तत इति ॥ ५।६३।१,२ ॥
किंसंभ्रमात्कस्य भयात् इहागतो ऽसीति शेषः । यत्कृत्स्नं हितं तद्ब्रूहि, यतस्त्वं सर्वमुचितमनुचितं च वक्तुमर्हसि ॥ ५।६३।३,४ ॥
नैव निसृष्टपूर्वं वानरेभ्यो यथेच्छभोगाय कदापि नानुज्ञातम् ॥ ५।६३।५,६ ॥
एभिर्हनुमदाद्यैः प्रधर्षणायामारब्धायां वनपालकैर्वारितम्, ममापि । अपिनेतरान्पालकानचिन्तयन्नचिन्तयन्तः ॥ ५।६३।७ ॥
भ्रुकुटिं वक्रे भ्रुवौ ॥ ५।६३।८ ॥
इमे मदीयाः संरब्धतरा निवारणायातियत्नवन्तः ॥ ५।६३।९१२ ॥
विज्ञाप्यमानं दधिमुखेनेति शेषः ॥ ५।६३।१३१६ ॥
यद्यथा वनमभिपन्ना नाशयितुं प्रवृत्ताः ॥ ५।६३।१७ ॥
वारयन्तः हेतौ शता वारणाद्धेतोर्जानुभिराहताः पालाः प्राप्ताः ॥ ५।६३।१८ ॥
देवी दृष्टेत्यत्र न सन्देहः । तत्राप्यन्येन न, किं तु हनूमतेत्यर्थः ॥ ५।६३।१९ ॥
अन्यः हनूमतो ऽन्य इत्यर्थः । हरिपुङ्गवे हनूमति कार्यसिद्धिर्मतिश्च ॥ ५।६३।२०२३ ॥
उपयुक्तं भुक्तम् ॥ ५।६३।२४,२५ ॥
यथा मधु पिबन्ति तथा सीता दृष्टेत्यन्वयः ॥ ५।६३।२६ ॥
दत्तवरं वरत्वेन देवैरस्माकं दत्तम् ॥ ५।६३।२७,२८ ॥
एकः सुग्रीवशब्दः शोभनग्रीवपरः ॥ ५।६३।२९ ॥
कृतकर्मभिः साधितकृत्यैः ॥ ५।६३।३०,३१ ॥
तान्द्रष्टुमिच्छामि सीताधिगमे तत्प्राप्तौ कृतं प्रयत्नं च श्रोतुमिच्छामि ॥ ५।६३।३२ ॥
अथ सुग्रीवः स्वोद्योगसाफल्यदर्शनाद्भृशं ननन्देत्याह– प्रीतीति । प्रीत्या सन्तोषेण स्फीताक्षौ विकसितनेत्रौ । संप्रहृष्टौ पुलकितगात्रौ सिद्धार्थाविव दृष्ट्वा संप्रहृष्टैः पुलकितैरङ्गैरुपलक्षितः कार्यसिद्धिं बाह्वोरासन्नां हस्तप्राप्तामिव विदित्वा ननन्द ॥ ५।६३।३३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रिषष्टितमः सर्गः ॥ ५।६३ ॥