०५९ हनुमता सीताशोकवर्णनम्

एतदिति । उत्तरं पराक्रमयुक्तत्वात्सर्वतो ऽधिकम् ॥ ५।५९।१ ॥

संभ्रम आदरः उत्साह इत्यर्थः । सीतायाः शीलं सद्वृत्तं पातिव्रत्यमासाद्य दृष्ट्वा राघवोद्योगादेः साफल्याज्ञानेन मम मनः प्रीणितं तुष्टम् । “मम च प्रवणं मनः” इति पाठे ऽपि प्रवणं सन्तोषप्रवणमित्यर्थः ॥ ५।५९।२ ॥

सदृशम् पतिव्रतानामरुन्धत्यादीनां सदृशमित्यर्थः ॥ ५।५९।३ ॥

तर्हि रावणं किमिति नादहदित्यत आह सर्वथेति । अतिप्रकृष्टः महातपःसंपन्न इत्यर्थः । तां सीतां स्पृशतो ऽपि यस्य गात्रं तपसा न नाशितमिति संबन्धः ॥ ५।५९।४ ॥

नैतावता सीताशीलं दुर्बलमित्याशङ्क्यमित्याह नेति । यत्क्रुद्धा सीता कुर्यात्तत्स्पृष्टा ऽग्निशिखापि न कुर्यात् । इयं तु भर्तुः पराक्रमकीर्तये नाद्यापि क्रुध्यतीति भावः । अक्रुद्धाया अपि स्पर्शमात्रेण प्राप्तो नाशस्तु रावणतपसा निवारित इति ध्येयम् ॥ ५।५९।५ ॥

इदानीं भृत्यजयस्यापि स्वामिसंबन्धित्वसत्त्वेन वयमेव सीतापातिव्रत्यं सहायमासाद्य रावणं जित्वा देव्या सह राघवौ द्रक्ष्यामह इत्याह– जाम्बवदिति । जाम्बवदादीननुज्ञाप्यानुज्ञां कुर्वन्त्विति संप्रार्थ्य । अस्मिन्कार्ये सीतान्वेषणरूपे । एवंगते उक्तप्रकारं प्राप्ते । तत्प्रकारविशिष्टे च भवतां निवेदिते सति तौ पार्थिवात्मजौ वैदेह्या सन्द्रष्टुं न्याय्यमित्यब्रवीदिति शेषः ॥ ५।५९।६ ॥

तया सन्दर्शने उपपत्तिमाह –अहमिति । एवं च राक्षसान्हत्वा देव्यानयनं कृत्वा देव्या सहैव तौ द्रक्ष्याम इत्यर्थः ॥ ५।५९।७ ॥

कृतास्त्रैर्देवांशत्वादस्त्रप्रयोगसमर्थैः ॥ ५।५९।८ ॥

उक्तमेवार्थं संभ्रमेण पुनराह– अहं त्विति । अहमेवेत्यर्थः ॥ ५।५९।९ ॥

यद्यपि दुर्निरीक्ष्याणि तथापि तान्यहं निहनिष्यामि ब्रह्मणो वरदानान्निवारयामि । परावृत्तैस्तैरेव राक्षसान्विधमिष्यामि निहनिष्यामि ॥ ५।५९।१० ॥

रुणद्धि रोत्स्यति ॥ ५।५९।११ ॥

भवतामननुज्ञातः अनुज्ञां विना मे विक्रमो राक्षसवधप्रवृत्तिर्मां रुणद्धीत्यर्थः । अतः पूर्वमेव मया न पराक्रान्तमित्यर्थः ॥ ५।५९।१२ ॥

इदानीं सर्वे ऽपि भवन्तस्तद्वधे समर्था इत्याह– सागरो ऽपीति ॥ ५।५९।१३ ॥

ये च पूर्वजा राक्षसास्तेषां नाशायैको ऽपीत्यन्वयः ॥ ५।५९।१४१७ ॥

मयैव निहता निहतप्राया । एवं च सर्वैर्मिलित्वा नाशनीयेति किं वाच्यमिति भावः । नामेति सुग्रीवादेरिति शेषः ॥ ५।५९।१८ ॥

तदेवाह जयमिति ॥ ५।५९।१९,२० ॥

सीतादुःखविमर्शे ऽपि संप्रत्येव समानेतुमुचितेत्याशयेन तादृशं वर्णयति अशोकेत्यादि ॥ ५।५९।२१,२२ ॥

अचिन्तयन्ती योग्यत्वेनागणयन्ती । अगणने हेतुः– पतिव्रतेति । अगणनाच्चावष्टब्धा निरुढा अस्तीति शेषः ॥ ५।५९।२३ ॥

रामेण रामप्रीत्यानन्यचिन्ता पौलोमीव नहुषरुद्धा पौलोमीव ॥ ५।५९।२४ ॥

तदेकवास इति व्याख्यातम् । राक्षसीभिस्तर्ज्यमाना दृष्टेत्युत्तरेणान्वयः ॥ ५।५९।२५२७ ॥

कथञ्चिदादौ तूष्णीं रामकथाप्रस्तावेन सर्वमर्थं रामसुग्रीववृत्तान्तम् ॥ ५।५९।२८ ॥

तदेवाह– रामसुग्रीवसख्यं चेति । नियतः समुदाचारो दृढपातिव्रत्यं भर्तर्युत्तमा भक्तिश्चास्ति ॥ ५।५९।२९ ॥

इयत्यापि सामग्र्या यद्दशाननं शापादिना न हन्ति तत्स दशाननो महात्मा तपोबलेन शापायोग्य इति भावः । अथापि सीतावरोधजन्यपापेन मृतप्राय एव स इत्याह– निमित्तमात्रमिति । अतो ऽस्माभिरपि सुशक्यवध एव स इति भावः ॥ ५।५९।३० ॥

तत्पापकारणमाह सेति ॥ ५।५९।३१,३२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनषष्टितमः सर्गः ॥ ५।५९ ॥