॥ श्रीः ॥ ॥ रामायणशिरोमणिटीका ॥ ॥ बालकाण्डः ॥ ॥ १३ सर्गाः ॥
॥ श्रीगणेशाय नमः ॥ ॥ श्रीसीतारामचन्द्राभ्यां नमः ॥ ॥ श्रीहनुमते नमः ॥
स्वस्तिश्रीमन्तं करुणावन्तं श्रीहनुमन्तं नौमि कले
नित्यं विहरन्तं हरिजनवन्तं क्षमावहन्तं कीशबले ।
सीतापतिपतिकं पररसरसिकं श्रितजनमतिकं दीनपतिं
रघुनायकहृदयं हृद्रिपुविजयं शरणदमभयं सर्वनतिम् ॥ १ ॥
वन्दे श्रीसहितं गुरुमतिमहितं श्रुतिरसदयितं परममहं
सीतारघुवीरं सुखमतिधीरं सुखदगभीरं विदितमहम् ।
विधिहरिहरवन्द्यं श्रितजननन्द्यं प्रीतिमदाद्यं श्रुतिगम्यं
साकेतपुरेशं द्विभुजपरेशं सर्वसुरेशं द्युतिरम्यम् ॥ २ ॥
निश्शेषश्रुतिसारभूतममलं सन्तापसन्नाशकं
सीतारामपदारविन्दरसिकैः संसेव्यमानं सदा ।
वाल्मीकेर्मुखनिस्सृतं सुरनुतं रामायणं श्रीकरं
ब्रह्माद्यैर्विबुधैर्नितान्तरणितं दद्यात्स्वमर्थं हि नः ॥ ३ ॥
आसीद्भूसुरवंशविश्रुतयशाः श्रीतोडिरामस्ततः
सीताराम इति श्रुतो ऽजनि ततो ऽभूच्छ्रीलवंशीधरः ।
लब्ध्वा सम्मतिमस्य रामचरणौ ध्यायंस्त्रिवेण्यास्तटे
श्रीवाल्मीकिमुनेः कृतौ कृतमना ह्यासं विचारावधौ ॥ ४ ॥
सीतारामसमारम्भां शुकाचार्यादिमध्यगाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ५ ॥
वंशीधरबुधैः सार्धं सहायः शिवपूर्वकः ।
करोमि रामरामाय रामायणशिरोमणिम् ॥ ६ ॥
॥ अथ लवकुशयोर्मङ्गलानि लिख्यन्ते ॥
श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥ १ ॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ २ ॥
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
शृण्वन् रामकथानादं को न याति परां गतिम् ॥ ३ ॥
यः पिबन्सततं रामचरितामृतसागरम् ।
अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥ ४ ॥
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्दे ऽनिलात्मजम् ॥ ५ ॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ ६ ॥
आमिषीकृतमार्तण्डं गोष्पदीकृतवारिधिम् ।
तृणीकृतदशग्रीवमाञ्जनेयं नमाम्यहम् ॥ ७ ॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ८ ॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ९ ॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव दहाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ १० ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं मनसा स्मरामि ॥ ११ ॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ १२ ॥
वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥ १३ ॥
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूजितः सदा ॥ १४ ॥
यः कर्णाञ्जलिसम्पुटैरहरहः सम्यक् पिबत्यादरा
द्वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु ।
जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं
संसारं स विहाय गच्छति पुमान्विष्णोः पदं शाश्वतम् ॥ १५ ॥
वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।
पुनाति भुवनं पुण्या रामायणमहानदी ॥ १६ ॥
श्लोकसारसमाकीर्णं सर्गकल्लोलसङ्कुलम् ।
काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥ १७ ॥
रामं रामानुजं सीतां भरतं भरतानुजम् ।
सुग्रीवं वायुसूनुं च प्रणमामि पुनः पुनः ॥ १८ ॥
जितं भगवता तेन हरिणा लोकधारिणा ।
अजेन विश्वरूपेण निर्गुणेन गुणात्मना ॥ १९ ॥
इति लवकुशयोर्मङ्गलस्तवं पठित्वा रामायणं पठेत् ।
“इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ " इत्यादिश्रुतिषु पुरुषस्यैव परत्वप्रतिपादनात् ऽधर्मात्मा सत्यन्धश्च रामो दाशरथिर्यदि। पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम्ऽ इत्यादिवाल्मीकीयवचनात्पुरुषत्वस्य रघुनाथमात्रपर्यवसन्नत्वात् श्रुतौ चाव्यक्तशब्देन ऽअव्यक्तं
शङ्करे विष्णावव्यक्तं महदादिषु । आत्मन्यपि स्यादव्यक्तमस्फुटे त्वभिधेयवत् ॥ ऽ इति विश्वकोशाभिधानेन विष्ण्वादीनां ग्रहणात्साकारनिराकारब्रह्माङ्गित्वं रघुनाथस्य बोधितम्। अत एव लक्ष्मणांशभूतसङ्कर्षणान्तःस्थितश्रीरामस्य ऽशब्दब्रह्म परब्रह्म ममोभे शाश्वती तनूऽ इत्याद्युक्तिः सङ्गच्छते। अत एव ऽएते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम्ऽ अस्य पुंसो रघुनाथस्यैतेंऽशकलाः विष्णुर्नित्यं वृन्दावनविहारी स्वयं रघुनाथ एवेत्यर्थकस्य सङ्गतिः। तुशब्द एवार्थे। अयं भावः। निखिलेश्वरापेक्षया नन्दनन्दनो रामान्तरङ्ग इति। अत एव “देवानां पूरयोध्या तस्यां हिरण्मयः कोशः” इत्यादिश्रुतिभिस्तद्धाम्नोऽपि सर्वपरत्वं व्याख्यातम्। अत एव ऽउत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतःऽ इति गीतावाक्ये अहमित्यपहाय अन्य इति वासुदेवोक्तिः सङ्गच्छते। ऽअतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमःऽ इत्युक्तिस्तु नन्दनन्दनेनाभेदमारोप्येति। किञ्च रामवाचकपुरुषोत्तमशब्दः निखिलेश्वरनियन्तृपरः। अयं पुरुषोत्तमशब्दस्तु निखिलभूतजीवनियन्तृपर इति न विरोधः। रामादन्यत्रोपलब्धपुरुषोत्तमशब्दार्थस्तु पुरुषः परमपुरुषो राम एव उत्तमो यस्मादिति। अत एव ऽवाल्मीकिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम्। ब्रह्मणा चोदितं तच्च शतकोटिप्रविस्तरम् ॥
व्याहृतं नारदेनैव वाल्मीकाय निवेदितम् ।ऽ इत्यादिवचनैर्ब्रह्मणो रामोपासकत्वं बोधितम् । अत एव शङ्कराचार्यरामानुजाचार्यमध्वाचार्यांशित्वेन तत्तदभिमतैः शिवलक्ष्मणवायुभी रघुनाथ एवाश्रितः । अत एव “यदद्वैतं ब्रह्म यस्य तनुभा” इत्यादिश्रुतिः ऽसर्वेषामवताराणामवतारी रघूत्तमः । रामपादनखज्योत्स्ना परब्रह्मेति गीयते ॥ ऽ इत्याद्यगस्त्यसंहितावचनं च सङ्गच्छते। अत एव फ़्ऽतस्मिन्साकेतलोके विधिहरहरिभिः सन्ततं सेव्यमाने दिव्ये सिंहासने स्वे जनकतनयया राघवः शोभमानः। युक्तो मत्स्यैरनेकैः करिभिरपि तथा नारसिंहैरनन्तैः कूर्मैः श्रीनन्दनन्दैर्हयगलहरिभिर्नित्यमाज्ञोन्मुखैश्च ॥
यज्ञः केशववामनौ नरवरो नारायणो धर्मजः श्रीकृष्णो हलधृक् तथा मधुरिपुः श्रीवासुदेवो ऽपरः । एते नैकविधा महेन्द्रविधयो दुर्गादयः कोटिशः श्रीरामस्य पुरो निदेशसुमुखा नित्यास्तदीये पदेऽ इत्यादीनि बृहद्ब्रह्मसंहितावचनानि सङ्गच्छन्ते । अत्र नन्दनन्दनशब्दः नन्दं नन्दयति विविधोक्त्या शोकत्याजनाद्वर्धयतीति मथुरानिवासिपरः । श्रीकृष्णशब्दो द्वारकानिवासिपर इति न विरोधः । अत एव ऽनारायणादिरूपाणि साकारैश्वर्यमुत्तमम् । नित्यं ब्रह्म निराकारैश्वर्यं नित्यं विभाति च ॥ ऽ इति सुन्दरीतन्त्रवचनम्। ऽनारायणोऽपि रामांशः शङ्खचक्रगदाधरः।ऽ इति वाराहसंहितावचनं च। ऽआनन्दो द्विविधः प्रोक्तो मूर्तश्चामूर्त एव च। अमूर्तस्याश्रयो मूर्तः परमात्मा नराकृतिः ॥
ऽ इति पञ्चरात्रवचनं च । ऽययौ तथा महाशम्भू रामलोकमगोचरम् । तत्र गत्वा महाशम्भू राघवं नित्यविग्रहम् ॥ ददर्श परमात्मानं समासीनं मया सह । सर्वशक्तिकलानाथं द्विभुजं रघुनन्दनम् ॥ द्विभुजाद्राघवान्नित्यात्सर्वमेतत्प्रवर्तते ।ऽ इति सुन्दरीतन्त्रवचनं च । ऽस्थूलं चाष्टभुजं प्रोक्तं सूक्ष्मं चैव चतुर्भुजम् । परं च द्विभुजं रूपं तस्मादेतत्त्रयं यजेत् ।ऽ इत्यानन्दसंहितावचनं च । ऽयो वै वसति गोलोके द्विभुजस्तु धनुर्धरः । सदानन्दमयो रामो येन विश्वमिदं ततम् ॥ ऽ इति सदाशिवसंहितावचनं च। ऽरमन्ते योगिनो यस्मिन्नित्यानन्दे चिदात्मनि। इति रामपदेनासौ परब्रह्माभिधीयते ॥
ऽ इति रामोपनिषद्वचनं च । ऽराम एव परं ब्रह्म राम एव परं तपः । राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम् ॥ ऽ इति हनुमदुपनिषद्वचनं च। ऽआनन्दरूपो निष्परिणाम एष लोकश्चैतस्माद्रमतेऽ इति शाण्डिल्यशाखावचनं च। ऽब्रह्मविष्णुमहेशाद्या यस्यांशा लोकसाधकाः। तं रामं सच्चिदानन्दं नित्यं रासेश्वरं भजे ॥
ऽ इति हनुमत्संहितावचनं च सङ्गच्छते । तद्धामपरत्वप्रतिपादिका श्रुतिः
ऽअष्टाचका नवद्वारा देवानां पूरयोध्या तस्यां हिरण्मयः कोशःस्वर्गो लोको ज्योतिषावृतः यो वैतां ब्रह्मणो वेद अमृतेनावृतां पुरीं तस्मै ब्रह्म च ब्रह्मा च आयुः कीर्तिं प्रजां ददुःऽ इति
तैत्तिरीयशाखान्तर्गतारणमध्ये । ऽअथ यदरण्यायनमित्याचक्षते । ब्रह्मचर्यमेव तत् अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरम्मदीयं सरः तदश्वत्थः सोमसवनः तदपराजिता पूर्ब्रह्मणः प्रभुमितं हिरण्मयं तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः । तेषां सर्वेषु लोकेषु कामचारो भवतिऽ इति च । अत एव प्रभोः प्रभुरित्यादि सङ्गच्छते । अथ यदरण्यायनमितिश्रुतेरर्थस्तु
अथ यत् अरण्यायनमरण्यप्रापकं तदेव ब्रह्मचर्यमित्याचक्षते वेदा इति । शेषः । तेन ब्रह्मचर्येण ये जना ब्रह्मलोके विद्यमानौ अरं च ण्यं चार्णवौ अनुविन्दन्ति मनसा प्राप्नुवन्ति तेषामेवैषः श्रुतिप्रसिद्धो ब्रह्मलोको भवति तेषामेव सर्वेषु लोकेषु कामचारो भवति हिरण्यगर्भलोकं व्यावर्तयितुं श्रुतिरेव निर्वक्ति इतो भूलोकावहारात् तृतीयस्यां दिवि प्रकृतिमण्डलाद्बहिर्भाग इत्यर्थः । ब्रह्मलोके ब्रह्मप्रकाशितभुवने अरश्च अरनामका ण्यो ण्यनामकश्च ह वै प्रसिद्धौ अर्णवौ समुद्रौ तत् तत्रैव ऐरम् इरा प्राकृतविलक्षणमन्नं तन्मय ऐरो मण्डः तेन पूर्णमैरं मदीयं प्रमोदप्रापकं सरो ऽस्तीति शेषः । तत् तत्रैव सोमसवनो ऽमृतस्रावी अश्वत्थश्चलदलः तत् तत्रैव ब्रह्मणः सत्यज्ञानानन्तप्रकाशकरामस्य अपराजिता अयोध्यापरपर्याया ऽपराजिताशब्दवाच्या पूः । तत् तस्यां पुर्यां प्रभुमितं प्रभुभ्यां तत्स्वामिसीतारामाभ्यामेव मितं निःशेषतो ज्ञातं हिरण्मयं मण्डपमस्तीति शेषः । प्रभुभ्यामित्यत्र “पुमान् स्त्रिया” इत्येकशेषः । अयोध्याकाण्डे चतुश्चत्वारिंशसर्गे सूर्यस्यापीत्यस्यायमर्थः । सूर्यस्य सर्वावभासकादित्यस्यापि सूर्यो ऽवभासक इत्यर्थः ।
