००२ ब्रह्मागमनम्

श्रीमद्रामायणव्याख्या रामायणशिरोमणौ ।

समाप्तः प्रथमः सर्गोः रामपादप्रसादतः ॥ १ ॥

इत्यार्षे श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे प्रथमः सर्गः ॥ १ ॥

नारदोपदेशश्रवणोत्तरकालिकं वाल्मीकिवृत्तमाह नारदस्येत्यादिना । वाक्यविशारदः वाक्ये वक्तव्ये विविधा विशिष्टा वा शारदा वाणी यस्य सः । धर्मात्मा धर्मे आत्मा यत्नो यस्य । परमधर्मोपदेष्टेत्यर्थः । सहशिष्यः शिष्यसहितः महामुनिः सर्वमुनिश्रेष्ठः वाल्मीकिर्नारदस्य तद्वाङ्मनसागोचरेश्वरबोधकं वाक्यं श्रुत्वैव पूजयामास । अहो एतद्बुद्धिवैभवमिति प्रशशंसेत्यर्थः । महामुनिमिति पाठे तु महाः मुनिं पूजयामासेत्यर्थः । तुशब्द एवार्थे ॥ १।२।१ ॥

यथावदिति । तदा तस्मिन्काले तेन वाल्मीकिना यथावत्पूजितः स देवर्षिर्नारद आपृष्ट्वा अहं यामीत्युक्त्वैव अभ्यनुज्ञातः सुखं याहीति तत्सम्मतिं प्राप्तो विहायसमाकाशं जगाम ।

आकाशमार्गेण स्वलोकं प्रापेत्यर्थः । एतेन गुरुशिष्ययोरभीष्टार्थसिद्धिर्जातेति द्योतितम् ॥ १।२।२ ॥

नारदगमनोत्तरकालिकं वृत्तमाह स इत्यादिना । तस्मिन्नारदे देवलोकं देवकर्तृकदर्शनयोग्यम् । स्वलोकमित्यर्थः । गते तन्निष्ठसंयोगानुकूलव्यापारवति सति स मुनिर्वाल्मीकिर्मुहूर्तं घटिकाद्वयं स्थित्वा जाह्नव्या गङ्गाया अविदूरतः समीपे एव विद्यमानं तमसातीरं जगाम । मुहूर्त्तं स्थित्वेत्यनेन वाल्मीकेर्नारदविषयकप्रेमातिशयः सूचितः । समीपे विद्यमानां जाह्नवीं न गतस्तमसातीरमेव गत इत्यनेन तमसायां तत्प्रीत्यतिशयः सूचितः । तेन तत्स्थलस्य रघुनाथसञ्चारवत्त्वं ध्वनितम् । तुशब्द एवार्थे ॥ १।२।३ ॥

सत्विति । तदा तस्मिन्काले स मुनिः वाल्मीकिस्तमसायास्तीरं समासाद्य सम्यक् प्राप्य अकर्दमं पङ्करहितं तीर्थम् ऋषिसेविततमसाजलं दृष्ट्वैव पार्श्वे स्थितं शिष्यं भरद्वाजमाह तुशब्द एवार्थे । ऽतीर्थं शास्त्राध्वरे क्षेत्रे मन्त्रोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भस्त्रीरजस्सु च विश्रुतम्ऽ इति विश्वकोशात्तीर्थशब्दस्य ऋषिजुष्टाम्भःपरत्वम् ॥ १।२।४ ॥

अकर्दममिति । अकर्दमम् पङ्करहितान्तर्बहिस्थलकम् । अत एव सन्मनुष्यमनो यथा सन्मनुष्यमनस्सदृशम् । अत एव रमणीयमतिरम्यम् । अत एव तीर्थम् । ऋषिभिर्जुष्टम् । इदं प्रसन्नाम्बु स्वच्छजलम् । हे भरद्वाज निशामय पश्य । ऽशमो दर्शनेऽ इति दर्शने मित्वनिषेधाद्ध्रस्वविरहः ॥ १।२।५ ॥

न्यस्यतामिति । हे तात कलशमुदपात्रं न्यस्यताम् । अत्रैव ध्रियतामित्यर्थः । मम वल्कलं शरीराच्छादनहेतुभूतकदलीत्वक् दीयताम् । उत्तमं तमसातीर्थमृषिसेविततमसाजलमिदमेवावगाहिष्ये अत्रैव स्नास्यामीत्यर्थः । स्नानात्पूर्वमेव वल्कलादियाचनेन त्वमपि स्नानं कुर्विति गुर्वाज्ञापनं ध्वनितम् ॥ १।२।६ ॥

एवमिति । नियतः स्नानकार्ये गुरुणा नियोजितः महात्मना परमपूज्येन वाल्मीकेन वाल्मीकात्प्रादुर्भूतेन । एवमनेन प्रकारेणोक्तो भरद्वाजः मुनेः नारदोपदिष्टवस्तुविषयकविचारशीलस्य गुरोस्तस्य वाल्मीकस्य वल्कलं प्रायच्छत प्रादात् । सञ्ज्ञापूर्वकविधेरनित्यत्वात्प्रायच्छतेति आत्मनेपदम् ॥ १।२।७ ॥

वल्कलदानौत्तरकालिकं वृत्तमाह स इत्यादिना । नियतेन्द्रियः संयतेन्द्रियग्रामः स वाल्मीकिः शिष्यस्य भरद्वाजस्य हस्ताद्वल्कलमादाय गृहीत्वा विपुलं विस्तीर्णं तद्वनं तमसातीरारण्यं सर्वतः पश्यन् विचचार । ह इति हर्षे । एतेन तद्वनस्य मनोहरत्वं व्यक्तम् । तेन तत्र तिष्ठासा व्यञ्जिता ॥ १।२।८ ॥

