०५५ हनुमता लङ्काग्नौ सीतामृत्यनुमानम्

सन्दीप्यमानामिति ॥ ५।५५।१ ॥

कुत्सा चात्मन्यजायतेत्युक्तां कुत्सामाह लङ्कामिति । किंस्वित्कर्म कृतम् कुत्सितमेव कृतमित्यर्थः ॥ ५।५५।२ ॥

उक्तकुत्सितकार्यमूलं कोप इति निश्चित्य तद्रहितान्स्तौति– धन्या इति । दुःखातिशयादेव महात्मपदपौनरुक्त्यं न दोषाय ॥ ५।५५।३ ॥

“क्रुद्धः पापं न कुर्याद्यः” इति पाठे क्रुद्धो यः कश्चित्पापं कुर्यान्न नञि काकुः अपि तु कुर्यादेव अकरणमशक्यमेवेत्यर्थः । तदेव दर्शयति– क्रुद्धो हन्यादिति ॥ ५।५५।४ ॥

न जानातीत्येतदेव स्पष्टयति– नाकार्यमिति । क्रुद्धस्याकार्यमयुक्तबुद्ध्या ऽकरणीयं न किञ्चिदप्यस्ति अतो गुरुहननाद्यपि करोत्येवेत्यर्थः ॥ ५।५५।५७ ॥

धिगस्तु मामित्यनेनोक्तं स्वधिक्कारमाह– यदीति । इयं लङ्कां सर्वापि वनं दग्धैव यदि जानक्यप्यत्रत्या दग्धा स्यात्तदा तेनाजानता मया भर्तुः कार्यं हतं भवेत् ॥ ५।५५।८ ॥

एतदेव विवृणोति– यदर्थमिति ॥ ५।५५।९ ॥

एतत्कार्यं लङ्कादाहरूपमीषत्कार्यमिवाप्रयाससाध्यकार्यमिव कृतमनुष्ठितमासीदत्र न संशयः । भर्तुः कार्यं तु मया सर्वथा नाशितमेवेत्याह– तस्येति । क्रोधाभिभूतेन मया सीतामपरिरक्षता कृतस्य सीतादर्शनरूपस्य कार्यस्य मूलक्षयः कृतः ॥ ५।५५।१० ॥

ननु सीताविनाशनिश्चयस्ते कथं तत्राह– विनष्टेति ॥ ५।५५।११,१२ ॥

वडवामुखे ऽग्नावित्यन्वयः । दद्मि ददामि ॥ ५।५५।१३,१४ ॥

तदेवेदं कपित्वमनवस्थिमव्यवस्थितकार्यकारीति त्रिषु लोकेषु प्रसिद्धं दर्शितम् । रोषदोषादक्षोविषयक्रोधदोषात् ॥ ५।५५।१५ ॥

राजसं रजोगुणमूलम् भावं चेष्टाविशेषम् अनीशं कार्यासमर्थम् अत एवानवस्थितमव्यवस्थितफलजनकं धिक् । यद्यस्मादीश्वरेणापि समर्थेनापि मया रागाद्रजोगुणमूलक्रोधवशात्सीता न रक्षिता, अतो धिक् ॥ ५।५५।१६ ॥

उभौ रामलक्ष्मणौ ॥ ५।५५।१७२० ॥

साक्षादुपलब्धान्यपरोक्षमनुभूतशुभफलान्युपपेदिरे । जातानि दृष्ट्वा पुनरचिन्तयदित्यर्थः ॥ ५।५५।२१ ॥

चिन्तामेव दर्शयति– अथवेति । नाग्निरग्नौ प्रवर्तते इति अग्निरग्निं न दहतीत्यर्थः ॥ ५।५५।२२,२३ ॥

दहनकर्मा भस्मीकरणसहजस्वभावा यद्यतस्तत्प्रभावान्मां तत्सेवकं नादहत् तत एव तां स्प्रष्टुमपि नार्हतीत्यर्थः ॥ ५।५५।२४ ॥

त्रयाणां भरतलक्ष्मणशत्रुघ्नानां देवतात्वात्तस्यामग्र्यप्रवृत्ते रामभयाच्चेति भावः ॥ ५।५५।२५ ॥

सर्वत्र प्रभुरपि यत्सेवकत्वान्मे लाङ्गूलं न दहति ततस्तां कथं धक्ष्यति ॥ ५।५५।२६ ॥

देवीप्रभावात्सिन्धौ मद्विश्रान्तिनिमित्तं गिरिदर्शनहेतुनातिप्रभाववतीं तां न दहतीत्याह पुनश्चेति ॥ ५।५५।२७ ॥

विनिर्दहेत् दाहविषयवाक्यप्रयोगेणेति शेषः । तथा चिन्तयंश्चारणानां वाक्यं शुश्रावेति योजना ॥ ५।५५।२८,२९ ॥

दुर्विगाहम् केनाप्यसह्यमित्यर्थः ॥ ५।५५।३०,३१ ॥

विस्मय आश्चर्यम् । अद्भुतो ऽभूतपूर्वः ॥ ५।५५।३२ ॥

तत्कालसंभवस्तत्कालजातचारणवाक्यजः ॥ ५।५५।३३ ॥

दृष्टार्थैर्दृष्टप्रत्ययैर्निमित्तैर्दक्षिणाक्षिस्पन्दनादिभिः कारणैः सीतारामप्रभावपातिव्रत्यादिरूपैर्ऋषिवाक्यैश्चारणवाक्यैः ॥ ५।५५।३४ ॥

विदित्वा चारणादिवाक्यैः पुनरेव पुनरपि प्रत्यक्षतो दुष्ट्वा, प्रतिप्रयाणाय किष्किन्धां प्रति गन्तुं मतिं चकार ॥ ५।५५।३५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५।५५ ॥