००४ रामायणगानम्

पूर्वसर्गे रामचरितं सङ्क्षेपतो वर्णयामास । इदानीं विस्तरतो ऽपि रामचरितं वर्णयति प्राप्तेत्यादिभिः । ऋषिः सर्वज्ञः अत एव आत्मवान् रामचरितवर्णनविषयकयत्नवान् अत एव भगवान् परममाहात्म्यवान् वाल्मीकिः प्राप्तराज्यस्य प्रकटीकृतस्वकीयनित्यमहाराजत्वस्य रामस्य कृत्स्नं स्वबुद्धिविषयीभूतं चरितं विचित्रपदं विचित्राणि दोषरहितत्वालङ्कारव्यञ्जकत्वसहितत्वादिना आश्चर्याणि पदानि प्रतिपादकत्वेन यस्मिन् तच्चकार रचयामास । पदमर्थवदिति पाठे तु विचित्राणि दोषरहितत्वानुप्रासादिना आश्चर्याणि पदानि यस्मिन् तदर्थवत् दोषरहितत्वालङ्कारादिना प्रशस्तार्थविशिष्टं कृत्स्नं चरितं तत्प्रतिपादककाव्यं चकार । चकारेति परस्मैपदेन लोकोपकारार्थं कृतवानित्यर्थः सम्पन्नः । तेन स्वस्य रामचरितश्रवणमात्रेण कृतार्थत्वं बोधितम् ॥ १।४।१ ॥

भ्रममूलकप्रक्षेपनिस्सारणाभावाय चिकीर्षितग्रन्थसङ्ख्यामाह चतुर्विंशदिति । ऋषिः सर्वज्ञो वाल्मीकिः श्लोकानां ऽतपस्स्वाध्यायऽ इत्यादि ऽतद्ब्रह्माप्यन्वमन्यतऽ इत्यन्तानां चतुर्विंशत्सहस्राणि चतुर्विंशतिसहस्रसङ्ख्याः उक्तवान् । चतुर्विंशत्सहस्रशब्दः सङ्ख्यापरः । अत एव ऽसङ्ख्यायां द्विबहुत्वे स्तःऽ इत्यनुशासनाद्बहुवचनम् । अन्यथा ऽविंशत्याद्याः सदैकत्वेऽ इति कोशात्तदनुपपन्नं स्यात् । अत एव श्लोकानामिति षष्ठ्युपपत्तिः । सङ्ख्याया उक्तेः सङ्ख्येयोक्तिमन्तरा ऽसम्भवेन सङ्ख्येयोक्तिद्वारा सङ्ख्याम् उक्तवानिति फलितो ऽर्थः । चतुर्विंशत्सहस्रशब्दे इकारलोप आर्षः । पञ्च पञ्च सङ्ख्यागुणितान्सर्गशतान् सर्गाणां शतांश्च उक्तवान् । षट्काण्डानि षट्सङ्ख्यासङ्ख्यातानि काण्डानि च उक्तवान् । पूर्वस्तथाशब्दश्चार्थे स एव सर्वत्रान्वेति । शतशब्दस्य पुँस्त्वं तु “शतायुतप्रयुताः पुंसि च” इति लिङ्गानुशासनादवगन्तव्यम् । क्वचिच्छतमिति पाठः । तस्यैकत्वं तु ऽविंशत्याद्याः सदैकत्वेऽ इति कोशात्सिद्धम् । तस्य साधुत्वं तु “पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्” इति सूत्रेण निष्पन्नम् । तथोत्तरम् । तथाशब्दः दशाधिकशतसङ्ख्यासङ्ख्येयपरः । एवञ्च तथा दशाधिकशतसर्गसहितमुत्तरं सप्तमकाण्डमुक्तवानित्यर्थः । तथाहि ऽत व्योम शून्यम्ऽ इत्याद्युक्तेः तशब्दस्य व्योमपरत्वं तस्य च शून्यबोधकत्वं ज्योतिश्शास्त्रादौ स्पष्टमेव । ऽशिलोच्चये थकारः स्यात्ऽ इति कोशात् थशब्दस्य पर्वतपरत्वं सो ऽस्ति अस्या इति अर्श आद्यचा थाशब्दः पृथिवीपरः । तेनाप्येकत्वबोधकत्वं तत्रैव स्पष्टम् । ऽअकारो वासुदेवे स्यात्ऽ इति कोशात् । अशब्दः परमात्मपरः तेन “एको देवः सर्वभूतेषु गूढः”

