पत्न्या ज्ञापनौत्तरकालिकं वृत्तमाह एतदित्यादिभिः । सूतः सुमन्त्रः रहः अन्तःपुरम् । प्राप्येति
शेषः । एतत्पुत्रोद्देश्यकयागारम्भकवचनं श्रुत्वा इदं वक्ष्यमाणं वचनं राजानमब्रवीत् । तदेवाह ऋत्िवग्भिर्वसिष्ठादिप्रमुखैरुपदिष्टः यः अयं पुत्रोपायभूतो यागः सः पुरा पूर्वं वृत्तः राजभिः सम्पादितः मया श्रुतः इतिहासपुराणादिश्रवणद्वारा निश्चितः । सुमन्त्रस्य मन्त्रित्वसूतत्वोभयोक्त्या तदुभयधर्माक्रान्तत्वं बोध्यम् । अब्रवीदित्यस्यानन्तरं ऽश्रूयतां यत्पुरावृतं पुराणे च मया श्रुतम्ऽ इत्यर्द्धश्लोको ऽपि भट्टसम्मतः ॥ १।९।१ ॥
स्वश्रुतं विशदयन्नाह सनत्कुमार इति । हे राजन् ऋषीणां सन्निधौ समीपे तव पुत्रागमं प्रति पुत्रप्राप्तिसम्बन्धिनीं कथां भगवान् त्रैकालिकज्ञानरूपैश्वर्यविशिष्टः सनत्कुमारः पूर्वं कथितवान् ॥ १।९।२ ॥
तामेवाह कश्यपस्येति । विभाण्डक इति नाम्ना श्रुतः कश्यपस्य पुत्रो ऽस्ति । ऋष्यशृङ्ग इति नाम्ना ख्यातः प्रसिद्धः तस्य विभाण्डकस्यापि पुत्रो भविष्यति । तु शब्दो ऽप्यर्थे ॥ १।९।३ ॥
स इति । वनचरैः सह वने नित्यं संवृद्धः विप्रेन्द्रो विप्रश्रेष्ठः स मुनिः नित्यं पित्रनुवर्त्तनात् पितृपरिचर्यातः अन्यत्किञ्चिन्न जानाति ॥ १।९।४ ॥
द्वैविध्यमिति । हे राजन् ब्रह्मणि वेदे चर्या स्थितिर्यस्य अत एव महात्मनः पूज्यस्वरूपस्य ऋष्यशृङ्गस्य विप्रैः सदा कथितं वर्णितम् । अत एव लोकेषु प्रथितं प्रसिद्धं दैविध्यं द्वौ सीतारामौ विशेषेण ध्यायति तस्य भावः । निरन्तरसीतारामध्यानमित्यर्थः । भविष्यति । एतेन तत्पितुरपि सीतारामोपासकत्वं व्यक्तम् । चो हेतौ ॥ १।९।५ ॥
तस्येति । अग्निं यशस्विनं पितरं च शुश्रूषमाणस्य सेवमानस्य एवं सीतारामध्यानप्रकारेण वर्तमानस्य तस्य ऋष्यशृङ्गस्य कालः विवाहादिहेतुभूतसमयः समभिवर्तत सम्प्राप्स्यति । भविष्यति लङ् । आगमशास्त्रस्यानित्यत्वादड्विरहः ॥ १।९।६ ॥
एतस्मिन्निति । एतस्मिन् विवाहादिहेतुभूते काले एव प्रतापवान्महाबलश्च रोमपादो राजा अङ्गेषु अङ्गदेशेषु प्रथितः ख्यातो भविष्यति । तुश्चार्थे ॥ १।९।७ ॥
तस्येति । तस्य राज्ञो व्यतिक्रमाद्विरुद्धधर्माचरणात्सुदारुणा बहुकालिकात्वेन कठिना सुघोरा सर्वतद्देशव्यापिनीत्वेन दुःसहा अत एव सर्वभूतभयावहा च अनावृष्टिः वृष्ट्यभावो भविष्यति । वैशब्दश्चार्थे ॥ १।९।८ ॥
अनावृष्ट्यामिति । अनावृष्ट्यां वृष्ट्यभावे वृत्तायां प्रवृत्तायां दुःखसमन्वित एव राजा रोमपादः श्रुतवृद्धान् श्रुतेन अनेकलौकिकवैदिकवृत्तश्रवणेन वृद्धान्सम्पन्नान्ब्राह्मणान् । चकारेण अन्यानपि बहुश्रुतक्षत्रियादीन्समानीय प्रवक्ष्यति । तुशब्द एवार्थे । श्रुतसंवृद्धानिति भट्टसम्मतः पाठः ॥ १।९।९ ॥
राजोक्तिमेवाह भवन्त इति । श्रुतधर्माणः श्रुता धर्मा अनेकलौकिकवैदिकवृत्तानि अत एव लोकचारित्रवेदिनः लोककर्त्तव्यविषयकनिश्चयवन्तः भवन्तः प्रायश्चित्तं मत्कृतपापशोधनं यथा भवेत्तथा नियमं कर्त्तव्यनियमनं समादिशन्तु सम्यग्बोधयन्तु । ऽप्रायः पापमिति प्रोक्तं चित्तं तच्छोधनं स्मृतम्ऽ इति स्मृतिः ॥ १।९।१० ॥