तस्येति । तत्र तस्मिन्वने तस्य तमसातीर्थस्य अभ्यासे समीपे एव चरन्तं विहरन्तमनपायिनं वियोगशून्यं चारुनिस्स्वनं मनोहरशब्दयुक्तं क्रौञ्चयोः पक्षिविशेषयोः मिथुनं युग्मं भगवान् वाल्मीकिः ददर्श । तुशब्द एवार्थे । चरन्तमित्यादिपुंस्त्वमार्षम् ॥ १।२।९ ॥

तस्मादिति । वैरनिलयः अकारणद्रोहाश्रयः अत एव पापनिश्चयः तद्वधोद्योगयुक्तः निषादः तस्य मुनेः पश्यत एव पश्यन्तमनादृत्यैव तस्मात् क्रौञ्चमिथुनात् वियुक्तमेकं केवलं पुमांसं जघान । तुशब्द एवार्थे । “षष्ठीचानादरे” इति सूत्रविहिता षष्ठी ॥ १।२।१० ॥

तमिति । शोणितपरीताङ्गं रुधिरव्याप्तशरीरं महीतले चेष्टमानं लुण्ठन्तं निहतं निषादेन हिंसितं क्रौञ्चं भार्या तत्स्त्री दृष्ट्वा तु अवलोक्यैव करुणां श्रवणमात्रेण कारुण्यनिष्पादिकां गिरं रुराव उच्चारयामास । तुशब्द एवार्थे ॥ १।२।११ ॥

वियुक्तेति । मत्तेन सम्भोगहेतुभूतमदविशिष्टेन । अत एव पत्रिणा सम्भोगार्थं विस्तारितपक्षवता ।

अत एव सहचारिणा स्वस्त्रिया सहैव गच्छता । अत एव सहितेन स्वसदृशगमनविशिष्टेन ताम्रशीर्षेण अरुणचूडेन द्विजेन पक्षिविशेषेण तेन हतेन पतिना स्वपतिना वियुक्ता रुरावैवेति पूर्वेणान्वयः । नान्यत्किञ्चित् शुश्रावेत्यर्थः । एतेन तच्छोकस्य पराकाष्ठा सूचिता । विनापि प्रत्ययं पूर्वोत्तरपदयोश्चेति स्वशब्दलोपः । अत एव नाभावेनार्षकल्पना । वैशब्द एवार्थे । सहितेनेत्यत्र हितशब्दः गमनार्थकहिधातुप्रकृतिकभावनिष्ठान्तः ॥ १।२।१२ ॥

तथेति । तथाविधं सम्भोगोद्योगविशिष्टं द्विजं क्रौञ्चं निषादेन निपातितं पृथिव्यां लुण्ठितं दृष्ट्वा धर्मात्मनः परमधर्मज्ञस्य ऋषेस्तस्य वाल्मीकेः कारुण्यमनुकम्पा समपद्यत सम्यक् प्राप्नोत् ॥ १।२।१३ ॥

निपातितक्रौञ्चदर्शनहेतुककारुण्यप्राप्त्यनन्तरकालिकं वृत्तमाह तत इत्यादि । रुदतीं क्रौञ्चीं निशाम्य दृष्ट्वा । ततः क्रौञ्चीरोदनश्रवणहेतोः करुणवेदित्वात् घृणाविशिष्टत्वाद्धेतोः ऽअयं पक्षिवधो ऽधर्मः धर्मविरुद्धःऽ इदं वचनं द्विजः वाल्मीकिरब्रवीत् ॥ १।२।१४ ॥

तत्रत्यहिंसानिवृत्तिफलकयत्नसूचनपूर्वकहिंसावलोकनजन्यशोकनिवर्तकप्रतिपिपादयिषितकाण्डसप्तार्थसूचकं पद्यमाह मा निषादेत्यादिना । हे निषाद यद्यस्मात्काममोहितं कामासक्तं क्रौञ्चमिथुनादेकं पुमांसं पृथक्कृत्य त्वमवधीस्तस्मात् शाश्वतीः निरन्तराः समाः संवत्सरान् प्रतिष्ठामिह वने क्वचित्स्थानं त्वं मा गमः न प्राप्नुहि । पुनरिह वने तवागमनं न स्यादित्यर्थः । “आशंसायां भूतवच्च” इति भविष्यत्काले लुङ् । अननुबन्धकमाशब्दप्रयोगान्नाड्विरहप्रसक्तिः । समा इत्यत्र द्वितीया “कालाध्वनोः” इति सूत्रविहिता । ऽप्रतिष्ठा स्थितिमाहात्म्यम्ऽ इति वैजयन्तीकोशात्प्रतिष्ठाशब्दः स्थानपरः । किञ्च त्वमेति निषादविशेषणम् । त्वेन आत्मभिन्नेन रागादिना मः बन्धनं यस्य । अनात्मभूतरागादिवश इत्यर्थः । ऽमा च मातरि मो माने बन्धने च प्रकीर्तितःऽ इत्येकाक्षरकोशान्मशब्दस्य बन्धनवाचकत्वम् । त्वशब्दस्यान्यपरत्वं तु सर्वादिगणे प्रसिद्धम् । अत्र पक्षे सानुबन्धकमाङ्शब्दप्रयोगात् अड्विरहभविष्यत्कालबोधकलुङौ सिद्धाविति बोध्यम् । अर्थस्तु पूर्ववत् । एतेन तत्रत्यहिंसाभाव एव सम्पादितः । न निषादप्राणवियोगः शापेनेति फलितम् । तेन ऋषेः क्रोधो न जात इति ध्वनितम् । तेन ऋषेः परमदयालुत्वं व्यक्तम् ॥

