०१० ऋष्यशृङ्गकथा

सुमन्त्र इति । राज्ञा चोदितः प्रेरितः सुमन्त्रः तदा तस्मिन्काले इदं वचः प्रोवाच । वचनप्रकारमाह यथा येन प्रकारेण ऋष्यशृङ्गः मन्त्रिभिः रोमपादसचिवादिभिः आनीतः रोमपादपुरं प्रापितस्तं प्रकारं सः विशेषप्रश्नकर्ता त्वं मे मत्तः शृणु हेति हर्षे ॥ १।१०।१ ॥

रोमेति । सहामात्यः अमात्यसहितः पुरोहितः रोमपादम् इदं वचः उवाच । तद्वचनमेवाह निरपायः अवश्यंभाविफलविशिष्टः अयमुपायः अस्माभिः अभिचिन्तितविचारितः ॥ १।१०।२ ॥

आनयनोपायमाह ऋष्येति । यः तपःस्वाध्यायतत्परः तपःस्वाध्याययोः निरतः वनचरः वनमात्रवासी स ऋष्यशृङ्गः नारीणां स्त्रीणां विषयाणामिन्द्रियग्राह्यरूपरसादीनां च सुखस्य इन्द्रियविषयसंयोगजन्यानन्द(न्दि)तमस्य च अनभिज्ञः अनभिज्ञातास्ति ॥ १।१०।३ ॥

अभिमतैः प्रीतिविषयभूतैः अत एव नरचित्तप्रमाथिभिः जनहृदयापकर्षकैः इन्द्रियार्थैः इन्द्रियविषयभूतपदार्थैः क्षिप्रं शीघ्रं पुरमानाययिष्यामः इति अध्यवसीयताम् निश्चीयताम् । चशब्द इत्यर्थे ॥ १।१०।४ ॥

गणिका इति । रूपवत्यः स्वलङ्कृताः गणिका वेश्यास्तत्र ऋषिसमीपे गच्छन्तु । सत्कृता मुनिना आदृतास्ताः विविधोपायैः प्रलोभ्य इह आनेष्यन्ति ॥ १।१०।५ ॥

श्रुत्वेति । राजा रोमपादः श्रुत्वा स्वमन्त्रिपुरोहितोक्तिं ज्ञात्वैव तथा स्वोक्तप्रकारेण कुरुष्वेति पुरोहितं प्रत्युवाच । तदा राजाज्ञापनकाले ते पुरोहितो मन्त्रिणश्च तथा राजाज्ञया स्वोक्तप्रकारेण चक्रुः । ऋष्यानयनाय वनप्रवेशं प्रति गणिकाः आज्ञापयामासुरित्यर्थः । चशब्द एवार्थे ॥ १।१०।६ ॥

वारमुख्या इति । वारमुख्याः गणिकाः तद्वनप्रवेशाज्ञापनं श्रुत्वैव महद्वनं प्रविविशुः । अस्मिन्मुनिवनत्वेन प्रसिद्धवने आश्रमस्य विभाण्डकमुनिपर्णशालायाः अविदूरे निकटे । स्थित्वेति शेषः । धीरस्य अत एव नित्यमाश्रमवासिनः ऋषिपुत्रस्य ऋष्यशृङ्गस्य दर्शने अवलोकने यत्नं प्रयत्नं कुर्वन्ति । एतेन मुनिसमीपगमनं नैतासां साध्यमिति ध्वनितम् । तेन मुनेः परमतेजस्वित्वं सूचितम् । सार्धश्लोक एकान्वयी ॥ १।१०।७ ॥

पितुरिति । पितुः पितृसेवया पितृकृतलालनादिना वा नित्यसन्तुष्टः ऋष्यशृङ्गः आश्रमान्नातिचक्राम ॥ १।१०।८ ॥

