पूर्वसर्गे पुरीं संवर्ण्य राजानं वर्णयन् तद्वासिनो वर्णयति तस्यामित्यादिभिः । वेदवित् वेदज्ञः । सर्वेषां दुर्गादीनां सङ्ग्रहः सङ्ग्राहकः, दीर्घदर्शी विलम्बकालभाविफलदर्शनशीलः, महातेजाः परमवर्चस्वी । अत एव पौरजानपदप्रियः । पुरे भवाः पौराः, जनपदे देशे भवाः जानपदास्तेषां प्रियः ॥ १।६।१ ॥
अतिरथः दशसहस्रमहारथैरसाहाय्येन युद्धकर्ता, यज्वा यथाविधि यागकारी, इक्ष्वाकूणां धर्मरतः इक्ष्वाकूचितसत्यप्रतिज्ञत्वादिधर्मविशिष्टः, नित्यसापेक्षत्वात्समासः । वशी स्वतन्त्रः । महर्षीन् कल्पयति सामग्रीसम्पादकत्वविघ्नध्वंसकत्वादिना यागादिसमर्थान्करोतीति महर्षिकल्पः । राजर्षिः राजा चासौ ऋषिश्चेति कर्मधारयः । अत एव त्रिषु कृत्स्नोर्ध्वकृत्स्नमध्यकृत्स्नाधोरूपेषु लोकेषु विश्रुतः ख्यातः ॥ १।६।२ ॥
बलवानिति । बलवान्साङ्गसेनाविशिष्टः । निहतामित्रः निहतः अमित्रः शत्रुर्येन । मित्रवान् प्रशस्तमित्रविशिष्टः । विजितेन्द्रियः वशीकृतान्तर्बहिःकरणः । सञ्चेतुं योग्याः सञ्चयास्तैः सञ्चयैः प्राकृतैर्धनैः अन्यैः प्राकृतविलक्षणैर्दिव्यैश्च धनैर्विशिष्टः । शक्रवैश्रवणोपमः इन्द्रकुबेरसदृशत्वेन प्रतीयमानः । चकारान्तरेण नित्यत्वादिधर्मेण लौकिकोपमानर्हः ॥ १।६।३ ॥
यथेति । राजा महाराजाधिराजो दशरथः तस्यां प्रसिद्धायां पुर्यामयोध्यायां वसन् सन्यथा लोकस्य परिरक्षिता लोकपरिरक्षणार्हः महातेजाः मनुः वैवस्वतः जगदपालयत् तथा जगदपालयत् । “अर्हे कृत्यतृचश्च” इति तृच् । श्लोकचतुष्टयमेकान्वयि ॥ १।६।४ ॥
तेनेति । सत्याभिसन्धेन सत्यप्रतिज्ञेन त्रिवर्गम् अप्राकृतधर्मकामार्थमनुतिष्ठता यथाशास्त्रमनुभवता तेन महाराजाधिराजदशरथेन इन्द्रस्यामरावती इव इन्द्राधिष्ठिता अमरावतीसदृशी श्रेष्ठा सा प्रसिद्धा पुरी अयोध्या पालिता । यथाशास्त्रं रक्षिता अभवदिति शेषः ॥ १।६।५ ॥
तस्मिन्निति । बहुश्रुताः सकलसच्छास्त्रश्रवणसम्पन्नाः अत एव स्वैःस्वैर्धनैस्तुष्टाः सन्तोषं प्राप्ताः अत एवालुब्धाः अनुचितद्रव्यादिलोभरहिताः अत एव सत्यवादिनः अत एव धर्मात्मानः धर्मस्वरूपाः अत एव हृष्टाः प्राप्तानन्दाः नराः तस्मिन्प्रसिद्धे पुरवरे अयोध्यानगरे आसन्निति शेषः ॥ १।६।६ ॥