तत्रत्यहिंसानिवृत्तिफलकयत्नरूपार्थमुक्त्वा हिंसावलोकजन्यशोकनिवर्त्तकप्रतिपिपादयिषितकाण्डसप्तकस्वाभिप्रेतसङ्क्षिप्तार्थ उच्यते । हे मानिषाद मानिनां गर्वविशिष्टानां षः श्रेष्ठः परशुरामस्तमासमन्ताद्भावेन द्यति खण्डयति वैष्णवधनुस्सज्जीकरणादिना तद्गर्वं निवर्तयतीति मानिषादः । तत्सम्बोधने हे मानिषाद परशुरामाभिमाननिवर्त्तक त्वं शाश्वतीः समाः प्रतिष्ठामगमः प्राप्स्यसि । यद्यस्मात्क्रौञ्चवन्मिथुनीभूताः क्रौञ्चमिथुनाः जनकधनुर्यागसमागता अविवेकिनो भूपास्तेषु अतति व्याप्नोतीति क्रौञ्चमिथुनात् त्वमेकं केवलं काममोहितमविवेकीभूयकाममोहितत्वम् । अवधीः न्यवर्त्तयः । ऽषः कीर्तितो बुधैः श्रेष्ठे तथा गम्भीरलोचनेऽ इत्येकाक्षरकोशात्षशब्दः श्रेष्ठपरः । “आशंसायां भूतवच्च” इति सूत्राविहितो ऽत्र लुङ् । काममोहितमिति भावनिष्ठान्तम् । इति बालकाण्डकथा सूचिता ॥

यद्वा मं बन्धनं सत्यवचनात्याज्यत्वादेव वरप्रदानसंशयाविष्टत्वम् । आसमन्तान्निषादयति दूरीकरोतीति तत्सम्बोधने हे मानिषाद महाराजाधिराजदशरथसंशयनिवर्त्तक तद्विशेषणं क्रौञ्चमिथुनादिति । क्रौञ्चवन्निरन्तरवनवासेन पक्षितुल्यानि मिथुनानि अनसूया ऽत्र्यादियुग्मोपलक्षितानि तानि आसमन्तादतति स्वदर्शनजनितानन्ददातृत्वेन प्राप्नोतीति क्रौञ्चमिथुनात् वन्यमुन्यानन्ददातः

रघुनाथ यद्यस्मादेकमल्पमापाततः प्रतिभासमानं काममोहितं दशरथकाममोहितत्वम् । किञ्च कामेन रघुनाथेच्छया मोहितत्वं प्रकटस्ववियोगजनितदशरथौदासीन्यमवधीः । स्वाप्रकटस्वस्वरूपसंयोगबोधनद्वारा न्यवर्त्तयः । तस्मात् त्वं शाश्वतीः समाः प्रतिष्ठामगमः । इत्ययोध्याकाण्डकथासूचनम् ॥

यद्वा हे मानिष मानः देवकर्तृकपूजा अस्ति येषां ते मानिनः ब्रह्मविष्णुमहेश्वराः । तेभ्यो ऽपि षः श्रेष्ठः तेषां षं येनेति वा । तत्सम्बोधनं हे मानिष अन्ते ब्रह्मादिश्रैष्ठ्यहेतुभूतेत्यर्थः । अत्र पक्षे षशब्दः भावप्रधाननिर्दिष्टो बोध्यः । तद्विश्ोषणं शेति । मङ्गलप्रदेत्यर्थः । काममोहितमत्यन्तमोहं प्राप्तं यत् रक्षःकुलं समाः सर्वत्र समदृष्टयो ये दण्डकारण्यवासिऋषयस्तानाद भक्षयामास । तत् रक्षःकुलं क्रौञ्चमिथुनात् क्रौञ्चं वनगमनप्रतीयमानाल्पत्वं प्राप्तं यन्मिथुनं मिथुनत्वम् । मिथुनधर्मो विलासवचनादिस्तमतति प्राप्नोतीति क्रौञ्चमिथुनात्त्वमाशु शीघ्रमेकमल्पमश्रममिति यावत् । यथा स्यात्तथा ऽवधीः । अतः प्रतिष्ठां मुनिकृतपूजामगमः । प्रायः अत एवातीः । अत्येति सर्वानतिवर्त्तसे इति अतीः । सर्वश्रेष्ठोसीत्यर्थः । इत्यारण्यकथासूचनम् ॥

यद्वा हे मानिष मस्य ऋष्यमूकपर्वतादन्यत्र सुग्रीवगमनप्रतिबन्धरूपबन्धनस्य आनिषः अत्यन्तध्वंसो यस्मात्तत्सम्बोधनम् । तद्विशेषणं क्रौञ्चेति वनवासहेतुकप्रतीयमानकृशत्वविशिष्टेत्यर्थः । यद्यस्मान्मिथुनात्तारावालियुग्माद्विभक्तमेकं काममोहितं वालिनं त्वमवधीः । तस्मात् आदप्रतिष्ठाम् आदस्य स्वीकारकर्तुर्या प्रतिष्ठा स्वीकृतनिबर्हणजन्यप्रतिष्ठितत्वं शाश्वतीः समाः अगमः प्राप्स्यसि । आनिष इति आङ्निपूर्वकध्वंसार्थकषोधातुप्रकृतिकभावार्थककप्रत्ययेन सिद्धम् । आदेत्यत्र आङ्पूर्वकदाधातोः कः । इति किष्किन्धाकाण्डकथासूचनम् ॥