ननु ऽतमेव भान्तमनुभाति सर्वम्ऽ इत्यादिश्रुत्या सूर्यावभासकत्वं ब्रह्मणः प्रसिद्धमिति । ब्रह्म किमित्यत आह अग्नेः सर्वाग्र्यस्य प्रकाशब्रह्मणो ऽप्यग्निः प्रकाशक इत्यर्थः । अत एव प्रभोः सर्वनियन्तुर्ब्रह्मादित्रयस्यापि प्रभुर्नियन्ता । अग्निशब्दस्य ब्रह्मपरत्वमग्र्यत्वादग्निनामासावित्यादिना मध्वाचार्यैर्व्याख्यातम् । अभिमतश्चायं सिद्धान्तो गोविन्दाचार्याणामपि । अत एव प्रभोः सर्वनियन्तुरपि नियन्तेति तैर्व्याख्यातम् । सर्वनियन्तृत्वं च विष्ण्वादीनामेवेति भावः । किञ्च सूर्यस्य प्रकाशकारणस्यापि सूर्यः कारणमित्यर्थः । ननु सूर्यकारणत्वेन वह्निः प्रसिद्ध इति किं स इत्यत आह अग्नेरप्यग्निः कारणमित्यर्थः । ननु सर्वकारणत्वेन ब्रह्मणः प्रसिद्धत्वादिति किं तदित्यत आह प्रभोः सकलनियन्तुरपि च प्रभुर्नियन्तेत्यर्थः । अत एव सर्वपरमकारणत्वं तस्यैवेत्याह श्रियः श्रीरित्यादिभिः । सूर्यस्य सर्वजगदवभासकस्यापि सूर्यः अग्नेः सर्वदाहकस्याप्यग्निर्दाहक इति भूषणोक्तार्थस्तु न युक्तः । दाहकत्वेन प्रकाशकत्वेन च द्वयोः प्रसिद्ध्या अन्यतरोपादानस्य निरर्थकत्वापत्तिः । नापि सूर्यस्यापि प्रकाशको दाहकश्च अग्नेरपि प्रकाशको दाहकश्चेत्यर्थो युज्यते पतत्प्रकर्षदोषवत्तापत्तेरिति दिक् । न च ऽरामपादनखज्योत्स्ना परब्रह्मेति गीयते ।ऽ इदमप्रमाणम्, विरुद्धार्थप्रतिपादकत्वात् । घटः पट इतिवत् । एतत्प्रतिपाद्यार्थस्य विरुद्धत्वं तु
“सदेव सौम्येदमग्र आसीत् एकमेवाद्वितीयम् । यः पृथिव्यां तिष्ठन् यं पृथिवी न वेद यस्य पृथिवी शरीरं यः प्रधानमन्तरे सञ्चरन् यं प्रधानं न वेद यस्य प्रधानं शरीरं यो विज्ञानमन्तरे सञ्चरन् यं विज्ञानं न वेद यस्य विज्ञानं शरीरं सत्यं ज्ञानमनन्तं ब्रह्म । आनन्दं ब्रह्मेति व्यजानात् । तदेजति तन्नैजति तद्दूरे तदु अन्तिके” इत्यादिश्रुतिभिः सर्वकारणीभूतस्वगतसजातीयविजातीयभेदशून्यसर्वान्तर्यामिदेशकालवस्तुपरिच्छेदशून्यसर्वशक्ति नित्यशुद्धबुद्धस्वयम्प्रकाशस्य ब्रह्मणो देशकालवस्तुपरिच्छिन्नरामनखज्योत्स्नात्वेन प्रतिपादनात् । तथा च यत्समानाधिकरणात्यन्ताभावप्रतियोगिता ऽनवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नसामानाधिकरण्यमिति व्याप्तिस्वरूपात्,
विरुद्धार्थप्रतिपादकत्वाधिकरणीभूतेदन्त्वाश्रयवृत्तिघटाद्यभावीयप्रतियोगिता ऽनवच्छेदकीभूतप्रमाण प्रतियोगिकभेदत्वावच्छिन्नसामानाधिकरण्यं विरुद्धार्थप्रतिपादकत्वस्यास्तीति द्वितीयप्रमाणेन एतदर्थस्याप्रमाण्यग्रस्तत्वाद्रामस्य ब्रह्मप्रकाशित्वमसिद्धमिति वाच्यम् । अद्वैतसिद्धान्ते “भारूपः सत्यसङ्कल्पः” इत्यादि श्रुतिभिर्ब्रह्मणः प्रकाशस्वरूपत्वेन प्रतीयमानत्वात् “तस्य भासा सर्वमिदं विभाति” इत्यादिश्रुतिभिश्च रामस्य प्रकाशाश्रयत्वश्रुत्या एतदर्थस्य विरुद्धत्वाभावेन स्वरूपासिद्ध्या, इदं प्रमाणप्रतियोगिकभेदानुयोगित्वाभाववत् प्रमाणप्रतियोगिकभेदानुयोगित्वाभावव्याप्याप्तोच्चारितत्वादिति सत्प्रतिपक्षितत्वेन च “तस्य भासासर्वमिदं विभाति” इति परमप्रमाणभूतश्रुत्यनुगामित्वेन प्रामाण्यनिश्चयाद्बाधितत्वेन च एतद्द्वितीयस्य प्रमाणाभासत्वात् । तद्वत्ताबुद्धिं प्रति तदभाववत्ताबुद्धेरिव तदभावव्याप्यवत्ताबुद्धेश्च प्रतिबन्धकत्वात् । यद्यपि स्वरूपासिद्धेर्न साक्षादनुमितिप्रतिबन्धकत्वं तथापि धूमाभाववद्ध्रदत्वावच्छिन्नानाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयविषयतायाः यथा वह्निव्याप्यधूमवान् ह्रद इति परामर्शनिरसनद्वारा वह्निमान् ह्रद इत्यनुमितिप्रतिबन्धकत्वं तथा । विरुद्धार्थप्रतिपादकत्वाभाववदिदन्त्वावच्छिन्नानाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयविषयितायाः प्रमाणप्रतियोगिकभेदविशिष्टत्वव्याप्यविरुद्धार्थप्रतिपादकत्ववदिदमिति परामर्शनिरसनद्वारा इदमप्रमाणमित्यनुमितिप्रतिबन्धकत्वम् । एवमन्यत्रापि यथासम्भवमूह्यम् । तथा इदं वाक्यं प्रमाणं श्रुतिसिद्धार्थबोधकत्वात्, ऽन जायते म्रियते वा कदाचित्ऽ इत्यादिवत् । इदं क्वचिदाश्रितं प्रकाशत्वात्सूर्यप्रकाशवदित्याद्यनुमानान्तराणामपि सानुकूलत्वात् । न च रामस्य ब्रह्मप्रकाशकत्वे ब्रह्मणो देशकालवस्तुपरिच्छेदशून्यत्वाभावापत्तिः । तथाहि प्रकाशस्य प्रकाश्यतिरिक्तत्वेन वस्तुदेशपरिच्छेदः । अत एव मध्यमपरिमाणत्वापत्त्या च कालपरिच्छेदः परिच्छेदपरिच्छेदशून्यत्वयोरेकत्रासम्भवः । प्रकाशस्य प्रकाश्यायत्ततया स्वातन्त्र्यानुपपत्तिश्चेति वाच्यम् । प्रकाशप्रकाशिनोस्तादात्म्यस्वीकारेणादोषात् । न च ब्रह्मातिरिक्तवस्तुस्वीकारे “एकमेवाद्वितीयम्” इत्यादिश्रुतिभिर्ब्रह्मणि प्रतीयमानस्य स्वगतसजातीयविजातीयभेदशून्यत्वस्य हान्यापत्तिरिति वाच्यम् । इष्टापत्तेः । श्रुतेः स्वगतसजातीयविजातीयभेदशून्यार्थबोधकत्वाभावात् । सार्वकालिकद्वित्वसङ्ख्यापूरकप्रतियोगिकभेदसमानाधिकरणप्राधान्यविशिष्टं सदित्यर्थस्य स्वारसिकत्वात् । सजातीयत्वं च प्रधानत्वेन रूपेण । अत एवाक्ष्यादिप्रतिपादनं सङ्गच्छते । स्वगतभेदशून्यत्वप्रतिपादने तु विरुध्येत प्रधानान्तरस्य प्रकाशिनः सत्त्वादयमर्थो विरुद्ध इति तु न भ्रमितव्यम् । दत्तोत्तरत्वात् । अनुभूतं च तयोस्तादात्म्यं सविता प्रकाशते सवित्रा दग्ध इत्यादौ । अत एव विधिनिषेधकबोधकवाक्यानां न वैयर्थ्यम् । “अपाणिपादो जवनो ग्रहीता” इत्यादिना पाण्यादिनिषेधस्तु प्राकृतपाण्यादीनामिति न विरोधः । पारमार्थिकपाणिपादनिषेध इत्यर्थस्तु न युक्तः जवन इत्यादिना विरोधापत्तेः । अत एव “सत्यं भिदा सत्यं भिदा नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां विदधाति कामान् । भोक्ता भोग्यं प्रेरितारं च मत्वा” “नत्वेवाहं जातु नासं” “भेदव्यपदेशाच्च” इत्यादीनि श्रुतिस्मृतिसूत्राणि सङ्गच्छन्ते । न च गुणक्रियाश्रयस्य द्रव्यत्वनियमात्प्रकाशिनो द्रव्यत्वापत्तिरिति वाच्यम् । इष्टापत्तेः । स्वीकृतं च नैयायिकैः परमात्मनो द्रव्यत्वम् । न चेदमनित्यं संयोगाश्रयत्वात् घटवदित्यनुमानेनानित्यत्वापत्तिरिति वाच्यम्, संयोगाश्रयत्वस्यानित्यत्वाभाववति कालादौ वृत्तित्वेन व्यभिचरितत्वात् । “नित्यो नित्यानाम्” इत्यादिश्रुतिप्रामाण्येनेदन्त्वाश्रयस्यानित्यत्वाभावविशिष्टत्वेन बाधाच्च । एवं च हेतोस्तत्रावृत्तित्वेन स्वरूपासिद्धेश्च । इदं नित्यं नित्यगुणाश्रयत्वात् कालादिवदित्यनुमानेन सत्प्रतिपक्षितत्वाच्च । वक्तव्या
चैषैव युक्तिः प्रकाशस्य गुणाद्यन्यतमत्वस्वीकारे अनित्यवादनिरासाय दर्शनान्तरीयैरपि । न च प्रकाशस्याधेयत्वापत्त्या “अनाश्रयम्” इत्यादिश्रुतिविरोधः । तासां प्रकाशिपरत्वेनाविरोधात् । अत एव ऽस्वमहिम्नि प्रतिष्ठितम्ऽ इत्यादिना न विरोधः । प्रकरणविरोध इति न भ्रमितव्यम् । तयोस्तादात्म्यात् । स्वीकृतं च वार्तिककारानुयायिभिः “आत्मैवेदं सर्वम्” इत्यादिश्रुतिव्याख्यावसरे तादात्म्यमिति दिक् ।
एतदनुरोधेन ऽविष्णुना सदृशो वीर्येऽ इत्यस्य विष्णुर्न आसमन्ताद्भावेन सदृशो यस्येत्यादिरर्थः । ऽविष्णोरर्धं महाभागम्ऽ इत्यस्य विष्णोः अर्धं वर्धकमित्यर्थः । उत्तरकाण्डघटकीभूते ऽपितुस्तु मम जामाता विष्णुः किल सुरेश्वरः । अभिप्रेतस्त्रिलोकेशजतस्मान्नान्यस्य मे पिता ॥ ऽ इत्येतत्पद्ये विष्णुशब्दो व्यापकव्यापकपरः। सुरेश्वरशब्दो दानीश्वरपरः। अत एव त्रिलोकेश इत्यनेन न गतार्थता। तत्प्रकरणान्तर्गते ऽततो मनोरथं सत्यं पितुर्नारायणं प्रतिऽ इत्यत्र नारायणशब्दार्थस्तु नारेण नीत्यैव अयते इति नारायणो मर्यादापुरुषोत्तम इत्यर्थः। एवं गूढार्थमजानतो नारायणादिवाच्या बहवः सन्ति तत्र क ईप्सित इति शङ्कां निरसन्त्याह ऽनारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात्ऽ एतदर्थस्तु पुरुषोत्तमादन्यः पुरुषोत्तमप्रतियोगिकभेदानुयोगी नारायणो मम पतिर्न पुरुषोत्तम एवेत्यर्थ इति। प्रकरणस्याभिधानियामकत्वादत्र पुरुषोत्तमशब्दः “पुरुषान्न परं किञ्चित्सा काष्ठा सा परागतिः” इति श्रुतिघटकपुरुषार्थकः। अतो नारायणस्यार्थान्तरप्रतिपादकपुरुषोत्तमशब्दप्रतिपाद्यत्वेऽपि न क्षतिः। एतदर्थविवक्षयैव ऽनारायणो मम पतिर्नान्यः कश्चिन्मतो ममऽ इति न त्वन्यः सम्मतो ममेति वा नोक्तम्। एवं चात्रादेयकोटिप्रविष्टनारायणशब्दो मर्यादापुरुषोत्तमपर एव। ऽतस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुताऽ इति वेदवतीवचनार्थस्तु तस्मात् सम्भावितकृतत्वादिमतीत्वाद्धेतोरयोनिजा योनिसम्बन्धाभावेन प्रादुर्भूता साध्वी पतिव्रताशिरोमणिः धर्मिणो जनकस्य सुता अहं भवेयम् प्राप्नुयाम्। प्राप्त्यर्थकोऽत्र भवतिः। ऽपश्य मृगो धावति। पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः। जानामि सीता धरणीप्रसूता जानामि रामो मधुसूदनश्च। जानामि मृत्युं मम तस्य हस्तात्तथापि सीतां न समर्पयामि ॥
ऽ इत्यादाविव वाक्यार्थस्य क्रियायामन्वयात्तस्यैव कर्मत्वेन तद्वाचकस्य प्रातिपदिकत्वाभावेन न ततो द्वितीयोत्पतिः ऽसैषा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ।ऽ एतदर्थस्तु हे प्रभो हे महाबाहो सा सीता परमप्रेमास्पदीभूतवेदवतीप्राप्तीच्छाविषयीभूता जनकराजस्य तनया नित्यपुत्री अत एव प्रसूता तत्रैव प्रादुर्भूता एषा तव भार्या जानकी त्वं तु सनातनः सनति सर्वं रचयतीति सनम् “यतो वा इमानि भूतानि जायन्ते” इत्यादिश्रुतिप्रतिपादितं प्रकाशब्रह्म तदुपलक्षितब्रह्मादीन् आतनोति तत्तत्कार्यनियामकत्वेन विस्तारयति । किं च सनं तदेव अः विष्णुश्च आः ब्रह्मा च आः शिवश्च ते सनाः तान् तनोति सः ऽअकारो वासुदेवः स्यादाकारस्तु पितामहःऽ इत्येकाक्षरः । आः स्वयम्भूरिभो वाजी खेदः शङ्करवासवौ ॥ ऽ इति मात्रिकाकोशः। स विष्णुः हिस्त्वर्थः। पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्तया। उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् ॥
ऽ अस्यार्थः यया वेदवत्या शैलाभः शत्रुरसौ रावणः पूर्वं क्रोधहतः क्रोधेन हतो निहतप्रायः तया वेदवत्या उपाश्रयित्वा जानकीमाश्रित्य निहतः अतस्तव वीर्यममानुषं प्राकृतमानुषवीर्याद्विलक्षणम् । प्रतापिसखस्य रावणभवनसमये पुनरेषा प्रादुर्भवितेति बोधयन्नाह ऽएवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ॥ ऽ वेदवत्या उत्पत्तिप्रकारं बोधयन्नाह एवमिति। या एषा वेदवती पूर्वं कृतयुगे आसीत् सा त्रेतायुगमनुप्राप्य रक्षसस्तस्य रावणस्य वधार्थं स्वस्वामिन्यै सीतायै वधयोग्यतां निवेदयितुमित्यर्थः। महात्मनो जनकस्य मैथिलकुले उत्पन्नेति दिक्। वेदवतीप्रकरणस्थपद्यानामीदृशार्थः तुष्यतु दुर्जनन्यायेनोक्तः। वस्तुतस्तु लक्ष्मीरेव वेदवती कुशध्वजगृहे
