ऋष्यशृङ्गो भवद्भिरवश्यमानेतव्य इति बोधयितुं सुमन्त्रः स्वपूर्वश्रुतमाह भूय इत्यादिभिः । हे राजेन्द्र देवप्रवरः देवश्रेष्ठः स सनत्कुमारः कथायां नानेतिहासवर्णनावसरे एव हितं हितकारकं वचनं यथा येन प्रकारेणाब्रवीत् एवं तेन प्रकारेणैव मे मत्तः शृणु ॥ १।११।१ ॥
वचनस्वरूपमाह इक्ष्वाकूणामिति । सुधार्मिकः परमधर्माचरणशीलः इक्ष्वाकूणां कुले जातः प्रकटितश्रीमान्सर्वसम्पत्तिविशिष्टः सत्यप्रतिश्रवाः सत्यप्रतिज्ञः राजा महाराजाधिराजो नाम्ना दशरथः दशरथनामा भविष्यति ॥ १।११।२ ॥
अङ्गेति । तस्य प्रसिद्धस्य राज्ञो दशरथस्य रोमपादेन साकं सख्यं भविष्यति । अङ्गं स्वपितरं राजयति तद्वत् राजते वा । तेन अङ्गराजेन अस्य राज्ञो दशरथस्य शान्ता नाम कन्या भविष्यति । चकारेण कन्याद्वारा वंशप्ररोहणाय दशरथदत्तशान्ता कन्यात्वेन रोमपादेन गृहीता इति तस्यापि कन्या शान्ता भविष्यति । चकारान्तरं सहार्थे । यत्तु अस्येत्यनेनाङ्गराजपरामर्शः । तत्सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वमिति नियमविरोधात् प्रत्यासत्तिन्यायविरोधाच्च ऽरोमपाद इति ख्यातस्तस्मै दशरथः सखा । शान्तां स्वकन्यां प्रायच्छद् ऋष्यशृङ्ग उवाह ताम्ऽ इति भागवतविरोधाच्च हेयम् ॥ १।११।३ ॥
रोमपादः कस्य वंश इत्याकाङ्क्षायामाह पुत्र इति । अङ्गस्य अङ्गसञ्ज्ञस्य राज्ञः पुत्रः रोमपाद इति श्रुतः ख्यातः । महायशाः दशरथः तम् अङ्गराजं रोमपादं गमिष्यत्येव । तुना अङ्गराजेन पूजितश्च भविष्यति । एकस्तुशब्दः एवार्थः ॥ १।११।४ ॥
तत्रागतदशरथोक्तिमाह अनपत्य इति । हे धर्मात्मन् अनपत्यः अप्रादुर्भूतस्वनित्यपुत्रकः अहमस्मि । अतः कुलस्य मम वंशस्य सन्तानार्थं प्रवृद्ध्यर्थं त्वया आज्ञप्तः त्वदाज्ञां प्राप्तः शान्ताभर्ता शान्तापतिः ऋष्यशृङ्गः मम क्रतुं मदीप्सितयागमाहरेत् कारयेत् । चो हतौ ॥ १।११।५ ॥
श्रुत्वेति । राज्ञः दशरथस्य अथ मङ्गलस्वरूपं तत्प्रसिद्धं वाक्यं श्रुत्वा मनसा विचिन्त्य युक्तमेव याचते इति विचार्य । चकारेण अतो दास्यामीति निश्चित्य । पुत्रवन्तं जातपुत्रकम् । किञ्च पुत्रो दशरथनित्यसुतो रामः तद्वन्तम् तत्परायणमित्यर्थः । शान्ताभर्तारमात्मवान् परमबुद्धिमान् प्रदास्यते । पुत्रवन्तमित्यनेन ऽजातपुत्रः कृष्णकेशो ऽग्नीनादधीतऽ इति विधिबोधिताधिकारवत्ता सूचिता । रामपरायणमित्यनेन तत्प्राकट्यस्यावश्यम्भावित्वं ध्वनितम् । शान्ताभर्तारमित्यनेन दाने तत्साहित्यं सूचितम् ॥ १।११।६ ॥
