इत आरभ्य “पुनर्मध्येन सागरम्” इत्यन्ताः सार्धचतुर्विंशतिश्लोकाः प्राग्व्याख्यातप्राया एव ॥ ५।५६।१२५ ॥
अरिष्टं तदाख्यम् । नीलाभिर्वनराजिभिः सपरिधानमिवेति शेषः ॥ ५।५६।२६ ॥
सोत्तरीयमिव कण्ठासक्तोत्तरीयधारिणमिव । बोध्यमानमिव रविकिरणस्पर्शेन सर्वेषां तत्रत्यवस्तूनां विकासादिति भावः ॥ ५।५६।२७ ॥
उद्धूतैर्लोचनसदृशैर्धातुभिरुन्मिषन्तमिवेत्युत्प्रेक्षा । प्राधीतमिवोच्चैः प्रारब्धाध्ययनमिव तत्स्वनानां महत्त्वात् ॥ ५।५६।२८ ॥
प्रगीतमिव प्रारब्धगानमिव तत्स्वनानां मन्दत्वात् ॥ ५।५६।२९ ॥
प्रपातजलनिर्घोषैः प्रपातेभ्यो भृगुदेशेभ्यः पतज्जलशब्दैः प्राक्रुष्टमिवारब्धाक्रोशमिव । सर्वत्रादिकर्मणि कर्तरि क्त इत्याहुः । शरद्वनैः सप्तपर्णादिशारदवृक्षसङ्घैः ॥ ५।५६।३०,३१ ॥
नीहारकृतगम्भीरैः । नीहारवशेन तत्तद्दर्शनात्तत्कृतगम्भीरत्वं गह्वराणाम् । ध्यायन्तमिव मुद्रितेन्द्रियद्वारम् ध्यानारूढमिव स्थितमित्यर्थः । मेघपादा मेघप्ररोहास्तन्निभैः पादैः प्रत्यन्तपर्वतैः प्रक्रान्तमिवारब्धगमनमिव ॥ ५।५६।३२ ॥
अभ्रमालाभिः शिखरैर्जृम्भमाणमिव गात्रमोटनं कुर्वाणमिव । कूटैः शृङ्गैः ॥ ५।५६।३३ ॥
लतारूपैर्विस्तृतैर्वितानैः ॥ ५।५६।३४ ॥
धातुनिष्यन्दैर्धातुनिर्गमैर्भूषितम् । शिलासञ्चयेन शिलासमूहेन सङ्कटं नीरन्ध्रम् ॥ ५।५६।३५ ॥
लताभिः पादपैश्च संबाधं व्याप्तम् ॥ ५।५६।३६,३७ ॥
रामदर्शने शीघ्रेणातिवेगवता उत्कटेनेति यावत् । तेन हनुमता ॥ ५।५६।३८,३९ ॥
प्रार्थयन्गमनप्राप्यत्वेनेच्छन् । अधिरुह्य ततो ऽप्यूर्ध्वं गत्वा ॥ ५।५६।४० ॥
स हनुमान्मारुत आकाशमिवोत्तरां दिशं प्रपेदे मनसा प्राप ॥ ५।५६।४१,४२ ॥
कम्पविशिष्टशिखरपतद्द्रुमोपलक्षितो वसुधां प्राविशदित्यन्वयः ॥ ५।५६।४३ ॥
शक्रायुधं वज्रम् ॥ ५।५६।४४,४५ ॥
त्रस्ताः, अत एव व्याविद्धानि व्यत्यस्तानि वसनानि यासां ताः ॥ ५।५६।४६ ॥
व्यवेष्टन्त कुण्डलीकृतशरीरा अजायन्त । “व्यचेष्टन्त” इति पाठे पीडया लुठन्नित्यर्थः ॥ ५।५६।४७,४८ ॥
सवृक्षशिखरैरुदग्र उन्नतो रसातलं प्रविवेश अंशेन भूसमशिखराग्रवृक्षो जात इत्यर्थः ॥ ५।५६।४९ ॥
तदेव दर्शयति– दशेति ॥ ५।५६।५० ॥
कल्लोलैरास्फाल्यते स्पृश्यते तादृशो वेलान्तस्तीरप्रान्तो यस्य तं सागरं लिलङ्घयिषुर्नभ उत्पपातेति संबन्धः ॥ ५।५६।५१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥ ५।५६ ॥