प्रादुर्भूता नारायणरूपभरतेनोद्वाहिता तदनुमत्यैव मन्थरया रामः प्रव्राजित इत्युत्तरकाण्डे वक्ष्यते ऽविक्रमस्ते यथा विष्णो रूपे चैवाश्विनोरिव । बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥ क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः । वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥ अप्रकम्प्यो यथा स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।ऽ इत्युत्तरकाण्डीयसप्तत्रिंशसर्गश्लोकेष्वप्युपमानोपमेयभाव इषुवत्सविता गच्छतीतिवद्बोध्यः । किं च प्रजापतीनां बह्मादीनां समः सृष्ट्यादिष्वेकाकारवर्तनं यस्मात्सः अत एव बृहस्पतेरपि बुद्ध्या तुल्यः तोलयितुमैश्वर्यादिना इयत्तां कर्तुं शक्यो यस्त्वन्नासि एतन्नञर्थस्तु बुद्ध्या अ इति छित्त्वा लब्धः । तस्य तव विक्रम इव विष्णोर्विक्रमः कविभिर्वर्ण्यत इति शेषः । ते रूपमिवाश्विनो रूपे । ते क्षमा पृथिवीक्षमा तुल्या यस्याः । स त्वं तेजसा भास्करोपमः भास्कर उपमोपमेयो यस्य । ते वेगः वायुना तुल्यः वायुर्न आसमन्तातुल्यो यस्य । ते गाम्भीर्यमिव उदधेर्गाम्भीर्यम् । त्वमिव स्थाणुः शिवः अप्रकम्प्यः । ईदृशं भवत्सौम्यत्वसदृशं सौम्यत्वं चन्द्रे अस्तीत्यर्थः । अत एव ऽचन्द्रे सौम्यत्वमीदृशम्ऽ इत्यस्य न वैरूप्यम् । ऽउत्तस्थौ नागशयनात् हरिर्नारायणो यथा ।ऽ इत्येतदर्थस्तु नागशयनात् न आगः आगमनमुत्पत्तिर्यस्य नित्यसिद्धमित्यर्थः । तदेव शयनमिति कर्मधारयः । तस्मात् नारायणः नारेण नीत्यैव अयनं गतिर्यस्य मर्यादापुरुषोत्तम इत्यर्थः । हरिः आश्रितानां निःशेषसन्तापस्य निवर्तको रामः यथा यथावदुत्तस्थौ । एतेन सूतसम्माननं सूचितम् । अत एव नान्यतरवैयर्थ्यम् । उत्तरकाण्डे पञ्चाशत्तमे सर्गे ऽयं श्लोकः ऽभविष्यति दृढं रामो दुःखप्रायो विसौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्द्रुतम् ॥ ऽ एतदर्थः विसौख्यभाक्। विशेषसुखस्य भोक्तापि रामः दुःखप्रायो भविष्यति। तत्र हेतुः यतो महाबाहुः रामः प्रियैः विप्रयोगं वियोगं द्रुतं प्राप्स्यते। तदेव विशदयन्नाह ऽत्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा। स त्यजिष्यति धर्मात्मा कालेन महता महान् ॥
ऽ इदमेकत्र न वक्तव्यमित्याह ऽइदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा । राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ ऽ त्वयि त्वया अत्र भरते न वक्तव्यमित्यनेन भरतेनैवावश्यं दुःखं भोक्तव्यमिति बोधितम्। तेन ज्ञाने दुःखाल्पत्वं भविष्यतीति व्यक्तम्। तेन वक्ष्यमाणशापो भरतोद्देश्यक एवेति ध्वनितम्। तेन विष्णुर्भरतस्यैव स्वरूपान्तरमिति व्यञ्जितम्। वक्ष्यमाणेन शत्रुघ्नस्यापि सन्निधावित्यनेन शत्रुघ्नज्ञाने भरतोऽप्यवश्यं ज्ञास्यतीति व्यक्तम्। तेन द्वयोः परस्परप्रेमास्पदत्वं व्यक्तम्। शापाकारं बोधयन्नाह तत्रेति। ऽतत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम्ऽ अत्र पत्नीति त्वच्छब्दार्थे विशेषणम्। पत्नीसहित इत्यर्थः। व्रीह्यादित्वादिनिः। ग्रहणरूपधात्वर्थविहितणिजन्तप्रकृतिकभावघञन्तप्रकृतिकतद्धितान्तप्रकृतिकप्रथमान्तो वा। वियोगमिष्टवियोगजनितदुःखम्। अत एव विप्रयोगं प्रियैर्द्रुतमित्युपक्रमेण न विरोधः। न च शापवाक्यानां भरतोद्देश्यकत्वे ऽइहागतो हि पुत्रत्वं तव पार्थिवसत्तम। राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ॥
ऽ इति विरुध्येत रामपरतया प्रतीयमानत्वादिति वाच्यम् । अस्य गूढार्थकत्वात् ।
तथाहि रामे इहास्मिँल्लोके तव पुत्रत्वमिति प्राप्ते सति त्रिषु लोकेषु अभितः विख्याः विशेषेण ख्यातिर्यस्य स एवातो व्यापकः । किं च विराकाश इव ख्यातं ख्यातिर्यस्य गगनसदृशः इह तव पुत्रत्वमागतः प्राप्तः विष्णुः भृगुशापकृतं महत्तत्प्रसिद्धं फलं प्राप्स्यते रामस्तु दीर्घकालमयोध्याधिपतिर्भविष्यति । उत्तरकल्पे अभीति सप्तम्यन्तं रामविशेषणम् । अं विष्णुं भाति प्रकाशयतीति तदर्थः । नन्वेवमपि उत्तरकाण्डसप्तविंशसर्गे इन्द्रप्रार्थितविष्णुप्रतिज्ञाबोधकेन ऽप्रतिज्ञाने च देवेश त्वत्समीपे शतक्रतो । भवितास्मि यथास्याहं रक्षसो मृत्युकारणम् ॥ ऽ अनेन विरुध्येतेति चेन्न। कारणं भवितास्मीत्यनेन साक्षात्स्वकर्तृत्वाभावबोधनात्। अत एव अहमेव निहन्तास्मीत्यस्य घातयितास्मीत्यर्थः। अन्तर्भावितणिजर्थोऽत्र हन्तिः। ऽरामायणमिदं कृत्स्नं शृण्वतः पठतः सदा। प्रीयते
सततं रामः सहि विष्णुः सनातनः ॥ आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः ।ऽ एतदर्थस्तु आदयति ब्रह्मादिद्वारा सर्वान् भोजयति तच्छीलः आदिदेवो नित्यप्रमोदः स एव स इति कर्मधारयः । महाबाहुः महान्तौ बाहू यस्य आजानुबाहुरित्यर्थः । हरिः आश्रितसकलसन्तापहारकः नारायणो मर्यादापुरुषोत्तमः प्रभुः सर्वस्वामी सनातनो ब्रह्मादिप्रवर्तको ऽपि सः श्रुतिप्रसिद्धो विष्णुः स्वप्रकाशद्वारा सर्वत्र पूर्णो रामः इदं रामायणं सदा शृण्वतः पठतः पुरुषस्योपरि सततं प्रीयेत ।
रामायणप्रवृत्तिं बोधयन्नाह ऽएवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ ऽ एवमेतत्प्रकारकं पुरा पूर्वं विष्णोर्वृत्तं प्रवृत्तमत एव विस्रब्धं विश्वासोत्पादकमेतदाख्यानं प्रव्याहरत यूयं पठत अतो वो भद्रं कल्याणमस्तु। वो बलं च प्रवर्धताम् ऽसर्व एते महाभागा रावणाद्बलवत्तराः। न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ॥
ऋते नारायणं देवं शङ्खचक्रगदाधरम् । भवान्नारायणो देवश्चतुर्बाहुः सनातनः ॥ राक्षसान् हन्तुमुत्पन्नो ह्यजय्यः प्रभुरव्ययः ।ऽ इति वक्ष्यमाणपद्यानां त्वयमर्थः नारो नीतिस्तेनैव अयते गच्छतीति नारायणस्तं मर्यादापुरुषोत्तममित्यर्थः । तथाहि ऽन्याय्यात्पथः प्रचलनं यतो नैवास्य विद्यते । अतो नारायणो रामो विद्वद्भिः परिकीर्तितः ॥ ऽ इत्याप्तवचनम्। देवं नित्यविहारिणं शङ्खचक्रगदाधरं शङ्ख्ाचक्रगदाः सन्ति अस्य स नारायणोऽधरो यस्मात् तं विष्णोरुत्तममित्यर्थः। ऋते विना अन्यः राक्षसान् हन्ता न। ननु स क इत्यत आह स भवानेव तद्विशेषणं नारायणो देवः नारायणश्च आः ब्रह्मा च उः रुद्रश्च तेषां देवः पूज्यः अत एव चतुर्बाहुः चतुरोऽर्थादीन् वाहयति आश्रितेभ्यः प्रापयतीति सः सनातनो नित्यः अजय्यः सर्वैर्जेतुमशक्यः अव्ययः सर्वविकारशून्यः प्रभुः प्रभोरपि प्रभुः राक्षसान् राक्षसत्वं हन्तुं निवर्तयितुं भवानेव उत्पन्नः प्रादुर्भूतः। अत एव ऽविष्णुना सदृशो वीर्ये विष्णोस्तुल्यपराक्रमान्। न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ॥
तानि कर्माणि श्रूयन्ते यानि युद्धे हनूमतः ।ऽ इत्यादिभेदप्रतिपादकवचनैर्न विरोधः । अत एव न द्विभुजरामे चतुर्बाहुत्वप्रतिपादनं प्रत्यक्षविरोधः । चतुर्बाहुर्नारायणो ऽपि भवानेवेति विशिष्य न विरोध इति तु न भ्रमितव्यम् । विशेषणवैयर्थ्यात् । चतुर्भुजशब्दस्यापि नारायणे सङ्केतितत्वेन पौनरुक्त्यस्य दुरुद्धरत्वाच्च ऽइमं मुहूर्तं दुर्धर्षं स्मर त्वं जन्म वैष्णवम्ऽ इत्युत्तरकाण्डनवतितमसर्गघटकपद्यघटकीभूतवैष्णवशब्दार्थस्तु विष्णोरिदं विष्णुप्रार्थनया प्रादुर्भूतं स्वकीयं जन्मेति विष्णूनां वैकुण्ठेशक्षीराब्धीशभूम्नामिदं जन्म भरतादिरूपेण प्राकट्यं स्मरेति वा । उत्तरकाण्डचतुरुत्तरशततमसर्गघटकस्य ऽतवाहं पूर्वके भावे पुत्रः परपुरञ्जय । मायासम्भावितो वीर कालः सर्वसमाहरः ॥ ऽ इति कालवचनस्य तु अयमर्थः पूर्वके पूर्व एव पूर्वकः तस्मिन्प्रथमे भावे सृष्ट्यादावित्यर्थः। मायासम्भावितः जीवादिविषयकत्वत्कृपया प्रादुर्भावितः अत एव तव पुत्रः। अपुत्र इति छेदो वा त्वत्पुत्रसदृशः सर्वसमाहरः सर्वव्यवहारहेतुः कालोऽहमस्मीति शेषः। तत्र ऽसङ्क्षिप्य हि पुरा लोकान् मायया स्वयमेव हि। महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः ॥
ऽ इति ब्रह्मवचनस्य त्वयमर्थः पुरा लोकान् सङ्क्षिप्य सङ्क्षेपरूपेण कृत्वा महार्णवे शयानः महार्णवे शयः शयनं यस्य स एव अनिति पालयति विश्वमिति आ विष्णुस्तस्मान्मायया जीवादिविषयककृपयाप्सु मां त्वमजीजनः उत्पादितवान् । “शयवासवासिष्वकालात्” इति सप्तम्या अलुक् । तत्र ऽततस्त्वमसि दुर्धर्षस्तस्माद्भावात्सनातनात् । रक्षां विधास्यन् भूतानां विष्णुत्वमुपजग्मिवान् ॥ अदित्यां वीर्यवान् पुत्रो भ्रातृ़णां वीर्यवर्धनः ।ऽ इत्यस्य त्वयमर्थः भ्रातृ़णां वीयर्वर्धनः वीर्यवान् भूतानां रक्षां विधास्यन् । अदित्यां यः पुत्रः तस्मिन्पुत्रे विष्णुत्वं स्वरूपव्यापकत्वं यतस्त्वमुपजग्मिवान् प्रापितवान् तस्मात्सनातनान्नित्याद्भावात्स्वप्रभावात् ततो विस्तारको दुर्धर्षस्त्वमसि । ऽअथवा विजिगीष ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥ ऽ इत्यस्य त्वयमर्थः हे राघव
सुरलोकाय यदि ते विजिगीषा तर्हि सनाथा इन्द्रसहिता देवा विष्णुना सह विगतज्वरा भवन्तु । भवद्दर्शनादिति शेषः । एतेन विष्ण्वादीनां रामदर्शने उत्कण्ठातिशयः सूचितः । एतदर्थविवक्षयैव त्वयेति नोक्तम् । उत्तरकाण्डषडुत्तरशततमसर्गघटकीभूतस्य ऽततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः । हृष्टाः प्रमुदिताः सर्वे पूजयन्ति स्म राघवम् ॥ ऽ इत्यस्यायमर्थः विष्णोः क्षीराब्धीशस्य चतुर्भागं सर्वांशविशिष्टं राघवं रघुकुलप्रादुर्भूतं लक्ष्मणं पूजयन्ति स्म। उत्तरकाण्डे दशाधिकशततमे सर्गे ऽततः पितामहो वाणीं त्वन्तरिक्षादभाषत। आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव ॥
भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् । यामिच्छसि महाबाहो तां तनुं प्रविश स्वकाम् ॥ वैष्णवीं तां महातेज यद्वाकाशं सनातनम् । त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ॥ ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।ऽ इत्यादेरयमर्थः हे विष्णो स्वप्रकाशद्वारा सर्वत्र पूर्णदेवाभैः देवान् आभान्ति प्रकाशयन्ति । अन्तर्भावितणिजर्थः । देवप्रकाशकैरित्यर्थः । भ्रातृभिः सह स्वकां तनुमिव तनुवन्नित्यसम्बद्धं स्वप्रकाशप्रकाशितं स्वलोकमित्यर्थः । प्रविशस्व सभ्रातृरामप्रवेशनं सम्प्रार्थ्य तदीप्सितान्यकर्तृकप्रवेशं सम्प्रार्थयन्नाह यामिति । हे महाबाहो यां व्यक्तिं यं यं जनमित्यर्थः । इच्छसि प्रवेशयितुं वाञ्छसि तां तं तं जनमित्यर्थः । वैष्णवीं वैकुण्ठेशक्षीराब्धीशभूमसम्बन्धिनीं तां तनुं तत्तल्लोकमित्यर्थः । आकाशमाकाशवद्विपुलं सनातनं यन्महातेजः । स्वकां तनुं स्वलोकमित्यर्थः । तत् वा प्रविश प्रवेशय अत एव न पौनरुक्त्यम् । हिरिवार्थे । ऽपितामहवचः श्रुत्वा विनिश्चित्य महामतिः । विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ ऽ इत्यस्य त्वयमर्थः स रामः महामतिरनुजः अतिबुद्धीन् अनुजांशान् वैष्णवं वैकुण्ठेशादिसम्बन्धिनं लोकं विवेश प्रवेशयामास तेजः साकेतलोकं तु सशरीरः सन् विवेश। राजा गच्छतीत्यादाविव रामपरिकरेष्वपि गमनकर्तृत्वं बोध्यम्। अत एव भ्रात्रंशानां प्रवेशनमुक्त्वा भ्रातृप्रवेशनं नोक्तम्। महामतिरनुज इति समुदायार्थस्य कर्मत्वम्। अत एव न तद्वाचका द्वितीया। तस्य प्रातिपदिकत्वाभावात्। वाक्यार्थस्य कर्मत्वस्वीकारादेव। ऽश्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः। पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः। जनामि रामो मधुसूदनश्च। पश्य मृगो धावतिऽ इत्यादीनां सङ्गतिः। अनुजः वैष्णवमित्यत्र च जात्यभिप्रायेणैकवचनम्। ऽततो विष्णुमयं देवं पूजयन्ति स्म देवताः।ऽ इत्यस्य त्वयमर्थः विष्णुमयं विष्णून् वैकुण्ठेशादीन् मयते तत्तल्लोकं प्रापयतीति स तं देवं नित्यप्रमोदं रामं देवताः ब्रह्मप्रभृतिसुराः पूजयन्ति स्म प्राशंसन्। ऽअथ विष्णुर्महातेजाः पितामहमुवाच ह। एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥
ऽ इत्यस्य तु अयमर्थः अथ साकेतलोकप्राप्त्यनन्तरं महातेजाः विष्णुः स्वप्रकाशद्वारा सर्वत्र पूर्णः । किञ्च विपा सर्वव्यापकेन विष्णुना नूयते स्तूयते असाविति विष्णुः । विष्ण्वादिस्तुत इत्यर्थः । सञ्ज्ञापूर्वकविधेरनित्यत्वाज्जश्त्वाभावः । आगमशास्त्रस्यानित्यत्वात्तुगभावः । पितामहं साकेतस्थब्रह्माणमुवाच ऽत्यक्तात्मानश्च मत्कृतेऽ इत्यस्य त्वयमर्थः मत्कृते त्यक्तः आत्मा प्रयत्नो यैस्ते । ऽतच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सन्तानकान्नाम यास्यन्तीमे समागताः ॥ ऽ अस्यार्थः विष्णुवचनं विष्ण्वादिस्तुतरामवाक्यं श्रुत्वा उवाचेति शेषः। तद्वचनमेवाह समागताः भवद्भिः सार्धमिह प्राप्ताः सन्तानकान्साकेतान्तर्वर्तिदेशविशेषान् यास्यन्ति प्राप्स्यन्ति। क्वास्ति स लोक इत्यत आह
ऽसर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरेऽ ब्रह्मलोकात् ब्रह्मणो महाविष्णोर्लोकात् साकेतोत्तरद्वारवर्तिमहावैकुण्ठादित्यर्थः । अनन्तरे समीपे सर्वैर्निखिलैर्ब्रह्मगुणैः परमानन्दादिभिर्युक्ते स लोको ऽस्तीत्यर्थः । ऽवानराश्च स्वकां योनिमृक्षाश्चैव तथा ययुःऽ वानरा ऋक्षाश्च स्वकां योनिं स्थानं साकेतमित्यर्थः । ययुः प्रापुः रामेण सहैवेति शेषः । वानरादिषु निलीनानां देवांशानां वृत्तमाह ऽयेभ्यो विनिःसृताः सर्वे सुरेभ्यः सुरसम्भवाः । तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् ॥ ऽ सुग्रीवः
सुग्रीवनिलीनसूर्यांशः । ऽतथा ब्रुवति देवेशे गोप्रतारमुपागताःऽ एतेन साकेतस्थयोः संवादस्तैः श्रुत इति ध्वनितम् । तेन तेषां दिव्येन्द्रियप्राप्तिर्जातेति ध्वनितम् । एवमन्यविरोधाभासेष्वप्यूह्यम् । तत्रापाततो विरुद्धत्वेन प्रतिभासमानानां ऽविष्णुना सदृशो वीर्ये । विष्णोरर्धं महाभागम्ऽ इत्यादिवचनानां विशेषतस्तत्वनिर्णयाय महापातकनाशकैकवर्णघटितश्रीमद्वाल्मीकीयरामायणं व्याख्यायते । श्रुतश्रुतीनां प्राप्तमहत्सङ्गानां समातिशयरहितसत्यज्ञानानन्दस्वरूपदेशकालवस्तुपरिच्छेदशून्यसाकारनिराकारब्रह्मनियन्त्रवाङ्मनसगोचरवेदतात्पर्यगम्यसर्वेश्वरेश्वरश्रीसीतारामप्राप्तीच्छावतां तदन्वेषणशीलानां तदवबोधाय परमकारुणिकपरमरामरसास्वादनतत्परनारदब्रह्मोपदेशमवगत्य परमकारुणिक ऋषिर्वाल्मीकिर्वेदोपबृंहणभूतं रामाचरितप्रतिपादकं चतुर्विंशतिसहस्रसङ्ख्यात्मकश्लोकात्मकं श्रीमद्रामायणं प्रकटयामास । तत्र प्रथमे श्लोके गुरौ गुरुधर्मान्प्रदर्शयन्नाह
तपःस्वाध्यायनिरतमिति । यस्य ज्ञानमयं तप इत्यादिप्रामाण्येन तपसो ज्ञानस्य प्रतिपादको यः स्वाध्यायो वेद उपनिषद्भाग इत्यर्थः । तत्र निरतं नितरां रतम् । एतेन “तं त्वौपनिषदं पुरुषं पृच्छामि” इति श्रुतिगम्यविषयकपिपृच्छिषा वाल्मीकेः सूचिता । किञ्च तपो वेदः “तपो हि स्वाध्यायः” इति श्रुतेः तस्य सूः प्रादुर्भवो यस्मात्स तपस्सूर्ब्रह्मा तस्याध्या उत्कण्ठापूर्वकं स्मरणं तेनायते प्राप्नोतीति सः तपःस्वाध्यायः । साकेतनित्यविहारी रघुनाथस्तत्र निरतं तद्ध्यानपरायणमित्यर्थः । तत्र निरतं पप्रच्छेत्यनेन साकेताधीशविषयकसामान्यज्ञानवान्वाल्मीकिरिति ध्वनितम् । किञ्च तपसे तपः कारयितुं सूर्ब्रह्मकर्मकप्रेरणा यस्य स तपस्सूर्विष्णुः । प्रेरणार्थकषूधातोर्भावक्विबन्तः सूरिति निष्पन्नस्तस्याध्या उत्कण्ठापूर्वकं स्मरणं तेनायते तत्स्मृतिविषयीभवतीति तपस्स्वाध्यायः स एव तत्र निरतमित्यर्थः । किञ्च तपसः सूः तपःकर्मकब्रह्मप्रेरणा यस्मै स तपःसूः शिवः तस्याध्या तेनायते यः स एव तत्र निरतम् । किञ्च उक्तदिशा तपस्सूशब्दस्य ब्रह्मविष्णुमहेशपरत्वमवगतम् । तथा चैकशेषेण तपस्स्वां ब्रह्मविष्णुमहेश्वराणामाध्या उत्कण्ठापूर्वकं स्मरणं तेनायते स साकेताधीश एव तत्र निरतं तद्विषयकज्ञानवन्तमित्यर्थः । तपःस्वाध्याय इत्यनेन ब्रह्मविष्णुमहेश्वरोपास्यत्वमुपायान्तरागम्यत्वं च साकेताधीशस्य सूचितम् । अत एव वाग्विदां वाग्वेदितृ़णां मध्ये वरम् श्रेष्ठम् । किञ्च वाग्विद्भिर्वेदाद्यभिज्ञैर्व्रियते साकेताधीशज्ञानलाभार्थं स्वीक्रियते पूजालङ्कारादिभिरर्च्यते वासौ वाग्विदां वरस्तम् । सम्भक्तिस्वीकारान्यतरार्थकवृधातोः कर्मणि प्रत्ययः । अत एव मुनिपुङ्गवं विज्ञानिश्रेष्ठम् । ऽबुधे च पुङ्गवः श्रेष्ठे वृषभे भिषजा वरेऽ इति विश्वः । अत एव नारदं न ऋच्छति विज्ञानमन्तरा न निवर्तते इति नारमज्ञानं तद्द्यति साकेताधीशज्ञापनद्वारा निर्मूलयतीति नारदस्तम् । उक्तं च नारदीये ऽनारदो नाशयन्नेति नृणामज्ञानजं तमःऽ इति । तपस्वी साकेताधीशसामान्यज्ञानवान् वाल्मीकिर्वल्मीकगौणपुत्रः परिपप्रच्छ । गौणत्वं च बहुकालिकतपस्स्थितिहेतुकवल्मीकाकृतित्वप्राप्त्यनन्तरं वरुणकृतवृष्ट्या निष्पन्नत्वात् । अत एव वक्ष्यमाणप्राचेतसत्वव्यवहारो ऽपि न विरुद्धः प्रचेतोनिरूपितगौणपुत्रत्वस्याप्यस्मिन्सुवचत्वात् गौणपुत्रत्वयोर्विरोधाभावात् । अत एव भृगुपुत्रत्वमप्यस्मिन्न विरुद्धम् । भृगुनिरूपितमुख्यपुत्रत्वस्यास्मिन्विद्यमानत्वात् गौणपुत्रत्वमुख्यपुत्रत्वयोर्विरोधाभवात् । अत एव ऽअथाब्रवीन्महातेजा ब्रह्मा लोकपितामहः । वल्मीकप्रभवो यस्मात्तस्माद्वाल्मीकिरित्यसौ ॥ ऽ इति ब्रह्मवैवर्तवचनम्। ऽअतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्ऽ इति लवकुशोक्तिश्च। ऽऋक्षो भूद्भार्गवस्तस्माद्वाल्मीकिर्योऽभिधीयतेऽ इति विष्णुपुराणवचनं च सङ्गच्छते। अत्र तस्मादित्युत्तरान्वयि। अत एव ज्ञापकादस्य ऋक्ष इति रूढं नाम। तस्यात्रानुक्तिस्तु आत्मनाम
गुरोर्नामेत्यादिस्मृत्या ऽ ऽत्मनामग्रहणस्य निषिद्धत्वान्निषेधस्य च रूढनामविषयत्वात् । वस्तुतस्तु स्मृतौ ग्रह उच्चारणमर्थः । ज्ञानाद्यर्थत्वे निषेधस्यासम्भवापत्तिः । लेखनमात्रे च नोच्चारणमित्याद्यङ्गीकारस्तदा रामाचरितस्य दुर्लभत्वबोधनफलकस्वतपःप्रख्यापनार्थं यौगिकनामोक्तिरिति बोध्यम् । अत्र प्रथमो वर्णः गायत्रीप्रथमवर्णप्रतिनिधिभूतः । एवं प्रतिश्लोकसहस्रादिवर्णाः गायत्री द्वितीयादिवर्णप्रतिनिधिभूताः । अत एव श्रीमद्रामायणस्य गायत्रीमयत्वमिति वर्णयन्ति । तच्चिन्त्यम् । प्रतिश्लोकसहस्रादौ तादृशवर्णानामनुपलब्धेः । केषाञ्चिदुपलब्धत्वे ऽपि पदैकदेशत्वात् । अर्थवत्त्वाभावेन प्रयोजनाभावात् । वर्णमात्रघटकत्वेन गायत्रीमयत्वे निखिलपुराणेतिहासादीनां तत्त्वापत्तेः । इष्टापत्तावस्योत्कर्षत्वानापत्तेः । न च तद्वर्णमयत्वाभावे गायत्रीमयत्वानुपपत्तिः । तथात्वे वेदसम्मितत्वाभावापत्त्या ऽपुण्यं वेदैश्च सम्म्मितम्ऽ इत्यादिवचनस्यासम्भवापत्तिरिति वाच्यम् । तद्वर्णमयत्वाभावे ऽपि तदर्थवत्त्वेन तन्मयत्वस्याबाधात् । तदर्थवत्त्वे तद्वर्णमयत्वस्याहेतुत्वात् । अत एव निखिलवेदानां गायत्रीतादृशवर्णमयत्वाभावे ऽपि तदर्थवत्त्वं सङ्गच्छते । तदर्थवत्त्वं तु गायत्रीप्रतिपाद्यसवित्रन्तर्यामिपरमात्मप्रतिपाद्यत्वेन । अत एव आदित्यहृदये ऽबह्मेशानाच्युतेशायऽ लक्ष्मणप्रतिज्ञाने ऽपौरुषे चाप्रतिद्वन्द्वःऽ सुमित्रोपदेशे ऽप्रभोः प्रभुःऽ इत्याद्युक्तयः सङ्गच्छन्त इति दिक् ॥ १।१।१ ॥
प्रश्नाकारमाह कोन्वस्मिन्नित्यादिभिः । अस्मिन् लोके साम्प्रतमस्मिन्काले गुणवान् अतिशयसौशील्यादिमान् को ऽस्ति । अस्तीत्यध्याह्रियते । यत्र क्रियान्तरं न श्रूयते तत्रा ऽस्तिर्भवन्तीपरः प्रथमपुरुषो ऽप्रयुज्यमानो ऽपि प्रयुज्यते इति भाष्योक्तेरस्तेः सर्वत्र सम्बन्धो बोध्यः । तत्र भवन्तीति लटः सञ्ज्ञा । वीर्यवान् अतिशयपराक्रमवाँश्च कः । धर्मज्ञः अतिशयधर्मज्ञाता च कः । कृतज्ञः कृतं कथञ्चिज्जातोपकृतिमेव जानाति स्मरति नानन्तरजाता ऽपकृतिगणं जानातीति । कृतज्ञश्च कः वक्ष्यति च ऽकथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तयाऽ इति । सत्यवाक्यः सत्यं मृषासंसर्गरहितं वाक्यं लीलाभाषादिष्वपि यस्य स च कः । वक्ष्यति च ऽअनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचनऽ इति । दृढव्रतः एकपत्न्यादिविषयकदृढव्रतवाँश्च कः । तथा वक्ष्यति ऽअप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । नहि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ ऽ इति। अस्मिँल्लोके अस्मिन् काले इत्युक्तेः प्रकटीभूतेश्वरेश्वरविषयकोऽयं प्रश्न इति ध्वनितम्। अन्यथा ऽअयोध्यां च परित्यज्य पादमेकं न गच्छतिऽ इत्याद्युक्त्या सार्वकालिकरघुनाथस्थितेः प्रसिद्धत्वादस्मिन्काले इत्याद्युक्तेरनर्थकत्वं प्रसज्येत। सर्वत्र किंशब्दसम्बन्धेन परिगणितगुणाद्यन्यतमस्यापि रघुनाथादन्यत्रानुपलम्भत्वं बोधितम्। तेन प्रष्टुस्तद्गुणादिषु प्रीत्यतिशयो व्यक्तः ॥