नाल्पेति । यः कुटुम्बी पुत्रकलत्रादिविशिष्टः सः अल्पसन्निचयः अल्पः सन्निचयः कोशो यस्य स कश्चित्तस्मिन्पुरोत्तमे नासीत् । अगवाश्वधनधान्यवान् गवाश्वधनधान्यरहितः नासीत् । असिद्धार्थः पुरुषार्थरहितश्च नासीत् । हिशब्दश्चार्थे । नञाद्यावृत्तिः योग्यतावशात् । एवमुत्तरत्रापि सर्वो ऽपि बहुकोशादिमानासीदित्यर्थः ॥ १।६।७ ॥
कामीति । कामी कामवशः पुरुषः अयोध्यायां क्वचिद्द्रष्टुं न शक्यम् । कदर्यः लोभहेतुकात्मादिपीडकश्च नृशंसः क्रूरश्च पुरुषः अयोध्यायां क्वचिद्द्रष्टुं न शक्यम् । अन्वेषणेनापि न लभ्यते इत्यर्थः । अविद्वान् विद्वत्तारहितः न द्रष्टुं शक्यम् । नास्तिकः परलोकाभावनिश्चयवान् द्रष्टुं न शक्यम् । शक्यमिति सामान्ये नपुंसकम् । ऽआत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ भ्रातृ़न्स कदर्य इति स्मृतःऽ ऽनृशंसो घातुकः क्रूरःऽ इत्यमरः ॥ १।६।८ ॥
सर्वे इति । नराः नार्यश्च सर्वे धर्मशीलाः वेदतात्पर्यविषयीभूतधर्मविचारपराः । अत एव सुसंयताः अत एव मुद्रिताः सम्यग्वशीकृतेन्द्रियाः अत एव अमलाः मलसम्बन्धशून्याः अत एव शीलवृत्ताभ्यां स्वभावाचाराभ्यां महर्षय इव महर्षिसदृशाः । सन्तीति शेषः । सर्वे इत्यत्र “पुमान् स्त्रिया” इत्येकशेषः । विभक्तिविपरिणामेनान्वयो वा ॥ १।६।९ ॥
नाकुण्डलीति । अकुण्डली कुण्डलरहितो न विद्यते । एवममुकुटी न, अस्रग्वी न, अल्पभोगवान्न, अमृष्टः अनिर्मलो न, न नलिप्ताङ्गः न लिप्तं चन्दनादिलेपयुक्तमङ्गं यस्य स न । नशब्देन समासान्नलोपाप्राप्तिः । नानुलिप्ताङ्ग इति पाठे अनुलिप्तमङ्गं यस्य स अनुलिप्ताङ्गः न अनुलिप्ताङ्गः नानुलिप्ताङ्गः । अत्र पक्षे नकारो ऽनुकर्षणीयः । अकारो वा छेत्तव्यः । असुगन्धिः शोभनः गन्धो यस्य स सुगन्धिः कुङ्कुमकस्तूर्यादिः । न सुगन्धिर्यस्य सो ऽपि न । नासुगन्ध इति पाठे न सुगन्धः शोभनो गन्धो यस्मिन्स असुगन्धः । पुरुषो नेत्यर्थः । गन्धस्येत्वे तदेकान्तग्रहणमित्युक्त्येत्वविरहः । वस्तुतस्तु इकारान्तपाठे ऽपि शोभनो गन्धः स्वाभाविकशरीरामोदो यस्येत्यर्थे न क्षतिः ॥ १।६।१० ॥
नामृष्टेति । अमृष्टभोजी बलिवैश्वदेवाद्यभावप्रयुक्ता ऽशुद्धान्नभोजी नैव दृश्यते । अदाता अतिदातृत्वक्रियारहितश्च न । अनङ्गदनिष्कधृक् बाहुभूषणोरोभूषणभूषितपुरुषभिन्नश्च न । अहस्ताभरणः अङ्गुलीयकादिरहितश्च न । अनात्मवान् स्वरूपज्ञानरहितश्च न दृश्यते । अपित्रयं वाशब्दश्च चार्थे । एको वाशब्द एवार्थे ॥ १।६।११ ॥
