हनुमत्प्रमुखाः परस्परं मिलिता इति शेषः ॥ ५।५८।१,२ ॥
कार्यविषयं वृत्तान्तम् ॥ ५।५८।३ ॥
कथंवृत्तः कीदृग्व्यापारः ॥ ५।५८।४,५ ॥
चिन्तनीयनिश्चयमेवाह– यश्चेति । रक्षितव्यं रामसंनिधौ गोपनीयम् अवक्तव्यमिति यावत् । अवक्तव्यं च यत्तच्चिन्तयिष्यामः, अतस्तत्पृष्टं सर्वमात्मवान्भवान्व्याकरोतु ॥ ५।५८।६८ ॥
विघ्नरूपमिवेत्युक्तं तदेवाह काञ्चनमिति । पश्यामि दृष्टमित्यर्थः । तदाश्चर्यत्वादद्यापि पश्यामीत्यर्थः ॥ ५।५८।९ ॥
मेने लिडुत्तमपुरुषैकवचनम् । उपसङ्गम्य प्राप्य ॥ ५।५८।१०,११ ॥
व्यावसायं स्वभेदनरूपम् ॥ ५।५८।१२१४ ॥
छन्दतः स्वेच्छयेत्यर्थः । चरितं प्रजाबाधनरूपम् ॥ ५।५८।१५,१६ ॥
मोचनप्रकारमाह– मारुतेनेति । साह्ये साहाय्ये ॥ ५।५८।१७ ॥
तत्र हेतुः– धर्मभृतां श्रेष्ठत्वादि ॥ ५।५८।१८ ॥
उद्धतमग्रे चलितम् ॥ ५।५८।१९ ॥
सशैलो मानुषेण वपुष्मता प्रशस्तेन शरीरेण महाशैलो ऽन्तर्हितः । शैलेन शिलारूपेण च महोदधावन्तर्हित इत्यन्वयः ॥ ५।५८।२०२२ ॥
प्रदिष्टः विहित इत्यर्थः । विहितः प्रापित इत्यर्थः ॥ ५।५८।२३२५ ॥
सकाशं समीपम् ॥ ५।५८।२६ ॥
विषये सति तदीयदेशे सति विद्यमाने । मैथिलीदर्शननिवेदनार्थं रामं च दृष्ट्वा ॥ ५।५८।२७,२८ ॥
नातिवर्तेत नातिक्रमेत । मां प्राप्तः । मदाहारतां प्राप्तो न गच्छेदित्यर्थः ॥ ५।५८।२९ ॥
अर्धगुणविस्तारो ऽर्धस्य दशयोजनार्धस्य पञ्चयोजनस्य गुण आवृत्तिस्तद्विस्तारः । दशयोजनविस्तार इति यावत् । पूर्वं दशयोजनविस्तारोक्त्या ऽ ऽनुगुण्येनैवं व्याख्यातम् ॥ ५।५८।३० ॥
ह्रस्वम् स्वशरीरमिति शेषः । तदेवाह– अङ्गुष्ठसंमित इति । देह इति शेषः ॥ ५।५८।३१,३२ ॥
समानय मेलय ॥ ५।५८।३३ ॥
साधुसाध्वीति । अत्र दीर्घ आर्षः ॥ ५।५८।३४,३५ ॥
येन गतिर्विहता तत्किञ्चिन्न पश्यामि नापश्यमित्यन्वयः ॥ ५।५८।३६३८ ॥
अवस्थितं निश्चेष्टम् । तथाप्यसंभ्रान्तं भयहीनं मां लक्षीकृत्येदं वाक्यमहमुक्तः इत्यन्वयः ॥ ५।५८।३९ ॥
ममेप्सितो भक्षस्त्वम्, अतो मे देहं प्रीणयेत्यन्वयः ॥ ५।५८।४० ॥
प्रत्यगृह्णामङ्गीकृतवान् । तस्या आस्यप्रमाणादधिकं भवति यथा तथात्मनः कायमपूरयमवर्धयम् ॥ ५।५८।४१ ॥
मां सा न बुबुधे अयं कामरूपी सर्वविघ्ननिर्दलन इति मां न ज्ञातवतीत्यर्थः । मम कृतं विकृतं मया कृतं विकृतं विकारस्वरूपं वक्ष्यमाणसूक्ष्मरूपत्वं च न बुबुधे ॥ ५।५८।४२ ॥
तदेवाह– तत इति । आदाय कर्तित्वा । प्रपतामि प्रापतम् ॥ ५।५८।४३ ॥
विसुष्टभुजा विप्रकीर्णभुजा ॥ ५।५८।४४ ॥
सिंहिका हनुमता हतेति द्युगतानां वाचः शृणोमि श्रुताः ॥ ५।५८।४५ ॥
आत्ययिकं जातकालविलम्बम् । कृत्यं सीतादर्शनं स्मरन्नेव महदध्वानं गत्वोदधेर्दक्षिणं तीरं पश्यामि दृष्टवान् ॥ ५।५८।४६४८ ॥