नेति । तेन प्रसिद्धेन तपस्विना ऋष्यशृङ्गेण जन्मप्रभृति जन्मनः आरभ्य नगरराष्ट्रजं नगरराष्ट्रोद्भवं स्त्रीपुमाँश्च अन्यत्तद्भिन्नं च नपुंसकमित्यर्थः । सत्वं नगरराष्ट्रसम्बन्धिप्राणिधर्मश्च वृत्तमिति यावत् । एतत्सर्वं दृष्टपूर्वं न । अतो न ज्ञायत इति शेषः । दृष्टपूर्वं नगरराष्ट्रजमेतद्द्वयमावृत्त्या लिङ्गविपरिणामेन च सर्वत्रान्वेति । “नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्” इति नपुंसकशेषे समुदायान्वयेनावयवान्वये पर्यवसानं वा बोध्यम् । वाशब्दौ चार्थौ ॥ १।१०।९ ॥

तत इति । ततः स्वाश्रमात्कदाचित्कस्मिंश्चित्समये तं गणिकाधिष्ठितं देशं वनप्रदेशं यदृच्छया परमात्मेच्छया विभाण्डकसुतः ऋष्यशृङ्गः आजगाम । तत्र तस्मिन्वनप्रदेशे ता वञ्चनार्थमागताः वराङ्गनाः गणिकाः अपश्यच्च ॥ १।१०।१० ॥

ता इति । चित्रवेषाः विचित्रवेषधराः मधुरस्वनैः गायन्त्यः ताः आनयनार्थमागताः सर्वाः प्रमदाः ऋषिपुत्रमुपागम्य सम्प्राप्य वचनमब्रुवन् ॥ १।१०।११ ॥

वचनमेवाह क इति । हे ब्रह्मन् त्वं कः कस्य पुत्रः किन्नामा चासीत्यर्थः । किं वर्तसे किं कर्म वर्तसे प्रवर्तयसि करोषीत्यर्थः । अन्तर्भावितणिजर्थः । विजने जनान्तररहिते अत एव घोरे भयङ्करे वने एकस्त्वं किं किमर्थं चरसि इति वयं ज्ञातुमिच्छामहे इच्छामः । अतस्त्वं नः अस्मभ्यं शंस । किमित्यावृत्त्या चरसीत्यत्राप्यन्वेति । विजने दूरे इति भट्टसम्मतः पाठः । तत्र ग्रामादिभ्यो दूरे इत्यर्थः ॥ १।१०।१२ ॥

अदृष्टेति । तेन ऋष्यशृङ्गेण अदृष्टरूपाः न दृष्टानि रूपाणि यासां ताः काम्यरूपाः सर्वेच्छाविषयीभूतरूपविशिष्टाः । परमसुन्दरीरित्यर्थः । वने विद्यमानाः स्त्रियः हार्दादवलोकनमात्रेण जातस्नेहात्स्वकं पितरमुपलक्षणेन तत्पृष्टं सर्वमित्यर्थः । आख्यातुं मतिर्जाता । ख्याधातोर्द्विकर्मकत्वात्