यद्वा हे क्रौञ्च प्रतीयमानसीताविरहहेतुकप्रतीयमानकृशताविशिष्ट यद्यस्मान्मिथुनात्तारासुग्रीवमाज्ञाप्य मया लक्ष्म्या सह निषीदति नित्यं तिष्ठतीति मानिषादो विष्णुस्तद्वत्सङ्ग्रामे प्रतितिष्ठतीति मानिषादप्रतिष्ठाः हनुमान् तं त्वमगमः सीतान्वेषणार्थं लङ्कां तारासुग्रीवद्वारा प्रैषयः । तस्मात् शाश्वतीः समाः बहुकालं रक्षसामेकं मुख्यं काममोहितं काममोहितत्वम् अवधीः न्यवर्तयः । मिथुनादित्यत्र ल्यब्लोपे पञ्चमी । प्रतिष्ठेत्यत्र विच्प्रत्ययः । अगम इत्यत्र गमिरन्तर्भावितणिजर्थः । इति सुन्दरकाण्डकथासूचनम् ॥

यद्वा हे षाद षं परोक्षत्वं इन्द्रियागोचरत्वम् आसमन्तात् द्यति खण्डयतीति षादः तत्सम्बोधनं षादेति । स्वावाङ्मनसगोचरत्वं परित्यज्य मम दृष्टिपथं गतेत्यर्थः । किञ्च षः श्रेष्ठः आदो ग्रहणकर्त्ता स एव स इति कर्मधारयः । तत्सम्बोधने हे षाद ग्रहणकर्तृश्रेष्ठ स्वीकृतापरित्यागधर्मविशिष्टेत्यर्थः । यद्यस्मात् क्रौञ्चं सीताहरणहेतोः परस्परं कुटिलतां प्राप्तं यन्मिथुनं मन्दोदरीरावणयुग्मं तस्माद्विभज्य एकं रक्षःप्रधानं काममोहितं कामेन रघुनाथेच्छया मोहितम् अयं मम स्वामीति विवेकराहित्यविशिष्टं रावणं त्वमवधीः । तस्माद्धेतोः । मा देवसम्पत्तिः त्वया आनि आजीवि । पुनः प्रापीत्यर्थः । अत एव शाश्वतीः समाः प्रतिष्ठामिह लोके ऽपि महाराजत्वरूपं परममाहात्म्यमगमः प्राप्स्यसि । ऽउपसर्गे परोक्षे च षकारः परिकीर्त्तितः । षः कीर्तितो बुधैः श्रेष्ठेऽ इति कोशौ । इति युद्धकाण्डकथासूचनम् ॥

यद्वा हे श सकलायोध्यावासिनित्यमङ्गलप्रद क्रौञ्चमिथुनात् तदुपलक्षितपक्षिण आरभ्य समाः साम्यविशिष्टपरमहंसपर्यन्ताः । सकलायोध्यावासिप्रजा इत्यर्थः । एकम् मुख्यम् । अत एव कामं सर्वेच्छाविषयीभूतम् । अत एव ओहितं तं प्राप्स्यामि न वेति अतिशयतर्कविषयीभूतम् । मो महाशम्भुः अः महाविष्णुः आः महाब्रह्मा । तेषामानिषादः परमा स्थितिर्यत्र स मानिषादः स एव

प्रतिष्ठाः सर्वोत्कृष्टमाहात्म्यविशिष्टः अप्रकटसाकेतपदार्थस्तम् । आशु शीघ्रमगमः प्रापयः । अतस्त्वमतीः सर्वानतिवर्त्तसे । मकारस्य शिववाचकत्वे प्रमाणम् ऽमः शिवे मा रमायां च मा निषेधे ऽव्ययं मतम्ऽ इति विश्वः । इत्युत्तरकाण्डकथासूचनम् ॥ १।२।१५ ॥

तस्येति । एवं राजोचितब्राह्मणानुचितव्याधनिवर्तकत्वप्रकारेणापि बोधकं पद्यं ब्रुवतः कथयतः वीक्षतः परधर्माचरणमयुक्तमिति विजानतः तस्य मुनेः हृदि चिन्ता बभूव । चिन्तास्वरूपमाह अस्य शकुनेः क्रौञ्चस्य शोकार्तेन एतत् क्रौञ्चविषयकशोकविशिष्टेन मया किमिदं व्याहृतम् । कुत्सितमेतदुच्चारितम् । कुत्सितत्वं च ब्राह्मणानुचितव्याधनिस्सारणसूचकत्वेनेति बोध्यम् ॥ १।२।१६ ॥

चिन्तयन्निति । महाप्राज्ञः महान्तो भरद्वाजादयः प्राज्ञाः रघुनाथविषयकज्ञाननिष्ठाः यस्मात् । तत्र हेतुः मतिमान् तत्त्वविषयकज्ञाननिष्ठः मतिं चिन्तानिवर्तकनिश्चयं चकार । प्रापेत्यर्थः । तत्स्वरूपं तु रघुनाथचिन्तनप्रतिबन्धकीभूतनिवर्तनं धर्मान्तरेणापि सम्पादनीयमिति । तत्र प्रमाणम् ऽमन्निमितं कृतं पापं स वै पुण्याय कल्पते । मद्विरोधी च यो धर्मः स वै पापाय कल्पते ॥ ऽ अत एव मुनिपुङ्गवः मुनिश्रेष्ठः स वाल्मीकिः शिष्यं भरद्वाजमिदं वक्ष्यमाणं वाक्यं वचोऽब्रवीत्। चो हेतौ ॥

