००५ अयोध्यावर्णनम्

सर्गचतुष्टयेन सप्रसङ्गं सङ्क्षिप्तरामायणं वारत्रयं प्रदर्श्य विस्तीर्णरामायणमुपक्रमते सर्वेत्यादिभिः । प्रजापतिं वैवस्वतमनुमुपादाय आरभ्य जयशालिनां विजययुक्तानां येषां नृपाणां मियं कृत्स्ना निखिला वसुन्धरा पृथ्वी सर्वापूर्वं सर्वेषां जनानामपूर्वं फलं यथा भवति तथा आसीत् । किञ्च वसुन्धरा सर्वमेवापूर्वं फलं येषां राज्ञामासीत् प्रापयत् । गत्यर्थकासधातुप्रयोगः । किञ्च सर्वमपूर्वं यस्य तमिति प्रजापतिविशेषणम् ॥ १।५।१ ॥

येषामिति । यान्तं भोजनाद्यर्थं गच्छन्तं यं षष्टिः पुत्रसहस्राणि पर्यवारयन् सहैवागच्छन् येन सागरः समुद्रजननयोग्या भूमिः खानितः षष्टिसहस्रसङ्ख्याकपुत्रैरवदारितः । सः प्रसिद्धः सगरो नाम नृपो येषामभवदिति शेषः । सगरो नामेत्यनेन नृपतिलाभः शब्दार्थयोस्तादात्म्यात् । किञ्च नामेति प्रसिद्धार्थकम् । क्वचित् षष्टिरिति व्यस्तः पाठ इति भट्टैरुक्तं स च सूपपन्नः ॥ १।५।२ ॥

इक्ष्वाकूणामिति । तेषामिक्ष्वाकूणामिक्ष्वाकुवंशप्रभवाणां महात्मनां राज्ञां वंशे महत्सर्वपूजनीयमिदं रामायणं रामपर्यवसानकमाख्यानमुत्पन्नं प्रकटीभूतमिति श्रुतम् । नारदब्रह्मोक्त्या निश्चितम् । इक्ष्वाकूणां वंशे रामायणमुत्पन्नमित्यनेन रामरामायणयोस्तादात्म्यं सूचितम् । प्रसिद्धं च प्रतिपाद्यप्रतिपादकयोस्तादात्म्यम् फ़्ऽरामेति द्व्यक्षरं नामऽ इत्यादौ । श्लोकत्रयमेकान्वयि ॥ १।५।३ ॥

तदिति । धर्मकामार्थसहितं धर्मश्च कामश्च अर्थश्च तेन वासनात्यागेन सहितः सहो मोक्षः । त्यागार्थकहाधातोः घञर्थे कः । किञ्च समस्तकर्म तदुपलक्षितजन्ममरणादि जहाति हापयति स एव स च ते ते जाता अस्मात् । तारकादित्वादितच् । धर्मकामार्थमोक्षप्रदमित्यर्थः । किञ्च धर्मकार्मार्थाः सन्ति अस्मिन्निति हितेन मोक्षेण सहितं तदेव तदिति कर्मधारयः । किञ्चार्थशब्देन लौकिकार्थपुरुषार्थौ गृह्येते । पुरुषार्थश्च मोक्ष एवेति सर्वत्र प्रसिद्धम् । तथा च धर्मश्च कामश्च अर्थौ च तैः सहितं

तत्प्रसिद्धमिदं बुद्धिविषयीभूतं सर्वं विस्तीर्णरामायणमादितः वर्तयिष्यामि प्रकटयिष्यामि । अतः अनसूयया असूयारहितबुद्ध्या निखिलं श्रोतव्यं धर्मकामार्थमोक्षार्थिभिः ग्रहीतव्यम् । अनसूयता इति भट्टसम्मतः पाठः ॥ १।५।४ ॥

प्रतिज्ञातमाह कोशल इति । मुदितः नित्यानन्दविशिष्टः स्फीतः समृद्धः महान्सर्वोत्कृष्टः सरयूतीरे निविष्टः सरयूभयतीरसमीपवर्ती प्रभूतधनधान्यवान् उद्भूतधनधान्यविशिष्टः कोशलो नाम प्रसिद्धः जनपदो देशः । अस्तीति शेषः । कोशलस्य मुदितत्वोक्त्या तद्देशस्य चेतनत्वं सूचितम् । तेन तस्याप्राकृतत्वं ध्वनितम् ॥ १।५।५ ॥