कर्मद्वयम् ॥ १।१०।१३ ॥

तदाख्यानमेवाह पितेति । अस्माकं पिता विभाण्डकः विभाण्डकनामा । “अस्मदो द्वयोश्च” इत्यनुशासनाद्बहुत्वम् । स्वस्मिन्नौपचारिकपुत्रत्वं वारयन्नाह ऋष्यशृङ्ग इति । ऋष्यशृङ्गनामकः तस्य विभाण्डकस्याहमौरसः मुख्यः सुतः । मे कर्म मत्कर्तृकोच्चारणक्रियानिष्पाद्यं भुवि वैकुण्ठादिभूमौ ख्यातं प्रसिद्धं नाम रामनामेत्यर्थः । ऋष्यशृङ्गनामार्थस्तु ऋष्यस्य मृगजातिविशेषस्य शृङ्गमिव शृङ्गं यस्येत्यर्थः । अत्र पौराणिकी प्रसिद्धिः कस्मिंश्चित्सरसि विहरन्तीमुर्वशीमवलोक्य स्खलितं विभाण्डकस्य रेतः जले मृग्या पीतम् । तज्जातत्वाच्छृङ्गित्वमेतस्येति । एतेन कर्मनाम्नोः ख्यातपदं योजयित्वा व्याख्यानं निरस्तम् । ख्यातत्वस्य पितर्यपि तुल्यत्वेन तन्नामकथनवैयर्थ्यापत्तेः । ननु ऽसंस्कृतायां तु भार्यायां स्वयमुत्पादयेत्तु यम् । तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम्ऽ इत्याद्युक्त्या ऽस्मिन्नौरसत्वव्यवहारो ऽनुपपन्न इति वाच्यम् । स्वनिरूपितक्षेत्रजादिभिन्नत्वे सति स्वजन्यत्वमौरसत्वमिति स्वीकारेणादोषात् । स्मृतिस्त्वेकदेशानुवादिका । दृष्टश्चैकदेशानुवादो ऽवाक्ये तु सा विवक्षामपेक्षतेऽ इत्यादाविति दिक् । केचित्तु पुराणप्रसिद्धमृष्यन्तरमिति वर्णयन्ति । अस्य मृगीसुतत्वेन व्यवहारस्तु मृगनयनीत्वादिना तन्मातुर्मृगीत्वेन व्यवहारात् । अस्मिन्पक्षे ऋष्यशृङ्गार्थस्तु ऋष्याणां मृगाणां शृङ्गाणि विहारशिखराणि यस्य पर्वतशिखरविचरणशील इत्यर्थः । अत्रौरस इत्युक्तिरेव मानम् । अत्रारुचिबीजं तु हनुमदादीनामौरसत्वव्यवहाराभावापत्तिरिति । कर्मणः प्रसिद्धत्वमात्रोक्तौ ऋषेः स्वौद्धत्यवर्णनं प्रसज्येत । तेन तस्य गर्वित्वं प्रसज्येत इति दिक् । स्मृतिनिषिद्धस्य आत्मनामादिग्रहणस्य प्रश्नाख्यानयोरदोषकत्वं स्मृतिसिद्धान्तादौ निरुक्तम् । वक्ष्यते चैतत् रघुनाथस्य स्वनामोच्चारणादिप्रघट्टके ॥ १।१०।१४ ॥

इहेति । हे शुभदर्शनाः इह अस्मिन्वने समीपे भवन्निकटे एव अश्रमपदः श्रमनिवर्तकस्थानमस्ति । अतः अत्रास्मिन्स्वाश्रमे सर्वेषां वः युष्माकं पूजां विधिपूर्वकं करिष्ये । एतेन मदाश्रमे भवद्भिर्गन्तव्यमिति बोधितम् । तेन तस्यातिथिपूजने श्रद्धातिशयः सूचितः । आश्रमपद इति पुँस्त्वमार्षम् । सर्वेषामिति पुँलिङ्गत्वेन निर्देशः स्त्रीपरिज्ञानराहित्यमूलकः । वैशब्द एवार्थे ॥ १।१०।१५ ॥

ऋषीति । ऋषिपुत्रवचः श्रुत्वैव आश्रमपदं द्रष्टुं सर्वासां मतिर्निश्चयः आस । अतस्तेन ऋष्यशृङ्गेण सह सर्वाः गणिकास्तदा तस्मिन्काले आश्रमपदं जग्मुः । वैशब्द एवार्थे । चो हेतौ । अस्तेर्भूभावाभाव आर्षः । दीप्त्यर्थकासो रूपं वा ॥ १।१०।१६ ॥

गतानामिति । ततो ऽनन्तरमेव ऋषिपुत्रः गतानां स्वाश्रमे प्राप्तानां स्त्रीजनानां पूजां चकार । ह इति प्रसिद्धौ । पूजनस्वरूपमाह इदमर्घ्यादिकं नः अस्माकम् । दत्तं प्रतिगृह्णन्तु इति शेषः । तुशब्द एवार्थे ॥ १।१०।१७ ॥

