मुनिवृत्तमाह श्रुत्वेत्यादि । धर्मार्थसहितं धर्मो रघुनाथाश्रयणमेवार्थः परमपुरुषार्थस्तेन सहितम् । अत एव हितं सर्वोपकारकं समग्रं सम्पूर्णं वस्तु श्रुत्वा नारदब्रह्मणोरुपदेशादवगत्य धीमतः समाधिकरहितबुद्धिविशिष्टस्य तस्य श्रुतितात्पर्ये विषयीभूतस्य रघुनाथस्य व्यक्तमिह लोके ऽपि प्रकटीभूतं यद्भूयो विस्तृतमाचरितं तदन्वेषते व्यचारयत् । ऽवर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्वाऽ इति लट्प्रयोगः । एतेन तद्वस्तुनो दुर्बोधत्वं सूचितम् । ऽधर्मात्मा धर्मसंहितम्ऽ इति पाठे तु धर्मात्मेति मुनिविशेषणम् । धर्मसंहितमिति वस्तुविशेषणम् । रघुनाथा ऽ ऽचरितरूपधर्मविशिष्टमित्यर्थः । “समो वा हितततयोः” इत्यत्र वाशब्दसत्वान्मकारस्थानिकानुस्वारः श्रुतिः ॥ १।३।१ ॥
उपेति । मुनिः नारदोपदिष्टतत्त्वमननशीलो वाल्मीकिः सम्यग्यथाविधि उदकमुपस्पृश्य आचम्य प्राचीनाग्रेषु दर्भेषु स्थित्वा कृताञ्जलिः प्रार्थनासूचकबद्धयुगलकरः सन् धर्मेण वेदबोधितकर्मणोपलक्षितामित्यध्याहारः । गतिम् सीतारामाचरितमन्वेषते व्यचारयत् ॥ १।३।२ ॥
विचारोत्तरकाले विचारविषयीभूतवस्तुसाक्षात्कारो जात इत्याह रामेत्यादि श्लोकद्वयेन । रामलक्ष्मणसीताभिस्तत्रायोध्यायां प्राप्तं प्रकटितं यद्धसितं हसनं भाषितं वचनरचना गतिः गमनम् अन्यच्च यावच्चेष्टितं दातृत्वादि तत्सर्वं धर्मवीर्येण रघुनाथस्मरणरूपबलेन यथावद्यथाकामं तत्त्वतः मायाराहित्येन सम्पश्यति सम्यगजानात् । सराष्ट्रेण राज्यसहितेन सभार्येण कौशल्यादिसहितेन दशरथेन राज्ञा च यत्प्रकटतः प्राप्तं हसितत्वादि भाषितं यथावत्सम्प्रपश्यति । पश्यतीत्युक्त्या पुनर्नतद्विस्मृतिरिति ध्वनितम् ॥ १।३।३,४ ॥
अयोध्यावृत्तसाक्षात्कारानन्तरं वनवृत्तविचारमाह स्त्रीतृतीयेनेति । स्त्री सीता तृतीया यस्य सीतालक्ष्मणसहितेनेत्यर्थः । सत्या सन्धा प्रतिज्ञा यस्य तेन । वने चरता वनगमनशीलेन रामेण यत्प्राप्तं प्रकटीकृतं चरितं तत्सर्वं तथैव अन्ववेक्षितम् । वाल्मीकिना विचारितमित्यर्थः चशब्द एवार्थे ॥ १।३।५ ॥
विचारोत्तरकाले तत्साक्षात्कारो जात इत्याह तत इत्यादिना । ततः विचारानन्तरं धर्मात्मा धर्मे रघुनाथोपासने आत्मा मनो यस्य । अत एव योगमुपासनोपायमास्थितः प्राप्तः मुनिः तत्र अयोध्यादौ यन्निर्वृत्तं लक्ष्मणसीतारामाचरितं तत्सर्वं पाणावामलकं यथा पाणिगतधात्रीफलमिव पुरा पूर्वं पश्यति तत्त्वतो ऽजानादित्यर्थः ॥ १।३।६ ॥
