एवमिति ॥ ५।६७।१ ॥
यथातथं यथापूर्वं वृत्तं तथोक्तवती ॥ ५।६७।२७ ॥
रादितम् । दारितमित्यर्थः ॥ ५।६७।८,९ ॥
धरान्तरगतः पातालस्थः ॥ ५।६७।१० ॥
व्यधा अकृथाः ॥ ५।६७।११ ॥
दर्भसंस्तरादेकं कुशं गृह्य गृहीत्वेत्यर्थः ॥ ५।६७।१२ ॥
चिक्षेप चिक्षेपिथ । आर्षः प्रयोगः ॥ ५।६७।१३१५ ॥
परिपालयः पर्यपालयः । शरीरावधेनेति भावः । इत्येवेति हेतोः ॥ ५।६७।१६ ॥
ततस्तदागमनोत्तरम् । हिनस्ति स्माहिनः ॥ ५।६७।१७१९ ॥
हे राम रणे तव त्वां प्रति समासितुं न शक्तास्तथा तद्वत् काकवदित्यर्थः । संभ्रमं आदरः ॥ ५।६७।२०२४ ॥
त्वच्छोकविमुखस्त्वच्छोकेन कार्यान्तरविमुखः ॥ ५।६७।२५ ॥
भवती मया दृष्टा । अतः परं परिशोचितुं न कालस्तव योग्य इति शेषः । चिरं लङ्कायामासितुं न कालो योग्य इति पाठान्तरे ऽर्थः ॥ ५।६७।२६ ॥
इदं मुहूर्तम् । अस्मिन्नेव मुहूर्ते इत्यर्थः ॥ ५।६७।२७२९ ॥
वेण्युद्ग्रथनं वेण्यामुद्ग्रथनयोग्यम् ॥ ५।६७।३०,३१ ॥
त्वरे त्वरावाञ्जात इत्यर्थः ॥ ५।६७।३२ ॥
विवर्धमानम् । समुद्रतरणायेति शेषः ॥ ५।६७।३३३८ ॥
कालेनोपनिपीडिता । परायत्तेति शेषः ॥ ५।६७।३९४४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तषष्टितमः सर्गः ॥ ५।६७ ॥