०५४ हनूमता लङ्कादहनम्

वीक्षमाण इति ॥ ५।५४।१ ॥

यदेषां भूयः सन्तापजननं भवेत्तादृशमवशिष्टं सांप्रतं कर्तव्यं किमिति कार्यशेषमचिन्तयदित्यर्थः ॥ ५।५४।२ ॥

तदेव निश्चिनोति– शेषं दुर्गविनाशनमिति ॥ ५।५४।३ ॥

कर्म समुद्रलङ्घनादि । सुखपरिश्रमं सफलप्रयासम् तपश्चर्यादिवदित्यर्थः । उक्तमेव विवृणोति– अल्पेति । अस्मिन्सीतान्वेषणप्रवृत्तिरूपे कार्ये यो मया कृतः श्रमः स त्वल्पेन यत्नेन स्वल्पयत्नेन साध्येन करिष्यमाणलङ्कादाहेन सफलो भविष्यति ॥ ५।५४।४ ॥

तदेवाह– यो हीति । न्याय्यम् स्वस्य पीडाया अकरणादिति भावः ॥ ५।५४।५ ॥

तोयदः सन्ध्यातोयदः हनूमतो रक्तवर्णत्वात् ॥ ५।५४।६ ॥

उद्यानानि गृहारामाः ॥ ५।५४।७ ॥

प्रहस्तस्य प्रधानमन्त्रित्वादादौ तद्गृहे ऽग्निप्रक्षेपः प्रथमं तत्संभावनस्यौचित्यात् ॥ ५।५४।८१३ ॥

भवनं ददाहेत्यनुकर्षः ॥ ५।५४।१४,१५ ॥

विभीषणेन स्वस्य वधतो रक्षणाद्विभीषणगृहं वर्जयित्वा क्रमेण मुख्याद्यानुपूर्व्या क्रममाणः सन् ददाह ॥ ५।५४।१६ ॥

पूर्वं रावणाद्भीतो ऽप्यग्निः सीतातेजःसंबन्धेन निःशङ्कं ददाहेत्युक्तं प्राक् ॥ ५।५४।१७२० ॥

श्वसनेन संयोगात्सीताश्वासमिश्रितवायुसंयोगात् । अत एव वायोरपि निर्भयता ॥ ५।५४।२१ ॥

चारयन्निति हेतौ शता । यतश्चारयति स्म ततश्चारणाद्धेतोस्तानि व्यशीर्यन्तेत्यन्वयः ॥ ५।५४।२२ ॥

भग्नविमानानि भग्नप्रासादानि ॥ ५।५४।२३,२४ ॥

भग्नोत्साहाश्च तं उज्झितश्रियश्चेत्यर्थः । हा इति तुमुलः शब्दः सञ्जज्ञं इत्यन्वयः ॥ ५।५४।२५ ॥

पेतुः अग्नाविति शेषः ॥ ५।५४।२६ ॥

अभ्रेभ्यो मेघेभ्यः ॥ ५।५४।२७ ॥

अग्निसंबद्धाद्भवनाद्धेमरजतादिधातून्स्यन्दमानान्ददर्श । यथा काष्ठतृणादिदाहादग्निर्न तृप्यति तथा राक्षसवधे क्रियमाणे हनूमान्किञ्चिदीषदपि न तृप्यति ॥ ५।५४।२८ ॥

वसुन्धरा नेति मृतराक्षसानां शयनाय लङ्काभूमिर्न पर्याप्ता ऽभूदिति शेषः ॥ ५।५४।२९,३० ॥

लङ्कापुरपर्वताग्रे लङ्कापुराधारभूतत्रिकूटाचलशिखरे । चूडावलयं शिखासमूहम् । प्राप्तो ऽभूदिति शेषः ॥ ५।५४।३१ ॥

विधूमरश्मिर्विधूमज्वालः । रक्षःशरीररूपाज्येन समर्पिता संपादितार्चिर्च्वालाविशेषो यस्य सः ॥ ५।५४।३२ ॥

तिष्ठन् अभूदिति शेषः । अशनिप्ररूढैरशनिवत्प्रगल्भैः । महाग्निः प्रलयाग्निः ॥ ५।५४।३३ ॥

आम्बरादाम्बरपर्यन्तम् । रूक्षप्रभः क्रूरकान्तिः । किंशुकपुष्पवच्चूडा शिखा यस्य सः । निर्वाणानामधो विच्छिन्नानां खे एव वर्तमानानां धूमानामाकुला राजयो नीलोत्पलाभा अभ्राकाराः सत्यः प्रचकाशिरे ॥ ५।५४।३४ ॥

वज्रित्वत्रिदशेश्वरत्वविशिष्टो महेन्द्र इत्यर्थः । रौद्रो ऽग्नी रुद्रतृतीयनयनसंबन्धाग्निः ॥ ५।५४।३५३७ ॥

विशिष्टा महाबलाः प्रहस्तादय इत्यर्थः । समीक्ष्य इत्येवमूचुरित्यन्वयः ॥ ५।५४।३८,३९ ॥

सुपुण्यमतिशयितमर्जितं पुण्यम् ॥ ५।५४।४० ॥

परिवृत्तयोधा पर्यस्तयोधा ॥ ५।५४।४१ ॥

स्वयंभुरोषोपहताम् । स्वदिनान्त इति शेषः ॥ ५।५४।४२४७ ॥

गृहाग्र्याणां गृहश्रेष्ठानां शृङ्गाग्रतले प्रासादाग्रभूमौ प्रदीप्तलाङ्गूलेन कृतार्चिर्माला यस्यास्ति सः ॥ ५।५४।४८ ॥

समुद्रे निर्वापयामास लाङ्गूलप्रक्षेपणेनेति शेषः ॥ ५।५४।४९,५० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुःपञ्चाशः सर्गः ॥ ५।५४ ॥