प्रतीति । समुत्सुकाः परमहर्षविशिष्टाः सर्वा गणिकास्तां मुनिदत्तां पूजां प्रतिगृह्यैव । तुना शनैः किञ्चित्सम्भाष्य ऋषेर्विभाण्डकाद्भीता एव सत्यः गमनायैव शीघ्रेण शीघ्रं मतिं दधुः । द्वितीयस्तुशब्द एवार्थे । एतेन तस्मिन्काले ऋषिराश्रमादन्यत्र गत इति ध्वनितम् ॥ १।१०।१८ ॥

अस्माकमपीति । द्विज हे ब्राह्मण इमानि मुख्यानि श्रेष्ठानि अस्माकमपि फलानि प्रतिगृहाण भक्षयस्व च चिरं विलम्बं मा नैव कुरु । ते भद्रम् । भक्षणेन कल्याणं स्यादित्यर्थः । वैशब्द एवार्थे । छन्दसि परे इत्यनुशासनात्प्रतिशब्दः परत्र प्रयुक्तः ॥ १।१०।१९ ॥

तत इति । ततः स्वोक्त्यनन्तरं हर्षसमन्विता सर्वास्ता गणिकाः तं मुनिं समालिङ्ग्य तस्मै मुनये विविधाननेकप्रकाराञ्छुभान्रमणीयान् भक्ष्यान् भक्षयितुं योग्यान्मोदकान्प्रददुः । चो हेतौ । एतेन

कार्यसिद्धौ न विलम्ब इति हर्षे हेतुर्ध्वनितः ॥ १।१०।२० ॥

तानीति । तेजस्वी मुनिः वने नित्यनिवासिनामनास्वादितपूर्वाणि पूर्वभक्षणकर्मत्वरहितानि तानि मोदकजातानि आस्वाद्य भक्षयित्वा तानि फलान्येव इति मन्यते स्म । चशब्द एवार्थे ॥ १।१०।२१ ॥

आपृछ्येति । अपदानामाश्रयरहितानामीशात्स्वामिनः । रक्षकादित्यर्थः । तस्य मुनेः पितुः भीता एव स्त्रियः व्रतचर्यां गमनहेतुकव्याजरूपव्रतकर्तव्यतां निवेद्य उक्त्वा आपृछ्य आज्ञां गृहीत्वा च गच्छन्ति स्वस्थानं यान्ति स्म । तुशब्द एवार्थे ॥ १।१०।२२ ॥

गतास्विति । सर्वासु तासु गणिकासु गतासु काश्यपस्य कश्यपपुत्रविभाण्डकस्य आत्मजो द्विजो ब्राह्मणः ऋष्यशृङ्ग अस्वस्थहृदयः चलितचित्तः एवासीत् । अत एव दुःखं यथा स्यात्तथा परिवर्तते स्म । नैकत्रातिष्ठदित्यर्थः । चशब्द एवार्थे । दुःखाच्च परिवर्तते इति भट्टसम्मतः पाठः । एतेन ऋषेस्तन्मनस्कत्वं व्यक्तम् ॥ १।१०।२३ ॥

तत इति । स्वलङ्कृताः शोभनालङ्कारालङ्कृता अत एव मनोज्ञाः मनोहराः ताः वारमुख्याः गणिकाः यत्र यस्मिन्देशे दृष्टाः ऋषिपुत्रेणावलोकिताः तं देशं वीर्यवांस्तपोबलविशिष्टः स ऋष्यशृङ्ग ततः स्वाश्रमात्परेद्युः आजगाम । स वीर्यवानित्येतस्मादुत्तरम् ऽविभाण्डकसुतः श्रीमान्मनसा चिन्तयन्मुहुःऽ इति श्लोकार्द्धं भट्टसम्मतम् ॥ १।१०।२४ ॥

दृष्ट्वैवेति । तदा ऋष्यागमनसमये एव आयान्तं तं विप्रम् ऋष्यशृङ्गं दृष्ट्वैव सर्वास्ताः गणिकाः ततः स्वासनादुपसृत्य प्रत्युद्गम्य इदं वचः ऊचुः ॥ १।१०।२५ ॥