रघुनाथवर्णनीयसर्ववृत्तसाक्षात्कारोत्तरकालिकं वृत्तमाह तदित्यादिना । महाद्युतिः अतिप्रकाशयुक्तः स वाल्मीकिः अभिरामस्य सर्वाभिरामहेतोः रामस्य धर्मेण वेदबोधितकर्मत्वेन उपलक्षितमिति शेषः । तत्प्रसिद्धं सर्वं निवर्णयिष्यमाणनिखिलरघुनाथचरितं तत्त्वतो मायाराहित्येन दृष्ट्वा ज्ञात्वा कर्तुं चरितं वर्णयितुमुद्युक्तः उद्योगवानासीदित्यर्थः । महाद्युतिरित्युक्त्या
रघुनाथसाक्षात्कारस्य प्रभावातिशयः सूचितः । महामतिरिति पाठे तु महती समाधिकशून्या मतिर्यस्येत्यर्थः ॥ १।३।७ ॥
कामेति । रत्नाढ्यं रत्नपरिपूर्णं समुद्रमिव । रत्नपरिपूर्णसमुद्रसदृशमित्यर्थः । कामार्थगुणसंयुक्तं कामार्थगुणैः कामश्च अर्थश्च गुणशब्देन कामार्थगुणवत्तासम्पादकोधर्म उच्यते स च ते कामार्थगुणाः तैः संयुक्तं यथाकामम् । कामार्थधर्मदायकमित्यर्थः । धर्मार्थगुणविस्तरं धर्मार्थयोर्गुणत्वसम्पादको मोक्ष इत्यर्थः । तं विस्तृणाति परिपूरयति तत् । सर्वश्रुति सर्वाः श्रुतयस्तात्पर्यवृत्त्या प्रतिपादकत्वेन यस्मिन् तत् । अत एव मनोहरं सदयहृदयापकर्षकं रघुवंशस्य चरितं महर्षिणा नारदेन यथा येन प्रकारेण पूर्वं कथितं तेन प्रकारेण ऋषिर्वेदतत्त्वज्ञः अत एव भगवान् रघुनाथज्ञानरूपैश्वर्यविशिष्टः स वाल्मीकिश्चकार । वर्णयामासेत्यर्थः द्वयोरेकत्रान्वयः । समुद्रमिव रत्नाढ्यमित्युपमालङ्कारेण यथा समुद्रे रत्नानि सुकृतमहायत्नलभ्यानि तथा वेदे रघुनाथचरितान्यपि सुकृतमहायत्नलभ्यानीत्युपमालङ्कारो ध्वनितः । तेन रघुनाथाचरितं सद्गुरुकृपयैव लभ्यमिति सद्गुरुराश्रयणीय इति वस्तु व्यक्तम् ॥ १।३।८,९ ॥
रघुनाथचरितमेव सङ्क्षेपेणाह जन्मेत्यादिभिरासर्गम् । रामस्य साकेताधीशरघुनाथस्य जन्म ब्रह्मप्रार्थनाहेतुकं प्रादुर्भावं सुमहत्सुमहत्त्वम् । ईश्वरेश्वरत्वमित्यर्थः । वीर्यं समातिशयशून्यपराक्रमं सर्वानुकूलतां सर्वहितकारकत्वं लोकस्य प्रियतां लोकनिष्ठप्रीतिविषयत्वं क्षान्तिं जनकृतापराधादर्शकत्वं सौम्यतां सर्वप्रियदर्शकत्वं सत्यशीलतां सत्यस्वभावत्वं वाल्मीकिश्चकार । वर्णयामासेत्यर्थः । एकोनत्रिंशत्तमेनान्वयः । (चकार इति एकोनचत्वारिंशे श्लोके वर्तते ।) सुमहदिति भावप्रधानो निर्देशः ॥ १।३।१० ॥