इत्यादिश्रुत्या एकत्वं बोध्यते एवञ्च ऽअङ्कानां वामतो गतिःऽ इति न्यायात्तथाशब्देन दशाधिकशतबोधः । उत्तरकाण्डस्य पृथगुक्तिस्तु भविष्यत्कालिकरघुनाथचरितविषयत्वेन भूतवर्तमानकालिकरघुनाथचरितविषयीभूतकाण्डान्तरेभ्यो वैलक्षण्यं द्योतयितुम् । एतेन उक्तसङ्ख्यापेक्षया षट्त्रिंषत्सर्गसङ्ख्याधिक्यदर्शनात् चतुर्विंशतिसहस्रापेक्षया श्लोकसङ्ख्याया अपि आधिक्यदर्शनाच्च उत्तरकाण्डीयसर्गसङ्ख्यानुक्तेश्च प्रक्षिप्तोयं श्लोको न त्वार्ष इति भट्टोदाहृतकतककृतको दुस्तर्क इति बोध्यम् । एतच्छ्लोकोक्तसङ्ख्यासङ्ख्यातातिरिक्तत्वेन भासमानानां सर्गश्लोकानां समूलां गतिं वक्ष्यामः । ऽकाण्डानि षट् कृतानीह सोत्तराणि महात्मनाऽ इत्युत्तरकाण्डचतुर्नवतितमसर्गघटकपद्यघटकसोत्तराणीति । अस्यार्थस्तु सशब्देनाकाश उच्यते सस्य वायोरयं जनक इति व्युत्पत्तेः । तेन शून्यलाभः । ओ वासुदेवः । तेनैकत्वलाभः । पुनरो वासुदेवः । तेनाप्येकत्वलाभः । स च स च स चेति द्वन्द्वः । एवं चाङ्कानां वामतो गतिरिति न्यायेन दशाधिकशतलाभः । तैस्तत्सङ्ख्याकसर्गैर्विशिष्टमुत्तरं काण्डं येषु तानि दशाधिकशतसङ्ख्याकसर्गविशिष्टोत्तरकाण्डविशिष्टानीत्यर्थः । सशब्दस्य वायुपरत्वं तु ऽसो वायुः परदेशदूरगमनम्ऽ इत्यादिना । वायोः सदैवतत्वेनाभेदाध्यवसायात्सिद्धामिति दिक् ॥ १।४।२ ॥

कृत्वेति । महाप्राज्ञः महती पूजनीया प्रज्ञा यस्य स वाल्मीकिः । सहोत्तरम् उत्तरकाण्डसहितं तत्काण्डषट्कं रामायणं कृत्वा सभविष्यं सभेषु सभावत्पुरुषेषु विष्यं रामायणव्यापकत्वं यथा स्यात्तथा को नु प्रभुः एतद्धारणसमर्थः एतद्रामायणं प्रयुञ्जीयात् सभासदान् श्रावयेदित्यर्थ इति चिन्तयामास । एतेन रामचरितेषु ऋषेः परमानुरागः सूचितः । विष्यशब्दस्तु व्याप्त्यर्थकविषधातोर्ण्यति सञ्ज्ञापूर्वकविधेरनित्यत्वाद्गुणाभावेन सिद्धः । सभशब्दो ऽर्शआद्यजन्तः । प्रयुञ्जीयादित्यार्षम् ॥ १।४।३ ॥

तस्येति । भावितात्मनः भावितः परिशीलितः आत्मा सर्वनियन्तृरघुनाथो येन । अत एव चिन्तयमानस्य रामचरितप्रवृत्त्युद्योगं विचारयतस्तस्य प्रसिद्धस्य महर्षेः वाल्मीकेः पादौ मुनिवेषौ मुन्यनुवर्तित्वात्तद्वेषधरौ कुशीलवौ अगृह्णीताम् । रामायणग्रहणार्थं तत्पादस्पर्शमकुरुतामित्यर्थः । एतेन तयोरन्तर्वेदितृत्वं सूचितम् । तेनोत्तमशिष्यत्वं द्योतितम् । तदुक्तम् ऽउत्तमश्चिन्तितं कुर्यात्ऽ इत्यादिना । भट्टास्तु अगृहीतामिति पाठमुक्त्वा छान्दसमिदमित्याहुः ॥ १।४।४ ॥

