०६४ रामेण सीतान्वेषणश्लाघनम्

सुग्रीवेणेति ॥ ५।६४।१३ ॥

विमदत्वसूचकम्– मेहमानान्मधूदकमिति । मेहमानान्मूत्रयतः । मधुपरिणामभूतमुदकं मधूदकम् । एवं मूत्रणान्मधूनां जीर्णता बोधिता, अत एव विमदान् ॥ ५।६४।४,५ ॥

एभी रक्षिभिरज्ञानात्क्रोधाच्च भवन्तः प्रतिषेधिता इति यदेतत्परिवारणं प्रति रोषो न कर्तव्य इत्यर्थः ॥ ५।६४।६,७ ॥

रोषः कृतः । मदीयैरिति शेषः ॥ ५।६४।८ ॥

तथा सुग्रीवस्त्वमपि त्वं च हरीश्वरः ॥ ५।६४।९१२ ॥

शङ्के दधिमुखस्य परावृत्यागमनात् ॥ ५।६४।१३ ॥

किं चायं हर्षादाख्याति । सुग्रीवसन्देशमिति शेषः । तेन च हेतुना जानामि रामेण श्रुतो ऽयं वृत्तान्त इति । तत्तस्मादकार्ये वनविध्वंसनरूपे कृते सतीह स्थातुं नो ऽस्माकं न क्षमं न युक्तम् ॥ ५।६४।१४ ॥

किं शेषम् । न किमपि शिष्टमित्यर्थः । गमनम् । उचितमिति शेषः ॥ ५।६४।१५ ॥

कर्तव्ये कर्तव्ये ऽर्थे । भवद्भिः परवानहम् भवदधीन इत्यर्थः ॥ ५।६४।१६ ॥

यद्यप्यहं युवराजो ऽस्मि युष्मानाज्ञापयितुं नेशश्च । तत्र हेतुः– कृतकर्माणो यूयम् कृतकर्मणो युष्मानित्यर्थ आर्षमिदम् । तथाप्यतः परं बलाद्धर्षयितुं न युक्तम् ॥ ५।६४।१७,१८ ॥

अहम् । प्रभुरिति शेषः ॥ ५।६४।१९ ॥

सन्नतिर्विनयः भविष्यच्छुभयोग्यतां भाविनीं भाग्योन्नतिम् आख्याति सूचयति ॥ ५।६४।२० ॥

अत्र देशे प्राप्ता वयं यत्र सुग्रीवस्तत्र गन्तुं कृतक्षणाः कृतोत्साहाः ॥ ५।६४।२१,२२ ॥

महाबलास्ते गच्छाम इत्युक्त्वा खमुत्पेतुरित्यन्वयः ॥ ५।६४।२३ ॥

तत्र क्रममाह– उत्पतन्तमिति । निराकाशं निरवकाशम् । यन्त्रेत्यादिना दूरोत्पातेन शीघ्रगमनं सूचितम् ॥ ५।६४।२४ ॥

सहसोत्पत्य वातेरिता घना इव विनदन्तः जग्मुरिति शेषः । शीघ्रगत्या सादृश्यम् ॥ ५।६४।२५ ॥

समनुप्राप्ते निकटमागते सुग्रीवो राममुवाचेत्यन्वयः ॥ ५।६४।२६,२७ ॥

दृष्टत्वे हेतुः– नेति । अङ्गदप्रहर्षश्च हेत्वन्तरम् ॥ ५।६४।२८ ॥

विनिपातिते ऽसाधिते ॥ ५।६४।२९ ॥

यद्यपीति । अकृतकृत्यानामन्येषां वानराणां कपिस्वभावचाञ्चल्यादीदृशमधुवनभङ्गादिरूप उपक्रमो व्यापारो यद्यपि स्यात्तथाप्यङ्गदो दीनवदनत्वादिगुणको भवेत् ॥ ५।६४।३० ॥

कुतस्तत्राह– पितृपैतामहं पितृपितामहक्रमागतम् ॥ ५।६४।३१ ॥

कौसल्या सुप्रजाः । सीतास्थितिपरिज्ञानेन भवतो जीवनलाभादिदानीं कौसल्या

सुपुत्रवत्यभूदिति भावः । तत्रापि हनूमतैव न तु ततो ऽन्येनेत्यर्थः ॥ ५।६४।३२ ॥

अस्य कर्मणः साधने तद्विधो हेतुरपरो न भवेन्नास्ति । इह हनूमत्येतत्कार्यसाधिका सिद्धिर्बह्मवरजन्या मतिश्चास्ति । हि यतः । व्यवसाय उद्यमः नेता प्रधानः ॥ ५।६४।३३,३४ ॥

अधिष्ठाता कार्यकरणोद्योगवान् ॥ ५।६४।३५ ॥

यदाहि । यत इत्यर्थः ॥ ५।६४।३६३८ ॥

आयताञ्चितलाङ्गूल इति स्वभावोक्त्यलङ्कारः ॥ ५।६४।३९४१ ॥

नियतां पातिव्रत्यसंपन्नाम् अक्षतां शरीरेण कुशलिनीम् ॥ ५।६४।४२४५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥ ५।६४ ॥