अयोध्येति । तत्र तस्मिन्कोशलदेशे लोकविश्रुता स्वर्गादिलोकप्रसिद्धा या अयोध्या नाम नगरी स्वयमासीत्स्वेच्छया प्रकटीभूता सा मानवेन्द्रेण मानवस्वामिना मनुना पुरी स्वराजधानी निर्मिता कृता । एतेनायोध्याया रामाभिन्नत्वनित्यत्वचेतनत्वानि व्यञ्जितानि ॥ १।५।६ ॥

प्रकटितायोध्याप्रमाणमाह आयतेति । श्रीमती निखिलैश्वर्यशोभाविशिष्टा सुविभक्ता यथोचितगृहादिविन्यस्ता महापथा तत्तद्गृहगमनोचितप्रशंसनीयमार्गा तयोः कर्मधारयः । किञ्च सुविभक्तेभ्यः यथोचितविन्यस्तगृहेभ्यः महापथो यस्यां सा । दश च द्वे च योजनानि आयता द्वादशयोजनदीर्घा त्रीणि योजनानि विस्तीर्णा तिर्यग्विस्तारयुक्ता ॥ १।५।७ ॥

राजेति । महता विपुलदीर्घविस्तारवता सुविभक्तेन असम्मिलितेन नित्यशो मुक्तपुष्पावकीर्णेन विमानगतदेवाङ्गनादित्याजितपुष्पविशिष्टेन नित्यशो जलसिक्तेन जलसेकविशिष्टेन राजमार्गेण राजगमनोचिताध्वना शोभिता महापुरी अयोध्या । आसीदिति शेषः । द्वयोरेकत्रान्वयः ॥ १।५।८ ॥

तामिति । महाराष्ट्रविवर्द्धनः राष्ट्राणि देशान् विवर्द्धयतीति राष्ट्रविवर्द्धनः महानेव स इति कर्मधारयः । राजा महाराजाधिराजो दशरथो ऽपि तां देवलोकादिप्रसिद्धां पुरीमयोध्यां दिवं स्वर्गं देवपतिर्यथा इन्द्र इव आवासयामास । तुशब्दोप्यर्थे । दिवीति भाट्टपाठः ॥ १।५।९ ॥

तामेव वर्णयति कपाटेत्यादि । यावत्सर्गसमाप्ति । कपाटतोरणवतीं प्रशस्तकपाटतोरणसंयुक्ताम् । तोरणो बहिर्द्वारप्रदेशालङ्कारदारुबन्धः । सुविभक्तान्तरापणां सुविभक्तानि परस्परमसम्मिलितानि अन्तराणि मध्यानि येषां ते आपणाः निषद्याः यस्यां सा ताम् । सर्वयन्त्रायुधवतीं सर्वाणि लोकप्रसिद्धानि यन्त्राणि शिलाक्षेपणीप्रभृतीनि आयुधानि बाणादयः यथोचितस्थाने सन्ति यस्यां सा ताम् । सर्वशिल्पिभिः कृत्स्नचित्रकारप्रभृतिभिः उपेतां युक्ताम् । ऽआपणस्तु निषद्यायाम्ऽ इत्यमरः । उषितामिति भट्टसम्मतः पाठः ॥ १।५।१० ॥

सूतेति । सूतमागधसम्बाधाम् सूताः पौराणिकाः मागधाः वंशशंसकाः तैः सम्बाधाम् । व्याप्तां श्रीमतीं धनधान्यसमृद्धामतुलप्रभां तुलारहितकान्तिविशिष्टाम् । उच्चाट्टालध्वजवतीमुन्नताट्टध्वजविशिष्टां शतघ्नीशतसङ्कुलां श्ातघ्नीशतै प्रकारस्थयन्त्रविशेषानन्तैः सङ्कुलां विन्यस्ताम् । ऽशतघ्नी तु चतुस्ताला लोहकण्टकसञ्चिताऽ इति यादवः । शतशब्दो ऽनन्तवाची ॥ १।५।११ ॥

