तस्येति ॥ ५।६०।१७ ॥
दृष्ट्वा देवी नानीता इति तत्र रामसमीपे निवेदितुं न युक्तमिव पश्यामि ॥ ५।६०।८ ॥
तुल्यः अस्तीति शेषः ॥ ५।६०।९,१० ॥
अन्यत्कर्तव्यं किमस्ति काकुरत्र अपि तु जानकीग्रहणपूर्वकगमनादन्यन्न किमपीत्यर्थः ॥ ५।६०।११ ॥
न्यस्याम स्थापयाम । तान्सर्वान्किष्किन्धायामागतान्वानरान्व्यलीकैरप्रियैर्दुःखै योजयित्वेति शेषः । तथा कृत्वा फलमिति शेषः । “किं परिक्लेश्य तान्” इति पाठान्तरम् ॥ ५।६०।१२१४ ॥
नैषा बुद्धिः युक्तेति शेषः । तत्र हेतुमाह– विचेतुमिति ॥ ५।६०।१५ ॥
प्रथमं जय एव दुर्लभः, कथञ्चिज्जये ऽपि यदि न रोचयेत्तदा कार्यनाश इति भावः ॥ ५।६०।१६ ॥
अरुचौ हेतुः– कुलं व्यपदिशन्निति, प्रतिज्ञायेति च । अग्रतः कपिमुख्यानामित्यन्वयः ॥ ५।६०।१७ ॥
अरुचौ फलवैपरीत्यं दर्शयति– विफलमिति ॥ ५।६०।१८ ॥
अस्य कार्यस्य निवेदने मतिं कृत्वेति शेषः ॥ ५।६०।१९ ॥
अथ जाम्बवानङ्गदक्रोधपरिहाराय तन्मतं बहुमान्य सुहृद्भावेन निवर्तयति– न तावदिति । हे राजपुत्र यथा भवान्पश्यति विचारयति एषा मतिर्नो ऽस्माकमक्षमा न, किंतु युक्तैव । यथा रामस्य मतिर्निविष्टा ऽवस्थिता तथा कार्यसिद्धिं भवान्पश्यत्वित्यर्थः ॥ ५।६०।२० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षष्टितमः सर्गः ॥ ५।६० ॥
अगृह्णन्त युक्तियुक्तत्वेनामन्यन्त ॥ ५।६१।१ ॥
पुप्लुवुः प्लवन्तो जग्मुः ॥ ५।६१।२ ॥
आकाशं छादयन्त इवेत्युत्प्रेक्षा ॥ ५।६१।३ ॥
सभाज्यमानं पूज्यमानम् । भूतैः सिद्धादिभिः । दृष्टिभिर्वहन्त इव प्रीतिपूर्वकानिमिषदर्शनाद्दृष्टीनां वाहकत्वोत्प्रेक्षा ॥ ५।६१।४ ॥
राघवे कार्यनिर्वृत्तिं कार्यसिद्धिं समाधाय निश्चित्य तस्यात्मनश्च परमं यशः कर्तुं च निश्चित्य पुप्लुवुरिति संबन्धः । कर्मसिद्धिभिः सीतादर्शनलङ्कादहनकर्मभिरुन्नता उन्नतचित्ताः ॥ ५।६१।५ ॥
रामप्रतीकारे रामकर्तव्ये रावणप्रतीकारे निश्चितार्थाः अभूवन्निति शेषः ॥ ५।६१।६ ॥
वनं सुग्रीवस्य मधुवनम् ॥ ५।६१।७,८ ॥
दधिमुखस्तन्नामा ॥ ५।६१।९ ॥
परमोत्कटास्तत्रत्यमधुपानादावत्युत्कटोत्कण्ठावन्तः । महावनाख्यं वनमित्यर्थः ॥ ५।६१।१० ॥
मधुपिङ्गला मधुपिङ्गलवर्णाः ॥ ५।६१।११ ॥
अनुमान्य कृतानुमतिकान्कृत्वा । निसर्गमाज्ञाम् ॥ ५।६१।१२ ॥
निसृष्टाः कृतज्ञाः ॥ ५।६१।१३ ॥
भक्षयन्तः अभक्षयन्नित्यर्थः ॥ ५।६१।१४ ॥
अनुमता मधुपानादौ, कृतानुमतिकाः । हर्षमुदोर्बाह्याभ्यन्तरत्वकृतो भेदः ॥ ५।६१।१५ ॥
तत्र बाह्यमानन्दसूचकमाह– गायन्तीति ॥ ५।६१।१६ ॥
अतिब्रुवन्ति विवादं कुर्वन्ति । नगाग्राद्वृक्षाग्रात् ॥ ५।६१।१७ ॥
गानरोदनहासा मधुपानमत्तधर्माः ॥ ५।६१।१८ ॥
तुदन्तं व्यथयन्तम् । समाकुलमुत्कटमत्तचेष्टम् । दृप्तो ऽतिमत्तः ॥ ५।६१।१९,२० ॥
प्रवृद्धैः प्रवृद्धमदैः ॥ ५।६१।२१,२२ ॥
मदादप्रतिवार्यो निवारयितुमशक्यो वेगो येषां तैः । तेन दधिमुखेन बलात्प्रतिवार्यमाणैः । प्रधर्षणे दोषं राजदण्डमनवेक्ष्य, अत एव त्यक्तभयैः समेत्य प्रकृष्यते स्म ॥ ५।६१।२३ ॥
समापयन्तो मृतकल्पं कुर्वन्तः । महावनं निर्विषयं निर्गतमधुफलादिभोज्यम् ॥ ५।६१।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकषष्टितमः सर्गः ॥ ५।६१ ॥