पादग्रहणानन्तरकालिकं वृत्तमाह कुशीलवाविति । धर्मज्ञौ गुरुशुश्रूषणाभिज्ञौ अत एव यशस्विनौ कीर्तिमन्तौ स्वरसम्पन्नौ स्वरोपलक्षितगानविद्यानिपुणौ आश्रमवासिनौ स्वाश्रमवसनशीलौ भ्रातरौ सोदर्यौ राजपुत्रौ

राजनिष्ठनित्यजनकतानिरूपितजन्यताविशिष्टौ कुशीलवौ ददर्श एव न तदानीं किञ्चिदुवाचेत्यर्थः । तुश्ाब्द एवार्थे । न किञ्चिदुवाचेत्यनेन ऋषेः कुशलवविषयकप्रीत्यतिशयः सूचितः ॥ १।४।५ ॥

स इति । प्रभुः दुर्बोधवस्तुबोधनसमर्थः स वाल्मीकिः मेधाविनौ परमबुद्धिमन्तौ अत एव वेदेषु ऋग्यजुस्सामाथर्वसु परिनिष्ठितौ तदध्ययनसम्पन्नौ तौ कुशलवौ वेदोपबृंहणार्थाय वेदानामुपबृंहणं तात्पर्यबोधनं तदेव अर्थः प्रयोज्रनं तस्मै अग्राहयत अपाठयत ॥ १।४।६ ॥

किमपाठयतेत्यत आह काव्यमिति । चरितव्रतः चरितमाचरितं व्रतं रघुनाथोपासनं येन स मुनिः वाल्मीकिः पौलस्त्यवधं रावणादिवधप्रतिपादकं रामायणं रामचरितप्रतिपादकं सीतायाश्चरितं सीतासम्बन्धिचरितविशिष्टमत एव महत् सर्वश्रेष्ठमत एव कृत्स्नं सम्पूर्णम् । एतज्जातीयकादन्यत्सर्वं न्यूनमित्यर्थः । एतेन एतल्लाभान्न किञ्चिदुर्ल्लभमिति ध्वनितम् । किञ्च कृतां सुकृतिनां स्नः स्नानं सादरावलोकनादि यस्मिन् सुकृद्भिरादृतमित्यर्थः । तत्काव्यं चकार इति तदेव अग्राहयदित्यर्थः । एवेन पाठान्तरव्यवच्छेदः । तेन रामचरितविषयकप्रेमाधिक्यं सूचितम् । इत्येवमिति भाट्टपाठः ॥ १।४।७ ॥

ग्रहणानन्तरं तत्काव्यं कुशलवाभ्यां गीतमित्याह पाठ्य इत्यादिभिः । पाठ्ये पाठे गेये गाने च मधुरम् मनोहरम् । लोके किञ्चित्पाठे एव मनोहरं किञ्चिद्गाने एव मनोहरम् । इदं तु उभयत्रापि मनोहरमित्यर्थः । शृङ्गारादिपञ्चभिः रौद्रादिभिः रौद्रबीभत्साद्भुतशान्तैश्चतुर्भिश्च रसैः संयुक्तमेतत्काव्यं त्रिभिः त्रित्वसङ्ख्याविशिष्टैः प्रमाणैः द्रुतमध्यमविलम्बितैरन्वितं यथा स्यात्तथा सप्तभिः सप्तत्वसङ्ख्याविशिष्टैः जातिभिः ऽसर्वगीतसमाधारो जातिरित्यभिधीयते । खार्जी चैवाथ नैषादी धैवती पञ्चमी तथा ॥ माध्यमी चैव गान्धारी सप्तमी त्वार्षभी मता ॥ ऽ इति शाण्डिल्योक्त्या सर्वगीतसमाधारभूतखार्ज्यादिभिः सप्तभिः बद्धं यथा स्यात्तथा तन्त्रीलयसमन्वितम्। तन्त्रीशब्दो लक्षणया तन्त्रीयुक्तवीणाशब्दपरः। लयशब्दस्तालवेणुमृदङ्गादीनां समानकालिकविरामपरः। ताभ्यां युक्तं यथा स्यात्तथा गान्धर्वतत्त्वज्ञौ। ऽगान्धर्वं गीतशासनम्ऽ इति वैजयन्तीकोशाद्गान्धर्वस्य गीतशास्त्रस्य तत्त्वज्ञौ तात्पर्यवेदितारौ। अत एव मूर्छनास्थानकोविदौ। मूर्छना च स्थानं च मूर्छनास्थाने तयोः कोविदौ निपुणौ। मूर्छनाशब्देन वीणादिवादनमुच्यते। ऽवादने मूर्छना प्रोक्ताऽ इति वैजयन्तीकोशात्। स्थानशब्देन मन्द्रमध्यमताररूपस्वरत्रयोत्पत्तिस्थानमुच्यते। तदुक्तं शाण्डिल्येन