नेति । अनाहिताग्निः निरवच्छिन्नाग्निहोत्ररहितः कश्चित् द्विजः अयोध्यायां नासीत् । अयज्वा सोमयागरहितश्च न । क्षुद्रः अल्पविद्यादिकश्च न । तस्करश्चोरश्च न । निर्वृत्तसङ्करः निर्वृत्तः सम्पादितः सङ्करः परक्षेत्रे बीजाधानादिना साङ्कर्यं येन स च न । सङ्कर इति भावप्रधानो निर्देशः । वाशब्दश्चार्थे । न चावृत्तो न सङ्कर इति भट्टाभिप्रेतः पाठः । तत्रावृत्तः सदाचाररहितो नेत्यर्थः ॥ १।६।१२ ॥
अयोध्यानित्यनिवासिवृत्तमुक्त्वा नैमित्तिकनिवासिद्विजवृत्तमाह स्वेत्यादिभिः । नित्यं स्वकर्मनिरताः अत एव विजितेन्द्रियाः अत एव दानाध्ययनशीलाः प्रतिग्रहे च संयताः नियमिताः । निषिद्धप्रतिग्रहरहिता इत्यर्थः । आसन्निति शेषः ॥ १।६।१३ ॥
नेति । नास्तिकः परलोकाभावविषयकनिश्चयविशिष्टः कश्चिन्न विद्यते । अनृतकः अनृतमसत्यं
कायति वदतीति । किञ्च न ऋतं सत्यं यस्य स च । न अबहुश्रुतः बहुश्रुतभिन्नो न । असूयकः गुणेषु दोषाविष्कर्ता न । अशक्तः सामर्थ्यरहितो न । अविद्वान् विद्वत्तारहितश्च न । तथाशब्दश्चार्थे । नास्तिको नानृती वापीति भट्टसम्मतः पाठः । तत्रानृत इति पाठे अर्शआद्यच् स एवार्थ इति व्याख्यातम् । तत्पाठद्वये नञावृत्तिर्बोध्या ॥ १।६।१४ ॥
नेति । अषडङ्गवित् वेदाङ्गशिक्षाकल्पादिवेदितृभिन्नः अत्रायोध्यायां कश्चन नासीत् । अव्रत एकादश्यादिव्रतशून्यो न । असहस्रदः सहस्रदातृभिन्नः अल्पदाता च नेत्यर्थः । दीनः दुर्बलशरीरो न । क्षिप्तचित्तः अनवस्थितमनस्कश्च न । व्यथितः व्याधिपीडितश्च न । वाशब्दद्वयमपिश्च चार्थे ॥ १।६।१५ ॥
कश्चिदिति । कश्चिन्नरः नारी च अश्रीमान् सम्पत्तिरहितः अयोध्यायां द्रष्टुं न शक्यम् । अरूपवान् सौन्दर्यविशिष्टाभिन्नश्च न । राजनि महाराजाधिराजे अभक्तिमांश्च न । अपी वौ च चार्थौ ॥ १।६।१६ ॥
वर्णचतुष्टयसाधारणवृत्तमाह वर्णेष्वित्यादित्रिभिः श्लोकैः । अग्र्यचतुर्थेषु अग्र्यः ब्राह्मणः चतुर्थो येषाम् । तद्गुणसंविज्ञानो बहुव्रीहिः । तेषु वर्णेषु ब्राह्मणादिषूद्भवा जनाः देवतातिथिपूजकाः । कृतज्ञाः कृतोपकारविस्मृत्यभाववन्तश्च । वदान्याः दाननिपुणाश्च । शूराः शौर्यविशिष्टाश्च विक्रमसंयुताः पराक्रमवन्तश्च आसन्निति शेषः । ऽवदान्यो दानशौण्डः स्यात्ऽ इति विश्वः ॥ १।६।१७ ॥
दीर्घेति । दीर्घायुषः धर्मं रघुनाथोपासनं सत्यं च संश्रिताः, पुत्रपौत्रैः स्त्रीभिश्च नित्यं सहिताः पुरोत्तमे अयोध्यानगरे सर्वे नराः आसन्निति शेषः ॥ १।६।१८ ॥