प्रतीति । तं रोमपादसमर्पितं विप्रं प्रतिगृह्यैव विगतज्वरः एतद्गमनेनावश्यं पुत्रप्राकट्यं
भवितेति निश्चयेन विगतो निवृत्तः ज्वरः पुत्रवियोगजनितसन्तापो यस्य स प्रसिद्धो राजा दशरथः प्रहृष्टेन हर्षविशिष्टेन अन्तरात्मना मनसा तमीप्सितं यज्ञमाहरिष्यति ऋषिणा साधयिष्यति । चशब्द एवार्थे ॥ १।११।७ ॥
तमिति । यशस्कामः ईश्वरो ऽस्य पुत्रो ऽस्ति इति इह लोके ऽपि प्रख्यात्यभिलाषी अत एव कृताञ्जलिः बद्धयुगलकरः जनेश्वरः जननियन्ता धर्मवित्सकलधर्मस्य वेदिता राजा दशरथः तं शान्तापतिं द्विजश्रेष्ठमृष्यशृङ्गं यज्ञार्थं पुत्रेष्टिनिर्वृत्त्यर्थं प्रसवार्थमिष्टिफलीभूतस्वनित्यपुत्रप्राकाट्यार्थं स्वर्गार्थं रावणोपद्रुतस्वर्गादिस्वास्थ्यार्थं च वरयिष्यति ऋत्विक्त्वेन स्वीकरिष्यति । तात्स्थ्यात्ताच्छद्ब्यम् । चशब्दो हेत्वर्थे । सार्द्धश्लोक एकान्वयी ॥ १।११।८ ॥
लभत इति । स प्रसिद्धः विशांपतिः राजा दशरथः विप्रमुख्याद् ऋष्यशृङ्गात्तं स्वेप्सितं कामं लभते च प्राप्स्यत्येव । चशब्द एवार्थे ॥ १।११।९ ॥
ईप्सितं प्रकटयन्नाह पुत्रा इति । अस्य महाराजाधिराजदशरथस्य अमितविक्रमाः अप्रमेयपराक्रमाः अत एव वंशप्रतिष्ठानकराः मनुवंशप्रतिष्ठासम्पादकाः अत एव सर्वलोकेषु विश्रुताः ख्याताः चत्वारः पुत्रा भविष्यन्त्येव ॥ १।११।१० ॥
एवमिति । हे देव देवप्रवरः देवश्रेष्ठः भगवान् सकलविद्याविज्ञाता प्रभुः तत्त्वबोधनसमर्थः सः प्रसिद्धः सनत्कुमारः पुरायुगे सत्ययुगे पूर्वं युगप्रारम्भे एवमनेन प्रकारेण कथामुक्तवान् ॥ १।११।११ ॥
स त्वमिति । हे पुरुषशार्दूल पुरुषसिंह राजेन्द्र सबलवाहनः राजपरिकरसहितः सः प्रसिद्धस्त्वं स्वयमेव गत्वा सुसत्कृतं तम् ऋष्यशृङ्गमानयैव । चशब्द एवार्थे ॥ १।११।१२ ॥
अन्विति । सान्तःपुरः अन्तःपुरसहितः सहामात्यः अमात्यसहितः दशरथः सूतवाक्यं निशम्य श्रुत्वा वसिष्ठमनुमान्य च वसिष्ठसम्मतिं लब्ध्वा चेत्यर्थः । यत्र यस्मिन्पुरे स द्विजः ऋष्यशृङ्गः तत्रैव प्रययौ । एकश्चकार एवार्थे । सान्तःपुर इत्युक्त्या औत्सुक्याधिक्यं सूचितम् । वसिष्ठमनुमान्येत्यनेन राज्ञो मर्यादापालकत्वं व्यक्तम् । वसिष्ठस्य सम्मतिदानेन त्रिकालज्ञत्वं व्यक्तम् ॥ १।११।१३ ॥