वध्विति । वधूनाटकसङ्घैः स्त्रीनर्तकसमूहैः संयुक्ता सर्वतः चतुर्दिक्षु पुर्यः वाराणस्यादयो यस्यां सा ताम् । तथा च स्मृतिः ऽसाकेतपश्चिमद्वारि वृन्दावनमदूरतःऽ इत्यादि । समासान्तविधेरनित्यत्वात्कबभावः । उद्यानाम्रवणोपेताम् आम्रवनरूपोद्यानविशिष्टाम् । आहिताग्न्यादित्वात्परनिपातः । महतीं समाधिकरहितां शालमेखलां शालः प्राकारः शालवनं वा मेखला आवरणं यस्यास्ताम् । ऽप्राकारो वरणः शालःऽ इत्यमरः ॥ १।५।१२ ॥

दुर्गेति । दुर्गगम्भीरपरिखाम् दुर्गा दुर्गमा गम्भीरा अगाधा परिखा यस्यास्ताम् । अत एव दुर्गां

गमनानर्हामत एव अन्यैः शत्रुभिः दुरासदामश्ाक्यपराभवाम् । वाजिवारणसम्पूर्णामश्वहस्तिसमृद्धाम् । गोभिरुष्ट्रैः खरैश्च तथा सम्पूर्णाम् ॥ १।५।१३ ॥

सामन्तेति । बलिः करनियमनं कर्म येषां तै बलिकर्मभिः । सामन्तराजसङ्घैः समन्ताद्भवाः सामन्ताः ऽअव्ययानां भमात्रे टिलोपःऽ इत्यनेन आतो लोपः । ते एव राजानः खण्डमण्डलेश्वरास्तेषां सङ्घाः समूहास्तैरावृताम् । नानादेशनिवासैः वणिग्भिश्च उपशोभिताम् । चकारेण मित्रीभूतखण्डमण्डलेश्वरैश्चावृताम् ऽभागधेयः करो बलिःऽ इत्यमरः ॥ १।५।१४ ॥

प्रासादैरिति । रत्नविकृतैः रत्नैर्विकृतैर्विशेषतो रचितैः प्रासादैः राजगृहैः पर्वतैः क्रीडोपयुक्तगिरिभिश्च उपशोभिताम् । किञ्च रत्नानां वयः पक्षिणः कृताः निर्मिताः येषु तैरित्यर्थः । कूटागारैः बलभीभिश्च सम्पूर्णामत एव इन्द्रस्य अमरावतीमिव इन्द्ररक्षिततत्पुरीसदृशीत्वेन प्रतीयमानामित्यर्थः । पर्वतैरिव शोभितामिति भट्टसम्मतः पाठः । तत्र पर्वतसदृशैः प्रासादैरित्यर्थः ॥ १।५।१५ ॥

चित्रामिति । चित्राम् नानावर्णविशिष्टाम् । अष्टापदाकाराम् शारिफलाकृतिम् । ऽअष्टापदं शारिफलम्ऽ इत्यमरः । किञ्च अष्टापदस्य सुवर्णस्याकारः आकृतिर्यस्याः अप्राकृतस्वर्णमयीमित्यर्थः । किञ्च अष्टापदस्य सुवर्णस्य आकारः जनग्रहणार्थं प्रतिदिनं राजमार्गे राजकर्त्तृकप्रक्षेपो यस्यां ताम् । विक्षेपणार्थकक्रृ़धातोः प्रयोगः । किञ्च अष्टानां व्यापकानां ब्रह्मविष्णुमहेश्वराणामापस्य व्यापकत्वसदृशव्यापकत्वस्य दः दानं यस्याम् । आश्रितजनेभ्यः ब्रह्मादिव्यापकत्वादिसदृशव्यापकत्वादिप्रदात्रीमित्यर्थः । अष्टशब्दो व्याप्तार्थकः अशधातुप्रकृतिककर्तृनिष्ठान्तः । न कारः उत्पत्तिर्यस्याः नित्यामित्यर्थः । सा एव सेति कर्मधारयः । तां वरनारीगणायुतां वरनारीगणैरायुतां व्याप्तां सर्वरत्नसमाकीर्णाम् अनेकजातीयरत्नसम्पूर्णाम्, विमानगृहशोभिताम् विमानगृहैः सप्तभूमिकवेश्मभिः शोभिताम् । ऽविमानो ऽस्त्री देवयाने सप्तभूमौ चऽ इति निघण्टुः । किञ्च विमानगृहैः अपरिमितागारैः शोभिताम् ॥ १।५।१६ ॥