ऽयदूर्ध्वं हृदयग्रन्थेः कपोलफलकादधः । प्राणसञ्चारणस्थानं स्थानमित्यभिधीयते ॥ उरः कण्ठः शिरश्चेति तत्पुनस्त्रिविधं भवेत् । मन्द्रं मध्यं च तारं चऽ इति । ऽस्थानमूर्छनकोविदौऽ इति भट्टसम्मतः पाठः । तत्र मूर्छनाशब्देन ऽयत्रैव स्युः स्वराः पूर्णा मूर्छना सेत्युदाहृताऽ इति प्रामाण्येन मूर्छनाशब्दः स्वरपूर्णस्थानपर इति व्याख्यातम् । भ्रातरौ सोदर्यौ स्वरसम्पन्नौ खर्जादिस्वरविज्ञौ । अत एव रूपिणौ मनुष्यरूपधारिणौ गन्धर्वाविव मनुष्यरूपधारिगन्धर्वसदृशौ । रूपलक्षणसम्पन्नौ नाटकलक्षणविज्ञौ । ऽरूपं स्वभावे शुक्लादौ सौन्दर्ये नाटकेप्यसौऽ इति भास्करः । मधुरस्वरभाषिणौ मनोहरस्वरभाषणशीलौ रामदेहाद्बिम्बादुत्थितौ । बिम्बौ प्रतिबिम्बाविव रामदेहरूपबिम्बोत्थितप्रतिबिम्बसदृशावित्यर्थः । अत एव अपरौ तथा रामप्रतियोगिकभेदाभाववन्ताविव तत्त्वेन प्रतीयमानावित्यर्थः । तौ कुशलवौ अगायतामिति चतुर्णामेकत्रान्वयः । तथाशब्द इवार्थे ॥ १।४।८११ ॥

तदेव विशब्द(द)यन्नाह तावित्यादि सार्द्धश्लोकद्वयेन । सर्वलक्षणलक्षितौ सर्वाणि निखिलानि लक्षणानि सामुद्रिकोक्तसच्चिह्नानि तैर्लक्षितौ युक्तौ । अत एव महाभागौ नित्यपरमभाग्यवन्तौ । अत एव महात्मानौ पूजितस्वरूपौ । अत एव समाहितौ एकाग्रचित्तौ । अत एव तत्त्वज्ञौ वेदशास्त्रतात्पर्यवेदितारौ । अत एवानिन्दितौ निन्दारहितौ तौ अमृतवदास्वादनीयगानविशिष्टौ राजपुत्रौ । तौ कुशीलवौ । धर्म्यम् धर्मादनपेतम् । जनकर्त्तव्यबोधकमित्यर्थः । आख्यानम् रामचरितप्रतिपादकम् । अत एव उत्तमं सर्वश्रेष्ठं तत् रामायणं काव्यमादिकविवाल्मीकिनिष्पादितं सर्वं वाचोभि(वि)धेयं पुस्तकावलोकनाद्यन्तरापि वचनार्हं कृत्वा अभ्यासतः सम्पाद्य ऋषीणां मन्त्रद्रष्टृ़णां द्विजातीनां सामान्यब्राह्मणक्षत्रियविशां च साधूनां जात्याद्यभिमानरहितपरमहंसानां च समागमे सम्मेलने यथोपदेशं गुरूपदेशमनतिक्रम्य जगतुः गानं चक्रतुः । क्वचिल्लक्ष्यलक्षणलक्षिताविति पाठः । अर्थः स्पष्ट एव । ऽतश्चौरामृतपुच्छेषु क्रोडे ऽम्ले ऽक्षे च कुत्रचित्ऽ इति मेदिनीकोशात्तशब्दो ऽमृतपरः । सार्द्धश्लोकद्वयमेकान्वयि ॥ १।४।१२,१३ ॥