१।२।१७ ॥

पादेति । पादबद्धः पादैः अष्टाक्षरचतुर्भिरंशैर्बद्धः संयुक्तः अक्षरसमः चतुर्ष्वपि पादेषु छन्दश्शास्त्रोक्तपथोचितगुरुलध्वक्षरविशिष्टः तन्त्त्रीलयसमन्वितः तन्त्र्यादिसूचितगानलालित्यसम्पादकलयविशिष्टः शोकार्तस्य शकुनिविषयकशोकविशिष्टस्य मे प्रवृत्तः । अयं श्लोकः अन्यथा कथञ्चिदप्यन्यपरः न भवतु न प्रत्येतु । रघुनाथकथाप्रतिबन्धकीभूतव्याधनिवर्तनसूचकमपि रघुनाथकथासूचकमेवेदं पद्यं भवत्विति फलितो ऽर्थः । यद्वा ऽतन्त्रीलयसमन्वितः तन्त्रिणां शास्त्राभिज्ञानामिलं प्रतिष्ठां तत्कृतमहत्त्वं तस्य यः प्राप्तिः तेन समन्वितः युक्तः । पादबद्धोक्षरसमः पादे बद्धो यः उक्षरः उक्षावृषभश्चासौ रश्चेति वृष्ाभश्रेष्ठ इत्यर्थः । तत्समः तत्सदृशः शोकार्तस्य मे प्रवृत्तः श्लोकः अन्यथा अन्यपरकः न भवतु । यथा बद्धो वृषभः स्वस्थानादन्यत्र गन्तुं न शक्नोति तथा ऽयं श्लोकस्तात्पर्यविषयीभूतरघुनाथादन्यत्र न गच्छत्विति फलितो ऽर्थः । ऽरश्च भूपे प्रकीर्तितःऽ इति कोशात् रशब्दः श्रेष्ठपरः ॥ १।२।१८ ॥

शिष्यस्त्विति । ब्रुवतः कथयतः तस्य प्रसिद्धस्य मुनेः अनुत्तमं न उत्तममन्यद्यस्मात्सर्वोत्तममित्यर्थः । वाक्यम् रघुनाथवर्णनपर एव मा निषादेति श्लोकः नान्यपर इत्येतद्वचनम् । सन्तुष्ठः परमसन्तोषं प्राप्तः । शिष्यो भरद्वाजः प्रतिजग्राह । निश्शेमतो ज्ञातवानित्यर्थः । तेन हेतुना गुरुः वाल्मीकिः तस्य शिष्यस्योपरि तुष्टो ऽभवत् । एतेन तद्वस्तुनो दुर्ज्ञेयत्वं सूचितम् । तेन भरद्वाजस्य बुद्धिमत्तातिशयो व्यञ्जितः । तु शब्दो हेत्वर्थे । अनुत्तमं वाक्यमित्यस्यार्थिकस्सम्बन्धो ब्रुवत इत्यत्रास्तीति बोध्यम् ॥ १।२।१९ ॥

स इति । ततः सन्तोषप्राप्त्यनन्तरं तस्मिन् वर्णितकर्दमरहितत्वादिधर्मविशिष्टे तीर्थे पावनहेतुभूततमसाजले एव स मुनिः यथाविधि विधिमनतिक्रम्य अभिषेकं स्नानं कृत्वा तं मा निषादेत्यनेन प्रतिपादितमर्थं काण्डसप्तकसङ्क्षिप्तकथां चिन्तयन् विचारयन्नेव उपावर्तत स्वाश्रममागच्छत् । एतेन तदर्थस्य मनोहरत्वं व्यक्तम् । वैशब्द एवार्थे ॥ १।२।२० ॥

भरद्वाज इति । ततः गुरोरुपावर्तनानन्तरं विनीतः विनयसम्पन्नः श्रुतवान् यथावद्गुरूक्ततत्त्वं ग्रहीता । मा निषादेत्येतच्छ्लोकगूढार्थं परिज्ञातेत्यर्थः । अत एव मुनिः तदर्थमननशीलः शिष्यो भरद्वाजः पूर्णं जलपूरितं कलशमादाय गृहीत्वा पृष्ठतः गुरोः पश्चादनुजगाम । अन्तररहितगमनं चकारेत्यर्थः । ह इति हर्षे ॥ १।२।२१ ॥

स इति । अश्रमपदं श्रमनिवर्तकस्वाश्रमं शिष्येण भरद्वाजेन सहैव प्रविश्य उपविष्टः सुखासननिविष्टः धर्मवित् परमधर्मं वेदिता । अत एव ध्यानमास्थितः रघुनाथस्मरणपरायणः स मुनिः अन्याः रघुनाथसम्बन्धशून्याः कथाः उक्तीः चकार तत्त्याज । अत एव ध्यानेन सह अन्याः कथाश्चकारेत्यस्य न विरोधः । विक्षेपार्थककृ़धातोः रूपम् । चशब्द एवार्थे ॥ १।२।२२ ॥

आजगामेति । ततः ध्यानस्थित्यनन्तरम् । लोककर्ता भुवनस्य निर्माता प्रभुः समर्थः चतुर्मुखः चत्वारि चतुर्वेदप्रादुर्भावहेतुभूतानि मुखानि यस्य । अत एव महातेजाः परमतेजस्वी ब्रह्मा तं नारदोपदिष्टं मुनिपुङ्गवं द्रष्टुं स्वयमाजगाम । एतेन नारदोपदिष्टार्थस्य मनोहरत्वं व्यञ्जितम् ॥ १।२।२३ ॥

वाल्मीकिरिति । अथ ब्रह्मागमनानन्तरम् । वाग्यतः रघुनाथस्मरणपरायणत्वान्निवर्तितवचनान्तरः अत एव प्रयतः यतचित्तः वाल्मीकिः तं ब्रह्माणं दृष्ट्वा परमविस्मितः सन् सहसा त्वरया उत्थाय प्राञ्जलिः बद्धकरो भूत्वा तस्थौ । परमविस्मित इत्यनेन तात्कालिकब्रह्मागमनहेतुर्न ज्ञात इति हेतुर्ध्वनितः ॥ १।२।२४ ॥