गृहेति । गृहगाढाम् कुटुम्बिगृहनिबिडाममामपरिमितप्रभावाम् । विच्छिद्राम् दोषरहिताम् । ज्योतिश्शस्त्रानुकूलामित्यर्थः । त्रयाणां कर्मधारयः ऽछिद्रं रन्ध्रे दूषणेपिऽ इति भास्करः । समभूमौ समा वैषम्यरहिता कान्तिविशिष्टा वा या भूमिः तस्यां निवेशितां प्रकटिताम् । शालितण्डुलसम्पूर्णाम् । ऽशालयः श्वेततण्डुलाःऽ इति वैजयन्ती । इक्षुकाण्डरसोदकामिक्षुकाण्डरससदृशोदकविशिष्टाम् । किञ्च उदकसदृशव्ययीक्षुदण्डरसविशिष्टाम् ॥ १।५।१७ ॥

दुन्दुभीभिरिति । दुन्दुभीभिः भेरीभिः मृदङ्गैः वीणाभिश्च पणवैः मर्दलैः भृशं नादितां पृथिव्यां तथा पृथिव्यामपि अत्यर्थमनुत्तमां ताम् । किञ्च पृथिव्याः अ न अन्तः परिच्छेदो यस्याः सा ताम्मपृथिव्यान्ताम् । सर्वलोकादूर्ध्वमपि विद्यमानामित्यर्थः । अत एव अत्यर्थमनुत्तमामतिश्रेष्ठाम् । दुन्दुभीत्यत्र दीर्घ आर्षः ॥ १।५।१८ ॥

विमानमिति । तपसा अधिगतं प्राप्तं दिवि सिद्धानां विमानमिव सकलाभीष्टदात्रीत्वात्तादृशविमानसदृशीत्वेन प्रतीयमानामित्यर्थः । सुनिवेशितवेश्मान्ताम् सुनिवेशिताः वेश्मान्ताः गृहप्रान्ताः यस्यां ताम् । नरोत्तमसमावृताम् नरोत्तमैः परमविद्वद्भिः समावृताम् । अत एव राजसङ्घैरावृतामित्यनेन (न) पौनरुक्त्यम् ॥ १।५।१९ ॥

ये चेति । लघुहस्ताः शिक्षादिना प्राप्तहस्तलाघवीकाः । शीघ्रवेधिन इति यावत् । अत एव विशारदाः अस्त्रशस्त्रप्रयोगनिपुणाः अपि ये विविक्तं स्वसङ्घाच्युतमपरापरं न परे पित्रादयः अपरे पुत्रादयः यस्य तम् । स्ववंशतन्तुमित्यर्थः । शब्दवेध्यम् शब्दमात्रलक्षणजनितहननयोग्यम् ।

प्रच्छन्नमित्यर्थः । विततं विगतः ततः युद्धविस्तारो यस्य । नष्टसामर्थ्यादिना भ्रष्टयुद्धकमित्यर्थः । तं च न विध्यन्ति ॥ १।५।२० ॥

ये च मत्तानां मदविशिष्टानामत एव वने नदतां नादयुक्तानां सिंहव्याघ्रवराहाणां बलाद्बलप्रुयक्तैः निशितैस्तीक्ष्णैः शस्त्रैः बाहुबलैः शस्त्रादिरहितबाहुभिश्चेत्यर्थः हन्तारः ॥ १।५।२१ ॥

तादृशानां सहस्रैः महारथैः अभिपूर्णां तां पुरीमयोध्यां राजा महाराजाधिराजः तथा पित्राद्यावासनप्रकारेणावासयामास संस्थापयामास । पालयामासेत्यर्थः ॥ १।५।२२ ॥

तामिति । अग्निमद्भिः अग्निहोत्रिभिः, गुणवद्भिः शमदमादिगुणसम्पन्नैः, वेदषडङ्गपारगैः अधीताध्यापितसाङ्गसर्ववेदैः, सहस्रदैः बहुप्रदैः, सत्यरतैः मिथ्यासम्बन्धशून्यैः, महात्मभिः पूजितस्वरूपैः, द्विजोत्तमैः ब्राह्मणैः, महर्षिकल्पैः वसिष्ठसदृशैः, केवलैः अविद्यासम्बन्धशून्यैः, ऋषिभिश्चावृतां तां पुरीमावासयामासेति पूर्वेणान्वयः ॥ १।५।२३ ॥

इत्यार्षे श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चमः सर्गः ॥ ५ ॥