“संवत्सरान्ते दीक्षेत्” इति सूत्रोक्तविधिना पूर्ववसन्ते ऽश्वमेधीयो ऽश्वो विसृष्ट इत्युक्तम् । पुनर्वसन्तप्राप्तौ यागप्रवृत्तिरित्याह पुनरित्यादिभिः । यस्मिन्वसन्ते पुनः प्राप्ते सति संवत्सरः पूर्णो ऽभवत् । तस्मिन्नश्वोत्सर्जनकालिकवसन्तादुत्तरकालिकवसन्ते प्राप्ते सतीत्यर्थः । वीर्यवान् महापराक्रमविशिष्टः राजा दशरथः प्रसवार्थं स्वनित्यपुत्रप्राकट्यार्थं हयमेधेन यष्टुम् अश्वमेधयागं कर्तुं गतः वसिष्ठसमीपं प्राप्तः । तुशब्दो यस्मिन्नित्यर्थे तद्बलात्तस्मिन्नित्यध्याह्रियते ॥ १।१३।१ ॥
अभीति । वसिष्ठमभिवाद्य नमस्कृत्यैव न्यायतः प्रतिपूज्य च प्रसवार्थं स्वपुत्रप्राकट्यप्रयोजनकं प्रश्रितं प्रणयविशिष्टं वाक्यं द्विजोत्तमं वसिष्ठमब्रवीत् ॥ १।१३।२ ॥
तद्वाक्यमेवाह यज्ञ इति । हे मुनिपुङ्गव विप्र यथोक्तं यथाशास्त्रं मम ईप्सितो यज्ञः क्रियताम् निष्पाद्यताम्, यथा येन प्रकारेण यज्ञाङ्गेषु विघ्नो न क्रियते । इन्द्राद्यैरिति शेषः । तथा विधीयताम् ॥ १।१३।३ ॥
भवानिति । स्निग्धः स्नेहविशिष्टः अत एव सुहृत् मह्यं मम परमोत्कृष्टो गुरुः अत एव महान्सर्वपूज्यो भवानेव । अतः यज्ञस्य उद्यतः प्राप्तो भारो भवतैव वोढव्यः । चशब्द एवार्थे । अपरौ चकारौ हेत्वर्थे ॥ १।१३।४ ॥
तथेति । भवता यत् एतत्समर्थितं प्रार्थितं तत्सर्वं तथैव करिष्ये एव इति राजानं स द्विजसत्तमो वसिष्ठो ऽब्रवीत् । चशब्द एवार्थे ॥ १।१३।५ ॥
तत इति । ततः यज्ञभारनिर्वहणस्वीकारानन्तरं यज्ञकर्मसु निष्ठितान् यज्ञप्रयोगनिपुणान्वृद्धान्बहुज्ञान्द्विजान् परमधार्मिकान्परमधर्मानुष्ठानकर्तृ़न् स्थापत्ये यागविषयकशिल्पकर्मणि निष्ठितान् निपुणान्वृद्धान्बहुद्रष्टृ़न् च द्विजानब्रवीत् । वसिष्ठ इति शेषः । द्विजानित्युभयान्वयि ॥ १।१३।६ ॥
कर्मेति । कर्मान्तिकान्कर्मणामन्तिकाः समाप्तिकर्तारः । समाप्तिपर्यन्तं कर्मनिर्वाहका भृत्या इत्यर्थः । ताञ्छिल्पकरान् इष्ट्यादिनिर्माणकर्तृ़न् च वर्द्धकान् यूपादिनिर्माणकर्तृतक्ष्णश्च खनकान्यागोपयोगिकुण्डादिखननकर्तृ़ंश्च गणकान् ज्योतिश्शास्त्रनिपुणान् च शिल्पिनः चित्रादिनिर्मातृ़न् च नटनर्तकान्नटा रसाभिनयकर्तारः नर्तकाः भावाभिनयकर्तारः ते च ते चेति द्वन्द्वः । तान् च ॥ १।१३।७ ॥