१।१।२ ॥
चारित्रेणेति । चारित्रेण नित्यकुलाचारेण युक्तो नित्ययुक्तश्च कः । ऽविनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यःऽ इत्यनेन नित्यचारित्रनित्ययुक्तैतद्घटकीभूतनित्यपदलोपो ज्ञातव्यः । अन्यथा क्षणिककुलाचारक्षणिकयुक्तत्वस्य बहूनां प्रसिद्धत्वादेतत्प्रश्नस्य निरर्थकत्वापत्तिः । एतेन प्रश्नविषयीभूतस्य सर्वविलक्षणत्वं बोधितम् । सर्वभूतेष्वपराधयुक्तेष्वपि हितः प्रियकर्ता च कः । एतेन परमात्मनो युद्धादिप्रवृत्तिस्तदनुग्रहायैवेति प्रश्नकर्तुर्ज्ञानमस्तीति सूचितम् । किञ्च सर्वाणि भूतानि येभ्यः तानि तेषु ब्रह्मणीत्यर्थः । बहुत्वमादरार्थम् । हितो नियामकत्वेन प्राप्तश्च कः । गत्यर्थहिधातुप्रकृतिकनिष्ठाप्रत्ययान्तो हित इति । विद्वान्सर्वज्ञश्च कः समर्थः अघटितघटनापटीयांश्च कः । एकप्रियदर्शनः एकं प्राकृतभिन्नं प्रियं दर्शनं यस्य प्राकृतभिन्नत्वविशिष्टप्रियदर्शनविशिष्टश्च क इत्यर्थः । किञ्च एकैः प्रधानैर्ब्रह्मादिभिः प्रियत्वेन दृश्यते ऽसाविति एकप्रियदर्शनः
ब्रह्मादिप्रीतिविषयीभूतश्च क इत्यर्थः । किञ्च एकः सर्वादिभूतः स एव प्रियदर्शनः सर्वादिभूतत्वसमानाधिकरणप्रियदर्शनवाँश्च क इत्यर्थः । किञ्च एकं केवलं प्रियं दर्शनं यस्य नित्यप्रीतिविषयीभूतदर्शनविषयीभूतश्च क इत्यर्थः । किञ्च एकः साधारणः सरलस्वमाव इत्यर्थः । प्रियं दर्शनं यस्य स प्रियदर्शनः स एव स इति कर्मधारयः । सरलस्वभावत्वसमानाधिकरणप्रीतिविषयीभूतदर्शनविषयीभूतत्ववाँश्च क इत्यर्थः । किञ्च एकः सर्वत्र समबुद्धिः स एव प्रियदर्शनः सर्वत्र समत्वे सति प्रियदर्शनश्च क इत्यर्थः । किञ्च एके अल्पाः प्रियदर्शना यस्मात् अन्यत्र सर्वत्राल्पप्रियदर्शनत्वबुद्धिसम्पादकप्रियदर्शनविषयीभूतश्च क इत्यर्थः । किञ्च एकप्रियदर्शनः अद्वितीयप्रियदर्शनविषयीभूतश्च क इत्यर्थः । तथा च कोशः ऽएको ऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समाने ऽल्पसङ्ख्यायां च प्रवर्तते ॥ ऽ इति। यत्र चकारन्यूनता तत्र तदावृत्त्यान्वयो बोध्यः ॥
१।१।३ ॥
आत्मवानिति । आत्मा कथञ्चित्स्वसाम्मुख्यमात्रेण रक्षकत्वरूपः प्रशस्तः स्वभावो ऽस्यास्तीत्यात्मवाँश्च कः । किञ्च आत्मानः जीवधृतिदेहस्वभावपरमात्मानः सन्ति नियम्यत्वेनास्येति । तत्र प्रमाणम् “भीषास्माद्वातः पवते” इत्यादि । ऽकर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ॥ ऽ इत्याद्यागमः। आत्मशब्दस्य जीवादिवाचकत्वे ऽआत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म चऽ इत्यमरोऽनुसन्धेयः। अत्र वर्ष्मशब्देन लक्षणया जीवस्यापि ग्रहणम्। अत एव आत्मा द्विविधो जीवात्मा परमात्मा चेत्यादिग्रन्थाः सङ्गच्छन्ते। जितक्रोधः सापराधेष्वपि क्रोधरहितश्च कः। एतेनापराधिभ्यो दण्डदानं तच्छुद्धिहेतुकमिति ध्वनितम्। द्युनिमान् अतिशयप्रकाशवान्। सर्वेषां प्रकाशकानां प्रकाशकश्च क इत्यर्थः। “तस्य भासा सर्वमिदं विभाति” इति श्रुतिः। किञ्च अजितक्रः अधोद्युतिमानिति पदच्छेदः। अजितः ईश्वरैरपि जेतुमशक्यः क्रः कृतिर्यस्य सोऽजितक्रः। भावकप्रत्ययान्तयत्नार्थककृञ्धातुनिष्पन्नः क्र इति। अत एव अधः सर्वे द्युतिमन्तो यस्मात्तादृशश्च कः। अनसूयकः नासूया गुणेषु दोषाविष्करणं यस्य यस्मिन्वेत्यनसूयकश्च कः। शैषिके कपि “आपोऽन्यतरस्याम्” इति ह्रस्वः। असूया तु ऽदोषारोपो गुणेष्वपिऽ इत्यमरः। किञ्च अनिति पालयति सर्वमिति अनो विष्णुः पचाद्यच् तत्र सूः प्रेरणा यस्य सोऽनसूः प्रेरणार्थकसूधातोर्भावक्विबन्तः सूरिति उपलक्षणतया शिवब्रह्मविष्णुप्रेरक इत्यर्थः। उः शम्भुः यः सर्वत्र प्राप्तिमान् विष्णुः। याधातुप्रकृतिकघञर्थकप्रत्ययान्तप्रकृतिकार्शआद्यजन्तो य इति। ऽयकारस्तु प्रजापतिःऽ इत्यभिधानात्। यो ब्रह्मा च तयोरेकशेषे याविति ततः उश्च यौ च उयाः शम्भुविष्णुब्रह्माणस्तेषां कं सुखं यस्मात् स उयकः ऽकं सुखेऽपि प्रकीर्तितम्ऽ इति कोशः। शम्भुविष्ण्वादिभ्योऽपि सुखदाता अनसूश्चासौ उयकश्च अनसूयकश्च कः। जातरोषस्य कृपया शिक्षार्थं स्वीकृतकोपाभासस्य कस्य संयुगे सङ्ग्रामे देवाः चकारादन्येऽप्यसुरादयो बिभ्यति भयं प्राप्नुवन्तीत्यर्थः। कस्य संयुगे इत्यन्वयान्न किंशब्दाद्भीत्रार्थानामित्यपादानमूलकपञ्चमीप्रसक्तिः। कस्य बिभ्यतीत्यन्वये तु अपादानत्वाविवक्षया तदप्रसक्तिः सम्बन्धसामान्यविवक्षया च षष्ठी ॥
१।१।४ ॥
स्वकृतप्रश्नोत्तरस्य द्रुतं शुश्रूषया ऋषिं प्रोत्साहयन्नाह एतदित्यादिना । हे महर्षे ऋषिश्रेष्ठ यतो मे परं कौतूहलमाश्चर्यमस्ति अतो भवतः एतन्मत्प्रश्नविषयीभूततत्त्वमहं श्रोतुमिच्छामि यत एवंविधं नरमीश्वरनियन्तृदिव्यपुरुषं ज्ञातुं बोधयितुं त्वं समर्थो ऽसि । अन्तर्भावितणिजर्थः । परं कौतूहलं हि मे इत्युक्त्वा “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” इत्यादिश्रुतिबोधितवाङ्मनसगोचरातीतप्राकट्यं कथमिति हेतुर्व्यक्तः । तेन तद्वस्तुनो दुर्लभत्वं बोधितम् ॥ १।१।५ ॥
उत्तरं वर्णयितुं वृत्तमाह श्रुत्वेत्यादिना । त्रिलोकज्ञः त्रिषु ब्रह्मविष्णुमहेश्वरेषु लोको दृष्टिर्यस्य स त्रिलोकः । सर्जनाद्यर्थं तत्तत्काले तत्तदाज्ञापकसाकेताधीश इत्यर्थः । तज्जानातीति त्रिलोकज्ञो नारदो वाल्मीकेरेतदुक्तं वचः श्रुत्वा चान्नित्यविहारिसाकेताधीशमनुसन्धाय तं प्रश्नकर्तारमामन्त्र्य प्रशस्य च हृष्टः अतिहर्षविशिष्टः सन् श्रूयतामिति वाक्यमब्रवीत् । तत्तदाज्ञापक इत्यनेन साकेताधीशस्य त्रिगुणातीतत्वं ध्वनितम् । तज्जानातीत्यनेन ऋषेर्विज्ञानिश्रेष्ठत्वं व्यक्तम् । प्रहृष्ट इत्यनेन एतादृक्प्रश्नकर्तृशिष्यः परमात्मातिकृपया लभ्यत इत्यतीव भाग्यवत्ता ममेति हेतुर्ध्वनितः । तेन नासंवत्सरवासिने प्रब्रूयादिति निषेधस्यानवसरः सूचितः । अनुसन्धाय इत्यनेन तद्वस्तुनो दुर्बोधत्वं बोधितम् ॥ १।१।६ ॥
तद्वाक्यमेवाह बहव इत्यादिना । ये बहवो गुणास्त्वया कीर्तिताः पृष्टाः । चादपृष्टा अपि प्राकृतविलक्षणा एतज्जातीयका गुणास्ते दुर्लभा एव । ईश्वरनियन्तृपरमपुरुषाद्भिन्ने नैव सन्तीत्यर्थः । अत्र एकघटसत्त्वे ऽपि घटान्तराभावतात्पर्येण घटो नास्तीत्यनुभवाभावादभावीयप्रतियोगिताया सामान्यधर्मावच्छिन्नत्वनियमः । तेन गुणान्यतमस्याप्यभावः सूचितः । एकसत्त्वे ऽपि द्वयं नास्तीति न्यायस्य तु नात्रावसरस्तस्य द्वित्वादिवाचकोपात्तविषयत्वात् । यदि च ये गुणास्त्वया कीर्तितास्ते बहवो ऽन्यत्र न सन्तीत्यन्वयस्तदान्यत्रापि क्वचित्केचन सन्तीति प्रतीयते । पूर्वकल्पे ऽपि यदि जसुपात्तसङ्ख्याया विवक्षा तदा सो ऽप्युत्तरेण सम एवेति दिक् । अतो बुद्ध्वा ईश्वरनियन्तृदिव्यपुरुषं विचार्य अहं वक्ष्यामीति तैर्भवत्पृष्टापृष्टान्यावृत्तिप्राकृतविलक्षणगुणैर्युक्तो नरः एकत्वविशिष्टः प्राकृतविलक्षणपुरुषस्त्वया श्रूयताम् । बुद्ध्वा वक्ष्यामीत्यनेन पुनः पुनर्विचारादेव तद्वस्तु लभ्यत इति सूचितम् ॥ १।१।७ ॥
रघुनाथस्यैव पृष्टापृष्टतद्गुणाश्रयत्वं बोधयन्नाह इक्ष्वाकुवंशेत्यादिना । इक्ष्वाकुवंशप्रभवः इक्ष्वाकुवंशे एव प्रभवः स्वपरिकराज्ञापनपूर्वकं प्राकट्यं यस्य सः । नियतात्मा नितरां यतः प्रयत्नं प्राप्त आत्मा ईश्वरो यस्मात्सः । किञ्च नियताः तत्तत्कार्ये नियमिताः आत्मानो जीवधृतिदेहस्वभावपरमात्मानो येन सः । अत एव महावीर्यः महदीश्वरवर्तिवीर्यादप्यधिकं वीर्यं यस्य सः । अत एव द्युतिमान् ईश्वरः प्रकाशकर्ता । अत एव धृतिमान्सर्वाश्रयः । किञ्च धृतिः ईश्वरावतारधारणप्रेरणा तद्वान् । अन्तर्भावितणिजर्थः । अत एव वशी साक्षात्स्वनियम्येश्वरद्वारा च सर्ववशकर्ता । अत एव जनैरस्मदादिभिर्नित्यं श्रुतः श्रूयमाणो नाम प्रसिद्धः रामो ऽस्ति । किञ्च नामजनैः “नामरूपे व्याकरवाणि” इति श्रुतिबोधितनामरूपजनकैः परब्रह्मणा श्रुतः । स्वप्रकटितवेदवाक्यैर्नित्यं श्रूयत इत्यर्थः । बहुत्वमादरार्थम् । नाम इति रूपस्याप्युपलक्षकम् । परब्रह्मणा नित्यं श्रूयत इत्युक्तेः परब्रह्मोपास्यत्वं रघुनाथस्य सूचितम् । तेन रघुनाथगुणानामीश्वरमोहकत्वं व्यक्तम् । रामपदार्थस्तु रेण रामवाचकमहामन्त्ररूपरकारोच्चारणेन अमति आश्रितहृदये प्राप्नोतीति रामः । एतेन सौशील्यादिगुणो व्यक्तः । इदं गुणवान्क इत्यस्योत्तरम् । किञ्च रेण रकारोपलक्षितपरशुरामादिना अम्यते सेवार्थं गम्यते असाविति रामः । परशुरामादिसेव्य इत्यर्थः । तेनातिशयपराक्रमवत्त्वं सूचितम् । इदं वीर्यवान्क इत्यस्योत्तरम् । किञ्च रो दानस्य अमः इयत्ताभावो यस्य स रामः । अपरिमितदातेत्यर्थः । तेनातिशयधर्मज्ञातृत्वं बोधितम् । इदं धर्मज्ञः क इत्यस्योत्तरम् । किञ्च रमयति अभिरमयति स्वाश्रितत्वसमानाधिकरणापकारित्वविशिष्टमपीति रामः “जनीजृ़ष्क्नसुरञ्जोमन्ताश्च” इत्यत्र “वा चित्तविरागे” इत्यतो वेत्यनुवृत्तेर्मित्सञ्ज्ञाया वैकल्पिकत्वाद्ध्रस्वत्वविरहः । रम एव राम इति प्रज्ञाद्यणन्तो वा । एतेन कृतज्ञत्वं व्यक्तम् । इदं कृतज्ञः क इत्यस्योत्तरम् । किञ्च ऽसकृदेष प्रपन्नाय । अप्यहं जीवितं जह्याम्ऽ इत्यादिस्मृत्यां रमन्ते