गानस्थलं निर्दिशन्नाह ताविति । कदाचित्कस्मिंश्चित्समये समेतानामेकत्र समागतानां भावितात्मनां परिशीलितपरमात्मनाम् ऋषीणां समीपस्थौ कुशलवौ मध्येसभं सभामध्ये इदं रामायणं काव्यमगायताम् । मध्येसभमित्यस्य स्थाने आसीनानामिति पाठे आसीनानां मध्ये इत्यर्थः ॥ १।४।१४ ॥

गेयप्रशंसां कुर्वन्नाह तदिति । तद्गीयमानरामायणं श्रुत्वा परं विस्मयं केन सुकृतेन इदमस्माभिः प्राप्तमित्याश्चर्यमागताः प्राप्ताः । अत एव बाष्पपर्याकुलेक्षणाः सर्वे तत्रागतास्ते मुनयः साधुसाध्विति इदमित्यूचुः । हर्षे वीप्सा । अपिशब्द इत्यर्थे ॥ १।४।१५ ॥

गेयप्रशंसामुक्त्वा गातृप्रशंसामाह ते इति । धर्मवत्सलाः धर्माः ध्ार्मस्वरूपाः वत्सलाः वात्सल्यरसवन्तः ते एव ते इति कर्मधारयः । अत एव प्रीतमनसः प्रसन्नचित्ताः ते सर्वे मुनयः गायमानौ अद्भुतगानं कुर्वन्तौ अत एव प्रशस्तव्यौ प्रशंसनीयौ कुशीलवौ प्रशशंसुः । प्रशस्तव्यावित्यत्र आगमशास्त्रस्यानित्यत्वादिडभावः । नलोपश्छान्दसः । धर्मबाहुल्यात् धर्मवतां धर्मत्वेन व्यपदेशः ॥ १।४।१६ ॥

प्रशंसास्वरूपमाह अहो इति । गीतस्य गानस्य माधुर्यं विशेषतः अन्यगानाद्विलक्षणमत एव श्लोकानां च माधुर्यं विशेषतः श्लोकान्तरेभ्यः विलक्षणमित्यहो आश्चर्यम् । एतेनैतादृग्गानं कर्तुर्न पूर्वमनुभूतिरिति हेतुर्ध्वनितः । विलक्षणत्वमेवाह चिरेति । चिरनिर्वृतं बहुकालिकरामव्यापारसम्पन्नमेतच्चरितमल्पकालतः प्रत्यक्षमिव दर्शितम् । अद्भुतगानविशिष्टप्रबन्धेन साक्षादिव कृतमित्यर्थः । अपिशब्दादल्पकाललाभः ॥ १।४।१७ ॥

गानगेयविलक्षणत्वमुक्त्वा गातृविलक्षणत्त्वं बोधयँस्तत्प्रशंसास्वरूपमाह प्रविश्येति । सहितौ समलयादिविशिष्टौ तावुभौ कुशलवौ मधुरं माधुर्यविशिष्टं रक्तं श्रोत्रानुरागविषयीभूतं स्वरसम्पदा खर्जादिसम्पन्नं यथा भवति तथा भावं रतिहासादिरूपं सुष्ठु प्रविश्य तत्तन्मयीभूय अगायताम् । श्रोतृतत्तद्रसनिष्पादजनकीभूतं गानं चक्रतुरित्यर्थः ॥ १।४।१८ ॥

एवमिति । तपःश्लाघ्यैः ज्ञानजनितप्रशंसाविशिष्टैः अत एव महात्मभिः पूजितस्वरूपैर्मुनिभिः । एवं प्रशस्यमानौ तौ अमृतवदास्वादनीयगानविशिष्टौ तौ प्रसिद्धौ कुशलवौ अत्यर्थं विलक्षणार्थविशिष्टं मधुरं माधुर्यगुणप्रधानकं रामायणं संरक्ततरं श्रोतृ़णामत्यनुरागविषयीभूतं यथा भवति तथा अगायताम् । ऽतश्चौरामृतपुच्छेषु क्रोडे ऽम्ले ऽक्षे च कुत्रचित्ऽ इति मेदिनीकोशात्तशब्दो ऽमृतपरः ॥ १।४।१९ ॥