मां जिघासन्तीम् । ज्वलदग्नितुल्यकेशपाशाम् ॥ ५।५८।४९ ॥
सुभैरवामतिशयेन भयङ्कररूपाम् । प्रविशं प्राविशम् ॥ ५।५८।५०,५१ ॥
सर्वरात्रं सर्वां रात्रीम् । अल्पशेषाय रात्रावशोकवनिकायां दर्शनादेवमुक्तिः ॥ ५।५८।५२ ॥
उपलक्षय उपालक्षयम् ॥ ५।५८।५३ ॥
विकृष्टेन विप्रकृष्टोर्ध्वभागेन अत्युच्चेनेति यावत् । तादृशेन प्रासादेनावृतं किञ्चित्स्थानं मया दृष्टम् ॥ ५।५८।५४ ॥
ततः प्राकारमवप्लुत्य बहुपादपं गृहो पवनमुद्यानं पश्याम्यपश्यम् । महान्पादपो दृष्ट इति शेषः ॥ ५।५८।५५ ॥
पश्यामीति प्राग्वत् । काञ्चनं तद्वर्णम् । अदूराच्छिंशपावृक्षाच्छिंशपावृक्षस्य समीपे ॥ ५।५८।५६ ॥
तदेकवासःसंवीतां तेन हरणकाले किष्किन्धायां पूर्वं दृष्टेनैवैकवाससा संवीताम् ॥ ५,५८,५७,५८ ॥
व्याघ्रीपरिवृतां हरिणीमिव तामपश्यमिति संबन्धः । राक्षसीमध्ये ताभिरेव तर्ज्यमाना सा सदुःखा मया कथञ्चिदासादितेत्यन्वयः ॥ ५।५८।५९,६० ॥
रावणादिनिवृत्तो विनिवर्तितो ऽर्थः सुखभोगरूपो यया । मर्तव्ये मरणे ॥ ५।५८।६१,६२ ॥
शृणोमि श्रुतवान् । रावणस्य निवेशने तत्समीपे । यद्वा निवेशने सीतासमीपं प्रवेशनकाले ॥ ५।५८।६३ ॥
प्रत्यसंहरं सूक्ष्ममकरवम् । गहने पर्णसमूहगूढप्रदेशे स्थितः ॥ ५।५८।६४,६५ ॥
परिरभ्य चेति । वित्रस्तेव बभूवेति शेषः ॥ ५।५८।६६७१ ॥
किंस्वित् कुत्सितमित्यर्थः ॥ ५।५८।७२ ॥
तदसंनिधावपहृत्य तेनादृष्ट इति लङ्कामागतः, अन्यथा तदैव ते हननं स्यादित्यर्थः । सादृश्यसंभावना ऽपि दूरापास्तेत्याह– दास्ये ऽपीति ॥ ५।५८।७३,७४ ॥
चितास्थपावकत्वेनास्पृश्यता सूचिता ॥ ५।५८।७५ ॥
हाहाकृतं हाहेति कृतम् ॥ ५।५८।७६ ॥
मन्दोदरी नामेति । पूर्वं धान्यमालिन्या प्रतिषिद्धमित्युक्तम्, इदानीं मन्दोदर्येत्यभिधानादुभाभ्यामपीति कल्पनीयम् । यद्वा मन्दोदर्या एव नामान्तरं धान्यमालिनीत्युक्तम् ॥ ५।५८।७७८१ ॥
निरर्थकम् आसीदिति शेषः ॥ ५।५८।८२ ॥
सीताव्यवसितं महत् । मर्तव्यं न तु त्वमङ्गीकर्तव्य इत्येतद्रूपम् ॥ ५।५८।८३ ॥
विहताशाः रावणानुकूल्यमस्माभिरवश्यं संपाद्यमिति तासामाशा, अत एव तद्विषये निरुद्यमाः । परिक्लिश्य । पूर्वंव्यापारकृतः क्लेशः ॥ ५।५८।८४ ॥
विलप्य प्रशुशोच विलापपूर्वकं शोकं चकार ॥ ५।५८।८५,८६ ॥
रक्षोविनाशकत्वाद्रोमहर्षणः ॥ ५।५८।८७ ॥
राक्षसीगणमस्मान्राक्षसीरूपानस्मान्परित्रातुमलमेषा सीतेति शेषः ॥ ५।५८।८८ ॥
अभियाचाम स्वरक्षणमिति शेषः ॥ ५।५८।८९,९० ॥
ततस्त्रिजटावाक्यानन्तरम् । क्वैतावद्भाग्यमिति लज्जिता । तत्कथितस्वप्नसूचितरामविजयहर्षिता ॥ ५।५८।९१ ॥
तत्त्रिजटावाक्यं यदि तथ्यं तदावश्यं शरणं भवेयमित्यवोचदिति संबन्धः ॥ ५।५८।९२ ॥