पूजयामासेति । तं पुरस्थितं देवं ब्रह्माणं प्रणम्य नमस्कृत्य पाद्यार्घ्यासनवन्दनैः पाद्यार्घ्यजलसमर्पणासनस्थापनस्तुतिभिर्विधिवत् यथाविधि पूजयामास । अथ वाल्मीकिकृतपूजाप्राप्त्यनन्तरम् एनं वाल्मीकिमव्ययं निरवच्छिन्नम् अनामयं रोगादिराहित्यं पृष्ट्वा परमार्चिते अतिपूजिते आसने उपविश्य भगवान् षडैश्वर्यसम्पन्नः अत एव ततः स्वतेजसा व्याप्तो ब्रह्मा ऋषये परममन्त्रद्रष्ट्रे वाल्मीकये आसनं सन्दिदेश । आसने स्थातुमाज्ञापयामासेत्यर्थः । ब्रह्मकर्तृकासनाज्ञापनेनायमृषिः सर्वश्रेष्ठ इति हेतुर्ध्वनितः । तेन रघुनाथचिन्तनस्य अतिपूज्यत्वसम्पादकत्वं ध्वनितम् । द्वयोरेकत्रान्वयः ॥ १।२।२५,२६ ॥

ब्रह्मणेति । तदा तस्मिन्काले ब्रह्मणा समनुज्ञातः आसने उपवेष्टुं ब्रह्माज्ञां सम्प्राप्तः स वाल्मीकिरपि आसने उपाविशत् तस्थौ । लोकपितामहे सर्वोत्पत्तिहेतुभूते तस्मिन्ब्रह्मणि साक्षात् प्रत्यक्षतया उपविष्टे आसने उपवेशिते सति तद्गतेन रघुनाथ्ाचरिताविष्टेनैव मनसा वाल्मीकिः ध्यानं स्वकृतमानिषादेतिश्लोकस्मरणमास्थितः प्राप्तः । आसीदिति शेषः । उपविष्ट इत्यत्र अन्तर्भावितणिजर्थः । सार्द्धश्लोक एकान्वयी ॥ १।२।२७ ॥

व्याधनिवर्तनकाण्डसप्तकप्रतिपिपादयिषितरघुनाथाचरितसङ्क्षिप्तवर्णनोभयसूचक

मानिषादेतिश्लोकस्य शोभनत्वं निश्चेतुं ब्रह्माणं प्रति पूर्ववृत्तमाह पापेत्यादिना । पापात्मना पापान्वेषणमनस्केन अत एव वैरग्रहणबुद्धिना वैरग्रहणे वैरकर्मकसम्पादने बुद्धिर्यस्य तेन मया कष्टं कठिनम् । अकर्तव्यमित्यर्थः । कृतम् सम्पादितम् ॥ १।२।२८ ॥

किन्तदित्याह य इत्यादिना । यः व्याधः चारुरवं मनोहरशब्दं तादृशं पूर्वोक्तविशेषणविशिष्टं क्रौञ्चमकारणाद्धन्यात् अहन् तस्य उप समीपे क्रौञ्चीं शोचन्नेव अहमिमं द्व्यर्थकं मानिषादेतिश्लोकं जगौ अवदम् । ऽबहु जगद पुरस्तात्तस्य मत्ता किलाहम्ऽ इति वल्लिट्प्रयोगः ॥ १।२।२९ ॥

पुनरिति । पुनस्तदनन्तरम् । अन्तर्गतमनाः अन्तः अन्तरङ्गार्थे गतं निविष्टं मनो यस्य तादृक् शोकपरायणः शोकात्परः सकारणशोकसम्बन्धशून्यः नारदोपदिष्टरघुनाथः तस्मिन्नयनं स्थितिर्यस्य स आसीदिति शेषः । ततः वाल्मीक्युक्तिश्रवणानन्तरं मुनिपुङ्गवं मुनिश्रेष्ठं तं वाल्मीकिं ब्रह्मा प्रहसन्नुवाच । प्रहसन्नित्यनेन मा निषादेतिश्लोको रघुनाथपर एवेति ब्रह्मणाज्ञातमित्यभिप्रायः सूचितः । तेन रघुनाथस्मरणप्रतिबन्धकनिवर्तनमपि रघुनाथकथैवेति हेतुर्ध्वनितः ॥ १।२।३० ॥

तद्वचनाकारमाह श्लोक इति । हे ब्रह्मन् वेदतत्वार्थवेत्तः मच्छन्दात् मह्यं मत्कल्याणार्थं छन्दः प्रादुर्भावे सङ्कल्पो यस्य स रामः तस्मात् । छन्दश्शब्दस्य सङ्कल्पपरत्वं नागोजीभट्टैरपि व्याख्यातम् । किञ्च मता स्वविषयकज्ञानेन शं परं कल्याणं ददातीति मच्छन्दो रघुनाथस्तस्मात्तदिच्छात एवेत्यर्थः । ते तव इयं सङ्क्षिप्तकाण्डसप्तकार्थप्रतिपादिका सरस्वती प्रवृत्ता । अतः श्लोकः परमयशःकारणभूतरघुनाथप्रतिपादक एवायं त्वया बद्धः श्लोकरूपेण सम्पादितो ऽस्ति अतो ऽत्रविषये विचारणा अन्यपरोप्ययं श्लोकः सम्भवति न वेति विचारो न कार्यः । ऽएवास्त्वयं बद्धऽ इति भट्टसम्मतः पाठः ॥ १।२।३१ ॥

