तत इति ॥ ५।६५।१,२ ॥
नियमो रावणकृतावधिरूपः । “दशमो वर्तते मासो द्वौ तु शेषौ प्लवङ्गम” इति सीतोक्तेः । तं चेति शेषः ॥ ५।६५।३ ॥
रामसंनिधौ । स्थिता इति शेषः ॥ ५।६५।४,५ ॥
चोदयन्ति प्रेरयन्ति स्म ॥ ५।६५।६ ॥
सीतायै प्रणम्य तां दिशं प्रति च प्रणम्येत्याकर्षः ॥ ५।६५।७ ॥
यथा येन प्रकारेण सीताया दर्शनं जातं तत्परं वाक्यमुवाचेत्यर्थः ॥ ५।६५।८,९ ॥
देव्या दिदृक्षया तां मार्गमाणो ऽगच्छम् ॥ ५।६५।१० ॥
तीरे दक्षिणसमुद्रसंबन्धिद्वीपसंनद्धतीरे ॥ ५।६५।११ ॥
हे राम, रामा सा सीता त्वयि मनोरथं सम्यङ् न्यस्य त्वदतिरिक्तविषयमनोरथाभाववती भूत्वा जीवन्ती धृतप्राणा मया दृष्टा ॥ ५।६५।१२ ॥
सुखोचिता देवी त्वया विना दुःखमापद्यते इत्यन्वयः ॥ ५।६५।१३,१४ ॥
अधःशय्या भूशयना ॥ ५।६५।१५,१६ ॥
सर्वमर्थं रामसुग्रीवसख्यादि दर्शिता ज्ञापिता ॥ ५।६५।१७ ॥
नियत इति । समुदाचारो गोत्रास्खलनादिव्यवहारो भक्तिश्च त्वय्येव सदा नियतः । नान्यत्रेत्यर्थः ॥ ५।६५।१८ ॥
उग्रेण तपसा त्वद्भक्त्या च युक्ता ॥ ५।६५।१९,२० ॥
यथा दृष्टं राक्षसीतर्जनादि तद्विज्ञाप्येत्यन्वयः ॥ ५।६५।२१ ॥
उपशृण्वतः सुग्रीवस्य समक्षं दातव्य इत्यब्रवीदिति शेषः ॥ ५।६५।२२ ॥
एष इति । दत्तस्तं पश्य । यन्मनःशीलायास्तिलकं त्वया कृतं तत्स्मरस्वेति चाब्रवीत् ॥ ५।६५।२३ ॥
एष वारिसंभवो मणिर्निर्यातितः प्रेषितः एनमेतत्त्वत्प्रेषितमङ्गुलीयकम् ॥ ५।६५।२४ ॥
मासात् । विद्यमानाद्दशमादूर्ध्वमित्यर्थः ॥ ५।६५।२५,२६ ॥
सन्तारः सन्तारोपायः । प्रविधीयतां प्रविचार्यताम् ॥ ५।६५।२७,२८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चशष्टितमः सर्गः ॥ ५।६५ ॥