प्रीत इति । प्रीतः गानश्रवणजनितप्रीतिविशिष्टः । अत एव संस्थितः उत्थितः । किञ्च दानकालयोग्यसम्यक्स्थितिविशिष्टः कश्चिन्मुनिः ताभ्यां कुशलवाभ्यां कलशं जलाहरणपात्रं ददौ । प्रसन्नः महायशाः गानाभिज्ञत्वजनितकीर्तिविशिष्टः कश्चिदपरो मुनिः ताभ्यां वल्कलमाच्छादनादियोग्यवृक्षविशेषत्वचं ददौ ॥ १।४।२० ॥

अन्य इति । अन्यः मुनिः कृष्णाजिनमदात् । तथा ऽपरः यज्ञसूत्रमदात् । कश्चित्कमण्डलुं प्रादात् । अन्यो महामुनिः मौञ्जीं प्रादात् ॥ १।४।२१ ॥

बृसीमिति । तदा तस्मिन्काले अन्यः बृसीम् ऋषियोग्यमासनं प्रादात् । अपरो मुनिः कौपीनं प्रादात् । तदा अपरः हृष्टः मुनिः कुठारं ददौ ॥ १।४।२२ ॥

काषायमिति । अपरः मुनिः काषायं ब्रह्मचारिधार्यकुसुम्भरक्तं वस्त्रं ददौ । अन्यो मुनिः चीरं खण्डपटं ददौ । अन्यस्तु जटाबन्धनं जटाबन्धनयोग्यं काष्ठरज्जुं पालाशादिमूलनिर्मितरश्ानां मुदान्वितः सन् ददौ ॥ १।४।२३ ॥

यज्ञेति । कश्चिदृषिः यज्ञभाण्डम्, तथा ऽपरः काष्ठभारम्, अन्यः औदुम्बरीमुदुम्बरनिर्मितां बृसीं पीठं ददाविति पूर्वेणान्वयः । तदा केचिदगृहीतवस्त्रादिकाः स्वस्ति अवदन् ॥ १।४।२४ ॥

आयुष्यमिति । तदा तस्मिन्काले मुदा हर्षेण अपरे महर्षयः आयुष्यं प्राहुः । एवमनेन प्रकारेण सत्यवादिनः सर्वे अन्ये ऽपि मुनयः वरान् स्वस्वयोग्यान्ददुः । एतेन तदृषीणां परमानन्दः सूचितः । तेनैतत्प्राप्तिरेव परो लाभ इति तेषां निश्चयः सूचितः । अत्र अन्यः कृष्णाजिनमदादित्यादि ददुश्चैवं वरान्सर्वे इत्येतत्पर्यन्ताः पञ्चश्लोकाः भूषणाङ्कितपुस्तकेषु न दृश्यन्ते तत्र हेतुर्लेखकप्रमादो बोध्यः । सर्वपुस्तकान्तरेष्वेषां प्रसिद्धेः सन्दर्भानुकूलत्वाच्च ॥ १।४।२५ ॥

आश्चर्यमिति । आश्चर्यं वाङ्मनसगोचरातीतवस्तुबोधकत्वेन स्वभावसिद्धमाधुर्यप्रधानत्वेन च सर्वतन्त्रविलक्षणमाख्यानं प्रबन्धरूपमत एव कवीनां सहृदयाभिज्ञानां परमुत्कृष्टमाधारं सहृदयहृदयाभिहारकमित्यर्थः । मुनिना रघुनाथाचरितमननशीलवाल्मीकिना सम्प्रकीर्तितमिदं रामायणं यथाक्रमं क्रममनतिक्रम्य समाप्तं कुशलवकर्तृकसमाप्तिमगमदित्यर्थः ॥ १।४।२६ ॥

अभीति । सर्वगीतेषु कोविदौ हे सर्वगीताभिज्ञकुशलवौ आयुष्यमायुर्वर्द्धकं पुष्टिजननं पुष्टिजनकं सर्वश्रुतिसर्वाश्श्रुतयः तात्पर्यवृत्त्या यस्मिन् मनोहरं सहृदयहृदयापकर्षकमिदं गीतं गानयोग्यरामचरितमभिगीतम् । भवद्भ्यां मनोहरगानविषयीभूतं कृतमित्यर्थः । एतेन ऋषीणां परमानन्दो जात इति ध्वनितम् । सर्वगीतिषु इति पाठः भट्टटीकायुक्तपुस्तकेषु दृश्यते । अर्थे तु न वैलक्षण्यम् ॥ १।४।२७ ॥