कर्मभक्तिज्ञानयोगिनो यस्मिन्स रामः । एतेन सत्यवाक्यत्वं सूचितम् । इदं सत्यवाक्यः क इत्यस्योत्तरम् । किञ्च राः दानमेव मा लक्ष्मीर्यस्य स रामः । अनिवृत्तदातृत्ववानित्यर्थः । एतेन दृढव्रतत्वं सूचितम् । इदं दृढव्रतः क इत्यस्योत्तरम् । किञ्च राकारवाच्यां पृथिवीममति स्वीयपालनार्थं समये प्राप्नोतीति रामः । एतेन नित्यं नित्यकुलाचारयुक्तत्वं व्यञ्जितम् । इदं चारित्रेण च को युक्त इत्यस्योत्तरम् । किञ्च रयुक्तानां स्वस्वैश्वर्यविशिष्टानां विष्णुब्रह्मरुद्राणाममः पालनाद्यर्थं यथालोकं गमनं यस्मात्स रामः । विष्ण्वादिप्रेरक इत्यर्थः । एतेन सर्वभूतहितत्वं ब्रह्मणि नियामकत्वेन प्राप्तत्वं च द्योतितम् । इदं सर्वभूतेषु को हित इत्यस्योत्तरम् । किञ्च रं वह्निसूर्यादितेजः अमति सर्वलोकहितार्थं प्रकाशकत्वेन प्राप्नोतीति रामः । प्रकाशकानां प्रकाशक इत्यर्थः । अत्रार्थे “तस्य भासा सर्वमिदं विभाति” इति श्रुतिरनुग्राहिका । अत एव ऽसूर्यस्यापि भवेत्सूर्यःऽ इत्याद्यप्यनुकूलम् । एतेन सर्वज्ञत्वं व्यक्तम् । इदं सर्वज्ञः क इत्यस्योत्तरम् । किञ्च रः रेफः नित्यमुच्चार्यमाणत्वेनास्यास्तीति रः शिवः स च अश्च आश्च राः हरहरिब्रह्माणः । तैरम्यते काले सेवनार्थं गम्यते इति रामः । एतेनाघ्ाटितघटनापटीयस्त्वं सूचितम् । इदं समर्थः क इत्यस्योत्तरम् । किञ्च रेण स्वस्वैश्वर्येण युक्तौ यौ अश्च आश्च औ विष्णुब्रह्माणौ ताभ्यां तदुपलक्षितशिवेन च अम्यते मनसा सदैव प्राप्यत इति रामः । वस्तुतस्तु दीर्घाकारः शम्भोरपि वाचक इति नोपलक्षणप्रयोजनम् । एतेन विष्ण्वादिप्रियदर्शनत्वं व्यञ्जितम् । तेन यदि विष्ण्वादिप्रियदर्शनत्वं तर्हि अन्याप्रियदर्शनत्वं किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः । इदमेकप्रियदर्शनः क इत्यस्योत्तरम् । किञ्च राम् राक्षसत्वमपि अमयति स्वसाम्मुख्यमात्रेण दूरीकरोतीति रामः । एतेन स्वसाम्मुख्यमात्रेण रक्षकत्वं जीवादिनियामकत्वं च व्यक्तम् । इदमात्मवान् क इत्यस्योत्तरम् । किञ्च रौ भूमिराजानाविव अम्यते क्षमया अनवगाह्यहृदयत्वेन च प्रतीयते असाविति रामः । एतेन जितक्रोधत्वम् अजितक्रत्वं च व्यक्तम् । इदं जितक्रोधः कः अजितक्रः क इत्यनयोरुत्तरम् । किञ्च रस्य वाच्यो यो ऽमः न मीयते देशकालवस्तुभिः परिच्छिद्यते असाविति रामः । देशकालवस्तुपरिच्छेदशून्यप्रकाशवानित्यर्थः । एतेन द्युतिमत्त्वमधोद्युतिमत्त्वं च व्यक्तम् । इदं द्युतिमान् अधोद्युतिमान् क इत्यस्योत्तरम् । किञ्च रस्य धनस्य अमः अनियन्ता यस्य स रामः । अपरिमितैश्वर्य इत्यर्थः । एतेन विष्ण्वाद्यैश्वर्यमेतदायत्तमेवेति ध्वनितम् । तेन विष्ण्वादिसुखदातृत्वं विष्ण्वादिप्रेरकत्वमसूयारहितत्वं च ध्वनितम् । इदमनसूयकः क इत्यस्योत्तरम् । किञ्च राणि देवादिराजादिहृदयानि अमयति क्रोधाभाससमये प्रकम्पयतीति रामः । एतेन देवादिभयहेतुत्वं ध्वनितम् । इदं कस्य बिभ्यति देवाश्चेत्यस्योत्तरम् । पृष्टषोडशसङ्ख्याकगुणानामुत्तरं षोडशसङ्ख्याकरामपदार्थैर्बोधयित्वा अपृष्टगुणानपि कांश्चिद्बोधयन्नर्थान्तरत्रयमाह । किञ्च रैरिन्द्रियैः अ अमः न प्रप्तिरस्येति रामः । वाङ्मनसगोचरातीत इत्यर्थः । वाङ्मनसगोचरातीतत्वोक्त्या वेदतात्पर्यविषयीभूतत्वं रघुनाथस्य व्यक्तम् । तेन तत्कृपयैव स लभ्यत इति सूचितम् । तथा च श्रुतिः “यमेवैष वृणुते तेन लभ्यः” इति । तेन तस्य कर्मालभ्यत्वं ध्वनितम् । तत्रार्थे श्रुतिः “न कर्मणा न प्रजया धनेन” इत्यादिः । किञ्च रावाच्यायाः पृथिव्याः अमः प्राप्तिर्यस्याः सा रामा सीता सास्ति नित्यमस्येति रामः । नित्यं सीतासंयुक्त इत्यर्थः । एतेन सीतारामयोः प्राकृतविलक्षणस्नेहाश्रयत्वं सूचितम् । तेन तस्य संयुक्तोपास्यत्वं व्यक्तम् । किञ्च रैर्महाराजाधिराजैः अम्यते प्राकट्यसमये सेवार्थं गम्यत इति रामः । तेन सर्वलोकस्वामित्वं व्यक्तम् । तेन श्रेयस्कामै राम एवाश्रयणीय इत्यादेयं वस्तु व्यक्तमिति दिक् । अत्रापरिमितवाचकामशब्दस्तु माधातुप्रकृतिककप्रत्ययान्तेन नञ्समासात्सिद्धः । रकारस्य रामादिवाचकत्वं ऽरश्च रामे ऽनिले वह्नौ भूमावपि धने ऽपि च । इन्द्रिये धनरोधे च भूपे रश्च प्रकीतिर्तः ॥ ऽ इत्येकाक्षरः प्रमाणम्।
अकाराकारयोर्विष्णुब्रह्मवाचकत्वे ऽअकारो वासुदेवः स्यादाकारस्तु पितामहःऽ इत्यादिना स एव । राशब्दस्य राक्षसवाचकत्वे “स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः । राक्षसा येन मरणं यान्ति” इत्यादिरामतापिन्युक्तश्रुतिः प्रमाणम् । ऽविनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यःऽ इत्यनेन नित्यं श्रुत इत्येतद्घटकीभूतनित्यशब्दलोपः । यद्यपि पृष्टापृष्टगुणा रामपदेनैव बोधितास्तथापि स्पष्टतस्तत्तद्गुणप्रतिपत्त्यर्थं विशेषणान्तरोपादानम् । तत्र इक्ष्वाकुवंशप्रभव इत्यनेन चारित्रेण च को युक्त इत्यस्योत्तरम् । एवं यथासम्भवमूह्यम् ॥ १।१।८ ॥
बुद्धिमानिति । बुद्धिमान् अतिशयबुद्धिविशिष्ट इत्यर्थः । तद्बुद्धावतिशयत्वं च ब्रह्मविष्ण्वादिबुद्धिप्रवृत्तिहेतुत्वेन । इदमेव “यः सर्वज्ञः स सर्ववित्” इति श्रुत्योक्तम् । अत एव नीतिमान् ब्रह्मादिभ्यो ऽपि नीतिशिक्षक इत्यर्थः । अत्रार्थे श्रुतिः “धाता यथापूर्वमकल्पयत् । एष सेतुर्विधारणः । एषां लोकानामसम्भेदाय” इत्यादिः । वाग्मी अतिशयवचनवान् । तद्वचनस्यातिशयत्वं च ब्रह्मादिमोहकत्वेन । श्रीमान् श्रियः ईर्लक्ष्मीस्वामिनी सीतेत्यर्थः । तद्वान् नित्यं तद्युक्त इत्यर्थः । शत्रुनिबर्हणः शत्रून्स्वाश्रितजनापकारिणो निबर्हयति साक्षाद्विष्ण्वादिद्वारा च दूरीकरोति अपकारित्वधर्मं निवर्त्तयतीति शत्रुनिबर्हणः । “एष भूतपतिरेष भूतपालः” इत्यादिश्रुतिरेतदर्थबोधिका । शरीरलक्षणत्वेनापि सर्वविलक्षणत्वं रघुनाथस्य द्योतयञ्छरीरलक्षणान्याह विपुलांस इत्यादिना । सार्द्धश्लोकद्वयेन । विपुलौ मांसलोन्नतौ अंसौ स्कन्धौ यस्य स विपुलांसः । महापुरुष इत्यर्थः । अत एवोन्नतस्कन्धवत्त्वं च महापुरुषलक्षणमिति सामुद्रिके उक्तम् । ऽस्कन्धो भुजशिरोंसःऽ इति कोशः । एतेनान्यत्रापि यदीदं लक्षणमवलोक्यते तदा तत्रैतदंशविशेष इत्यूहनीयम् । ऽपौरुषे चाप्रतिद्वन्द्वश्शरैनं जहि रावणिम्ऽ इत्यादि वक्ष्यमाणेनात्रैव महापुरुषत्वस्य पर्यवसन्नत्वात् । अत एव ऽकक्षः कुक्षिश्च वक्षश्च घ्राणस्कन्धौ ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नतास्ते सुखप्रदाःऽ इत्याद्यप्यनुकूलम् । महाबाहुः महान्तौ मांसलौ बाहू यस्य सः । अत एवाजानुबाहुरित्यनेन न पौनरुक्त्यम् । कम्बुग्रीवः कम्बुतुल्या रेखात्रयविशिष्टा ग्रीवा यस्य सः । महाहनुः महत्यौ पुष्टे हनू कपोलोपरिभागौ यस्य सः ॥ १।१।९ ॥
महोरस्क इति । महद्विशालत्वादिना प्रशंसनीयमुरो यस्य सः । अत एव स्थिरं विशालं कठिनमुन्नतं मांसलं समम् । ऽवक्षो यस्य महीपालस्तत्समो वा भवेन्नरःऽ इत्यादिनैतस्य सुलक्षणत्वमुक्तम् । पीनवक्षा इत्यनेन तु न पौनरुक्त्यम् । आदिशब्देन पीनत्वातिरिक्तानां ग्रहणात् । पीनशब्दस्य मांसलार्थकत्वात् । महेष्वासः महान्सर्वपूज्यः इष्वासो धनुर्यस्य सः । गूढजत्रुः गूढे मांसलत्वेन निमग्ने जत्रुणी अंसद्वयमध्यवर्तिसक्थिनी यस्य सः । अयं जत्रुशब्दार्थः ऽस्कन्धो भुजशिरोंसो ऽस्त्री सन्धी तस्यैव जत्रुणीऽ इत्यमरादवगन्तव्यः । अरिन्दमः अरिन्दमा रेखा यस्य सः । अत एव लक्षणप्रतिपादकेभ्यो नास्य वैरूप्यम् । नापि शत्रुनिबर्हण इत्यनेन पौनरुक्त्यम् । आजानुबाहुः जानुपर्यन्तदीर्घबाहुः । सुशिराः शोभनं समवृत्तं छत्राकारं च शिरो यस्य सः । अस्य सुलक्षणत्वम् ऽसमवृत्तशिराश्चैव छत्राकारशिरास्तथा । एकछत्रां महीं भुक्ते दीर्घमायुश्च जीवति ॥ ऽ इत्यादिनोक्तम्। सुललाटः सुष्ठु अर्द्धचन्द्रनिभं ललाटं यस्य सः। इदमपि लक्षणम् ऽअर्द्धचन्द्रनिभं तुङ्गं ललाटं यस्य स प्रभुःऽ इत्यादिनोक्तम्। सुविक्रमः शोभनस्सिंहवृषभगजव्याघ्रपादन्यासतुल्यः विक्रमः पादविक्षेपो यस्य सः। एतल्लक्षणं तु ऽसिंहर्षभगजव्याघ्रगतयो मनुजा मुने। सर्वत्र सुखमेधन्ते सर्वत्र जयिनस्सदा ॥
ऽ इति जगद्वल्लभायां व्याख्यातम् ॥ १।१।१० ॥
सम इति । समः अतिह्रस्वातिदीर्घत्वाभाववान् । सुलक्षणप्रतिपादकशास्त्रोक्तोन्नतत्वविशिष्ट इत्यर्थः । इदमपि लक्षणम् ऽषण्णवत्यङ्गुलोत्सेधस्सार्वभौमो भवेन्नृपःऽ इत्यादिनोक्तम् । समविभक्ताङ्गः समानि न्यूनाधिकपरिमाणशून्यानि विभक्तानि अमीलितान्यङ्गानि करचरणादीनि यस्य सः । इदमपि
लक्षणम् ऽभ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुके । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी ॥ करौ पादौ च सुस्फीतौ यस्य स्तः स तु भूपतिः ।ऽ इत्यादिनोक्तम् । स्निग्धवर्णः स्नेहयुक्तो वर्णश्श्यामलो यस्य सः । इदमपि लक्षणम् ऽस्निग्धेन्द्रनीलवर्णस्तु भोगं विन्दति पुष्कलम्ऽ इत्यादिना प्रतिपादितम् । प्रतापवान् परमतेजस्वी । अत एव नास्य प्रकरणाद्वैरूप्यम् । पीनवक्षाः पीनं मांसलं वक्षो यस्य सः । विशालाक्षः विशाले पद्मपत्रायिते अक्षिणी यस्य सः । “बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्” इति षच् । इदमपि लक्षणं सामुद्रिके ऽरक्तान्तैः पद्मपत्राभैर्लोचनैस्सुखभोगिनःऽ इत्यनेन प्रतिपादितम् । अत एव लक्ष्मीवान्सर्वावयवशोभासम्पन्नः शुभलक्षणः शुभानि अनुक्तान्यपि लक्षणानि यस्य सः ॥ १।१।११ ॥
धर्मज्ञ इति । धम्र्मज्ञः धर्म्मम् शरणागतरक्षणादिरीतिम् । स्वीकृतो न त्याज्य इत्याद्याकारिकां जानातीति सः । वक्ष्यति च ऽमित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चनऽ इत्यादिना । अत एव सत्यसन्धः सत्या सन्धा प्रतिज्ञा यस्य सः । वक्ष्यत्येतत् ऽअप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । नहि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ ऽ इत्यादिना सन्धाशब्दस्य प्रतिज्ञापरता ऽप्रतिज्ञाने वधे सन्धाऽ इति वैजयन्ती कोशादवगन्तव्या। प्रजानां जनानां हिते स्वलोकप्राप्तये एव रतः प्रकटक्रीडाकारकः। अत एव वक्ष्यमाणेन रक्षिता जीवलोकस्येत्यनेन न गतार्थता। चशब्द एवार्थे। हितशब्दः प्राप्त्यर्थकहिधातुप्रकृतिकभावक्विबन्तः। अत एव यशस्वी नित्यं निरतिशयातिशययशोविशिष्टः। ज्ञानसम्पन्नः ज्ञानेन अहमनन्यगतिः रघुनाथ एवागतिकगतिरित्याकारकेण सम्पद्यते प्राप्नोतीति क्तप्रत्ययोपस्थितभूतत्वस्याविवक्षा। सम्पूर्वकपदः प्राप्त्यर्थकत्वं सम्पद्यते। विधिवशात्खलु कोपि काल इत्यादौ प्रसिद्धम्। अत एव शुचिः अतिपावनहेतुः। वश्यः पित्राचार्यादिषु विनीतः स्वाश्रिततन्त्रो वा। अत एव ऽअहं भक्तपराधीनःऽ इत्यादि सङ्गच्छते। अत एव समाधिमान् आश्रितपालनविषयकविचारविशिष्टः ॥
