महाराजाधिराजदशरथस्य नित्यैश्वर्यादिविशिष्टत्वमुक्त्वा वाङ्मनसगोचरातीतसर्वेश्वरेश्वररघुनाथप्रादुर्भावमुपक्रमते तस्येत्यादिभिः । एवं वर्णितः प्रभावो यस्य धर्मज्ञस्य सकलधर्मवेदितुः महात्मनः सर्वपूज्यस्वरूपस्य सुतार्थं नित्यस्वपुत्रीभूतरामप्रकटनार्थोद्योगमेव तप्यमानस्य विचारयतः किञ्च तपिनो विचारशीलस्य अत एव अमानस्य प्रश्नादिप्रतिबन्धकीभूतगर्वरहितस्य । द्वयोः कर्मधारयः । तुशब्द एवार्थे । तस्य महाराजाधिराजदशरथस्य वंशकरः स्ववंशप्रवृत्तिहेतुः सुतः नित्यस्वपुत्रः नासीत् । वात्सल्यरसप्रभूतये षष्टिसहस्रवर्षपर्यन्तं न प्रादुर्बभूवेत्यर्थः ॥ १।८।१ ॥
चिन्तयानस्येति । एवमुक्तविशेषणविशिष्टस्य महात्मनः सुतार्थं नित्यस्वपुत्रप्रकटनोद्योगं चिन्तयानस्य विचारयतः तस्य महाराजाधिराजदशरथस्य सुतार्थं वाजिमेधेन तन्नामकयागेन किमर्थमहं न यजामि इष्टदेवं पूजयामि इति बुद्धिरासीत् । विनिगमनाविरहात्सुतार्थमित्युभयान्वयि । आगमशास्त्रस्यानित्यत्वान्मुगभावः “वर्तमानसामीप्ये” इति भूते लट् ॥ १।८।२ ॥
स इति । ततो यागनिश्चयानन्तरं बुद्धिमान् परमबुद्धिविशिष्टः धर्मात्मा वेदोक्तकर्मप्रवृत्तिविषयकयत्नवान् महाराजाधिराजो दशरथः कृतात्मभिः सकलकर्मफलीभूतरघुनाथविषयकबुद्धिभिः मन्त्रिभिः सर्वैः सहैव यष्टव्यमिति निश्चितां मतिं कृत्वा । ऽक्लीबे कृतं युगे ऽपि स्यात्फलपर्याप्तयोरपिऽ इति भास्करः । तत इति । राजा महाराजाधिराजो दशरथः मन्त्रिसत्तमं मन्त्रिश्रेष्ठं सुमन्त्रं मे सपुरोहितान् मे पुरोहितवसिष्ठसहितान्प्रसिद्धान् सर्वान्गुरूनृषिश्रेष्ठाञ्छीघ्रमानय इदं वचनमब्रवीत् । पुरोहितशब्दस्य वृत्तिघटकीभूतत्वे ऽपि नित्यसापेक्षत्वात् तत्र मेशब्दान्वयः । श्लोकद्वयमेकान्वयि ॥ १।८।३,४ ॥
तत इति । ततः राजाज्ञापनानन्तरं त्वरितविक्रमः शीघ्रगमनशीलः सः मन्त्रिसत्तमः सुमन्त्रः वेदपारगान् कृतसमस्तवेदाध्ययनाध्यापनांस्तान् राजबोधितान्समस्तान्सम्मिलितान् त्वरितं गत्वा समानयत् सादरमानयनमकरोत् ॥ १।८।५ ॥
तानेवाह सुयज्ञमिति । सुयज्ञं वामदेवं च जाबालिं च काश्यपं च पुरोहितं वशिष्ठं च अन्ये ये द्विजसत्तमास्तांश्च समानयदित्यनुकृष्यते । अथशब्दश्चार्थे । एकत्र विनापि चं समुच्चयः । येचाप्यन्ये द्विजोत्तमा इति पाठे त्वपिरपि चार्थे ॥ १।८।६ ॥
तानिति । धर्मात्मा धर्ममनस्कः राजा महाराजाधिराजो दशरथः तदा तस्मिन्काले तानागतानृषीन्पूजयित्वा धर्मार्थसहितम् अत एव श्लक्ष्णमिदं वक्ष्यमाणं वचनमब्रवीत् ॥ १।८।७ ॥
ममेति । पुत्रार्थं पुत्रः मत्सुतः अर्थो यस्य तं रामशब्दं लालप्यमानस्य भृशमभिलपतो ऽपि मम सुखं नास्ति । तत्प्रकटप्राप्तिं विना सुखं न भवतीत्यर्थः । तदर्थं स्वपुत्रप्राकट्यार्थं हयमेधेन यक्ष्यामीति मम मतिः । अजायतेति शेषः । वैशब्दोप्यर्थे ॥ १।८।८ ॥