प्रशस्यमानाविति । रथ्यासु अल्पवीथिषु राजमार्गेषु च सर्वत्र मुन्याश्रमादिषु प्रशस्यमानौ

गायकौ गानकर्तारौ कुशलवौ कदाचित्कस्मिँश्चित्समये भरताग्रजो रामो ददर्श ॥ १।४।२८ ॥

स्ववेश्मेति । ततः कुशलवकर्मकदर्शनानन्तरं शत्रुनिबर्हणः स्वाश्रितारिदोषनिवर्तकः रामः पूजार्हौ पूजायोग्यौ भ्रातरौ कुशीलवौ स्ववेश्म स्वगृहमानीय चकारेण स्वदत्तासने स्थापयित्वा पूजयामास च प्रशशंसैव । एवेन कृत्यान्तरव्यवच्छेदः । तेन रामस्य प्रेमाधिक्यं सूचितम् । द्वितीयश्चकार एवार्थः ॥ १।४।२९ ॥

आसीन इति । तदा तस्मिन्काले प्रभुः महाराजाधिराजः । अत एव काञ्चने स्वर्णमये दिव्ये प्राकृतविलक्षणे सिंहासने आसीनः । अत एव परन्तपः आश्रितारिनिवर्तकः सचिवैर्मन्ित्त्रभिः भ्रातृभिश्च उपोपविष्टः परिवृतः । चकारान्तरेण छत्रचामरादिमहाराजाधिराजोपस्करविशिष्टः नियतः स रामः रूपसम्पन्नौ उभौ तौ कुशलवौ दृष्ट्वा अवलोक्य देववर्चसोः अनयोर्बालयोः सम्बन्धि विचित्रार्थपदं

विलक्षणवाच्यवाचकविशिष्टमाख्यानं सम्यक् श्रूयताम् इदं लक्ष्मणं शत्रुघ्नं भरतं च उवाच । तथा तेन प्रकारेण गायकौ समचोदयत् गीयतामिदमिति प्रेरयामास । त्रयाणामेकत्रान्वयः । तुश्चार्थे ॥ १।४।३०३२ ॥

प्रेरणानन्तरकालिकवृत्तमाह ताविति । अत्यर्थं गूढतात्पर्यार्थकं विश्रुतार्थं विश्रुतः श्रुतिप्रसिद्धः अर्थो यस्य तन्मधुरं स्वाभाविकमाधुर्यविशिष्टमत एव रक्तं श्रोत्रानुरागविषयीभूतं रामायणं सञ्चितायतनिस्वनं सञ्चिता सम्यक् सम्पादितः आयतो दीर्घो निस्वनः आलापो यस्मिंस्तत् तन्त्रीलयवत्तन्त्र्युपलक्षिततन्त्रीमृदङ्गतालादीनां समानकालिकविश्रामः अस्ति अस्मिन्निति तन्त्रीलयवत् यथा स्यात्तथा तौ प्रसिद्धौ वीरौ कुशलवौ अगायताम् । ऽतौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम्ऽ इति भट्टपाठः । स्वस्य श्रोतृचित्तस्य च अनुरूप आयतः तारो निःस्वनो नादो यत्रेत्यर्थस्तैर्व्याख्यातः ॥ १।४।३३ ॥

ह्लादयदिति । श्रोत्राश्रयसुखं श्रोत्रं कर्णशष्कुली आश्रयो यस्य तच्छ्रोत्राश्रयं श्रोत्रेन्द्रियं तस्य सुखं यस्मात्तत् । सर्वगात्राणि निखिलावयवान् मनांसि हृदयानि हृत् हृदयमयं स्थानं येषां तानि सान्तर्यामिजीवजातानि च ह्लादयत् गेयं गानं जनसंसदि जनाकुलसभायां बभौ शुशुभे । जनाकुलसभायामित्युक्त्या तद्गानस्यातिप्रख्यातिर्ध्वनिता । तेन तस्यालौकिकचमत्कारकारित्वं व्यक्तम् ॥ १।४।३४ ॥