१।१।१२ ॥
प्रजापती । प्रजापतिसमः प्रजापतीनां प्रजानियन्तृ़णां ब्रह्मादीनां समः प्रजापालनादिषु समत्वमेकाकारवर्त्तनं यस्मात्सः । भावप्रधानो निर्द्देशः । श्रीमान् नित्यं विभूतिधारी अग्निहोत्रीति यावत् । अत्र ऽश्रीर्वेशरचना शोभा भारती सरलद्रुमे । लक्ष्म्यां त्रिवर्गसम्पत्तिविद्योपकरणेषु च ॥ विभूतौ च मतौ च स्त्री स्रुः स्त्रियां निर्भरे स्रवे ।ऽ इति मेदिनी प्रमाणम् । ऽभूतिर्भस्मनि सम्पदिऽ इत्यपि । अत एव धाता वेदोक्तकर्मकारी । अत एव रिपुनिषूदनः रिपून्वेदद्रुहो निषूदयति तद्दोग्धृत्वं निवर्त्तयतीति सुषामादित्वात्षत्वम् । अत एव जीवलोकस्य रक्षिता जीवन्ति प्राणधारणं कुर्वन्तीति जीवा मनुष्यादयः । जीवयन्ति प्राणधारणं कारयन्ति जीवा ईश्वराः ते च ते चेत्येकशेषः । लोकाः भुवनानि तेषां समाहारः जीवलोकं तस्य रक्षिता पालकः । अत एव धर्मस्य परिरक्षिता तत्तद्धर्मप्रवर्त्तक इत्यर्थः ॥ १।१।१३ ॥
रक्षितेति । स्वस्य धर्मस्य प्रवर्तकत्वरूपमहाराजाधिराजत्वस्य परिरक्षिता नित्यं स्वीकर्त्ता । अत एव स्वजनस्यापि रक्षिता परिरक्षिता । यस्मिन्सर्व्वरक्षकत्वं तस्मिन्स्वजनरक्षकत्वं सिद्धमेवेति । पुनः स्वजनरक्षकत्वप्रतिपादनं गोबलीवर्दन्यायेन विशिष्टबोधनाय । अत एव वेदवेदाङ्गतत्वज्ञः वेदानामृग्यजुस्सामाथर्वणाम् अङ्गानां ऽशिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दो विचितिरित्येतैः षडङ्गो वेद उच्यते ॥ ऽ इत्यत्रोक्तानां तत्त्वं जानातीति सः। पाठतोऽर्थतश्च निखिलज्ञातेत्यर्थः। धनुर्वेदे च निष्ठितः धनुर्वेदे शस्त्रास्त्रप्रतिपादकशास्त्रे निष्ठितः। परमज्ञातेत्यर्थः ॥
१।१।१४ ॥
सर्वेति । सर्वशास्त्रार्थतत्वज्ञः रूढियोगवृत्त्या
शास्त्रशब्दप्रतिपादितसाङ्ख्ययोगतर्कपूर्वोत्तरमीमांसास्मृत्याद्यर्थतत्त्वाभिज्ञः । वेदाङ्गानां पृथगुपादानं तन्महत्वद्योतनाय । स्मृतिमान् अधीतवेदादिविस्मरणरहितः । प्रतिभानवान् प्रतिभानं शृता ऽश्रुतोभयोचितार्थस्य झटिति स्फूर्तिस्तद्वान् । अत एव सर्वलोकप्रियः सर्वेषां लोकानां जनानां प्रियः । ऽलोकस्तु भुवने जनेऽ इति कोशः । साधुः मृदुमधुरस्वभावः । अदीनात्मा न कदाचिद्दीनः आत्मा स्वभावो यस्य सः । नित्यक्षत्रियत्वादित्यर्थः । विचक्षणः लौकिकालौकिकक्रियाकुशलः ॥ १।१।१५ ॥
अत एव सद्भिर्वसिष्ठादिभिः सर्वदाभिगतः नित्यं प्राप्तः । तत्र दृष्टान्तमाह सिन्धुभिर्नदीभिस्समुद्र इव । सिन्धुर्ना सरिति स्त्रियाम् इति कोशः । आर्यः ईश्वरेश्वरो ऽपि सर्वसमः पित्राचार्यादिमत्त्वेन लोकसदृश एव । अत एव वसिष्ठादिशिष्यत्वादि राघवस्य सङ्गच्छते । एतेन रघुनाथस्य परमदयालुत्वातिशयस्सूच्यते । चो ऽप्यर्थे । अत एव सदैव नित्यमेव प्रियं दर्शनं यस्य सः । प्रतिक्षणमनुभूतो ऽपि अननुभूत इव लक्ष्यत इत्यर्थः । अत एव ऽतदेव रूपं रमणीयतायाः क्षणे क्षणे यन्नवतामुपैतिऽ इत्युक्तम् । एतेन रघुनाथस्य विलक्षणसौन्दर्यातिशयस्सूचितः ॥ १।१।१६ ॥
इदानीं “न तत्समश्चाभ्यधिकश्च दृश्यते” इति श्रुत्या ऽसमो न विद्यते यस्य विशिष्टः कुत एव हिऽ इति स्मृत्या च वास्तवरघुनाथोपमानाभावे ऽपि वस्तुनो दुरवगाहत्वाद्बालान्बोधयितुमिषुवत्सविता गच्छतीतिवत्तद्गुणांशांशसदृशगुणवतः उपमानत्वानर्हानपि तद्गुणसदृशगुणवन्तमीश्वरमपि उपमानत्वेन प्रकल्प्याह स चेत्यादिना सार्द्धश्लोकद्वयेन । अस्मिन्पक्षे ऽर्थस्स्पष्ट एव । यद्वा तद्गुणलेशगुणानामन्यत्रापि प्रतीयमानत्वात्तत्तदुपमानत्वेन रघुनाथं वर्णयन्नाह स चेत्यादिना । सर्वगुणोपेतः सर्वैरुक्तवक्ष्यमाणैर्गुणैरुपेतो युक्तः कौसल्यानन्दवर्द्धनः कोसलस्य दक्षिणकोसलाधिपतेरपत्त्यं स्त्री कौसल्या “वृद्धेत्कोसलाजादाञ्ञ्यङ्” इति ञ्यङ् । ञ्यङ्प्रत्ययान्ताच्चाप् । तस्या आनन्दं वर्धयति सः । प्रतिक्षणमद्भुतमातृनवानन्ददातेत्यर्थः । किञ्च कौसल्याया आनन्दो यस्मात् स कौसल्यानन्दो दशरथस्तं कौसल्या च आनन्दस्तदानन्दकर्त्ता दशरथश्च कौसल्यानन्दौ तौ वा यशःप्रख्यापनेन प्रतिक्षणं विलक्षणप्रमोददानेन च वर्द्धयतीति सः । असदृशः वास्तवसादृश्यप्रतियोगित्वानुयोगित्वानाक्रान्त । अत्रार्थे श्रुतिस्मृती “न तत्समश्चाभ्यधिकश्च दृश्यते” । ऽसमो न विद्यते यस्य विशिष्टः कुत एव हिऽ इति असदृशपदावृत्त्या बहुव्रीहितत्पुरुषोभयाश्रयणादयमर्थो लब्धः । वीर्ये सोमवत्प्रियदर्शनः वीर्येण स्वस्वप्रभावेण युक्ताः इः कामः ईर्लक्ष्मीः सोमः उमासहितश्शिवो ऽस्त्याधारत्वेनास्येति सोमवान् चन्द्रश्च ते प्रियदर्शना यस्मात्सः । ऽवीर्यं शुक्रे च शक्तौ च वीर्यं तेजःप्रभावयोःऽ इति हैमः । ऽइकारः कथ्यते कामोः लक्ष्मीरीकार उच्यतेऽ इत्येकाक्षरः । एतेन प्रियदर्शनत्वेन प्रसिद्धाः कामलक्ष्मीचन्द्रमसः यत्प्रसादात्प्रियदर्शनास्तस्य प्रियदर्शनत्वं किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः । किञ्च वीर्यस्य शुक्रहेतुभूतकामस्य ईर्भस्मत्वप्राप्तिर्यस्मात्स एव सोमवाँश्चन्द्रशेखरः तस्य प्रियं तृप्तिकारकं दर्शनं यस्य । यद्दर्शनमन्तरा शिवस्यापि न तृप्तिरित्यर्थः । क्रोधे भक्तापकारिदोषापनयनहेतुभूते क्रोधाभासे कालाग्निः सदृशो यस्य । क्षमया पृथिवी समा यस्य । त्यागे धनदश्चासौ इनो राजा च धनदेनो रन्तिदेवः कुबेरो वा समो यस्य तादृशः । यो विष्णुना विष्णुः स्वप्रकाशद्वारा व्यापक एव ना नराकृतिः परमपुरुषो रघुनाथस्स इव । गाम्भीर्य्ये समुद्रः । रघुनाथनिष्ठगाम्भीर्यांशांशसदृशगाम्भीर्यवान्समुद्रो लक्ष्यत इत्यर्थः । स एव धैर्य्येण हिमवान् । तन्निष्ठधैर्य्यांशांशसदृशधैर्य्यवान् हिमवाँश्च लक्ष्यत इत्यर्थः । सत्ये स इव । अपर उत्कृष्टो धर्मो लक्ष्यत इत्यर्थः । यद्वा । सर्वगुणोपेतः उक्तवक्ष्यमाणगुणयुक्तः । अत एव विष्णुर्न आसमन्ताद्भावेन सदृशो यस्येत्यर्थः । नैकधेत्यादिवत्समासः । कौसल्यानन्दवर्द्धनः । वीर्ये सोमवत्प्रियदर्शनो रघुनाथः क्रोधे
कालाग्निसदृशः क्षमया पृथिवीसमः त्यागे धनदेन समः वर्ण्यते । कविभिरिति शेषः । स्वस्ववाक्यावनार्थमिति भावः । स इव गाम्भीर्ये समुद्रः स इव धैर्येण हिमवान्स इव सत्ये ऽपरोधर्मः वर्ण्यत इत्यर्थः । अत्र पक्षे अव्याख्यातार्थपदस्य पूर्वव्याख्यातार्थो बोध्यः । कौसल्यानन्दवर्द्धन इत्यनेन जनकादधिको पुत्रानन्दो मातरीति ध्वनितम् । एतेन ऽविष्णोरर्द्धं महाभागम्ऽ इत्यादौ रघुनाथस्य विष्णोरर्द्धत्वोक्त्या तत्सदृश्यं रामे सुवचमिति भूषणोक्तं व्याख्यानं निरस्तम् । ऽसूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुःऽ इत्यादिना विरोधात् । न च विष्णुर्न आसमन्ताद्भावेन सदृशो यस्येति बहुव्रीहिस्वीकारे विष्णोरर्द्धं महाभागमिति विरुध्येतेति वाच्यम् । तत्रार्द्धशब्दस्य वर्द्धकपरत्वात् । अर्द्धयतीत्यर्द्ध इति व्युत्पतेः । पचाद्यच् । विष्ण्वैश्वर्यावतारादीनां रघुनाथायत्तत्वाद्वामनादिस्वरूपस्य रघुनाथप्रेरणावर्द्ध्यत्वाच्च वर्द्धकत्वं सुवचमेव । अत एव ऽसर्वेषामवताराणामवतारी रघूत्तमःऽ इत्यादि सङ्गच्छते । अत एव सूर्यास्यापीत्यादिना न विरोधः । किञ्चात्रार्द्धशब्दस्य समांशवाचकत्वे वाक्यार्थ एव दुरुपपादस्स्यात् । तथा हि नहि विष्णोस्स्वरूपे समांशविभागो युक्तः । विष्णोरपि द्विभुजत्वापत्तेः शक्तिविशेषेण द्विभुजत्वाभावे ऽप्यनित्यत्वप्रसङ्गात् । वचनप्रामाण्येनानित्यत्वाभावे ऽपि तद्विवक्षिताधिकत्वस्य विष्णौ दुरुपपादत्वाच्च । नह्यधिकभुजादिकं शक्त्याधिक्ये नियामकम् । कार्तवीर्यार्जुनस्य सहस्रभुजत्त्वे ऽपि चतुर्भुजविष्ण्वपेक्षया शक्त्याधिक्यस्य कार्त्तवीर्यार्जुने ऽश्रुतत्वात् । नाप्यैश्वर्यादौ समांशविभागो युज्यते । तदैश्वर्यादेरपरिमेयत्वात् । नह्यनन्तपदार्थे समप्रविभागं कर्तुं कश्चिच्छक्नोति । अत एव नह्याकाशं कश्चिदर्द्धत्वेन विभजते नापि खण्डवाचकत्वमनित्यत्वप्रसङ्गात् अखण्डप्रतिपादकश्रुतिविरोधाच्च । अन्यतरस्याधिकत्वे मानाभावेनान्यतरस्यैवोपमानत्वमित्यत्र विनिगमकाभावाच्च । अर्द्धस्य महाभागविशेषितत्वे रघुनाथस्यैवाधिकत्वेन्यविवक्षितोपमानत्वस्य विष्णौ भङ्गाच्च । अतो वर्द्धकपर एव अर्द्धशब्दस्य समांशखण्डयोः रूढ्या यौगिकार्थस्य बाधादयमर्थो न युक्त इति तु न भ्रमितव्यम् । प्रत्ययादिभेदेन श्ाब्दभेदात् । अत एव “कप्यासं पुण्डरीकमेवमक्षिणी पुरुषः” इत्यादौ कपिशब्दस्य वानरे रूढत्वे ऽपि सूर्यपरत्वं रामानुजाचार्यैर्व्याख्यातम् । पुनर्भूशब्दस्य ऽपुनर्भूर्दिधिषूरूढाऽ इत्यादिना द्विर्विवाहितायां रूढत्वे ऽपि ऽपुनर्भूर्यौगिकः पुंसिऽ इति दीक्षितैरुक्तम् । “रुजार्थानाम्भाववचनानामज्वरेः” इति सूत्रे वचनशब्दस्य वाचि रूढत्वे ऽपि कर्तृपरत्वमाश्रित्य भावकर्तृकाणामित्यर्थस्सम्पादितो महाभाष्यादौ । बृहदारण्यकश्रुतौ पञ्चमे ऽध्याये नवमब्राह्मणे जनकसभागतयाज्ञवल्क्यशाकल्यसंवादे “कतमो ऽध्यर्द्धः” इति प्रश्ने “योयं पवते” इत्युक्तम् । “कथमध्यर्द्धः” इति प्रश्ने “यदस्मिन्निदँ सर्व्वमध्यार्ध्नोत्” इत्युत्तरम् । तत्रार्द्धशब्दस्य वर्द्धकपरत्वम् । विष्णुशब्दस्य पायसपरत्वे विष्णोरर्द्धमित्यादौ विष्णुशब्देन वस्तुतो नारायणस्यानुपस्थानात्तत्प्रतियोगिकसादृश्यानुयोगिकत्वं रामे युक्तम् । विष्णोरर्द्धमित्युक्तेरिति भूषणकारोक्तेरसम्भवाच्च । विष्णोरीश्वरत्वेनेश्वरस्येश्वरान्तराप्रसिद्धिरित्यपि न भ्रमितव्यम् । “तमीश्वराणां परमं महेश्वरम्” इत्यादिश्रुतिषु ईश्वरान्तरस्य प्रसिद्धत्वादिति दिक् । सार्द्धश्लोकद्वयमेकान्वयि ॥ १।१।१७,१८ ॥
बालकाण्डोक्तं सूचयित्वा ऽयोध्याकाण्डवृत्तमाह तमेवमित्यादिना । सत्यपराक्रमम् अमोघवीर्यं प्रियं सर्वप्रीतिविषयीभूतं जेष्ठं पूर्वप्रादुभूतं श्रेष्ठगुणैर्युक्तम् । श्रेष्ठे ज्येष्ठे ये ऽनुचिताः गुणा वात्सल्यादयस्तैर्युक्तम् । प्रकृतीनाम्प्रजानां हितैर्हितफलकोपदेशैर्युक्तम् । एवं सर्वगुणसम्पन्नं तं सुतं स्वपुत्रं रामं प्रकृतिप्रियकाम्यया प्रजाकल्याणेच्छया महीपतिः अप्रतिहतचक्रो राजाधिराजो दशरथः प्रीत्या अतिप्रेम्णा यौवराज्येन संयोक्तुमैच्छत् । दशरथशब्दार्थस्तु दशसु दिक्षु अप्रतिहतो रथो यस्य सः । अर्द्धचतुष्टयमेकान्वयि ॥ १।१।१९,२० ॥