तद्वचनमेवाहः एहीति । हे सौम्य अस्माकमपि आश्रमपदमा समन्ताच्छ्रमनिवर्तकं स्थानमेहि आगच्छ । तत्र तस्मिन्नस्मदाश्रमपदे ऽपि श्रीमान्सर्वसम्पत्तिसमृद्धः एषः फलादिनिचयविशिष्टः विधिः सत्कारविधानं विशेषेण भविष्यतीति अब्रुवन् । चशब्द इत्यर्थे अब्रुवन्नित्यस्यानन्तरं ऽचित्राण्यत्र बहूनि स्युर्मूलानि च फलानि चऽ इति श्लोकार्द्धं भट्टसम्मतम् ॥ १।१०।२६ ॥

श्रुत्वेति । सर्वासां हृदयङ्गमं मनोहरं वचनं श्रुत्वैव गमनाय मतिं निश्चयं चक्रे । तदा तद्गमननिश्चयकाले एव तं ऋषिं स्त्रियः निन्युः । तुचशब्दौ एवार्थौ । अत्र भारतानुरोधान्नयनं नावमारोप्य गङ्गाप्रवाहेण बोध्यम् ॥ १।१०।२७ ॥

तत्रेति । तदा आनयनकाले तत्र रोमपादस्वामिकाङ्गदेशे महात्मनि तस्मिन्विप्रे आनीयमाने एव जगत्प्रह्लादयन्नानन्दयन्नेव देवः सहसा त्वरितं ववर्ष । तुचशब्दौ एवार्थौ ॥ १।१०।२८ ॥

वर्षेणेति । स प्रसिद्धो नराधिपो रोमपादः वर्षेण वृष्ट्या सहैव विषयं स्वदेशमागतं मुनिं विप्रं प्रत्युद्गम्य प्रत्युद्गमनं कृत्वा प्रह्वः नतिं कुर्वन्नेव शिरसा महीं गतः प्राप्तः । साष्टाङ्गं प्रणामं कृतवानित्यर्थः । चशब्द एवार्थे ॥ १।१०।२९ ॥

अर्घ्यमिति । सुसमाहितः एकाग्रचित्तो राजा अर्घ्यं पूजार्थमुदकं तस्मै ऋष्यशृङ्गाय न्यायतो यथाविधि प्रददौ । विप्रम् ऋष्यशृङ्गं तत्पितरं च मन्युः प्रलोभ्यानयनजनितः पुत्रवियोगजनितश्च कोपः मा आविशेत् इति हेतोः विप्रेन्द्रात् प्रसादं स्वापराधक्षमापनपूर्वकतत्प्रसन्नतां वव्रे ययाचे । चशब्दो हेत्वर्थे । विप्रमन्युशब्दौ विनिगमनाविरहेणार्थद्वयबोधकौ ॥ १।१०।३० ॥

अन्त इति । स राजा अन्तःपुरं प्रविश्य । ऋषिणा सह अन्तःपुरं गत्वेत्यर्थः । अस्मै ऋष्यशृङ्गाय शान्तां तन्नामिकां कन्यां शान्तेन मनसा दत्त्वा आहर्षं वृष्टिजनितऋषिसम्बन्धजनितत्वेन प्रवृद्धप्रमोदमवाप ॥ १।१०।३१ ॥

एवमिति । एवमुक्तप्रकारेण सर्वकामैः सर्वैरिच्छाविषयीभूतपदार्थैस्तु पूजितः अत्यन्तं सत्कृतः महातेजाः परमतेजस्वी ऋष्यशृङ्गः शान्तया भार्यया सह तत्र रोमपादपुरे सन्न्यवसत् । सुखपूर्वकं

निवासं चकारेत्यर्थः । अत्र महातेजा इत्युक्त्या ऋषेः गणिकास्पर्शजन्यदोषासंसर्गत्वं ध्वनितम् । तेन रामोपासनायाः प्रभावातिशयः सूचितः । अत्रार्थै ऽयथा विधिनिषेधौ हि मुक्तं नैवोपसर्पतः । तथा न स्पर्शतो रामोपासकं विधिपूर्वकम्ऽ इत्यादिवचनं सानुकूलम् ॥ १।१०।३२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे दशमः सर्गः ॥ १० ॥