०६६ राम-हनुमत्संवादः

एवमिति ॥ ५।६६।१,२ ॥

वत्सस्यत्यत्रापि दर्शनादिति संबध्यते । तथा स्नेहात्स्रवतीत्यनुकर्षः ॥ ५।६६।३ ॥

मे श्वशुरेण जनकेन वधूकाले वधूत्वसंपादके काले विवाहकाले वैदेह्याः शिरोभूषणाय सीतामातृहस्ताद्गृहीत्वा दशरथहस्ते दत्तम् । तच्च तस्मिन्काले यथाधिकं शोभते तथा मूर्ध्नि बद्धमित्यर्थः ॥ ५।६६।४ ॥

जनकस्याप्येतदागमः कुतस्तत्राह– अयं हीति । प्रवरैः श्रष्ठैर्देवैः पूजितः ॥ ५।६६।५ ॥

तथा यथा सीतादर्शनमवगतः प्राप्तस्तथा तातस्य दशरथस्य प्राप्तः तद्धस्ते जनकेन दानात्तस्य स्मरणम् तथा वैदेहस्य राज्ञो जनकस्य सपत्नीकस्य दर्शनं प्राप्त इत्यर्थः ॥ ५।६६।६,७ ॥

परासुं मूर्च्छितं मां जीवनाय वाक्यवारिणा सिञ्जन्ती सीता किमाह पुनः पुनर्ब्रूहि तद्वचनमिति शेषः ॥ ५।६६।८ ॥

वैदेहीं विना आगतं मणिं पश्यामि, इतः किं दुःखतरम् ॥ ५।६६।९ ॥

यदि मासं धरिष्यति जीविष्यति तदा चिरं जीवति जीविष्यतीत्यर्थः । तां विना यथाहं न जीवेयं तथा मां विना सापि न जीविष्यतीत्यर्थः ॥ ५।६६।१० ॥

प्रवृत्तिमुपलभ्य क्षणमपि न तिष्ठेयम् । स्थातुं न शक्यमित्यर्थः ॥ ५।६६।११ ॥

भीरुभीरुरत्यन्तं भीरुः ॥ ५।६६।१२ ॥

अम्बुदैरावृतस्तिमिरोन्मुक्तः शारदश्चन्द्र इव तस्या वदनं न राजति ॥ ५।६६।१३ ॥

एतेन तद्वाक्यश्रवणरूपेण ॥ ५।६६।१४ ॥

मधुरा मधुराकारा ॥ ५।६६।१५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षट्षष्टितमः सर्गः ॥ ५।६६ ॥