तदिति । बुद्धिरतः विचाररतांस्त्रायते निश्चितवस्तूपदेशेन रक्षतीति तत्सम्बोधनम् । हे वसिष्ठेत्यर्थः । तद्वाङ्मनसगोचरातीतं वस्तु यष्टुं प्रत्यक्षतः मेलितुमिच्छामि । तच्छास्त्रदृष्टेन वेदबोधितेन कर्मणा अहं कथं किं प्राप्स्यामि । वाङ्मनसगोचरातीतं वस्तु प्रत्यक्षतः किं लब्धास्मीत्यर्थः । इति कामं नितरां विचार्यताम् । एतेन “न कर्मणा न प्रजया धनेन” इति श्रुत्या कर्मणां तत्प्रापकत्वाभावनिश्चयात् वाङ्मनसगोचरातीतवस्तुनः प्रत्यक्षत्वे सर्वप्रमाणविरुद्धत्वाच्च तत्प्राप्तिर्दुर्घटेति प्रश्नकर्तुराशयो ध्वनितः । कथमिति प्रश्ने ॥ १।८।९ ॥
तत इति । ततः गूढराजप्रश्नश्रवणानन्तरं वसिष्ठप्रमुखाः सर्वे ब्राह्मणाः पार्थिवस्य राज्ञः मुखाच्च्युतं तद्गूढं प्रश्नवाक्यं साधु सयुक्तिकमुक्तमिति प्रत्यपूजयन् प्रशशंसुः । पार्थिवस्य मुखेरितमिति भट्टसम्मतः पाठः ॥ १।८।१० ॥
ऊचुरिति । परमप्रीताः राजकृतगूढप्रश्नस्य सूत्तरप्रस्फूर्त्या परमहर्षं प्राप्ता एव सर्वे वसिष्ठप्रमुखाः दशरथं वचः सूत्तरवचनमूचुः । एतेन प्राकृतवाङ्मनसगोचरातीतत्वं तस्य भवन्तस्त्वप्राकृतकरणा इति भवत्करणविषयत्वं तस्य सिद्धमेव । एतावत्कालं भवत्करणविषयत्वं तु वात्सल्यरसप्रभूतये “न कर्मणा न प्रजया धनेन” इत्यादीनि प्राकृतजनपराणि तत्रापि काम्यकर्मजनिततल्लाभाभावप्रतिपादकानीति काम्यनिषिद्धवर्जितानि कर्माण्यनुष्ठेयान्येवेत्युतरं सूचितम् । अतः सम्भाराः अश्वमेधयागसामग्र्यः ते प्रसिद्धाः सम्भ्रियन्ताम् सम्पाद्यन्ताम् । तुरगः तदुपयोग्यश्वश्च विमुच्यताम् । पूर्वश्चशब्द एवार्थे ॥ १।८।११ ॥
सरय्वा इति । सरय्वा उत्तरे तीरे यज्ञभूमिः यागयोग्यस्थलं विधीयताम् । यतः हे पार्थिव यस्य ते तव पुत्रार्थमियं धार्मिकी बुद्धिः आगता प्राप्ता स त्वमभिप्रेतान्परमप्रीतिविषयीभूतान्पुत्रान् स्वनित्यसुतान् सर्वथा प्रकटतो ऽपि प्राप्स्यसे एव । चशब्द एवार्थे । अपरः हेत्वर्थे । सार्द्धश्लोक एकान्वयी ॥ १।८।१२ ॥
तत इति । राजा एतद्द्विजभाषितं श्रुत्वा तुष्टः अभवत् ॥ १।८।१३ ॥
ततो ऽनन्तरं हर्षपर्याकुलेक्षणः आनन्दाश्रुपूरितनेत्रः राजा मे गुरूणां वचनादिह अस्मिन्काले सम्भाराः यागसामग्र्यः सम्भ्रियन्तामिति अमात्यानब्रवीत् । सार्द्धः श्लोक एकान्वयी । हर्षव्याकुललोचन इति भट्टसम्मतः पाठः ॥ १।८।१४ ॥
समर्थेति । समर्थैः अश्वनिग्रहणादिविषयकसामर्थ्यविशिष्टजनैः अधिष्ठितः सहितः सोपाध्यायः मुख्यऋत्विक्सहितश्चाश्वः विमुच्यताम् । अश्वरक्षणपुरुषनियोगे श्रुतिः “चतुः शता रक्षन्ति इति” ।
उपाध्यायप्रयोजनं “अश्वस्य मेध्यस्य पदे पदे जुहोति” इति श्रुतिबोधितकर्मनिर्वहणम् । यज्ञभूमिः यागशाला सरय्वा उत्तरे तीर एव विधीयताम् । चशब्द एवार्थे ॥ १।८।१५ ॥