तस्येति । अथा ऽनन्तरं पूर्वं शम्बरासुरविजयकाले सारथ्यकरणेन राजप्रसादसमये राज्ञा दत्तवरा दत्तो वरो यस्यै सा देवी केकयी भार्या अभिषेकसम्भारान् वेदोक्तदध्यादिसामग्रीर्दृष्ट्वा मन्थरावाक्यादवगत्य रामस्य विवासनं भरतस्याभिषेचनं च एनं वरं भूपतिमयाचत । दृशिर्ज्ञानसामान्ये । केकेयी शब्दार्थस्तु केकयस्य केकयजनपदाधिपतेः कन्या केकयी “पुंयोगादाख्यायाम्” इति ङीष् । तत्र योगशब्देनाविशेषाज्जन्यजनकभावो ऽपि गृह्यते । प्रसिद्धश्च केकयीशब्दः “प्राक्केकयीतो भरतस्ततोभूत्” इत्यादिना भट्टिकाव्यादौ जनपदशब्दादित्यञि टिढ्ढेति ङीपि तु कैकेयीति स्यात् । “तद्धितेष्वचाम्” इति वृद्धेः । “केकयमित्रयुप्रलयानां यादेरियः” इतीयादेशाश्च । “अतश्च” इति लुक् तु न । “न प्राच्यभर्गादि” इति निषेधात् । प्रसिद्धश्च कैकेयीशब्दो ऽपि कैकेयिकामाः फलितास्तवेतयदौ रघुकाव्ये वक्ष्यते च । अत्रापि बहुशः स्थले कैकयीशब्दस्यापि प्रामाणिकत्वे इयादेशविधायके विकल्पानुवृत्तिरनुसर्त्तव्या । अनुसृता च कैश्चित् । किञ्च कं सुखमेव एकं कवलं कैकन्तद्याति देवादीन् प्रापयतीति कैकयी । गौरादित्वं प्रज्ञादित्त्वं वा कल्प्यमिति दिक् । सार्द्धश्लोक एकान्वयी ॥ १।१।२१,२२ ॥
स इति । धर्मस्य पः पालनं तस्य आशो व्याप्तिस्तेन संयुतः । धार्मिकशिरोमणिरित्यर्थः । स राजा महाराजाधिराजो दशरथः सत्यवचनात्सत्या ऽयोध्या राजधान्यस्त्यस्येति सत्यो रघुनाथस्तस्मिन्यद्वचनं ब्रह्मप्रार्थनास्वीकारसूचकवाक्यं तस्माद्धेतोः प्रियं सुतं रामं विवासयामास । एतेनारण्यगमनमन्तराब्रह्मप्रार्थनास्वीकारसिद्धिर्न स्यादिति हेतुर्व्यक्तः । तेन महाराजाधिराजस्य ब्रह्मप्रार्थनादिविज्ञातृत्वं परमदयालुत्वं च रघुनाथसुखसुखित्वं च व्यक्तम् । तेन महाराजदशरथवदेव वर्त्तितव्यमित्युपदेशो व्यञ्जितः । एतदर्थविवक्षयैव धर्मपाशेन बन्धितस्सम्बद्धो वेति नोक्तम् । अत एव धर्मपाशेन संयुत इत्यनेन सत्यवचनादित्यस्य न गतार्थत्वम् । एतेन सत्यवचनादित्यस्य विरुद्धमर्थं प्रकल्प्य दशरथो न मुक्त इति भूषणकारवचनमाकाशमनवकाशमितिवद्ध्येयम् । न च कालवशानुग इत्यादिवक्ष्यमाणायोध्याकाण्डवाक्येन रघुनाथानुचरेषु कालवशत्वाभावसम्पादनात् प्राकृतेषु कालवशत्वाभावस्यासम्भवेन रघुनाथानुचराणां प्राकृतविलक्षणत्वप्रतिपादनेन विरोधाच्च ॥ १।१।२३ ॥
स इति । केकय्याः प्रिये विवासने यत्कारणं ब्रह्मप्रार्थनास्वीकारसिद्ध्या भवितव्यम् । तस्माज्जातात्पितुर्वचननिर्द्देशाद्धेतोः प्रतिज्ञां स्वकृतप्रतिश्रवमनुपालयन्स वीरो रामो वनं जगाम ॥ १।१।२४ ॥
तमिति । भ्रातुर्दयितः नित्यं भ्रातृनिष्ठप्रीतिविषयः प्रियः नित्यं रामविषयकप्रीतिमान् अत एव विनयसम्पन्नस्सुमित्रानन्दवर्द्धनो भ्राता लक्ष्मणः सौभ्रात्रम् सुभ्रातृत्वम् । वियोगासहिष्णुत्वसूचकचेष्टादीत्यर्थः । अनुदर्शयन्नाचरन् व्रजन्तं तं भ्रातरं रामं स्नेहादनुजगाम । ह इति महत्सुप्रसिद्धम् । सुमित्त्रानन्दवर्द्धनः कौशल्यानन्दवर्द्धनवद्व्याख्येयः । सुमित्त्राशब्दार्थस्तु सुमिदं रामविषयकातिस्नेहं त्रायते पालयति नित्यं नवन्नवं संवर्द्धयतीत्यर्थः । मिदशब्दोभावक्विबन्तः । त्रशब्दः कर्तृकप्रत्ययान्तः । सार्द्धश्लोक एकान्वयी ॥ १।१।२५ ॥
रामस्येति । प्राणसमा प्राणसदृशी दयिता प्रिया हिता प्रियकरी किञ्च प्राणवत्समाहिता रघुनाथेन नित्यं स्वीकृता जनकस्य कुले जाता प्रादुर्भूता सर्वलक्षणसम्पन्नेत्यादिविशेषणचतुष्टयविशिष्टा सीतेव निर्मिता प्रकटिता देवमायाविष्ण्ववतारभूतमोहिनीत्यर्थः । देवमायाशब्दार्थस्तु देवानां मा आयुर्बलादिसम्पत्तिस्तां यात्यमृतदानद्वारा प्रापयति सा । अन्तर्भावितणिजर्थो यातिः । किञ्च निर्गतं मितमियत्ता यस्यास्सा देवस्य परमात्मनो मायाकृपेव अपिरिमितपरमात्मदयालुतैव ततो निश्चित्य प्रादुर्भूतेवेत्यर्थः । अत एव
नारीणां सर्वैर्लक्षणैस्सामुद्रिकोक्तशुभसूचकसकललक्षणैः सम्पन्ना । नित्यं संयुक्तेत्यर्थः । अत एवोत्तमा ब्रह्माण्यादितो ऽपि श्रेष्ठा । अत एव वधूः रघुनाथमनोहारिणीत्यर्थः । सीता रामस्य भार्या राममनुगता अन्वगच्छत् । तत्र दृष्टान्तः शशिनं चन्द्रमसं यथा रोहिणी चन्द्रस्यासाधारणस्त्री । अनेनोपमालङ्कारेण यथा चन्द्रः संयुक्तसुखप्रदः वियुक्तदुःखप्रदः तथा रघुनाथो ऽपि धर्मसंयुक्तसुखप्रदः धर्मवियुक्तदुःखप्रदः प्रतीत इत्युपमालङ्कृतिर्व्यञ्जिता । तेन रघुनाथस्य सर्वसमत्वं ध्वनितम् । अत्राप्युपमानोपमेयभाव इषुवत्सविता गच्छतीतिवत् । किञ्च राममनुगता सीता शशिनं रोहिणी इव अनुगतेत्यर्थः । वधूशब्दः लुप्ताकारकावपूर्वककम्पनार्थकधूप्रकृतिकक्विबन्तः । ऽमाया दम्भे कृपायां चऽ इति कोशान्मायाशब्दः कृपापरः । अपिर्हेतौ । अर्द्धचतुष्टयमेकान्वयि ॥ १।१।२६,२७ ॥
पौरैरिति । पौरैः पुरोद्भवैर्बालवृद्धादिभिरपि दशरथेन पित्रा च दूरं स्वस्वोचितादधिकमनुगतः । द्रुतं पुनः सम्मेलनेच्छया अल्पानुगमने कर्तव्ये दूरानुगमनेन तेषां प्रीत्यतिशयो ध्वनितः । धर्मात्मा परमधर्मप्रवर्त्तकः रघुनाथः शृङ्गवेरपुरे जातं प्रियं परमप्रीतिमन्तं निषादाधिपतिं गुहं गङ्गाकूले आसाद्य सम्प्राप्य सूतं रथेन स्वप्रापणार्थमागतं सुमन्त्रं व्यसर्ज्जयत् । स रथं परावर्त्तयदित्यर्थः । शृङ्गवेरशब्दार्थस्तु शृङ्गं वाति अवयवत्वेन प्राप्नोतीति शृङ्गवाः शृङ्ग्यृषिः यस्य ईरः प्राप्तिर्यस्मिन्तत् शृङ्गवेरम् । किञ्च शृङ्गाणि सन्ति येषां ते शृङ्गाः मृगाः पर्वता वा । अर्शआद्यच् । तैस्सह तेषु वा अवेरन्नित्यं प्राप्तिर्यस्य स एव ऋषिः तस्य पुरं तद्विवाहे लब्धपत्तनमिति यावत् । अवेत्युपसर्गाकारलोपः । अयं पाठो मदसम्मतः । भूषणकारसम्मतशृङ्गिवेरेति पाठे “अत इनिठनौ” इति इन्प्रत्ययः । एतेन तद्देशस्यातिपवित्रत्वं सूचितम् । तत्र जातमित्यनेन शृङ्ग्यृषेस्सेवको ऽयमिति ध्वनितम् । तेन स रघुनाथकृपाधिकारीति सूचितम् । गुहशब्दार्थस्तु गूहति परमात्मप्रेम्णा श्रेष्ठानप्याच्छादयतीति गुहः । रघुनाथविषयकपरमप्रीतिमानित्यर्थः । इगुपधलक्षणः कः । सार्द्धश्लोक एकान्वयी ॥ १।१।२८,२९ ॥
सूतविसर्जनानन्तरकालिकं रामवृत्तमाह गुहेनेत्यादिना । गुहेन लक्ष्मणेन च सीतया च सहितो रामः अवनेन अवनी पृथ्वी एवास्त्याधारत्वेन यस्मिन्गमने तेन पादत्राणादिरहितसञ्चारेणेत्यर्थः । किञ्च तेवनेन लीलया वनं गङ्गाजलसमीपं गत्वा प्राप्य अतिष्ठदिति शेषः । अत्र प्रथमपक्षे ते इति तत्रान्वयि अमृतस्वरूपे इति तदर्थः । ऽतश्चौरामृतपुच्छेषु क्रोडे म्लेच्छे च कुत्रचित्ऽ इति मेदिनी । चकार उभयान्वयी । तेवनेनेति देवनार्थकतेवृधातुप्रकृतिकल्युडन्तत्वेन सिद्धम् । यद्वा । स रामः गुहादिनैव सह वनं गङ्गाजलसमीपं हितः चलित आसीदिति शेषः । हित इति गत्यर्थकहिप्रकृतिकनिष्ठान्तम् । “विनापि तद्योगं तृतीया” इति सिद्धान्तः । देवगन्धर्वसङ्काशाः देवादिप्रकाशकास्ते त्रयः सीतारामलक्ष्मणाः बहूदकाः अगाधजलाः नदीः गङ्गां तीर्त्वा । बहुत्वमादरार्थम् । भरद्वाजस्य शासनात् भरद्वाजशिक्षातः चित्रकूटमनुप्राप्य द्रुतं सङ्गम्य तत्र चित्रकूटे रम्यमावसथं पर्णशालां कृत्वा रममाणाः विहरन्तः सन्तः सुखं न्यवसन् । देवगन्धर्वसङ्काशा इत्यनेन रामस्याटवीगमनमात्रेणास्मदरयो निहतप्राया इति देवादिनिश्चयः सूचितः । सार्द्धश्लोकद्वयं सम्मिलितान्वयि ॥ १।१।३०,३१ ॥
रामगमनौत्तरकालिकायोध्यावृत्तमाह चित्रकूटमित्यादिना । रामे चित्रकूटं तथा उक्तप्रकारेण गते प्राप्ते सति पुत्रशोकातुरः प्रकटितपुत्रवियोगजनितशोकाक्रान्तः राजा दशरथः सुतं विलपन् ऽहा सुतऽ इति विलापं कुर्वन्स्वर्गं स्वः स्वर्गे गीयते नित्यं प्रशस्यते ऽसौ स्वर्गः । अप्रकटायोध्यापरपर्यायसाकेतलोकस्तज्जगाम । स्वर्शब्दस्य स्वर्गवाचकत्वं स्वरिति स्वर्गे परलोके चेत्यादिना मनोरमादौ स्पष्टम् । अर्द्धद्वयमेकान्वयि । एव मुत्तरत्रापि ॥ १।१।३२ ॥
गत इति । तस्मिन्महाराजदशरथे गते अप्रकटसाकेतं प्राप्ते सति वशिष्ठप्रमुखैर्वशिष्ठाद्यैर्द्विजै राज्याय राज्यं कर्तुं नियुज्यमानो ऽपि महाबलो भरतः राज्यं न्नैच्छत् । एतेन भरतस्य परमसुभ्रातृत्वं बोधितम् । राज्यायात्र चतुर्थी “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति सूत्रविहिता । तुशब्दोप्यर्थे । मृत इति पाठस्तु सन्दर्भाशुद्ध्या न च कालवशानुग इत्यनेन विरोधाच्च न ऋषिप्रणीत इति प्रतीयते । सत्वे तु तस्मिन् प्रसिद्धे दशरथे मृते लोकान्तरं प्राप्ते सतीत्यर्थः । मृत इति आचारक्विबन्तप्रकृतिककर्त्रजन्तप्रकृतिकसप्तम्यन्तम् । किञ्च मृते मकारवाच्येषु जीवजातेषु ऋतः कृपा यस्य तस्मिन् लोककृपामूलकरामप्रेषणहेतुकसाकेतलोकप्राप्तिमति सतीत्यर्थः । मकारस्य जीववाचकत्वे प्रकाणम् “पञ्चविंशोयमात्मा” इति श्रुतिः । अत एव प्रणवार्थव्याख्याने ऽअकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृन्मकारार्थो जीवस्तदुपकरणं वैष्णवमितिऽ रामानुजाचार्यैर्व्याख्यातम् ॥ १।१।३३ ॥
दिदृक्षुः दृशिर्ज्ञानसामान्ये । स इति । रामपादप्रसादकः रामस्य पादौ प्रसादयति सः । किञ्च रामपादप्रसादादेव कं सुखं यस्य स वीरो भरतः वनं रामाधिष्ठितचित्रकूटारण्यं जगाम । रामपादप्रसादक इत्यनेन रघुनाथाङ्गानां चेतनत्वं भरतस्य प्रेमाधिक्यं च सूचितम् । तदङ्गानां चेतनत्वप्रतिपादिका “आनन्दरूपममृतं यद्विभाति तदा प्रणखादानन्दमेव सच्चिदानन्दात्मको भगवान् सच्चिदानन्दात्मिकास्य व्यक्तिः” इत्यादिः श्रुतिः । अर्द्धं पृथक् ॥ १।१।३४ ॥
गत्वेति । आर्ये रामे भावः परप्रीतिः पुरस्कृता प्रकटीकृता येन । किञ्च आर्यस्य भावः अतिचिन्तनं पुरस्कृतं येन स भरतः । सत्यपराक्रमम् अमोघवीर्यवन्तं महात्मानं महान्तः सर्वपराः आत्मानो धृत्यादयो यस्य तं भ्रातरं रामं गत्वा प्राप्य रामम् उक्तविशेषणविशिष्टमयाचदेव । अत्र रामविशेषणानामावृत्तिर्बोध्याः । यद्वा रामस्य मा परमसम्पत्तिः सीता तस्यामार्यभावः श्रेष्ठत्वं पुरस्कृतं येन स भरतः । सत्यपराक्रमं सत्यपरान्सत्यवक्तृ़नाक्रमते प्राप्नोति स तम् । मह