अश्वमेधोपक्रममाह तत इत्यादिभिः । ततः ऋष्यशृङ्गस्य पुरप्राप्त्यनन्तरं बहुतिथे अल्पभिन्ने काले । गते सतीति शेषः । सुमनोहरे दोषोपद्रवादिराहित्येन समुचिततिथ्यादिप्राप्तत्वेन रमणीये कस्मिंश्चिद्विलक्षणे वसन्ते समनुप्राप्ते सति राज्ञो दशरथस्य मनो यष्टुं यागं कर्तुमभवत् प्रावर्तत ॥ १।१२।१ ॥
तत इति । ततः यागानुकूलमनस्कत्वानन्तरं देववर्णिनं दिव्यतेजसं तं विप्रम् ऋष्यशृङ्गं शिरसा प्रणम्य कुलस्य सन्तानार्थमेव यज्ञाय यज्ञं प्रवर्तयितुं वरयामास ब्रह्मत्वेन स्वीचकार । चशब्द एवार्थे ॥ १।१२।२ ॥
तथेति । स ऋष्यशृङ्गः वसुधाधिपं सार्वभौमं राजानं दशरथं तथा यागानुकूलमिति वक्ष्यमाणं वचः उवाच । वचनमेवाह सम्भाराः सम्भ्रियन्तामित्यादि । अर्थस्तुपूर्ववत् ॥ १।१२।३ ॥
तत इति । ततः ऋष्याज्ञापनानन्तरं राजा दशरथो मन्ित्रसत्तमं सुमन्त्रं वाक्यमब्रवीत् । वाक्यमेवाह हे सुमन्त्र ब्रह्मवादिनो वेदज्ञान् ऋत्विजः क्षिप्रं शीघ्रमावाहय मत्समीपं प्रापय ॥ १।१२।४ ॥
सुयज्ञमिति । एतदारभ्य हयमेधेन कर्मणेत्येतत्पर्यन्तं श्लोकसार्द्धचतुष्टयं पूर्वमपीत्थं पठितमिति तद्व्याख्यानमेवैतद्व्याख्यानं बोध्यम् ॥ १।१२।५९ ॥
ऋषीति । ऋषिपुत्रस्य ऋष्यशृङ्गस्य प्रभावेण रामसाक्षात्कारजनिततेजसा अहं कामान्प्राप्स्याम्येव । अपिना देवकार्यसिद्धिश्च भविष्यति । चशब्द एवार्थे । तत इति । ततः राजवाक्यश्रवणानन्तरं पार्थिवस्य राज्ञः मुखाच्च्युतं तत्प्रसिद्धं वाक्यं वसिष्ठप्रमुखाः सर्वे ब्राह्मणाः साधु शोभनमिति प्रत्यपूजयन् ॥ १।१२।१० ॥
ऋष्येति । तदा तस्मिन्काले ऋष्यशृङ्गपुरोगा ऋष्यशृङ्गप्रभृतयः नृपतिं राजानं प्रत्यूचुः । तद्वचनमेवाह सम्भारा इत्यादिभिः ॥ १।१२।१११३ ॥
तत इति । द्विजभाषितं श्रुतवान् द्विजभाषितश्रवणविशिष्टो राजा प्रीतो ऽभवत् । ततः प्रीतिप्राप्त्यनन्तरं राजा शुभाक्षरं मधुराक्षरविशिष्टमिदं वचनं हर्षेण अमात्यान् अब्रवीत् । व्याख्यातार्था इतःप्रभृति षट् श्लोकाः ॥ १।१२।१४२० ॥
तत इति । धर्मज्ञं पार्थिवर्षभं राजराजं ते तत्रागताः द्विजाः ततः अतिपुण्यसम्पादकधर्माचरणादस्तुवन् प्राशंसन् । ततः प्रशंसाकरणानन्तरमनुज्ञाताः राजाज्ञां प्राप्ताः सर्वे द्विजाः यथागतं पुनर्जग्मुः । स्वस्वाश्रममिति शेषः ॥ १।१२।२१ ॥
गतानामिति । द्विजातीनां गतानां द्विजातिषु गतेषु सत्सु तानागतान् मन्त्रिणः विसर्जयित्वा सम्प्रेष्य । ल्यबभाव आर्षः । महामतिः नराधिपः स्वं वेश्य अन्तःपुरं प्रविवेश । सप्तम्यर्थे षष्ठी ॥ १।१२।२२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे द्वादशः सर्गः ॥ १२ ॥