रामस्येति । हे ऋषिसत्तम अतः कृत्स्नं यावत्स्वबुद्धिविषयीभूतं रामस्य चरितं त्वं कुरु वर्णय । अर्द्धं पृथगन्वयि । तदेव विशदयन्नाह धर्मेत्यादिना । धर्मात्मनः धर्मयोः पित्राज्ञापितविश्वामित्रसेवनादिवनगमनादिरूपयोः आत्मा यत्नो यस्य इत्यनेन बालायोध्याकाण्डसङ्क्षिप्तार्थसूचनम् । गुणवतः मुनिमोहकरूपादिविशिष्टस्य । अनेनारण्यकाण्डार्थसङ्क्षिप्तसूचनम् । धीमतः सुग्रीवसख्यकरणकृतोपकृतिको हनुमान् मत्प्राणसम एवेत्यादिविषयकनिश्चयविशिष्टस्य । अनेन किष्किन्धासुन्दरकाण्डकथासङ्क्षिप्तसूचनम् ॥ १।२।३२ ॥

वीरस्य शत्रुनिबर्हणराज्यकरणाश्वमेधादिकसामर्थ्यविशिष्टस्य रामस्य । अनेन युद्धोत्तरकाण्डकथासङ्क्षिप्तसूचनम् । लोके वृत्तमाचरितं यथा येन प्रकारेण नारदात्ते तव श्रुतं तेन प्रकारेण कथय वर्णय । धीरस्येति पाठे तु धियः रावणादीनामयोध्याप्रजानां च ब्रह्मादीनां च बुद्धीः ईरयति प्रेरयतीति धीरस्तस्येत्यर्थः । अनेनापि काण्डद्वयार्थसङ्ग्रहः स्पष्ट एव ॥ १।२।३३ ॥

काव्यकरणहेतुभूतवर्णनीयपदार्थवेदितृत्वं ते मत्प्रसादादपि भविष्यतीत्याह रहस्यञ्चेत्यादिश्लोकद्वयेन । धीमतः मत्प्रार्थनास्वीकारविषयकनिश्चयविशिष्टस्य सहसौमित्रेः सुमित्रानित्यपुत्रलक्ष्मणसहितस्य तस्य अवाङ्मनसगोचरस्य रामस्य रहस्यं तदितराविदितं प्रकाशं जनान्तरप्रसिद्धं च यद्वृत्तमाचरितम्, राक्षसानां रावणादीनां च सर्वशः सर्वं विदिताविदितं यद्वृत्तम्, वैदेह्याः विदेहप्रादुर्भूतसीतायाश्च प्रकाशं रहो वा यदि यद्वृत्तं तत्सर्वं ते अविदितं त्वन्निष्ठज्ञानाविषयीभूतमपि विदितं त्वन्निष्ठज्ञानविषयीभूतमेव भविष्यति । चकारेणायोध्यायाः विदिताविदितत्वविश्वामित्रादिचेष्टितत्वादि जनकयागगतराजादीनां चेष्टितत्वादि अन्येषामपि वर्णनीयानां चेष्टितत्वादिकं ते विदितं भविष्यतीत्यर्थः । श्लोकद्वयमेकान्वयि ॥ १।२।३४ ॥

काव्यकरणप्रवृत्त्यर्थमृषिं प्रोत्साहयन्नाह न त इत्यादिना । अत्र चिकीर्षिते काव्ये काचिदपि ते वाक् तवोक्तिः अनृता असम्भावितार्था न भविष्यति । अतः मनोरमामन्तःकरणाकर्षिकां श्लोकबद्धां पद्यरूपां दिव्यां प्राकृतभिन्नां रामकथां कुरु प्रकटय । अत्र वाल्मीकिप्रार्थनामन्तरेणैव एतद्ब्रह्मोक्त्या रामकथाप्रियत्वं ब्रह्मणो व्यक्तम् ॥ १।२।३५ ॥

यावदिति । महीतले यावत्कालं गिरयः पर्वताः सरितो नद्यश्च स्थास्यन्ति तावत्कालं रामायणकथा लोकेषु चतुर्दशसु भुवनेषु प्रचरिष्यति प्रचारं प्राप्स्यति । अत्र सरिद्गिरिरहितमहीतलोपलम्भकावस्थायाः अनुपलम्भात् ऽयावत्स्थास्यन्ति गिरयःऽ इत्याद्युक्तिर्महाप्रलयपर्यन्तकालोपलक्षिका । यद्वा अलोकेषु प्राकृतलोकविलक्षणेषु वैकुण्ठादिषु गीयमाना रामायणकथा यावत्कालं गिरयः पर्वताः सरितो नद्यश्च स्थास्यन्ति तावत्कालं महीतले प्रचरिष्यति त्वन्नाम्ना प्रचारं प्राप्स्यति । अत एव महीतले इत्यस्य न वैयर्थ्यम् ॥ १।२।३६ ॥

यावदिति । त्वत्कृता त्वया सम्पादिता रामायणकथा रामपर्यवसानकप्रबन्धो यावत्कालं

प्रचरिष्यति तावत्कालं ऊर्ध्वगतिः सर्वत्राप्रतिहतगमनस्त्वं मल्लोकेषु मम लोको दर्शनं येषु तेषु स्थानेषु निवत्स्यसि । स्वसमीपे एव त्वां निवासयिष्यामीत्यर्थः । एतेन वाल्मीकिमुखनिस्सृतरामायणकथातिशुश्रूषा ब्रह्मणो ऽस्तीति ध्वनितम् । चशब्दात्सर्वत्र लाभः ॥ १।२।३७ ॥