नानेति । विश्वामित्रसमागमे विश्वामित्रेण साकं महाराजाधिराजदशरथादिसमागमे सति अन्याः रामजन्मादिभिन्नाः नानाचित्रकथाः नाना बहुविधानि चित्राणि आश्चर्याणि यासु ता एव कथा इति कर्मधारयः । महाराजदशरथचेष्टाविशिष्टाद्युपदेशाहल्यादिस्वरूपप्रापणादिका इत्यर्थः । जानक्या जनकप्रादुर्भूतसीतायाः चकारेणोर्मिलादीनां विवाहं च धनुषः तत्र स्थापितशिवचापस्य विभेदनं विवाहहेतुकधनुर्भङ्गं च । नाना चित्राः कथा इति ऽव्यस्तः सहायनेऽ इति च भट्टसम्मतः पाठः । अर्थे तु न वैलक्षण्यम् ॥ १।३।११ ॥
रामेति । रामेण दाशरथिरघुनाथेन सह रामविवादं परशुरामविवादं च । तृतीयेति योगविभागात्सम्बन्धसामान्ये षष्ठीं प्रकल्प्य षष्ठीति सूत्रेण वा समासः । दाशरथेः रामस्य गुणान् विनयविजयादिरूपांश्चेत्यर्थः । तथेति चार्थे । एवमुत्तरत्रापि । रामस्याभिषेकम् । अभिषेकोद्योगमित्यर्थः । केकय्या दुष्टभावतां प्रातिभासिकदुष्टस्वभावत्वम् ॥ १।३।१२ ॥
विघातं चेति । अभिषेकस्य रामाभिषेकोद्योगस्य विघातं केकयीकृतविघ्नं रामविवासनं वनप्रेषणं च राज्ञो महाराजदशरथस्य शोकं प्रकटीभूतरामवियोगजनितशोचनं च विलापं तच्छोकजनितहारामेत्याद्युच्चारणं च परलोकस्य अप्रकटायोध्यापुरस्य आश्रयं स्थितिं च ॥ १।३।१३ ॥
प्रकृतीनामिति । प्रकृतीनां प्रजानां विषादं रामवियोगजनितदुःखं प्रकृतीनां विसर्जनमयोध्यां प्रति परावर्तनं च निषादाधिपसंवादं गुहेन सम्भाषणं च सूतोपावर्तनमयोध्यां प्रति सूतपरावर्तनं च । तथेति समुच्चये ॥ १।३।१४ ॥
गङ्गायाश्चेति । गङ्गायाः सन्तारं सन्तरणं च भरद्वाजस्य दर्शनं भरद्वाजकर्मकावलोकनं च । एवश्चार्थे । अपीति पाठे सो ऽपि तत्रैव भरद्वाजाभ्यनुज्ञानाद्भरद्वाजाज्ञातः चित्रकूटस्य
दर्शनमवलोकनं च ॥ १।३।१५ ॥
वास्त्विति । वास्तुकर्म चित्रकूटे पर्णमयगृहरचनां निवेशं तत्र प्रवेशं च भरतागमनं भरतकर्तृकचित्रकूटप्राप्तिं च । तथेति चार्थे । रामस्य प्रसादनं रामकर्मकभरतकर्तृकप्रसादनं च पितुः महाराजाधिराजदशरथस्य सलिलक्रियां सलिलदानं च ॥ १।३।१६ ॥
पादुकेति । पादुकयोः प्राक्चेतनत्वनित्यत्वाभ्यां सर्वपादुकाश्रेष्ठयोः अभिषेकं राज्यनियन्तृत्वेन स्थापनं च नन्दिग्रामनिवासनं भरतकर्तृकनन्दिग्रामनिवासं च । स्वार्थे णिच् प्रयोजकाविवक्षा वा । दण्डकारण्यगमनं रामकर्तृकदण्डकारण्यप्रवेशं च विराधस्य वधं च । रामेणेति शेषः । तथाशब्दश्चार्थे ॥ १।३।१७ ॥