शुचीञ्छुद्धान् शास्त्रविदः यागप्रतिपादकशास्त्रेष्वतिनिपुणांश्च सुबहुश्रुतान्पुरुषाँश्चाब्रवीदिति पूर्वेणैवान्वयः । अत्राव्ययानि चार्थानि । तद्धीनेष्वप्यावृत्त्या ऽन्वेतव्यानि ॥ १।१३।८ ॥
वसिष्ठोक्तिमेवाह यज्ञेति । भवन्तः सर्वे राजशासनात् राजाज्ञातः यज्ञकर्म समीहन्ताम् । यागोपयोगिस्वस्वक्रियानिष्पाद्यं कर्म कुर्वन्तु इत्यर्थः । तदेव विशिष्याह बहुसाहस्री बहुसहस्रसङ्ख्या इष्टिका शीघ्रमानीयतामित्याह । एकत्वं जात्यभ्युपगमात् ॥ १।१३।९ ॥
औपकार्या इति । राज्ञां निवासायेति शेषः । बहुगुणान्विताः अनेकविधान्नपानादियुक्ता एव औपकार्या राजसद्मानि क्रियन्ताम् । शुभा रमणीयाः भक्ष्या इति बहुभिः भक्ष्यान्नपानैः समुपेताः सुयुक्ताः सुनिष्ठिताः वातवषार्दिभिरभिभवितुमशक्याः शतशो ब्राह्मणावसथाः ब्राह्मणगृहाणि च कर्तव्याः । चकारेण तत्र तत्र कूपादिनिर्माणं च क्रियतामित्यर्थः । ऽराजसदनमुपकार्योपकारिकाऽ इत्यमरः । प्रज्ञादिभ्यश्चेत्यनेनात्राण् । आवसथाश्चेति पुंस्त्वमार्षम् । सार्द्धश्लोक एकान्वयी ॥ १।१३।१० ॥
तथेति । बहुविस्तराः बहुविस्तारयुक्ताः बहुभक्ष्याः भक्षणीयफलादिपूर्णाः सर्वकामैः
ईप्सितनिखिलपदार्थैः उपस्थिताः संयुक्ताः पौरजनस्याप्यावासाः कर्तव्या एव । तथाशब्देनात्रापि कूपादिनिर्माणं कार्यमित्यर्थः वैशब्द एवार्थे ॥ १।१३।११ ॥
पौरेति । बहुशोभनमतिस्वाद्वन्नं सत्कृत्य पौरजानपदस्य जनस्य पौरजानपदजनेभ्यो विधिवद्दातव्यम् । अपिशब्दः तत्रागतजनान्तरसङ्ग्राहकः । लीलया विलासबुद्ध्या नतु नैवदातव्यम् । यथा येन प्रकारेण सर्ववर्णाश्रमाः सुसत्कृताः सन्तः पूजां प्राप्नुवन्ति तथा तेन प्रकारेण कार्यमिति शेषः । षष्ठी सम्बन्धसामान्यविवक्षया ॥ १।१३।१२ ॥
न चेति । कामक्रोधवशात् । अपिना विलासात् अवज्ञा अनादरः न प्रयोक्तव्या नैव कर्तव्या । ये यज्ञकर्मसु यागोपयोगिक्रियासु व्याग्राः तदेकचित्ताः पुरुषाः शिल्पिनः चित्रादिनिर्मातारश्च । तथाशब्दश्चार्थे ॥ १।१३।१३ ॥
तेषामिति । तेषां यथाक्रमं विशेषेण पूजा कार्या । अपिशब्देनातिथ्यभ्यागतादिसङ्ग्रहः । वसुभिर्धनैर्भोजनेन च सम्भृतास्ते स्युः । चकारान्तरेण सूक्तिसङ्ग्रहः । ये स्युः सम्पूजिताः सर्वे इति भट्टसम्मतः पाठः ॥ १।१३।१४ ॥
यथेति । यथा येन प्रकारेण सर्वं कृत्यं सुविहितं सुष्ठु साधितं स्यात् किञ्चित्कृत्यं न परिहीयते विधिना न परित्यज्यते न्यूनतां न प्राप्नोति तथा तेन प्रकारेण प्रीतिस्निग्धेन स्नेहार्द्रेण चेतसोपलक्षिता भवन्तः कुर्वन्तु । प्रीतियुक्तेनेति भट्टसम्मतः पाठः ॥ १।१३।१५ ॥