बहुजनसङ्कुलत्वेन विपुलशब्दप्रभवशङ्कया सावधानीकुर्वन्नाह इमाविति । महातपस्विनौ गानविषयकपरमज्ञानवन्तौ मुनी मननशीलौ इमौ कुशीलवौ पार्थिवलक्षणान्वितौ । स्त इति शेषः । महानुभावं हृदयापकर्षत्वरूपपरमप्रभावविशिष्टं यच्चरितं प्रवक्ष्यते आभ्यां गास्यते तन्ममापि भूतिकरम् मत्कर्मकनित्यप्राप्तिसम्पादकमेव । अतो निबोधत सावधानतया यूयं शृणुत । पार्थिवलक्षणान्वितावित्यनेन स्वातिप्रीतिविषयत्वं तयोस्सूचितम् । चो हेतौ । अपिशब्दो नित्यार्थकः । भूतिरित्यत्र प्राप्त्यर्थकभूधातोः क्तिः । किञ्च महानुभावं भूतिकरं श्रोतृनित्यप्रभूतिकरमेव मम चरितमाभ्यां प्रवक्ष्यत इत्यर्थः । अतो निबोधत । अन्यत्समानम् । प्रचक्षते इति भट्टसम्मतः पाठः । तत्र महान्तो भूतिकरं प्रचक्षते इत्यर्थः । अन्यत्समानम् । निबोधत इत्यनेनैतेषां मय्यनुरागातिशयः स्यादिति हेतुर्ध्वनितः । तेन तेषु रघुनाथकृपातिशयः सूचितः । एतेनात्मयशो न श्राव्यमित्याशङ्क्य सीताचरितत्वाद्रघुनाथेन श्रुतमिति समाहितमिति भूषणकारोक्तशङ्कासमाधानमापाततो रमणीयम् । आत्मयशो न श्राव्यमित्यादिनिषेधानां गर्वनिवारणतात्पर्यकाणां सम्भावितगर्ववत्प्राकृतजनपरत्वेनात्र निषेधशङ्कानवसरत्वात् सीताचरितपरत्वेन समाधानमप्ययुक्तम् । तच्चरितस्य रामचरितानतिरेकत्वेन

शङ्कायास्तादवस्थ्यात् । अत एव ऽचरितं रघुनाथस्य शतकोटिप्रविस्तरम् । शृण्वन्रामकथानादम् । यः

पिबन्सततं रामचरितामृतसागरम्ऽ इत्यादौ रघुनाथचरितेनैव सीतादिचरितानामुक्तिः । अत एव काव्यं रामायणं कृत्स्नमित्यादौ काव्यं रामायणत्वेन विशेषितम् । ऽसीतायाश्चरितं महत्ऽ इति सीताचरितस्य महत्त्वोक्त्या सीताचरितस्य प्राधान्यमिति तु न भ्रमितव्यम् । तस्य तत्रत्यमहच्छब्दः काव्यान्वयीति तत्रैव निर्णीतत्वात् । अत एव ऽरामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभोऽ इत्यादि सङ्गच्छते इति दिक् ॥ १।४।३५ ॥

तत इति । ततः समाधानकरणानन्तरं रामवचःप्रचोदितौ रामप्रेरितौ कुशीलवौ मार्गविधानसम्पदा मार्गो देशी चेति गानं द्विविधम्, तत्र प्राकृतावलम्बिनो देशिसञ्ज्ञा संस्कृतावलम्बिनो मार्गसञ्ज्ञेति सङ्गीतशास्त्रे प्रसिद्धम् । तथा च मार्गस्य संस्कृतावलम्बिगानस्य यद्विधानं सामग्री तस्य सम्पत्तिः परिपूर्णता तया शनैः अगायतामगायतामेव । परिषद्गतः सभासद्भिरुपविष्टः स रामो ऽपि बुभूषया तादृग्गायकभवनेच्छया आसक्तमना बभूव । तुशब्द एवार्थे तेन कृत्यान्तरव्यवच्छेदः । तेन चित्तैकाग्र्यं ध्वनितम् । किञ्च तुना प्रतिश्लोकगानं प्रशंसां चकारेत्यर्थः ॥ १।४।३६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चतुर्थः सर्गः ॥ ४ ॥