तव स्नेहान्मयि सौहृदात्सुहृद्भावान्मामनुमान्य संमान्य ससंभ्रमो गन्तुं सत्वरो ऽहमुत्तरं कार्यं प्रति पुनः पुनरुक्तः ॥ ५।६८।१ ॥
यथा मां प्राप्नुयात्तथा यतस्वेति शेषः ॥ ५।६८।२,३ ॥
एकदिनवासफलमाह– मम चेति । तव सांनिध्यादल्पभाग्याया ममास्य महतः शोकविपाकस्य शोकरूपस्य पापफलस्य मुहूर्तं मोक्षणं स्यादित्यन्वयः ॥ ५।६८।४ ॥
पुनरागमनाय प्रतिक्षमाणाया मम प्राणानामपि सन्देहः स्यादिति योजना ॥ ५।६८।५,६ ॥
उत्तरकार्यविषयामुक्तिमाह अयं चेति । असंशयो बाधकसंशयरहितः ॥ ५।६८।७ ॥
सन्देहमेवाह कथं न्विति ॥ ५।६८।८१० ॥
यद्यपि त्वमेव पर्याप्तः । सकलराक्षसवधपूर्वं मन्मोचन इति शेषः । तथापीदृशो बलोदयस्तवैव यशस्यो यशोवर्धकः स्यात् ॥ ५।६८।११ ॥
यदि तु रामो रावणं हत्वा मां नयेत्, तदा तन्नयनं तस्य यशस्करं स्यात् । अतस्तेनैवागत्य मोचनं युक्तमिति भावः ॥ ५।६८।१२ ॥
उपधिना छलेन ॥ ५।६८।१३,१४ ॥
यथा तस्यानुरूपं विक्रान्तं भवति तथा त्वमेवोपपादय ॥ ५।६८।१५ ॥
शेषं शिष्टम् ॥ ५।६८।१६२२ ॥
मन्युर्दैन्यम् ॥ ५।६८।२३२८ ॥
पूर्वमुक्तया मदुक्त्या श्रुतेन त्वच्छोकेनातिपीडिताप्यदीनभाषिणी सा मया शिवाभिर्वाग्भिरभिप्रसादिता शान्तिं दुःखनिवृत्तिमुवाह । प्रापेत्यर्थः ॥ ५।६८।२९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे ऽष्टषष्टितमः सर्गः ॥ ५।६८ ॥
इति श्रीवाल्मीकिरामायणे सुन्दरकाण्डं समाप्तम् ।