तत इति । ततः वसिष्ठाज्ञापनश्रवणानन्तरं सर्वे वसिष्ठाज्ञप्ताः समागम्य वसिष्ठमिदं वचनमब्रुवन् । तदुक्तिमेवाह तत्प्रसिद्धं यथा यथावत् उक्तं भवद्वचनं सुविहितं वेदबोधितं अतः किञ्चिद्भवदुक्तं न परिहीयते विधिना न परित्यज्यते । न्यूनतां न प्राप्नोतीत्यर्थः ॥ १।१३।१६ ॥
यथेति । तदुक्तं भवदाज्ञापितं तत्कृत्यं यथा यथावत्करिष्यामः । यतः किञ्चिदपि कृत्यं परिहीयते विधिना न परित्यज्यते ॥ १।१३।१७ ॥
तत इति । ततः अङ्गीकारवचनश्रवणानन्तरं सुमन्त्रमानीय वसिष्ठः वाक्यमब्रवीत् । तद्वाक्यमेवाह ये पृथिव्यां धार्मिकाः नृपतयः तान्नृपतीन् निमन्त्रयस्व । चकारेणान्यानपि निमन्त्रयस्व ॥ १।१३।१८ ॥
तानेवाह ब्राह्मणानित्यादिभिः । सर्वदेशेषु विद्यमानान् सहस्रशो ब्राह्मणादीन्मानवान् वर्णबाह्यानपि सुसत्कृत्य समानयस्व ॥ १।१३।१९ ॥
मिथिलेति । शूरं शौर्य्यविशिष्टं सत्यविक्रमं कापट्यरहितविक्रमविशिष्टं सर्वशास्त्रे सुनिष्ठितं निपुणं तथा तेन प्रकारेण वेदेषु निष्ठितं महाभागं परमभाग्यवन्तं पूर्वसम्बन्धिनं दशरथनिरूपितनित्यसम्बन्धविशिष्टं तं प्रसिद्धं मिथिलाधिपतिं जनकं सुसत्कृतं यथा भवति तथा स्वयमेव ततो मिथिलातः पूर्वं प्रथममानय इति । ज्ञात्वा विचार्याहं ते तुभ्यं ब्रवीमि । ज्ञात्वा ब्रवीमीत्यनेन वसिष्ठस्य रघुनाथनित्यपरिकरस्थत्वं व्यक्तम् । पूर्वसम्बन्धिनमित्यनेन जनकस्यापि तत्वं व्यक्तम् ॥ १।१३।२०,२१ ॥
तथेति ॥ १।१३।२२ ॥
तथेति । केकयराजानमित्यत्र समासान्तविधेरनित्यत्वाट्टजभावः । राजसिंहस्य दशरथस्य ॥ १।१३।२३ ॥
अङ्ग इति ॥ १।१३।२४ ॥
प्राचीनानिति । प्राचीनान्प्राग्देशसम्भवान् ॥ १।१३।२५ ॥
सन्तीति । स्निग्धाः स्नेहयुक्ताः ॥ १।१३।२६ ॥
वसिष्ठेति । तदा वसिष्ठाज्ञापनकाले तत्प्रसिद्धं वसिष्टवाक्यं श्रुत्वा त्वरितः त्वरां प्राप्तः सुमन्त्रः तत्र वसिष्ठाज्ञापिते राज्ञामानयने शुभान्निपुणान्पुरुषान् व्यादिशत् ॥ १।१३।२७ ॥
सामान्यराजानानेतुं पुरुषान्नियुज्य वसिष्ठोपदिष्टविशेषराजानानेतुं सुमन्त्रः स्वयं जगामेत्याह स्वयमिति । धर्मात्मा परमधर्मज्ञः सुमन्त्रः मुनिशासनाद्वसिष्ठाज्ञापनात् त्वरितो भूत्वा महीक्षितः वसिष्ठोपदिष्टराजविशेषान् समानेतुं प्रयातः ॥ १।१३।२८ ॥