क्षत्रमिति । क्षत्रं क्षत्रियकुलं ब्रह्ममुखं ब्राह्मणप्रधनकमासीत् । वैश्याश्च क्षत्रमनुव्रताः आसन् । शूद्राः त्रीन्ब्रह्मक्षत्रियवैश्यानुपचारिणः सेवका इत्यर्थः । अत एव स्वधर्मनिरता उपचारः सेवा ॥ १।६।१९ ॥
सेति । पुरस्तात्पूर्वं धीमता मेधाविना मानवेन्द्रेण मानवस्वामिना मनुना वैवस्वतेन यथा सा पुरी सुपरिरक्षिता तथा इक्ष्वाकुनाथेन तेन महाराजाधिराजदशरथेन सुपरिरक्षिता आसीदिति शेषः ॥ १।६।२० ॥
योधानामिति । अग्निकल्पानां तेजसाग्निसदृशानामत एव पेशलानां सुन्दराणाममर्षिणां परचिकीर्षितपराभवासहनशीलानां कृतविद्यानां शिक्षितशस्त्रास्त्रादिविद्यानां योधानां सम्पूर्णा तैर्व्याप्ता । आसीदिति शेषः । तत्र दृष्टान्तः केसरिणां सिंहानां सम्पूर्णा गुहा कन्दरेव ॥ १।६।२१ ॥
काम्बोजेति । काम्बोजविषये काम्बोजनामकदेशे जातैः, वाह्लीकैः वाह्लीकदेशोद्भवैश्च वनायुजैः वनायुनामकदेशे जातैश्च, नदीजैः सिन्धुनदीसमीपदेशोद्भवैश्च हरिहयोत्तमैः हरिरिन्द्रस्तस्य हय उच्चैश्रवास्तद्वदुत्तमैः हयोत्तमैः हयश्रेष्ठैः । पूर्णा आसीदिति शेषः । आवृत्या चः सर्वत्रान्वेति । रूपवान्नीलरूपवानितिवत् हरिहयोत्तमैः हयोत्तमैरिति प्रयोगः । बाह्लीजैरिति क्वचित्पाठ इति भट्टः ॥ १।६।२२ ॥
विन्ध्येति । पर्वतोपमैः पर्वताकारैः मदान्वितैः मदविशिष्टैः, अत एव मत्तैः उन्मादविशिष्टैः, अत एवातिबलैः महाबलवद्भिः, विन्ध्यपर्वतजैः विन्ध्यपर्वतजातैः, हैमवतैः हिमवत्पर्वतोद्भवैश्च मातङ्गैः गजैः पूर्णा व्याप्ता । आसीदिति शेषः ॥ १।६।२३ ॥
ऐरावतेति । ऐरावतकुलीनैः ऐरावतनामकेन्द्रदिग्गजकुलोद्भवैः । महापद्मकुलैः महापद्मः पुण्डरीकापरनामको ऽग्निदिग्गजः स एव कुलं येषां तैश्च । महापद्मोद्भवैरित्यर्थः । वामनात् तदुपलक्षितयमनैर्ऋत्यदिग्गजादपि निष्पन्नैश्च । अञ्जनात् तदुपलक्षितवरुणवायुदिग्गजादपि
निष्पन्नैश्च । अपिना कुबेरेशानदिग्गजान्निष्पन्नैश्च । द्विषैः गजैः पूर्णेति पूर्वेणान्वयः । तथाशब्दश्चार्थे । तथा चामरसिंहः ऽऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाःऽ ॥ १।६।२४ ॥
भद्रैरिति । अचलसन्निभैः पर्वतसदृशैः, भद्रैः हिमवत्पर्वतोद्भवजातिविशेषैः, मन्द्रैः विन्ध्यपर्वतोद्भवजातिविशेषैश्च, मृगैः सह्यपर्वतोद्भवजातिविशेषैश्च, भद्रमन्द्रमृगैः परस्परत्रित्वसाङ्कर्यविशिष्टैश्च, भद्रमन्द्रैः भद्रमन्द्रनिरूपितद्वित्वसाङ्कर्यविशिष्टैः, भद्रमृगैः