इतीति । भगवान् षडैश्वर्यसम्पन्नो ब्रह्मा इति इदमुक्त्वा तत्रैव वाल्मीकिस्थाने एव अन्तरधीयत तिरोदधौ । तत्रैवान्तरधीयत इत्यनेन रघुनाथकथास्थानत्यागासहिष्णुत्वं तस्य ध्वनितम् । तेन रामकथाविषयकप्रेमातिशयस्तस्य सूचितः । ततः ब्रह्मान्तर्धानानन्तरम् । सशिष्यः भरद्वाजादिसहितः मुनिः ब्रह्मोक्तिमननशीलः वाल्मीकिः विस्मयं ब्रह्मलोकं विहाय इहैव तिरोधानतया किमर्थं स्थित इत्याश्चर्यमाययौ प्राप ॥ १।२।३८ ॥

तस्येति । ततः मुनिविस्मयप्राप्त्यनन्तरं तस्य वाल्मीकस्य सर्वे भरद्वाजादयः शिष्याः मुहुर्मुहुः प्रीयमाणाः गुरुप्रीतिविषयतां प्राप्नुवन्तः सन्तः इमं मा निषादेति श्लोकं पुनर्जगुः भृशविस्मिता अत्यन्तविस्मयं प्राप्ताश्च प्राहुः । इदमत्यद्भुतमित्युच्चारणं चक्रुरित्यर्थः । एतेन तेषामानन्दातिशयः सूचितः ॥ १।२।३९ ॥

श्लोकमहत्त्वं द्योतयन्नाह समेत्यादिना । समानि न्यूनाधिकरहितानि अक्षराणि येषु तैश्चतुर्भिः पादैः यः श्लोको महर्षिणा वाल्मीकिना गीतः सः श्लोकः अनुव्याहरणात् शिष्यकर्तृकनिरन्तरपठनाद्भूयो महच्छ्लोकत्वं यशःसमपादकत्वादिश्लोकधर्ममागतः प्राप्तः । शोक इति पाठे तु शोकः निमित्तत्वेनास्या ऽस्तीति । अर्शआद्यजन्तः । शोकापनोदहेतुकः श्लोक इत्यर्थः । अन्यत्समानम् ॥ १।२।४० ॥

तस्येति । भावितात्मन भावितः परिशीलितः आत्मा सर्वनियन्ता रघुनाथो येन तस्य वाल्मीकेरियं बुद्धिर्निश्चयः जाता तत्स्वरूपमाह ईदृशैः मा निषादेतिवद्गानयोग्यैः पद्यैः काव्यं सद्यःपरनिर्वृत्यादिसम्पादकं रामायणं राममात्रपर्यवसानकं कृत्स्नं सम्पूर्णमहं करवाणि । परनिर्वृत्यादयश्च ऽकाव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजेऽ इति काव्यप्रकाशपद्यतो ऽवगन्तव्याः ॥ १।२।४१ ॥

उदारेति । तदा ब्रह्मान्तर्धानोत्तरकाले । उदारधीः उदारा दुर्ज्ञेयपदार्थप्रतिपादकत्वेन महती धीरस्येति सः । अत एव कीर्तिमान्प्रशस्ता कीर्तिरस्येति सः । मुनिर्वाल्मीकिः । समाक्षरैः समानि तुल्यानि चतुर्ष्वपि पादेषु अक्षराणि येषु तैः । उदारवृत्तार्थपदैः उदाराः अभीष्टार्थदातारो वृत्तार्था रघुनाथाचरितरूपार्थाः येषु तान्येव पदानि तैः । अत एव मनोरमैः मनोहरैः श्लोकशतैः वक्ष्यमाणानुरोधेन चतुर्विंशतिसहस्रसङ्ख्यासङ्ख्यातश्लोकैर्यशस्विनो न्यूनाधिकरहितकीर्तिविशिष्टस्यास्य रामस्य यशस्करं कीर्तिसम्पादकं काव्यं दोषरहितालङ्कारसहितशब्दार्थकप्रबन्धं चकार रचयामास । ऽउदारो दातृमहतोःऽ इति कोशादुदारशब्दस्य उभयपरत्वम् ॥ १।२।४२ ॥

सावधानसम्पत्त्यर्थं शिष्यानाह तदित्यादिना । उपगतसमाससन्धियोगम् उपगता यथाशास्त्रं स्थापिताः समासास्तत्पुरुषादयः सन्धयो यणादयः योगाः प्रकृतिप्रत्ययसम्बन्धाः यस्मिन् तत् । सममधुरोपनतार्थवाक्यबद्धं सममेतत्प्रकर्षादिदोषरहितं मधुरं प्रधानीभूतशृङ्गारादिरससहितं तयोः समाहारः सममधुरम्, उपनतः सहृदयैः प्रसन्नतयोपलभ्यमानो ऽर्थो यस्य तदेव तदिति कर्मधारयः तेन बद्धं संयुक्तम् । मुनिना वाल्मीकिना प्रणीतं तत्प्रसिद्धं रघुवरचरितं काण्डसप्तात्मकं दशशिरसो रावणस्य वधं च निशामयध्वम् शृणुत । गोबलीवर्दन्यायेन पुना रावणवधोपादानम् । किञ्च दशशिरसो

वधं वधविशिष्टं रघुवरचरितं शृणुतेत्यर्थः । नित्यसापेक्षत्वादेकदेशे ऽन्वयः । एतेन दशशिरसो वधं वधपर्यन्तमित्यर्थः प्रयुक्तः गमकमन्तरेण लक्षणाया अयुक्तत्वात् ॥ १।२।४३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे द्वितीयः सर्गः ॥ २ ॥