०५३ रावणादेशेन राक्षसकृतहनुमत्पुच्छाग्निस्पर्शः

तस्य विभीषणस्य ॥ ५।५३।१ ॥

दूतवध्या दूतवधः । आर्षमिदं साधु ॥ ५।५३।२ ॥

दग्धेन दाहकृतेनोपलक्षितो गच्छतु । स्वस्वामिसमीपमिति शेषः ॥ ५।५३।३ ॥

ततः स्वीयसमीपगमनानन्तरम् । सुमित्राणि समसुखदुःखा, ज्ञातयो भ्रात्रादयः, बान्दवाः संबन्धिनः, सुहृज्जनाः स्निग्धजनाः, तत्सहिता बान्धवा इत्यर्थः ॥ ५।५३।४ ॥

अथ रावणः स्वपुरदुर्गमहाबलमहैश्वर्याणि परेभ्यः प्रकाशयितुं सर्वपुरपरावर्तनं दीप्तपुच्छस्याज्ञापयदित्याह– आज्ञापयदिति । परिणीयतामित्याज्ञापयदिति योजना ॥ ५।५३।५ ॥

वेष्टन्ते अवेष्टयन्तेत्यर्थः ॥ ५।५३।६ ॥

शुष्कमिति । आरण्यका यथा शुष्कमिन्धनमासाद्य हुताशनमुत्पादयन्ति तथा जीर्णपटवेष्टितलाङ्गूलं तैलेन परिषिच्य तत्र ते ऽग्निमुपपादयन्नुदपादयन्नित्यर्थ इति कतकः । “हुताशनः” इति पाठे वृद्धौ दृष्टन्तो ऽयम् । उपपादयन्नित्यस्य समयोजयन्नित्यर्थः इत्यन्ये । तान्बद्ध्वा नेतृ़न् ॥ ५।५३।७,८ ॥

सङ्गतैर्मिलितै राक्षसैः । स भूयो निबद्ध इति शेषः ॥ ५।५३।९ ॥

अथ बन्धसंहारशक्तावपि स नोचित इत्यचिन्तयदित्याह– कृतवानिति ॥ ५।५३।१० ॥

तां मतिमभिनयति– काममिति । निबद्धस्यापि निबद्धवदवस्थितस्यापि मे न शक्ताः । सर्वथा बन्धनादाविति शेषः । तदेव समर्थयति– छित्त्वेति ॥ ५।५३।११ ॥

तर्हि कुतो न हन्यन्ते तत्राह– यदीति । भर्तू रामस्य हितार्थाय हितनिमित्तं चरन्तं मां भर्तू रावणस्य शासनाद्यदि ते मां निबध्नन्ते निबध्नन्तु केवलम्, न तु मे निष्कृतिः कृता, मया कृतस्य प्रतिक्रिया तु न कृता ॥ ५।५३।१२ ॥

यदि तां वधरूपां चिकीर्षेयुस्तदा सर्वान्हनिष्याम्येवेत्याह– सर्वेषामिति । यदि पर्याप्तस्तर्हि क्रियतां शत्रुवधस्तत्राह– रामस्येति । प्रीत्यर्थं सर्वराक्षसवधजप्रीत्यविघ्नार्थमीदृशबन्धनादिकम् ॥ ५।५३।१३ ॥

फलान्तरार्थमपि सोढव्यमेवेत्याह– लङ्केति । एतै रावणाज्ञया पुनरेव सकला लङ्का चारयितव्या चारणेन दर्शयितव्या, अतो विषहिष्ये । ननु दृष्टायाः किं पुनर्दर्शनेन तत्राह– रात्राविति । दुर्गकर्मविधानतो दुर्गस्य दुर्गमत्वस्वरूपकर्मविधानाद्धेतोः दुर्गांशे इति शेषः ॥ ५।५३।१४ ॥

निशाक्षये इत्यनेन सीतासंभाषणार्थं कतिपयदिनवासो गम्यते । तथा हि– फाल्गुने रावणेन सीतापहारः आश्विनशुक्लसमाप्तौ हनूमत्प्रेरणया पक्षावधिदानेन वानरान्प्रति दूतप्रेषणम् ततः कार्तिकशुक्लप्रतिपद्यन्वेषणार्थं वानरप्रस्थानम् मार्गशुक्लदशम्यां संपातिदर्शनम् तदा सुग्रीवदत्तमासावधेर्गतत्वस्य वानरैरुक्तिः अग्र एकादश्यां हनूमतो लङ्कागमनम् तद्रात्रिशेषे सीतादर्शनम् ततो द्वादश्यां दिने स्थित्वा रात्रौ सीतायाः सम्यग्दर्शनम् तद्रात्रिशेषे तत्र रावणागमनम् तत्र रावणेन “मासान्द्वादश भामिनि” इति स्वदत्तावधौ मासद्वयावशेषवचने कतिपयदिनाधिक्यं तु मासत्वानवच्छिन्नत्वेनाल्पान्तरत्वान्न विवक्षितम् । ततस्त्रयोदश्यां प्रातः सीतया सह कथालापः तद्दिन एवाशोकवनिकाभङ्गादि चतुर्दश्यामक्षान्तवधो लङ्कादाहश्च, पूर्णिमायां वा । पूर्वं वासन्तिकवृक्षाणां पुष्पितत्वोक्तिस्तु तद्वर्षे क्षयमासेनोपपादिता उत्पातेन च लक्ष्मणस्य सुग्रीवनिकटे प्रेषणसमये रामेण मासचतुष्टयरूपकृतावधेरपगमोक्तिस्तु प्रागुपपादितरहस्येति दिक् । पुच्छस्योद्दीपनेन चेत्यस्योत्तरश्लोकेनान्वयः ॥ ५।५३।१५ ॥