भद्रमृगनिरूपितद्वित्वसाङ्कर्यविशिष्टैश्च, मृगमन्द्रैः मृगमन्द्रनिरूपितद्वित्वसाङ्कर्यविशिष्टैश्च, नित्यमत्तैः नागैः हस्तिभिः सा पुरी अयोध्या सदा पूर्णा । आसीदिति शेषः । सार्द्धश्लोक एकान्वयी । आवृत्त्या चशब्दः स्वहीनेष्वप्यन्वेति । तल्लक्षणमुक्तं वैजयन्त्याम् अङ्गप्रत्यङ्गभद्रत्वसङ्क्षिप्तं भद्रलक्षणम् । पृथुत्वश्लथता स्थौल्यं सङ्क्षिप्तं मन्द्रलक्षणम् ॥ तनुप्रत्यङ्गदीर्घोच्चप्रायो मृगगुणो मतः । भद्रमन्द्रो भद्रमृगो भद्रमन्द्रमृगो ऽपि च ॥ मन्द्रभद्रादयोप्येवमिति सङ्करजातयःऽ इति ॥ १।६।२५ ॥
सेति । सत्यनामा सत्यं न कैश्चिद्योधितुं शक्या । किञ्च अयोभिः विष्णुब्रह्मशिवैः ध्यायते नित्यं स्मर्यते या सेत्यादि तात्त्विकार्थविशिष्टं नाम यस्याः सा । अन्वर्थनामेति यावत् । अयोध्या पुरी द्वे योजने गुप्तहरेरारभ्यबिल्वहरिपर्यन्तं भूमयः नगरवर्तिदेशान्तरापेक्षया अत्यन्तं नित्यं प्रकाशते यस्यां योजनद्वयपरिच्छिन्नायां राजा महाराजाधिराजो दशरथः आवसन् स्वशिबिरतया नित्यं तिष्ठन्सन् जगदपालयत् । चशब्दान्नित्यलाभः । किञ्च सत्यं सत्यपदघटितम् अयोध्यापरपर्यायभूतसत्येति नाम यस्याः सेत्यर्थः । उक्तं च कौषीतकीब्राह्मणादौ “अयोध्या सत्यानामत्वेन” ऽअकारो वासुदेवः स्याद्यकारस्तु प्रजापतिः उकारो रुद्ररूपस्तु तां ध्यायन्ति मुनीश्वराःऽ इति पद्मपुराणम् ॥ १।६।२६ ॥
पालनमेव भङ्ग्यन्तरेणाह तामिति । महान् सर्वोत्कृष्टः अत एव शमितामित्रः दमितशत्रुकः महातेजाः परमवर्चस्को राजा महाराजाधिराजो दशरथः नक्षत्राणि चन्द्रमा इव तां सत्यनामां पुरीं शशास ॥ १।६।२७ ॥
पुनरपि भङ्ग्यन्तरेणाह तामिति । दृढतोरणार्गलाम् दृढस्तोरणार्गलो बहिर्द्वारवर्तिकपाटनिश्चलतासम्पादकतिर्यक्निबद्धकाष्ठविशेषो यस्याम् । विचित्रैर्गृहैरुपशोभिताम्, शिवाम् परमकल्याणप्रदाम्, नृपसिंहसङ्कुलाम् नृपसिंहैः खण्डमण्डलेश्वरश्रेष्ठैः सङ्कुलां व्याप्ताम्, सत्यनामां तां पुरीमयोध्यामेव शक्रसमः महीपतिः महाराजाधिराजः नित्यं शशास । पुरीं नित्यं शशासेत्यनेन देशस्य निःशेषोपद्रवराहित्यं सूचितम् । वैशब्दो नित्यार्थे । सत्यनामामित्यत्र “डाबुभाभ्या” इति डाप् ॥ १।६।२८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षष्ठः सर्गः ॥ ६ ॥