ते चेति । पूर्वं वसिष्ठाज्ञापिताः सर्वे कर्मान्तिका आसमाप्तिकर्मनिर्वर्तकाः महर्षये वसिष्ठाय यत् यज्ञे उपकल्पितं सम्पादितं तत्सर्वं निवेदयन्ति स्म । चकारेणान्ये ऽपि तदाज्ञापिताः सम्पादितं स्वस्वकार्यं निवेदयन्ति स्म ॥ १।१३।२९ ॥
तत इति । ततः सम्पादितसर्ववस्तुश्रवणात्प्रीतः प्रसन्नो द्विजश्रेष्ठो वसिष्ठः तान् स्वस्वकृत्यनिवेदयितृ़न्सर्वान् पुनरब्रवीत् । तदुक्तिमेवाह अवज्ञया ऽनादरेण लीलया विलासबुद्ध्या वा कस्यचित् कस्मैचित् नैव दातव्यम् । अपिरेवार्थे । अवज्ञया दाने दोषमाह अवज्ञया अनादरेण कृतं दानं दातारं हन्यात् । अत्र संशयः सन्देहो न कार्यः । एतेन वसिष्ठस्य वेदमर्यादापालकत्वं ध्वनितम् ॥ १।१३।३० ॥
तत इति । ततः सुमन्त्रादिगमनानन्तरं कैश्चिदहोरात्रैः कतिपयदिवसैः बहूनि रत्नान्यादाय उपायनं गृहीत्वैव राज्ञो दशरथस्य समीपे महीक्षितः राजान उपयाताः प्राप्ताः ॥ १।१३।३१ ॥
तत इति । ततः राजागमनानन्तरं सुप्रीतो अतिप्रसन्नचित्तः वसिष्ठः राजानं दशरथं हे नरव्याघ्र पुरुषसिंह तव शासनात् आज्ञापनात् राजान उपयाताः प्राप्ताः इति अब्रवीत् अकथयत् ॥ १।१३।३२ ॥
मयेति । हे राजन् सर्वे आगता राजसत्तमा मया ये (ते) सत्कृताः । चकारेणान्ये ऽपि यथार्हं समागतास्ते सत्कृता इत्यर्थः । सुसमाहितैः सावधानैः पुरुषैर्यज्ञियं यज्ञोपयोगि वस्तु कृतं सम्पादितम् । वस्तुजातमित्यर्थः ॥ १।१३।३३ ॥
निरिति । उपहृतैर्जनैरानीतैः सर्वकामैः समन्ततः उपेतं युक्तं यज्ञायतनं यज्ञशालां यष्टुं भवान् निर्यातु । हे राजेन्द्र मनसा इव विनिर्मितं शीघ्रं सम्पादितम् अन्तिकादेव द्रष्टुमर्हसि । सार्द्धश्लोक एकान्वयी । एवशब्द इवार्थे । वैशब्द एवार्थे ॥ १।१३।३४ ॥
तथेति । वसिष्ठस्य ऋष्यशृङ्गस्य च उभयोर्वचनादेव शुभे ज्योतिश्शास्त्रसम्मते दिवसनक्षत्रे जगतीपतिः राजा निर्यातः यागशालां प्राप्तः । तथाशब्द एवार्थे ॥ १।१३।३५ ॥
तत इति । ततः राजागमनानन्तरं वसिष्ठप्रमुखाः वसिष्ठादयः सर्वे द्विजोत्तमाः तदा राजागमनकाले ऋष्यशृङ्गं पुरस्कृत्यैव यज्ञवाटं यज्ञशालां गताः प्राप्ताः सन्तः यथाशास्त्रं शास्त्रमनतिक्रम्य यथाविधि यथाक्रमं यज्ञकर्म आरभन् आरभन्त ॥ १।१३।३६,३७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकण्डे त्रयोदशः सर्गः ॥ १३ ॥