मनसः श्रमो मनःखेदो न मे ऽस्तीति चिन्तयामासेत्यन्वयः । तत एवम् । तस्य चिन्तानन्तरमित्यर्थः ॥ ५।५३।१६ ॥

स्वकर्मभी राजद्रोहिणो दुष्टस्यैवं दण्ड इत्येवमादिभिर्घोषयन्तः पूर्ववृत्तान्तस्य सर्वान्प्रति प्रकटं प्रतिपादनं घोषणम् ॥ ५।५३।१७,१८ ॥

चारयामास स्वार्थे णिच् । चरणेन ददर्शेत्यर्थः ॥ ५।५३।१९ ॥

चत्वरान्द्वारसमीपं बहिर्बद्धान् । गृहैः संबाधा निबिडाः । शृङ्गाटकानि चतुष्पथान् ॥ ५।५३।२० ॥

उपरथ्याः स्वल्पवीथ्यः गृहान्तरान्गृहद्वयमध्यभागान् । चतुष्केषु चतुष्पथेषु ॥ ५।५३।२१ ॥

“चारीकः” इति पाठे ऽपि चार इत्येवार्थः आर्षं साधुत्वम् चारशब्दात्स्वार्थे आर्ष ईकः ॥ ५।५३।२२ ॥

तस्य हनूमतो लाङ्गूलाग्रे दीप्यमाने तदप्रियं देव्याः शंसुः शशंसुः ॥ ५।५३।२३ ॥

परिणीयते परितो ऽपनीयते । आत्मापहरणोपमं तादृग्दुःखजनकम् ॥ ५।५३।२४ ॥

उपागमद्ध्यानेनोपासितवती । यद्वा तत्र समीपे ज्वलमानमग्निमुपासितवती ॥ ५।५३।२५ ॥

प्रयता शुद्धिमती ॥ ५।५३।२६ ॥

एकपत्नीत्वं पातिव्रत्यम् । शीतो भव हुताशनेति शेषः । अस्याः सीताछायात्वे ऽपि स्वस्मिंस्तदभेदबुद्धिसत्त्वान्नैतदुक्त्यसङ्गतिः । ततः सीतोपासनानन्तरम्, तीक्ष्णार्चिरप्यनलः प्रदक्षिणशिखो जज्वाल ॥ ५।५३।२७ ॥

तथा सीतायाः कपेः शिवं स्वकृतं शंसन्निवाभूत् । किं च हनूमज्जनको ऽनिलो वायुः पुच्छानलयुतो ऽपि देव्याः संमुखे स्वास्थ्यकरः कपेः स्वास्थ्यसूचकः सन्प्रालेयानिलशीतलो ववौ ॥ ५।५३।२८ ॥

सर्वतः प्रदीप्तो ऽग्निरित्यन्वयः ॥ ५।५३।२९ ॥

लाङ्गूलाग्रे शिशिरस्य हिमस्य संपातः पिण्ड इव प्रतिष्ठित इत्यन्वयः ॥ ५।५३।३० ॥

तत्रोपपत्तिं चिन्तयति– अथवेति । यद्यस्मात्प्लवता मया सरितां पतौ रामप्रभावात्समुद्रे पर्वतरूपमाश्चर्यं दृष्टम् । ततो रामप्रभावादेवेदमपीत्यर्थः ॥ ५।५३।३१ ॥

ननु समुद्रप्रेरणेन मैनाकोत्थानं प्रयुज्यते, अग्नेस्तु स्वभाववैपरीत्यं कुतस्तत्राह– यदीति । तावदिति वाक्यालङ्कारे । रामार्थं रामोपकारार्थं तादृक्संभ्रमो यद्यादरपूर्वंकं त्वरा यदि, तदा रामेण नित्यमुपासितो ऽग्नी रामोपकारार्थं कथमपि शैत्यं किं न करिष्यतीत्यर्थः ॥ ५।५३।३२ ॥

आनृशंस्यमाश्रितजनदया ॥ ५।५३।३३ ॥

चिन्तयामास अनन्तरकर्तव्यमिति शेषः ॥ ५।५३।३४ ॥

प्रतिक्रिया लङ्कादहनरूपा । मह्यं मम ॥ ५।५३।३५ ॥

उत्पपात पुच्छाग्निना बन्धनेन च सहैवेति शेषः ॥ ५।५३।३६ ॥

विभक्तरक्षःसंबाधं रक्षःसंमर्दरहितम् ॥ ५।५३।३७ ॥

शैलसङ्काशो महान्भूत्वा ह्रस्वतां प्राप्त इत्यनेन देहसौक्ष्म्यात्स्वयमेव बन्धगलनमुक्तम्, एवंरीत्या बन्धनान्यवशातयद्दूरीकृतवान् विमुक्त्यनन्तरं पुनः पर्वताकारो ऽभवत् ॥ ५।५३।३८,३९ ॥

अर्चिमालीत्यत्र नीरेफतार्षी ॥ ५।५३।४० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५।५३ ॥