०५२ हनुमद्वधाय रावणादेशः

स इति ॥ ५।५२।१ ॥

दौत्यं स्वीयं दूतकर्म यथावन्निवेदितवतो हनूमतो ऽवध्यत्वं मत्वा रावणाज्ञप्तं वधं नानुमेने ॥ ५।५२।२ ॥

तच्च कार्यं दूतवधरूपम् । कार्यविधादुचितकृत्यसंपादने स्थितः । निश्चितबुद्धिरित्यर्थः ॥ ५।५२।३ ॥

शत्रुजितं च तमग्रजं च ॥ ५।५२।४ ॥

प्रतिज्ञां त्यज्य रोषं क्षमस्वेत्यन्वयः । परावरज्ञाः सर्वकार्यविषयकोत्कर्षापकर्षज्ञाः सन्तो दूतस्य वधं न कुर्वन्ति ॥ ५।५२।५ ॥

लोकवृत्तेर्लोकव्यवहारस्य प्रमाणं वधः ॥ ५।५२।६ ॥

कृतज्ञत्वेनापकारिण्येव वधो न्याय्यो न तादृशे ऽस्मिन् ॥ ५।५२।७ ॥

त्वादृश इति क्लिन्नन्तबहुवचनम् । शास्त्रविपश्चित्त्वं शास्त्रपाण्डित्यसंपादनम् श्रमः केवलं श्रम एव व्यर्थप्रयास एवेत्यर्थः ॥ ५।५२।८ ॥

दूतदण्डो दूते विहितो दण्डः ॥ ५।५२।९,१० ॥

पापकारिणं राजद्रोहिणम् ॥ ५।५२।११ ॥

अधर्मस्य मूलमधर्ममूलम् । दोषो ऽपकीर्तिरूपः ॥ ५।५२।१२ ॥

समयेषु स्वस्वामिनियोगानुष्ठानकालेषु ॥ ५।५२।१३,१४ ॥

मौण्ड्यं मुण्डनम् । लक्षणसंनिपातो दूतयोग्याङ्कनसंभूत इति तीर्थः । वैरूप्यादीनामेकैकं वा । तथा लक्षणानां संनिपातः सर्वानुष्ठानं वेत्यर्थ इत्यन्ये । नो ऽस्माकं श्रुतो ऽपि नास्ति दर्शनं तु दूरापास्तमिति भावः ॥ ५।५२।१५ ॥

परावरप्रत्ययनिश्चितार्थ उत्कर्षापकर्षज्ञानेन निश्चितकार्यः ॥ ५।५२।१६ ॥

किं च त्वं नोपदेश्यो ऽस्माकमित्याह– नेति । शास्त्राणां बुद्ध्या निश्चयात्मिकया ग्रहणेष्वित्यर्थः ॥ ५।५२।१७ ॥

एतदुत्तरम् “पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन । त्वया ऽप्रमेयेण सुरेन्द्रसङ्घा जिताश्च युद्धेष्वसकृन्नरेन्द्राः ॥ इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य कुर्वन्ति वीरा मनसाप्यलीकं प्राणैर्विमुक्ता न तु भोः पुरा ते” ॥ इति श्लोकद्वयं प्रक्षिप्तमिति कतकः । न चाप्यस्य कपेरिति ॥ ५।५२।१८ ॥

समर्पितः प्रेषितः ॥ ५।५२।१९ ॥

नान्यं पश्यामि । यो ऽत्रागच्छेदित्यर्थः ॥ ५।५२।२० ॥

नन्वस्मिन्हते ऽन्यस्यानागमने च काममक्षतिर्विपरीतमिष्टमेवेदं तत्राह– अस्मिन्विनष्टे इति । तौ राजपुत्रौ । यो योद्धोद्योजयेत्तं न पश्यामि, ननु तदुद्योगाभावो ऽपि ममेष्ट एव नेत्याह– युद्धप्रियेति संबोधनेन रणपराक्रमविजयकीर्ती तवेष्टे किल, ते उभे अप्येतद्विनाशे नश्यत इत्याशयः । रावणस्य रजःप्रकृतित्वात्तत्प्रकृत्यनुसारेण युद्धादिव्यापारेण प्रलोबनम् तत्प्रीत्यर्थमेव दुर्विनीतावित्याद्युक्तिः ॥ ५।५२।२१ ॥

हे नैऋ़तानां मनोनन्दन सुरासुराणामपि दुर्जयेन त्वया पराक्रमे य उत्साहस्तत्र प्रशस्तमनोवतां नैर्ऋतानां मनो युद्धाय प्रवृत्तं निर्नाशयितुं न युक्तम् । नैर्ऋतानामित्यत्र मन इत्यत्र च तन्त्रम् । यद्वा तादृशानां नैर्ऋतानां मनोनन्दन तादृशेन त्वया युद्धापत्तिर्युद्धागमो नाशयितुं न युक्तमित्यर्थः ॥ ५।५२।२२ ॥

ननु युद्धे कदाचिद्विपरीतमपि संभाव्येत तत्राह– हिताश्चेति । समाहिता दानादिभिर्वशीकृताः । सुभृताः सम्यक्पालिताः तादृशभृत्यवतो जय एव भावीति भावः ॥ ५।५२।२३ ॥

तत्तस्मादुपगृह्य आयान्त्विति शेषः । परेषु ते प्रभावं भावयितुं प्रकाशयितुम् युक्तमिति शेषः ॥ ५।५२।२४ ॥

उत्तमवाक्यनिष्ठं तत्प्रतिपाद्यमर्थतत्त्वं जग्राह ॥ ५।५२।२५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५।५२ ॥