०६२ दधिमुखेन किष्किन्धानिवर्तनम्

पुनरुक्तमेव विस्तरेणाह– तानिति ॥ ५।६२।१ ॥

आवर्जयिष्यामि निवारयिष्यामि ॥ ५।६२।२,३ ॥

ईदृशमेतन्मात्रार्थकम् ॥ ५।६२।४,५ ॥

यत्र मधुवनं यत्र मार्गे गमनेन मधुवनं प्राप्यते तेन मार्गेण जग्मुः ॥ ५।६२।६ ॥

ते पटवो हनूमांश्च मैथिलीं दृष्ट्वा ऽन्ये तन्मुखात्तां लङ्कास्थां श्रुत्वा महत्कार्यकरणेन भयराहित्यादतिसर्गादङ्गदानुज्ञानान्मधुवनं प्रविष्टाः पालान्बलादाक्रम्य बद्धा मधु पपू रसवत्फलं चाददुः, भक्षणार्थमिति शेषः ॥ ५।६२।७ ॥

मधुवने सक्ता भक्षणार्थं लग्नाः ॥ ५।६२।८,९ ॥

अपविद्ध्यन्ति प्रक्षिपन्ति मधूनि ते । मधुपटलानि ॥ ५।६२।१०,११ ॥

उन्मत्तवेगा उन्मत्तानां वेगो येषां ते । यद्धा ऽतिशयितवेगा इत्यर्थः ॥ ५।६२।१२,१३ ॥

इतरद्रोदनम् ॥ ५।६२।१४ ॥

केचिदन्यत्कृत्वान्यद्वदन्ति । केचिदुक्तवचनार्थं विद्यमानं परित्यज्यान्यमेव बुध्यन्ते ॥ ५।६२।१५ ॥

प्रतिषिद्धास्ताडनादिना निरस्ताः । जानुभिः प्रघृष्टा जानुषु गृहीत्वा आकृष्टाः । देवमार्गमपानद्वारमिति तीर्थः । देवमार्गं दर्शिताः पादौ गृहीत्वोर्ध्वं प्रक्षिप्ता इत्यर्थः । कर्णावङ्गुलीभिर्धृत्वोर्ध्वीकृता इति वार्थ इत्यन्ये ॥ ५।६२।१६,१७ ॥

तान्स्वसंबन्धिनः पालान् ॥ ५।६२।१८ ॥

एतागच्छत अग्रे इति शेषः । गच्छामः वयमप्यागच्छाम इत्यर्थः ॥ ५।६२।१९,२० ॥

सर्वे ते च । समभ्यधावन्निति शेषः ॥ ५।६२।२१,२२ ॥

हरयः पालाः । हरीन्हनुमदादीन् ॥ ५।६२।२३२५ ॥

आर्यकः सुग्रीवमातुलत्वात्पूज्यः ॥ ५।६२।२६२८ ॥

भर्ता राजा ॥ ५।६२।२९३२ ॥

नृपाज्ञापरिपन्थिनस्तदाज्ञाविरुद्धकर्तारः । अमर्षप्रभवो ऽक्षमाजन्यः ॥ ५।६२।३३३५ ॥

समप्रतिष्ठां समतलाम् । जगतीं भूमिम् । दृष्ट्वेत्यनुकर्षः ॥ ५।६२।३६,३७ ॥

तौ सर्ववानरपूज्यौ चरणावित्यन्वयः ॥ ५।६२।३८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ५।६२ ॥