वनानीति । वनानि सरितश्च शनैःशनैः व्यतिक्रम्य पारं प्राप्य यत्र मुनिपुङ्गवः ऋष्यशृङ्गो ऽस्ति तं देशमभिचक्राम । वैशब्दः यथायोग्यावान्तरदेशनिवाससूचकः ॥ १।११।१४ ॥
आसाद्येति । तं देशमासाद्य तमृषिपुत्रमादौ रोमपादसमीपगमनलमिव दीप्यमानं द्विजश्रेष्ठमृषिपुत्रमादौ रोमपाददर्शनात्पूर्वं ददर्श । ददर्शाथो इति भट्टसम्मतः पाठः । आदौ ऋषिपुत्रं ददर्शेत्यनेन तद्दर्शनानन्तरं रोमपादं ददर्शेति ध्वनितम् । तेन तस्य तेजोधिकत्वं व्यक्तम् ॥ १।११।१५ ॥
तत इति । ततः तद्दर्शनानन्तरं राजा रोमपादः सखित्वात्सखित्वरूपहेतोः प्रहृष्टेन अतिहर्षं प्राप्तेन अन्तरात्मना मनसा तस्य प्रसिद्धस्य राज्ञो दशरथस्य । वैशब्देन तदन्तःपुरादिपरिकरस्य यथान्यायं यथाक्रमं विशेषतः पूजां चक्रे ॥ १।११।१६ ॥
रोमपादेनेति । धीमते परमबुद्धिविशिष्टाय ऋषिपुत्राय ऋषिपुत्रं बोधयितुं सख्यम् आत्मदशरथमैत्रीं सम्बन्धकं शान्ताजनकत्वेन तच्छ्वशुरत्वं च रोमपादेन आख्यातम् वर्णितम् । चकारेण पुत्रीकरणार्थमनपत्याय याचते । मह्यं दशरथेन स्वपुत्री शान्ता दत्तेत्यपि वर्णितम् । तदा तस्मिन्काले एव तं दशरथं प्रत्यपूजयत् । ऋष्यशृङ्ग इति शेषः । ऋषिपुत्रायेत्यत्र चतुर्थी “क्रियार्थोपपदस्य” इति सूत्रविहिता । ऽअनेन मे ऽनपत्याय दत्तेयं वरवर्णिनी । याचते पुत्रतुल्यैषा शान्ता प्रियतरात्मजा । सो ऽयं ते श्वशुरो ब्रह्मन् यथैवाहं तथा नृप ॥ ऽ इति पौराणिकी गाथा ॥
१।११।१७ ॥
एवमिति । एवमनेन प्रकारेण सुसत्कृतः सत्कारं प्राप्तः नरर्षभः राजा दशरथः तेन रोमपादेन सह सप्ताष्टदिवसान् पञ्चदशदिनानि उषित्वा राजानं रोमपादमिदं वक्ष्यमाणं वचः अब्रवीत् । सप्ताष्टदिवसानित्यत्र द्वितीया “काला ध्वनोः” इति सूत्रविहिता ॥ १।११।१८ ॥
तद्वचनमेवाह शान्तेति । हे राजन् मद्विषयकानुरागविशिष्टविशाम्पते प्रजाधीश भर्त्रा स्वामिना सह तव सुता शान्ता मदीयं नगरं यातु प्राप्नोतु । उद्यतम् उत् उत्कृष्टः यतः प्रयत्नो यस्मिंस्तन्महत् उत्कृष्टं यागरूपं वस्तु कार्यम् अनेन निष्पाद्यं हि अस्ति ॥ १।११।१९ ॥
तथेति । राजा रोमपादः धीमतः तस्य ऋष्यशृङ्गस्य गमनं तथेति संश्रुत्य अयमवश्यं यास्यतीति प्रतिज्ञाय त्वं सह भार्यया गच्छेति वचनं विप्रमुवाच ॥ १।११।२० ॥
ऋषीति । ऋषिपुत्रः ऋष्यशृङ्गः तदा तस्मिन्काले प्रतिश्रुत्य रोमपादोक्तिमाकर्ण्य नृपं रोमपादं तथा इत्याह । अत एव नृपेणाभ्यनुज्ञातः स ऋषिपुत्रः भार्यया सह प्रययौ ॥ १।११।२१ ॥
