मन्त्रिसम्पत्तिमाह तस्येत्यादिभिः । महात्मनः सर्वपूज्यस्वरूपकस्य गुणैः इक्ष्वाकोस्तु इक्ष्वाकुसदृशस्य तस्य महाराजाधिराजदशरथस्य अमात्याः मन्त्रज्ञाः मन्त्रः कार्याकार्यविचारः तं जानन्तीति इङ्गितज्ञाः पराभिप्रायवेदितारश्च प्रियस्य स्वामिनो हिते नित्यं रताश्चासन् । तुशब्द इवार्थे । किञ्च इक्ष्वाकोरेवामात्यास्तस्य दशरथस्यामात्या आसन्नित्यन्वयः । अत्रार्थे तुरेवार्थे । अत एव तस्यास्तां तस्य पौर्वका इत्येतद्घटकतच्छब्दाभ्यां दशरथग्रहणं न विरूपम् ॥ १।७।१ ॥
धर्मशास्त्रोक्तसङ्ख्याका मन्त्रिणः सन्तीति बोधयन्नाह अष्टाविति । शुचयः स्वामिकार्ये कापट्यसंसर्गरहिता अत एव राजकृत्येषु एव नित्यशो ऽनुरक्ताः । अत एव यशस्विनः कीर्तिमन्तः । वीरस्य तस्य महाराजाधिराजस्यामात्याः अष्टौ एव बभूवुः । ऽमन्त्रिणः सप्त वाष्टौ वा प्रकुर्वीत परीक्षितान्ऽ इति मनुः । चशब्दौ एवार्थौ ॥ १।७।२ ॥
तत्तन्नामान्याह धृष्टिरिति । धृष्टिः प्रथमः, जयन्तश्च द्वितीयः, विजयश्च तृतीयः, सिद्धार्थश्च चतुर्थः, अर्थसाधकश्च पञ्चमः, अशोकश्च षष्ठः, मन्त्रपालश्च सप्तमः, सुमन्त्रश्च अष्टमो ऽभवत् । हिश्चार्थः । सचान्यत्राप्यन्वेति । ऽसुराष्ट्रो राष्ट्रवर्द्धनः । अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमो ऽर्थवित्ऽ इति भट्टटीकाङ्कितपुस्तकेषु पाठः । तत्र तेषां नामान्तराणि बोध्यानि ॥ १।७।३ ॥
ऋत्विजो गणयन्नाह ऋत्विजावित्यादि श्लोकद्वयेन । तस्य महाराजाधिराजदशरथस्य अभिमतौ सकलज्ञानविशिष्टौ अत एव ऋषिसत्तमौ सर्वऋषिश्रेष्ठौ वसिष्ठो वामदेवश्चेत्यतौ द्वौ । अथ मङ्गलप्रदौ ऋत्विजौ नित्यमास्तामभवताम् । तथाशब्दो नित्यार्थकः ॥ १।७।४ ॥
अथापरे ताभ्यां भिन्नाः मन्त्रिणः वेदमन्त्रद्रष्टारः सुयज्ञः जाबालिश्च काश्यपश्च गौतमश्च दीर्घायुर्मार्कण्डेयश्च द्विजः अनेकद्विजविशिष्टः कात्यायनश्च । ऋत्विजो ऽभवन्निति शेषः । द्विजशब्दस्यावृत्त्या प्रत्येकमन्वये तु नार्शआद्यजन्तत्वकल्पना । अपिद्वयं तथातुशब्दौ चार्थौ । अथशब्दो मङ्गलार्थकः । श्लोकद्वयमेकान्वयि ॥ १।७।५ ॥