शान्तय इति । शान्तयः अश्वमेधोचितविघ्ननिवारककर्माणि यथाकल्पं क्रममनतिक्रम्य यथाविधि शास्त्रोक्तमनतिक्रम्य अवश्यमभिवर्द्धन्तामभिवर्द्धयन्ताम् । अन्तर्भावितण्यर्थः । ऽक्रमस्तु कथ्यते कल्पःऽ इति भागुरिः । विघ्नस्यावश्यं भावित्वेन शान्तिरवश्यं कार्येति बोधयन्नाह शक्य इति । यदि क्रतुसत्तमे क्रतुश्रेष्ठे अस्मिन्नश्वमेधे कष्टः परमकष्टसम्पादकः अपराधो विधिहीनत्वं न भवेत्तर्हि सर्वेणापि महीक्षिता राज्ञा अयं यज्ञः कर्तुं शक्यः । एतेन दुर्निवारापराधभिया एतत्क्रतुकरणे क्षुद्रराजा न प्रवर्तन्ते इति हेतुर्ध्वनितः । सार्द्धश्लोक एकान्वयी चकारो ऽवश्यमर्थे ॥ १।८।१६ ॥
ननु किं विधिहीनत्वेनेत्यत आह छिद्रमिति । विद्वांसः यागप्रकारविदः ब्रह्मराक्षसाः अयाज्ययाजनाप्रतिग्राह्यप्रतिग्रहीतृत्वादिना राक्षसत्वं प्राप्ताः ते एव ब्रह्माणो ब्राह्मणाः कर्मधारयः । अत्र यागे क्षुद्रमपराधं मृगयन्ते । एतेन जातापराधयागभागस्य देवानर्हत्वेन ब्रह्मराक्षसा एव गृह्णन्तीत्यन्वेषणे हेतुर्ध्वनितः । ऽछिद्रं रन्ध्रापराधयोःऽ इति वैजयन्ती । ननु किं तेनेत्यात आह विधिहीनस्य यज्ञस्य कर्ता सद्यो विनश्यत्येव । हिशब्द एवार्थे ॥ १।८।१७ ॥
तदिति । तत्तस्माद्धेतोः यथा येन प्रकारेण एष मे क्रतुः विधिपूर्वमपराधशून्यपूर्वकं सत् समाप्यते तथा तेन प्रकारेण विधानं यत्नः क्रियताम् भवद्भिः सम्पाद्यताम् । तत्र हेतुमाह यत इह करणेषु निर्विघ्नयागसमापनकार्येषु भवन्तः समर्थाः ॥ १।८।१८ ॥
तथेतीति । पार्थिवेन्द्रस्य महाराजाधिराजदशरथस्य आज्ञप्तं तत्प्रसिद्धं वाक्यं ते सर्वे मन्त्रिणः यथा यथावत् निशम्य श्रुत्वा तथेति अब्रुवन्प्रत्यपूजयन् । उत्कृष्टो भवतां निश्चय इति प्राशंसंश्च । मन्त्रिणः प्रतिपूजिता इति भट्टसम्मतः पाठः ॥ १।८।१९ ॥
तथेति । तथा तेन प्रकारेण धर्मज्ञास्ते सपुरोहितर्त्विजो द्विजाः नृपोत्तमं वर्द्धयन्तः तथेति अब्रुवन् । प्रत्यपूजयंश्चेति पूर्वेणान्वयः । ततः प्रोत्साहनानन्तरमनुज्ञाताः राजानुज्ञां प्राप्ताः सर्वे सपुरोहितऋत्विजो यथागतमागतमनतिक्रम्य पुनर्जग्मुः ॥ १।८।२० ॥
विसर्जयित्वेति । तान् सपुरोहितऋत्विजो विप्रान् विसर्जयित्वा विसज्र्य ऋत्विग्भिः उपसन्दिष्टो ऽयं क्रतुः यथावदाप्यताम् इदं वचनं सचिवान्मन्त्रिणः अब्रवीत् ॥ १।८।२१ ॥
इत्युक्त्वेति । महाद्युतिः परमप्रकाशः नृपशार्दूलः राजसिंहः इत्युक्त्वा समुपस्थितान्समागतान्सचिवान् विसर्जयित्वा स्वं वेश्म प्रविवेश ॥ १।८।२२ ॥
तत इति । ततः स्ववेश्मप्रवेशानन्तरं स नरेन्द्रः हृदयङ्गमाः प्रियास्ताः प्रसिद्धाः पत्नीः गत्वा प्राप्य अहं सुतकारणाद्यक्ष्ये अतो यूयं दीक्षां विशत इति उवाच ॥ १।८।२३ ॥
तासामिति । सुवर्चसां मतितेजस्विनीनां तासां पत्नीनां मुखपद्मानि अतिकान्तेन अतिरमणीयेन तेन पूर्वोक्तेन राजवचनेन हिमात्यये हिमध्वंसे पद्मानीव अशोभन्त ॥ १।८।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे अष्टमः सर्गः ॥ ८ ॥