ताविति । वीर्यवान् दशरथो रोमपादश्च तौ प्रसिद्धौ द्वौ स्नेहात्प्रेमाधिक्यात् अन्योन्याञ्जलिं कृत्वा परस्परं करेण करं गृहीत्वा उरसा संश्लिष्य च ननन्दतुः परमानन्दं प्रापतुः ॥ १।११।२२ ॥
तत इति । ततः प्रमोदप्राप्त्यनन्तरं सुहृदं रोमपादमापृछ्य तदनुमतिं सङ्गृह्य प्रस्थितः कृतगमनारम्भः रघुनन्दनो रघुवंशवर्द्धनो दशरथः शीघ्रगामिन एव दूतान् पौरेभ्य अयोध्यापुरोद्भवान् बोधयितुं प्रेषयामास । वैशब्दः एवार्थे ॥ १।११।२३ ॥
दूतद्वारा यद्बोधितं तदाह क्रियतामिति । स्वलङ्कृतं शोभनालङ्कारविशिष्टं धूपितं सिक्तसम्मृष्टं पूर्वं सिक्तं पश्चात्सम्मृष्टम् । पूर्वकालैकेत्यनेन समासः । पताकाभिः अलङ्कृतं क्षिप्रं शीघ्रमेव सर्वं नगरं क्रियताम् ॥ १।११।२४ ॥
तत इति । ततः दूतोक्तिश्रवणानन्तरमागतमागतप्रायं राजानं श्रुत्वा प्रहृष्टा अतिहर्षं प्राप्तास्ते पौरा यत् यदर्थं राज्ञा प्रेषितं तत्तथा तेन प्रकारेण तदैव प्रतिचक्रुः । च शब्द एवार्थे ॥ १।११।२५ ॥
तत इति । ततः अयोध्यानिकटप्राप्त्यनन्तरं राजा दशरथः स्वलङ्कृतं नगरं शङ्खादिघोषैः द्विजर्षभमृष्यशृङ्गं पुरस्कृत्य प्रविवेश । ह इति हर्षे ॥ १।११।२६ ॥
तत इति । ततः नगरप्रवेशानन्तरं सर्वे पौराः इन्द्रकर्मणा इन्द्रसाहाय्यकर्त्रा नरेन्द्रेण राज्ञा दशरथेन सत्कृत्य अन्तःपुरं प्रवेश्यमानं तं द्विजमृष्यशृङ्गं दृष्ट्वा प्रहृष्टाः । आसन्निति शेषः । अन्तःपुरमिति उत्तरश्लोकादपकृष्य सम्बध्यते । इन्द्रकर्मणा इत्यस्यानन्तरम् ऽयथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम्ऽ इति श्लोकार्धं भट्टसम्मतम् ॥ १।११।२७ ॥
अन्तरिति । तदा तस्मिन्काले एनमृष्यशृङ्गमन्तःपुरं प्रवेश्य विधानतः पूजां कृत्वा तस्य ऋषेरुपवाहनात् स्वसमीपप्रापणादात्मानं कृतकृत्यं कृतार्थं मेने । राजेति शेषः ॥ १।११।२८ ॥
अन्तरिति । विशालाक्षीमायतनेत्रां भर्त्रा सह तथा तेन प्रकारेण आगतां शान्तां प्रीत्या दृष्ट्वा सर्वाणि अन्तःपुराणि आनन्दमुपागमन् प्रापुः ॥ १।११।२९ ॥
पूज्यमानेति । ताभिः राजपत्नीभिः राज्ञा च विशेषतः पूज्यमानैव सह द्विजा पतिसहिता अतः सुखिता परमसुखं प्राप्ता सा शान्ता तत्रान्तःपुरे कञ्चित्कालमुवास । सहद्विजा इत्यनेन पितृगृहे स्त्रियाः प्राधान्यं भवतीति व्यवहारः सूचितः ॥ १।११।३० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरामणौ बालकाण्डे एकादशः सर्गः ॥ ११ ॥