दर्शनमिति । शरभङ्गस्य ऋषेः दर्शनं शरभङ्गऋषिकर्मकावलोकनं सुतीक्ष्णेन ऋषिणाभिसङ्गमं सम्मेलनं च । क्वचित्सुतीक्ष्णेन समागममिति पाठः । अर्थे तु न विशेषः । अनसूयासहास्यामनसूयया अत्रिपत्न्या सहास्यां सीतायाः सहस्थितिमङ्गरागस्य चन्दनस्य अर्पणमनसूयाकर्तृकसीतोद्देश्यकसमर्पणं च । समास्यामिति भट्टसम्मतपाठे तु अनसूयया सह सम्यगासनमित्यर्थः । अत्र क्रमो न विवक्षितः । अत एव विराधवधात्पूर्ववृत्तमनसूयावृत्तमुत्तरत्रोक्तम् । ऽआस्या त्वासनमासीनेऽ इत्यमरः ॥ १।३।१८ ॥
दर्शनमिति । अगस्त्यस्य कुम्भोद्भवमुनेः दर्शनमवलोकनं च । अपिना तत्पूजनादिकं च । धनुषः अगस्त्यसमर्पितवैष्णवचापस्य ग्रहणं रामकर्तृकस्वीकारं च । शूर्पणख्याः शूर्पणखायाः संवादं बहुविधकथनं च । विरूपकरणं शूर्पणखायाः कर्णनासिकाच्छेदनं च । अत्र नखमुखेति निषेधे ऽपि ङीष् आर्षः । तथाशब्दौ चार्थकौ ॥ १।३।१९ ॥
वधमिति । खरत्रिशिरसोः तदुपलक्षितखरत्रिशिरोदूषणादीनां वधं रामकर्तृकहननं च रावणस्योत्थानं शूर्पणखावाक्यात् मारीचसहितरावणकर्तृकरामाश्रमकर्मकगमनं च । मारीचस्य वधं रामकर्तृकहननं च । वैदेह्या हरणं रावणकर्तृकानयनं च एवतथाशब्दौ चार्थौ ॥ १।३।२० ॥
राघवश्चेति । राघवस्य रामस्य विलापं सम्भोगपोषकसीतावियोगहेतुकरामकर्तृकविलापं च । गृध्रराजनिबर्हणं गृध्रराजस्य जटायुषः निबर्हणं रावणकर्तृकहिंसनम् । अपिना तत्प्रमीतक्रियां च । कबन्धदर्शनं कबन्धकर्मकावलोकनं च । पम्पायाः तन्नामकसरसः दर्शनमवलोकनं च । एवश्चार्थे ॥ १।३।२१ ॥
शबर्येति । शबर्याः तन्नामकश्रमण्या दर्शनं च । एतेन तत्समर्पितफलाशनं हनुमद्दर्शनं च । तथाशब्दश्चार्थे । महात्मनः मह्यते रमादिभिः पूज्यते इति महा सीता तत्रात्मा मनो यस्य तस्य राघवस्य पम्पायां पम्पासमीपे प्रलापं च । एतेन लक्ष्मणकृतप्रलापशामकोक्तिं च ॥ १।३।२२ ॥
ऋष्येति । ऋष्यमूकस्य सुग्रीवाधिष्ठिततन्नामकपर्वतस्य गमनं प्राप्तिं च सुग्रीवेण समागमं तत्र सुग्रीवरामसम्मेलनं च प्रत्ययोत्पादनं रामसुग्रीवपरस्परविश्वासजननं च सख्यं तयोः परस्परं मित्रभावं च वालिसुग्रीवविग्रहं च सुग्रीवकर्तृकविग्रहहेतुकथनमित्यर्थः ॥ १।३।२३ ॥
वालीति । वालिप्रमथनं वालिकर्मकवधं च सुग्रीवप्रतिपादनं सुग्रीवस्य प्रतिपादनं रामकर्तृकराज्यस्थापनं च ताराविलापं वालिवधहेतुकशोकजनितताराकर्तृकप्रलापं च समयं वर्षर्त्वपाये सीतान्वेषणीयेति रामसुग्रीवकृतसङ्केतं वर्षरात्रनिवासनं वर्षो वृष्टियुक्तः कालः । चातुर्मास्यमित्यर्थः । तस्य रात्रयः तेषु निवासनं निवासं च । एवश्चार्थे । सचावृत्त्या चहीनेष्वप्यन्वेति । वर्षरात्रेत्यत्राजिति योगविभागादच्प्रत्ययः । रात्राह्नेति पुंस्त्वम् । ताराविलापसमयमिति समस्तपाठे समाहारद्वन्द्वेनैकवद्भावो बोध्यः ॥ १।३।२४ ॥