चिन्तयामासेति लिडुत्तमः । ईदृश्या अपीदृशं दुःखमिति चिन्तां कृतवानित्यर्थः । मे मनो न च निर्वृतं न चिन्तारहितं जातम् । विधिः प्रकारः ॥ ५।५८।९३ ॥
मम स्तुतो मया स्तुतः ॥ ५।५८।९४९७ ॥
तुभ्यं भर्त्रा तव भर्त्रा ॥ ५।५८।९८,९९ ॥
त्वया ऽ ऽज्ञप्तं त्वत्कर्मकमाज्ञापनम् । उत्तरं समुद्रोत्तरकूलस्थम् । यद्वा किमुत्तरं प्रत्युत्तरं किं ब्रूहीति शेषः ॥ ५।५८।१०० ॥
उत्पाट्य समूलं नाशयित्वा ॥ ५।५८।१०११०३ ॥
सन्दिदेश काकवृत्तान्तं तिलककरणं च राममात्रैकवेद्यं कथयामासेत्यर्थः ॥ ५।५८।१०४ ॥
इहाभ्युद्गतमानस इहागन्तुं निश्चितमानसः । मम वृत्तान्तं त्वया ऽनुभूतं मद्विषयं रावणराक्षसीवृत्तान्तम् ॥ ५।५८।१०५१०७ ॥
यद्यस्मादन्यथानागमने द्वौ मासौ मम जीवितं भवेत् अनाथवन्म्रिये । राक्षसीकृतवधेनेति भावः ॥ ५।५८।१०८ ॥
उत्तरं कार्यशेषं लङ्कानाशनरूपम् ॥ ५।५८।१०९१११ ॥
समागम्य मिलित्वा ॥ ५।५८।११२,११३ ॥
तस्य दुर्बुद्धितेति बहुव्रीहेस्तल् । न पुनर्व्रजेत् स्वदेशमिति शेषः ॥ ५।५८।११४११७ ॥
चैत्यप्रासादम् विनाशयितुमिति शेषः ॥ ५।५८।११८ ॥
ललामभूतः चैत्यप्रासाद इति शेषः ॥ ५।५८।११९१२६ ॥
द्वितीयं प्रेषितपुत्रापेक्षया द्वितीयम् ॥ ५।५८।१२७,१२८ ॥
महता प्रत्ययेन विश्वासेन ॥ ५।५८।१२९,१३० ॥
प्रबुद्ध्वा प्रबद्ध्य । राक्षसेभ्य आर्पयदिति शेषः । बध्नन्त्यबध्नन् ॥ ५।५८।१३१,१३२ ॥
सीतार्थमिति कथितमित्यर्थः ॥ ५।५८।१३३ ॥
तस्याः सीतायाः ॥ ५।५८।१३४१३८ ॥
समयं प्रतिज्ञाम् ॥ ५।५८।१३९,१४० ॥
संप्लवतां सम्यक्प्लवतां प्रभुः अहमिति शेषः ॥ ५।५८।१४१ ॥
तस्य रामस्य । तेन रामसाहाय्यस्य कर्तव्यत्वेन तुभ्यं समीपं तव समीपं प्रस्थापितः । दूत इति शेषः । दूतप्रेषणं वना प्रथममेव युद्धस्याधर्मत्वादिति भावः ॥ ५।५८।१४२ ॥
सीतादानाभावे बाधकमाह– यावदिति ॥ ५।५८।१४३ ॥
वानराणामिति । एवं च लङ्कानाशने वानरा असमर्था न इति मन्तव्यमिति भावः । “राघवाणाम्” इति पाठे मनुष्यो ऽसमर्थ इति न मन्तव्यमिति भावः ॥ ५।५८।१४४,१४५ ॥
मत्प्रभावं वरदानं लब्ध्वा वध्यत्वरूपम् ॥ ५।५८।१४६,१४७ ॥
नैवम् अयमवध्य इत्यर्थः । एष निश्चय एतद्वधनिश्चयः संलक्ष्यते विचार्यते ॥ ५।५८।१४८ ॥
वेदितव्यं निवेदनीयम् । एवं चैवमुक्तिर्दूतस्य नापराध इत्यर्थः ॥ ५।५८।१४९१५२ ॥
हनन्तः मामिति शेषः । आर्षमेतत् ॥ ५।५८।१५३१६१ ॥
विस्मयकारी य उदन्तो वृत्तान्तस्तद्भाषिणां तं वदताम् ॥ ५।५८।१६२ ॥
उपलक्षितम् तददहनमिति शेषः । निमित्तैः शुभसूचकैः । निमित्तान्याह– दीप्यमानेत्यादि ॥ ५।५८।१६३ ॥
दृष्टार्थैर्दृष्टसंवादैः, महागुणैः कारणैर्मत्प्रवृत्तिकारणैः सीतारामरूपैः ॥ ५।५८।१६४,१६५ ॥
आरेभे । लिडुत्तमः ॥ ५।५८।१६६,१६९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे ऽष्टपञ्चाशः सर्गः ॥ ५।५८ ॥