एतैरिति । तस्य महाराजाधिराजदशरथस्य पौर्वकाः पित्रादयः एतैः प्रसिद्धैः ब्रह्मर्षिभिः वसिष्ठादिभिर्नित्यम् ऋत्विजः यागकर्तारः आसन् । पौर्वकगुणान्वर्णयन्नाह विद्येत्यादिभिः । विद्याविनीताः प्राप्तसकलविद्यया विनीताः सरलाः । किञ्च विद्यासु विनीताः शिक्षिताः अत एव ह्रीमन्तः जनापवादविषयीभूतकर्मवैगुण्याल्लज्जावन्तः अत एव कुशला सर्वसत्कर्मनिपुणाः अत एव नियतेन्द्रियाः नियमितान्तर्बहिरुभयकरणाः ॥ १।७।६ ॥
श्रीमन्त इति । श्रीमन्तः लक्ष्मीविशिष्टाः । महात्मानः पूज्यस्वरूपाः । शस्त्रज्ञाः धनुर्वेदप्रतिपादितशस्त्रविषयकज्ञानवन्तः । दृढविक्रमाः अचलपराक्रमविशिष्टाः । शास्त्रज्ञा इति पाठे शस्त्रप्रतिपादकशास्त्रनिपुणा इत्यर्थः । कीर्तिमन्तः प्रशस्तयशोयुक्ताः । प्रणिहिताः निखिलकर्मस्वनवधानतारहिताः । किञ्च प्रणः सद्धर्मप्रतिज्ञा अस्ति येषां ते प्राणनः । तेषां हितास्तद्धर्मसाधका इत्यर्थः । प्रणशब्दस्य प्रतिज्ञावाचकत्वं कोशे प्रसिद्धम् । यथावचनकारिणः यथावचनं वचनमनतिक्रम्य कुर्वन्ति तच्छीलाः । सत्यप्रतिज्ञा इत्यर्थः ॥ १।७।७ ॥
तेज इति । तेजःक्षमायशःप्राप्ताः तेजश्च क्षमा च यशश्च तानि प्राप्ताः । “द्वितीयाश्रिता” इत्यादिना समासः । प्रतापपरो वा । अतो न पौनरुक्त्यम् । स्मितपूर्वाभिभाषिणः स्मितं पूर्वं यस्मिँस्तदभिभाषन्ते तच्छीलाः । क्रोधात् क्रोधहेतोः कामार्थहेतोः कामरूपार्थरूपहेतोर्वा ऽनृतं सत्यभिन्नं वचो न ब्रूयुः ॥ १।७।८ ॥
तेषामिति । तेषां पौर्वकानां स्वेषु आत्मीयेषु परेषु ततो भिन्नेषु च क्रियमाणं वर्तमानकालिकवृत्तं कृतम्, भूतकालिकवृत्तं च यच्चिकीर्षितं भविष्यत्कालिकवृतं तच्च चारेण करणभूतेन अविदितं विदितभिन्नं नास्ति । शरैः शातितपत्र इतिवदेकदेशान्वयः वाप्यथाः चार्थे ॥ १।७।९ ॥
कुशला इति । व्यवहारेषु कुशलाः निपुणा सौहृदेषु परीक्षिताः । मित्रवर्गौरिति शेषः । पौर्वकाः प्राप्तकालं प्राप्तः कालो यस्य तं दण्डं सुतेषु अपि यथावत् धारयेयुः ॥ १।७।१० ॥
कोशेति । कोशसङ्ग्रहणे कोशस्य अर्थसमूहस्य सङ्ग्रहणे अर्जने युक्ताः । बलस्य चतुरङ्गसैन्यस्य परिग्रहे परिज्ञाने । तत्तद्गुणपरीक्षणे चेत्यर्थः । युक्ताः उद्युक्ताः पौर्वकाः अदूषकं
दोषरहितमहितमपि पुरुषं न विहिंस्युः पीडयेयुः ॥ १।७।११ ॥
वीरा इति । वीराः शूरतावन्तः अत एव नियतोत्साहाः तात्विकयुद्धोत्साहविशिष्टाः राजशास्त्रं राजनीतिमनुष्ठिताः तदनुष्ठानवन्तः शुचीनां शुद्धान्तःकरणानां विषयवासिनां देशवासिनां चकारेण पुरवासिनां नित्यं रक्षितारश्चासन्निति शेषः ॥ १।७।१२ ॥