कोपमिति । राघवसिंहस्य राघवश्रेष्ठरामस्य कोपं सुग्रीवानवधानतानिवर्तकक्रोधाभासं बलानां सैन्यानामुपसङ्ग्रहं सुग्रीवकर्तृकसम्मेलनं च । दिशः प्रस्थापनं सर्वदिक्कर्मकवानरप्रेषणं च । पृथिव्या द्वीपसमुद्रादिरूपायाः निवेदनं अवयवांशः सुग्रीववर्णनं च । एवश्चार्थे ॥ १।३।२५ ॥
अङ्गुलीयकेति । अङ्गुलीयकदानं हनुमत्सम्प्रदानकरामकर्तृकसीताप्रतीतिसम्पादकाङ्गुलीयकदानं च । ऋक्षस्य बिलदर्शनं ऋक्षस्य बिलं स्वयंप्रभाबिलं तस्य दर्शनं च । प्रायोपवेशनं प्रायाय प्राणत्यागाय उपवेशनमनशनतया स्थितिं च । सम्पातेः जटायुषो ज्येष्ठभ्रातुः दर्शनं च । अपिना तेन सह सम्भाषणम् । एवेति पाठे सोप्यर्थको बोध्यः ॥ १।३।२६ ॥
पर्वतेति । पर्वतारोहणं च । एवेन हनुमत्कृतदेवप्रार्थनां सागरस्य लङ्घनं च । समुद्रवचनादेव उत्थितस्य मैनाकस्य दर्शनं च । चकारेण हनुमन्मैनाकसंवादम् । उत्थितस्येति शेषः । क्वचित्सागरस्यापीति पाठः ॥ १।३।२७ ॥
राक्षसीतर्जनमिति । राक्षस्योः राक्षसीरूपधारिरक्षःकुलोत्पन्नसुरसालङ्किन्योः तर्जनं हनुमत्कर्मकभर्त्सनं च । छायाग्राहस्य सिंहिकायाः दर्शनं निधनं च । लङ्कामलयदर्शनं लङ्कामलयस्य लङ्काधिकरणीभूतपर्वतैकदेशस्य दर्शनं च । एवश्चार्थे ॥ १।३।२८ ॥
रात्राविति । रात्रौ लङ्काप्रवेशं च । एकस्य वानरप्रधानीभूतहनुमतः विचिन्तनमापानभूमिगमनं राक्षसकर्तृकमद्यपानस्थलकर्मकहनुमत्कर्तृकप्राप्तिं च । अवरोधस्यान्तःपुरस्य दर्शनं च । एकस्यापीति पाठे अपिश्चार्थे ॥ १।३।२९ ॥
दर्शनमिति । रावणस्य दर्शनं च पुष्पकस्य दर्शनं च अशोकवनिकायानं हनुमत्कर्तृकाशोकवनिकाप्राप्तिं च सीतायाः दर्शनं च । अपी चार्थौ । क्वचित्सीतायाश्च प्रदर्शनमिति पाठः ॥ १।३।३० ॥
अभिज्ञानेति । अभिज्ञानप्रदानं सीतासम्प्रदानकमुद्रिकाप्रदानं च सीतायाः भाषणं च । अपिना हनुमतो भाषणं राक्षसीतर्जनं राक्षसीकर्तृकसीताकर्मकभर्त्सनं च त्रिजटा विभीषणसुता तस्याः स्वप्नदर्शनं रामशुभसूचकस्वप्नावलोकनं च । एवश्चार्थे ॥ १।३।३१ ॥
