०५७ हनुमता लङ्कान्निर्गमनम्

आप्लुत्योत्प्लुत्य । आधारं गगनमर्णवत्वेन वर्णयति– भुजङ्गेत्यादि । भुजङ्गादय एव विकसितानि कमलादीनि यस्मिन् ॥ ५।५७।१ ॥

चन्द्ररूपेण कुमुदेन श्वेतोत्पलेन सहितम् अर्करूपकारण्डवाख्यजलपक्षिसहितम्, अभ्राणि मेघा एव शैवलानि शाद्वलानि च यत्र तत् ॥ ५।५७।२ ॥

लोहिताङ्गो भौमः, महाग्रहो महाग्राहः, स्वातीरूपो हंसो विलासितः कृतविलासो यत्र तत् ॥ ५।५७।३ ॥

वातसङ्घातो वात्या तज्जालं तत्समूह एवोर्मयो यत्र तम् । चन्द्रकिरणरूपशीतलजलयुक्तम् । मतुबार्षः । अत्र सावयवरूपकम् । गगनस्यार्णवत्वेन चन्द्रादीनां कुमुदादित्वेन च रूपणात् ॥ ५।५७।४ ॥

ताराधिपमुल्लिखन्निव नखैरिति शेषः । हरन्निव गृह्णन्निव ॥ ५।५७।५,६ ॥

महाभ्राणीत्यस्य कपिना ऽ ऽकृष्यमाणानीति शेषः ॥ ५।५७।७,८ ॥

प्रविशन्नित्युक्तमेवार्थं भङ्ग्यन्तरेणाह– विविधेति । विविधेष्वभ्रघनेष्वापन्नो गोचरो मार्गो येन सः । प्रवेशनिष्क्रमाभ्यां दृश्यादृश्यतनुः । अयं श्लोकः प्रक्षिप्त इति भाति ॥ ५।५७।९,१० ॥

मेघस्वनवन्महास्वनो यस्य सः ॥ ५।५७।११,१२ ॥

सुनाभं मैनाकम् ॥ ५।५७।१३१६ ॥

लाङ्गूलं चाप्यकम्पयदिति स्वभावोक्तिः ॥ ५।५७।१७ ॥

फलतीव विशीर्यतीव ॥ ५।५७।१८ ॥

ये पूर्वसंविष्ठितास्ते तोयदनिःस्वनमिवोरुवेगं तज्जन्यं घोषं शुश्रुवुरित्यन्वयः ॥ ५।५७।१९ ॥

वानरेन्द्रस्य निर्घोषं तदीयसिंहनादम् ॥ ५।५७।२० ॥

सुहृद्दर्शनकाङ्क्षिणस्तेन शब्देन हनूमानेवैतीति निश्चित्य तद्दर्शनलालसाः ॥ ५।५७।२१२३ ॥

बाहूरुवेगं तज्जन्यशब्दम् निनादं च कण्ठशब्दं च ॥ ५।५७।२४ ॥

नगाग्रात् स्वाश्रयादूर्ध्वदेशस्थानि नगाग्राणीत्यर्थः ॥ ५।५७।२५ ॥

ते शाखां गृह्य गृहीत्वोर्ध्वदृशा हनूमन्निरीक्षणे पतनभिया शाखां गृहीत्वा धृत्वा पादपाग्रेषु तदग्रशाखासु स्थिताः । वासांसि समाविध्यन्त प्राकम्पयन्त । नृत्यान्तर इवेति भावः । प्रकाशानि निर्मलतया प्रकर्षेण शोभन्ते तादृशानि वासांसि ॥ ५।५७।२६,२७ ॥

अभ्रं मेघस्तदुपरि यो मेघस्तत्सङ्काशम् अत्युन्नतमेघसमूहसदृशमित्यर्थमन्ये । स्वजीवनदातृत्वेन स्वपूज्यत्वात्प्राञ्जलयः स्थिताः ॥ ५।५७।२८ ॥

ततो गिरेररिष्टाख्याद्गिरेः प्लुतः कपिस्तस्य महेन्द्रस्य गिरेः शिखरे निपपात । अनेनाविश्रममागमनं ध्वनितम् ॥ ५।५७।२९ ॥

छिन्नपक्षो धरणीधर इवाकाशात्पपात हर्षेणापूर्यमाणः पूर्यमाणहृदयः । पर्वतनिर्झरे निर्झरप्रवर्तके शिखर इत्यर्थमेके । श्रमनिवृत्तये जन एव पतित इत्यन्ये ॥ ५।५७।३०३३ ॥

शाखानयनं हनूमत आसनार्थम् ॥ ५।५७।३४,३५ ॥

ताभ्यां जाम्बवदङ्गदाभ्यां प्रसादितः प्रसन्नदृष्ट्याकारितात्मनिरीक्षणः ॥ ५।५७।३६४२ ॥

आयताञ्चितदीर्घाणि । आयामो विस्तारः, स्थौल्यमित्यन्ये ॥ ५।५७।४३ ॥

गिरिशृङ्गेष्वाप्लुत्य । तेभ्य आप्लुत्येत्यर्थः ॥ ५।५७।४४४६ ॥

समेष्यामः सङ्गता भविष्यामः । अहो इति । तव स्वामिभक्त्यादिकमाश्चर्यमित्यर्थः ॥ ५।५७।४७५१ ॥

विविधैर्देवैरुपास्यमान इत्यर्थः ॥ ५।५७।५२ ॥

कीर्तिमता हनूमता यशस्विनाङ्गदेनेत्यर्थः । ज्वलितं युक्तम् ॥ ५।५७।५३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५।५७ ॥