ब्रह्मेति । पुरुष्ास्यापराधिजनस्य बलाबलमपराधतारतम्यं सम्प्रेक्ष्य सुविचार्य ब्रह्मक्षत्रं ब्रह्मणो वेदस्य क्षत् अप्रामाण्यप्रतिपादकत्वेन हिंसनं येषां ते नास्तिकास्तेभ्यस्त्रायन्ते वेदाप्रामाण्यवादनिवर्तनपूर्वकवेदप्रामाण्यव्यवस्थापकत्वेन जनान् रक्षतीति ब्रह्मक्षत्रम् । ब्राह्मणकुलमित्यर्थः । तत् अहिंसन्तः अपीडयन्तस्सुतीक्ष्णदण्डाः सन्तस्ते तत्पौर्वकाः कोशं समपूरयन् । दानाधिक्यादिना कोशव्यये ऽपि पुनःपुनरपूरयन्नित्यर्थः । अभिपूरयन्निति पाठे अडभाव आर्ष इति भट्टः ॥ १।७।१३ ॥
शुचीनामिति । शुचीनां शुद्धानामेकबुद्धीनां मन्त्रिसमानबुद्धीनां सम्प्रजानतां प्रजापालनविषयकसम्यग्विचारवतां सर्वेषां तत्पौर्वकाणां पुरे राष्ट्रे च क्वचित्कदाचिदपि मृषावादी नरो जनः नासीत् । एको वाशब्दो ऽप्यर्थे, अपरश्चार्थे ॥ १।७।१४ ॥
कश्चिदिति । तत्र पौर्वकराज्ये दुष्टो धर्मदूषकः अत एव परदाररतिः कश्चिन्नरो नासीत् । अत एव राष्ट्रं पुरवरं च यत् तत्सर्वं प्रशान्तं समूलसर्वोपद्रवरहितमेवासीत् ॥ १।७।१५ ॥
सुवासस इति । नरेन्द्रस्य पूर्वप्रवृत्तराज्यस्य हितार्थाः हितप्रयोजनकाः सुवाससः शोभनवस्त्राः सुवेषा समीचीनालङ्कारकाश्च सुशीलिनः समीचीनस्वभावास्ते प्रसिद्धाः सर्वे मन्त्रिणश्च नयचक्षुषा नीतिनेत्रेण । जाग्रता आसन् इति शेषः । नरेन्द्रस्येत्यत्रैकत्वं जात्यभिप्रायेण ॥ १।७।१६ ॥
गुराविति । गुरौ महात्मनि गुणगृहीताः गुणमात्रदर्शिनः । गुरुदोषादर्शका इत्यर्थः । पराक्रमे विषये विदेशेष्वपि प्रख्याताः सर्वतो विज्ञाताः सर्वविषयकज्ञानवन्तः । तत्र हेतुः बुद्धिनिश्चयाः बुद्ध्या बुद्धिपूर्वकविचारेण निश्चयः गुरुशास्त्रवाक्यादौ विश्वासो येषां ते मन्त्रिण आसन्निति शेषः । गुरोर्गुणगृहीताश्चेति भट्टसम्मतः पाठः । तत्र गुरुणा गुणवत्तया गृहीता इत्यर्थः । गुरोरिति सम्बन्धसामान्ये षष्ठी । गुण इति अर्शआद्यजन्तः । गुणागुणगृहीता इति पाठे गुणदोषग्रहीतार इत्यर्थ इति तैर्व्याख्यातम् ॥ १।७।१७ ॥