मणिप्रदानमिति । सीतायाः मणिप्रदानं हनुमद्द्वारा सीताकर्तृकरघुनाथोद्देश्यकचूडामणिसमर्पणं च वृक्षभङ्गं सीताश्रयीभूतशिंशपातिरिक्ताशोकवनिकोत्पाटनं च राक्षसीविद्रवं राक्षसीपलायनं च । तथाशब्देन राक्षसीकर्तृकहनुमद्वृत्तकथनं किङ्कराणां रावणभृत्यभटानां निबर्हणं नाशनं च । एवौ चार्थौ ॥ १।३।३२ ॥
ग्रहणमिति । वायुसूनोः हनुमतो ग्रहणं रावणसभानयनं च लङ्कादाहाभिगर्जनं लङ्कादाहे हनुमदभिगर्जनं च । लङ्कादाहश्च अभिगर्जनं चेति समाहारद्वन्द्वो वा । अभिमर्दनमिति पाठे तु दाहेन राक्षसानां हिंसनं चेत्यर्थः । अथानन्तरं प्रतिप्लवनं पुनः समुद्रसन्तरणं मधूनां मधुवनोद्भवक्षौद्राणां हरणं वानरकर्तृकादानं च । एवतथाशब्दौ चार्थौ ॥ १।३।३३ ॥
राघवेति । राघवाश्वासनं ऽदृष्टा सीतेति तत्त्वतःऽ इत्यादिना रामसमवधानीकरणं च मणिनिर्यातनं सीतासमर्पितचूडामणिसमर्पणं च । तथाशब्देन ससैन्यसुग्रीवरामगमनं समुद्रेण सङ्गमं रघुनाथकर्तृकसमुद्रसमागमं च नलसेतोः नलैकसाध्यसेतोर्बन्धनं च ॥ १।३।३४ ॥
प्रतारमिति । समुद्रस्य प्रतारं सेतुनोत्तरणं च रात्रौ लङ्कावरोधनं च विभीषणेन संसर्गमाभाषणपूर्वकसम्बन्धं च वधोपायनिवेदनं विभीषणकर्तृकरावणादिवधयत्नकथनं च । आवृत्त्या चकारः चहीनेष्वप्यन्वेति ॥ १।३।३५ ॥
कुम्भकर्णस्येति । कुम्भकर्णस्य निधनं वधं च मेघनादनिबर्हणं हिंसनं च रावणस्य विनाशं च सीतावाप्तिं च अरेः पुरे लङ्कायां विभीषणाभिषेकं च पुष्पकस्य रावणहृतकुबेरविमानस्य दर्शनं च ॥ १।३।३६ ॥
अयोध्याया इति । अयोध्यायाश्च गमनं रामकर्तृकप्रस्थानं च भरद्वाजसमागमं च वायुपुत्रस्य हनुमतः प्रेषणं च । रघुनाथेन भरतं प्रतीति शेषः । भरतेन समागमं हनुमद्द्वारा साक्षाच्च भरतसम्मेलनं च ॥ १।३।३७ ॥
रामेति । रामाभिषेकाभ्युदयं रामराज्याभिषेकोत्सवं सर्वसैन्यविसर्जनं स्वस्वस्थानं प्रति सुग्रीवादिप्रेषणं च स्वराष्ट्ररञ्जनं प्रजाप्रमोदनं च वैदेह्याः प्रकटरूपायाः विसर्जनं च । एवश्चार्थे ॥ १।३।३८ ॥
अनागतमिति । वसुधातले रामस्य यत्किञ्चिच्चरितमनागतमप्रकटितम् । भविष्यत्कालिकमित्यर्थः । तदेव उत्तरे काव्ये उत्तरे काण्डे भगवान्परममाहात्म्यवान् ऋषिः त्रिकालज्ञः चकार वर्णयामास । भूतवर्तमानकालिकरामचरितानि षट्सु काण्डेषु वर्णितानि, भविष्यत्कालिकरामचरितानि उत्तरकाण्डे वर्णितानीत्यर्थः । चशब्द एवार्थे ॥ १।३।३९ ॥
इत्यार्षे श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे तृतीयः सर्गः ॥ ३ ॥