब्राह्मणेभ्यः कोटिसङ्ख्यं जाम्बूनदं जम्बूनदीसम्भवं हिरण्यं सुवर्णं ददौ । विभज्य यथाकामं समर्पयामास । तुशब्देन अन्येभ्यो ऽपि यथाकामं ददौ । कोटिशब्दो ऽनन्तवाची ॥ १।१४।५३ ॥
दरिद्रायेति । अथ सर्वसन्तोषप्रापणानन्तरम् उत्तमं हस्ताभरणं याचमानाय कस्मैचिद्द्विजाय राघवनन्दनः रघुकुलवर्धनो दशरथो ददौ ॥ १।१४।५४ ॥
तत इति । ततः हस्ताभरणदानानन्तरं द्विजेषु विधिवत्प्रीतेषु प्रसादितेषु द्विजवत्सलो हर्षपर्याकुलेक्षणो राजा तेषां द्विजानां प्रणाममकरोत् ॥ १।१४।५५ ॥
तस्येति । उदारस्य अदेयवस्त्वभाववतः धरण्यां प्रणतस्य विप्रोद्देश्यकसाष्टाङ्गप्रणामं कुर्वतः नृवीरस्य वीरपुरुषस्य तस्य प्रसिद्धस्य राज्ञः विविधा अनेकप्रकारा अथाशिषः परममङ्गलाशीर्वादाः ब्राह्मणैः समुदाहृताः सम्यगुच्चारिताः । अशोभन्तेति शेषः ॥ १।१४।५६ ॥
तत इति । अनुत्तमं न उत्तमं यस्मात् । सर्वोत्तममित्यर्थः । पापापहं स्वनित्यपुत्रवियोगहेतुभूतविघ्नध्वंसकम्, स्वर्नयनं प्राकृतजानानां स्वर्गप्रापकम्, पार्थिवर्षभैः खण्डमण्डलेश्वरश्रेष्ठैर्दुस्तरं दुष्प्रापं यज्ञं प्राप्य राजा ततः ब्राह्मणाशीर्वादश्रवणात् प्रीतमनाः अतिप्रसन्नचित्तो बभूवेति शेषः ॥ १।१४।५७ ॥
अश्वमेधसमाप्त्युत्तरकालिकं वृत्तमाह तत इति । तदा साङ्गाश्वमेधसमाप्त्यनन्तरकाले ततः सुमन्त्रवचनस्मरणात् राजा दशरथः ऋष्यशृङ्गमब्रवीत् । तद्वचनमेवाह हे सुव्रत शोभनो व्रतः सङ्कल्पो यस्मात् । ईप्सितपूर्तिसम्पादकेत्यर्थः । कुलस्य वर्द्धनं यत् तत्कर्म कर्तुं त्वमर्हस्येव । तुशब्द एवार्थे ॥ १।१४।५८ ॥
तथेति । द्विजसत्तमो द्विजश्रेष्ठः स प्रसिद्धः ऋष्यशृङ्ग हे राजन् तथा तत्कर्माहं करिष्यामि येन कर्मणा कुलोद्वहाः चत्वारस्ते सुताः भविष्यन्ति इति राजानमुवाच । च शब्दो येनेत्यर्थे ॥ १।१४।५९ ॥
स इति । महात्मा स प्रसिद्धो नृपेन्द्रो राजराजौ दशरथः तस्य ऋष्यशृङ्गस्य मधुरं वाक्यं निशम्य श्रुत्वा परममतुलं हर्षं जगाम प्राप । तस्मै तमनुकूलयितुं प्रणम्य नमस्कृत्य प्रयत मत्पुत्रप्राकट्यार्थं प्रयत्नं कुरु इति तमृष्यशृङ्गं पुनःपुनरुवाच । उरित्यर्थे (?) अपिः पुनरर्थे ॥ १।१४।६० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चतुर्दशः सर्गः ॥ १४ ॥