अभित इति । अभितः सर्वकालं गुणवन्तः । किञ्च अभितश्चतुर्दिक्षु ये गुणास्तद्वन्तः आसन् । अत एव गुणवर्जिताः न, अत एव सन्धिविग्रहतत्त्वज्ञाः सन्धिर्मेलनं विग्रहः कलहः तयोस्तत्त्वं जानान्तीति । प्रकृत्या च स्वभावेनैव दुस्त्यजया सम्पदा सम्पत्त्या अन्विता युक्ताः । चशब्द इवार्थे ॥ १।७।१८ ॥
मन्त्रेति । मन्त्रसङ्ग्रहणे मन्त्रस्य देशस्वास्थ्यसम्पादकविचारस्य यत्सङ्ग्रहणं मन्त्र्यतिरिक्तैर्वाचानुद्घाटनं तत्र शक्ताः । संवरणे इति पाठे ऽपि स एवार्थः । सूक्ष्मासु दुर्लक्ष्यासु अपि बुद्धिषु विचारेषु श्लक्ष्णाः पारुष्यस्वभावरहिताः नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः । ते आसन्निति शेषः । शक्ताः सूक्ष्मासु इति पाठकपाठः ॥ १।७।१९ ॥
ईदृशैरिति । ईदृशैः विद्याविनीतत्वादिना वर्णितपौर्वकसदृशैः गुणोपेतैः निखिलमन्त्रिगुणयुक्तैः तैः पूर्ववर्णिताष्टभिः अमात्यैः उपपन्नः युक्तः । चकारेण ऋत्विग्भिरुपपन्नः । अनघः स्वाश्रिताघनिवर्तकः राजा महाराजाधिराजो दशरथः वसुन्धरामन्वशासत् ॥ १।७।२० ॥
अवेक्षमाण इति । चारेण चारचक्षुषा अवेक्षमाणः निखिललोकवृत्तान्तं विजानन् धर्मेण धर्माचरणेन प्रजा रञ्जयन् प्रजानुरागमुत्पादयन् प्रजानां पालनं कुर्वन् अधर्मं
परिवर्जयन्धर्मविरुद्धप्रवृत्तिं निवारयन् ॥ १।७।२१ ॥
अत एव त्रिषु लोकेषु विश्रुतः ख्यातः वदान्यः सयुक्तिकवदनशीलः सत्यसङ्गरः कापट्यरहितसङ्ग्रामकर्ता पुरुषव्याघ्रः पुरुषसिंहः स प्रसिद्धो महाराजाधिराजदशरथः तत्र तस्यामयोध्यायाम् । वसन्निति शेषः । इमां पृथिवीं शशास पालयामास । द्वयोरेकत्रान्वयः ॥ १।७।२२ ॥
नेति । विशिष्टं तुल्यं वा आत्मनः शत्रुं नाध्यगच्छन्मित्रवान्परस्परैकमत्यापन्नबहुमित्रविशिष्टः अत एव नतसामन्तः नताः सामन्ता राजानो यस्य अत एव प्रतापहतकण्टकः प्रतापेन हताः कण्टकाः कण्टकतुल्याः शत्रवो यस्य स राजा जगच्छशास । तत्र दृष्टान्तः देवपतिर्यथेति ॥ १।७।२३ ॥
उपसंहरन्नाह तैरिति । मन्त्रहिते मन्त्रस्य कार्याकार्यविषयकविचारजन्यनिश्चयस्य हिते प्राप्तये निविष्टैः स्थापितैः अनुरक्तैः राजविषयकानुरागविशिष्टैः कुशलैः निपुणैः समर्थैः राजकार्यविषयकसामर्थ्यविशिष्टैः तैः पूर्वोक्तमन्त्रिभिर्वृतः सः प्रसिद्धः पार्थिवो महाराजाधिराजदशरथः तेजोमयैर्गोभिः किरणैरुदितः अर्क इव दीप्तिमवाप ॥ १।७।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्तमः सर्गः ॥ ७ ॥