वक्ष्यन्त इति । वेदपारगाः ते पृष्टाः ब्राह्मणाः महीपालं वक्ष्यन्ते कथयिष्यन्ति । तत्कथनमेवाह हे राजन् विभाण्डकसुतम् ऋष्यशृङ्गं सर्वोपायैः निःशेषयत्नैरिह आनय । प्रायश्चित्तं यथाभवेदित्यस्यानन्तरम् ऽइत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाःऽ इति श्लोकार्द्धमपि भट्टसम्मतम् ॥ १।९।११ ॥
आनयनानन्तरकालिककर्त्तव्यमाह आनाय्येति । हे महीपाल ऋष्यशृङ्गं सुसत्कृतं यथा भवति तथा आनाय्य स्वपुरं प्रापय्यैव सुसमाहितः एकाग्रचित्तस्त्वं शान्तां कन्यां विधिना
वेदोक्तविधानेनैव प्रयच्छ । तस्मै एव देहीत्यर्थः । तुवैशब्दौ एवार्थौ । महीपालेत्यत्र संहिताकार्यविरहः ऽऋत्यकऽ इति प्रकृतिभावात् । पादान्तस्थत्वेन संहिताया अभावाच्च ॥ १।९।१२ ॥
तेषामिति । तेषामुपदेष्टृ़णां वचनं श्रुत्वैव राजा चिन्तां विचारं प्रपत्स्यते प्राप्नोत् । तत्स्वरूपमाह वीर्यवान् तपोजनितपरमबलविशिष्टः सः ऋष्यशृङ्गः इह एवानेतुं केन उपायेन शक्यम् । तुवैशब्दौ एवार्थौ । शक्यमिति सामान्ये नपुंसकम् ॥ १।९।१३ ॥
तत इति । ततः विचारानन्तरमात्मवान् प्रशस्तबुद्धिविशिष्टः धर्मविद्राजा मन्त्रिभिः सह विनिश्चित्य आनयनोपायनिश्चयं कृत्वा पुरोहितममात्यांश्च ततः स्वदेशात्प्रेष्यति प्रेषयिष्यति अन्तर्भावितण्यर्थः ॥ १।९।१४ ॥
ते त्विति । ते पुरोहितादयः राज्ञो वचः श्रुत्वैव ऋषेर्भीताः अत एव व्यथिताः व्यथां प्राप्ताः
अत एव विनताननाः अवनतमुखाः ते पुरोहितादयः वयं न गच्छेमेति । निश्चित्येति शेषः । तं नृपमनुनेष्यन्ति उपायान्तरकथनेन सन्तोषयिष्यन्ति । तुशब्द एवार्थे । वनतानना इति भट्टसम्मतः पाठः । अवस्यादेर्लोप इति तद्व्याख्या ॥ १।९।१५ ॥
वक्ष्यन्तीति । ते पुरोहितादयः तस्य ऋष्यानयनस्य क्षमान् योग्यांस्तान्वक्ष्यमाणानुपायान् चिन्तयित्वा विचारेण निश्चित्यैव वक्ष्यन्ति राज्ञे निवेदयिष्यन्ति । तदेवाह वयं विप्रमानेष्यामः उपायान्तरेण प्रापयिष्यामः यतः दोषः अपराधो न भविष्यति । एकः चशब्दः एवार्थे । अपरो यत इत्यर्थे ॥ १।९।१६ ॥
एवमिति । एवं पुरोहितादिबोधितोपायप्रकारेण गणिकाभिः करणभूतैः अङ्गाधिपेन कर्त्रा ऋषेः सुतः आनीतः आनेष्यति । अतः देवः अवर्षयत् वर्षयिष्यति । अतः अस्मै शान्ता प्रदीयते प्रदास्यति । क्ताद्युपात्तभूतादेरविवक्षा । चशब्दो हेत्वर्थे ॥ १।९।१७ ॥
ऋष्येति । तव जामाता ऋष्यशृङ्गः पुत्रानपि विधास्यति त्वया पुत्रान्विशेषेण प्रकटीकार्य धारयिष्यति । एतावद्वचनं सनत्कुमारकथितं मया व्याहृतम् तवाग्रे कथितम् । तुशब्दो ऽप्यर्थे । विधास्यतीत्यन्तर्भावितणिजर्थः । ऋष्यशृङ्गस्य राजाधिराजजामातृत्वोक्तिः रोमपादमित्रत्वमूलिका ॥ १।९।१८ ॥
अथेति । अथ सुमन्त्रोक्तिश्रवणानन्तरं हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत । भाषणाकारमाह यथा येन प्रकारेण ऋष्यशृङ्गः आनीतः स प्रकारस्त्वया विस्तरेणैवोच्यताम् । तु शब्द एवार्थे । येनोपायेन सोच्यतामिति भट्टसम्मतः पाठः । सोच्यतामित्यत्र सन्धिरार्षः । अध्याहृतकथाविशेषणं वेति तैर्व्याख्यातम् ॥ १।९।१९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे नवमः सर्गः ॥ ९ ॥