अथ सुग्रीवसन्देशकथनव्याजेन सामदण्डान्यतरविषयत्वनिश्चयाय न्यायानुसारी न वेति जिज्ञासति– तमित्यादि ॥ ५।५१।१ ॥
भ्राता हरीश इति स्नेहप्रकाशिका लोकोक्तिः । कुशलमब्रवीत् अप्राक्षीदित्यर्थः ॥
५।५१।२ ॥
क्षमं सुखसपादकम् ॥ ५।५१।३ ॥
अथ सन्देशं वक्तुमुपोद्धातः– राजेति । पितेव बन्धुः रक्षक इत्यर्थः ॥ ५।५१।४६ ॥
भ्रष्टा मृता ऽपहृता वेति विशिष्य न ज्ञातमित्यर्थः ॥ ५।५१।७ ॥
तां मार्गमाणः स रामो ऋष्यमूकं प्राप्तः सुग्रीवेण सङ्गतश्च । अनेनैव ज्ञायते नेदं सुग्रीवसन्देशवाक्यम् । तदा हि “मया चैव सुसङ्गतः” इत्येव वदेत् ॥ ५।५१।८ ॥
निवेदितुं प्रतिज्ञातमित्यनुकर्षः ॥ ५।५१।९,१० ॥
त्वया विज्ञातपूर्वो वालीति रावणं प्रति मर्मोक्तिस्तेन रामबलातिशयबोधनम् ॥ ५।५१।१११५ ॥
“त्वां दिदृक्षुरिहागतः” इति पाठः । त्वां सुग्रीवभ्रातरं रावणम् । तस्मिन्दृष्टे सर्वलोकवृत्तान्तज्ञः स सीतागतिं वक्ष्यतीति सुग्रीवेणोक्तत्वात्त्वां दिदृक्षुरिहागतः । दैवात्पङ्गूपरि गङ्गापातवत्तव गृहे भ्रमता मया जानकी दृष्टा ॥ ५।५१।१६ ॥
अतः परं यद्वक्तव्यं मित्रपक्षस्य तद्वदामीत्याह– तद्भवानिति । दृष्टधर्मार्थो धर्मार्थतत्त्वसाक्षात्कारवान् । तपःकृतपरिग्रहस्तपोबलजातधनधान्यादिपरिग्रहः । यत एतादृशस्त्वम्, अतः परदारानुपरोद्धुं नार्हसि । दृष्टधर्मार्थतत्त्वत्वादेव महाप्राज्ञत्वम् ॥ ५।५१।१७ ॥
नन्वनेन मम का हानिस्तत्राह– नहीति । धर्मविरुद्धत्वादेव बह्वपायेषु बह्वनर्थकारणेषु । ननु सर्वापायप्रतीकारसमर्थस्य किमनया विभीषिकयेत्यत आह– मूलघातिषु । समूलं नष्टस्य कथं प्रतीकारसमार्थ्यमिति भावः ॥ ५।५१।१८ ॥
मूलघातित्वमेव प्रपञ्चयति कश्चेति ॥ ५।५१।१९ ॥
विद्येत विद्यते । व्यलीकमपराधम् ॥ ५।५१।२० ॥
तत्तस्मात्त्रिकालहितम्, सीतादानेन पूर्वापराधनाशाद्वर्तमानैश्वर्याविरोधाद्भाविशुभहेतुत्वाच्च त्रिकालहितत्वम् । अर्थानुयायिनीति शास्त्रानुगतम् वाक्यं मयोच्यमानम् । “नरशार्दूल” इति पाङ्क्तः पाठ इति कतकः । पुरुषश्रेष्ठ इत्यर्थः । तदेव वाक्यमाह जानकी प्रतिदीयतामिति ॥ ५।५१।२१ ॥
अत्र सीता नास्तीत्यपह्नवस्त्वशक्य इत्याह– दृष्टा हीति । यतस्त्वद्गृहे मया दृष्टा, अतो ऽपलापो ऽशक्य इति भावः । किं च यद्वानरकोटिभिरपि दुर्लभं सीतादर्शनं तन्मया लब्धम्, अतः शेषं शिष्टं यदुत्तरं कर्म सीतानयनरूपं तत्र तत्साधने राघवः स एव निमित्तं कारणम् । मत्कृत्यं त्वन्विष्य निवेदनमात्रमिति भावः ॥ ५।५१।२२ ॥
पुना रावणहितमाह– लक्षितेति । पन्नगीमिव स्वनाशिकां यां न जानासि सा मया शोकपरायणा लक्षिता । तदीयशोकाग्निनैव पन्नगीविषाग्निनेव त्वन्नगरं दग्धं भविष्यतीति भावः ॥ ५।५१।२३ ॥
ओजसा ऽ ऽहारशक्तिबलेन ॥ ५।५१।२४ ॥
तपःसन्तापेन तपःकरणेन यो लब्धो धर्मपरिग्रहो धर्मसाध्यः परिग्रह एश्वर्यम्, आत्मप्राणपरिग्रहश्चात्मप्राणानां चिरकालं परिग्रह आयुर्वृद्धिश्च स परदारपरिग्रहरूपपरमाधर्मेण नाशयितुं न न्याय्यः ॥ ५।५१।२५ ॥
अपि च यां देवाद्यवध्यतां मन्यसे तत्रापि तपोजन्यसुकृतमेव कारणम्, अतो धर्माहानिर्न कार्येति वदति– अवध्यतामिति । तत्राप्ययं महानयमेव तपोमयधर्मस्कन्ध एव हेतुरित्यर्थः ॥ ५।५१।२६ ॥
किं च देवाद्यवध्यस्यापि प्राणत्राणं दुष्करमित्याह– सुग्रीव इति । यस्माद्वरग्रहणवेलायां त्वच्छङ्कितहन्तृभ्यो ऽन्य एवायं रामश्च अतस्तस्मात्सुग्रीवात्ते प्राणत्राणे सामर्थ्यं नास्तीति भावः ॥ ५।५१।२७ ॥
ननु तपोबलान्मे सर्वतो जयो भविष्यतीत्यत आह– न त्विति । यः पुमानधर्मफलसंहितबलवत्तया फलोन्मुखाधर्मसंबद्धस्यं पुरुषं धर्मोपसंहारमपि धर्मोपसङ्ग्रहवन्तमपि न त्वन्वेति, धर्मफलमिति शेषः । किं तु तदेव फलं फलोन्मुखाधर्ममेवान्वेति । ननु धर्मबलादधर्मनाशो भविष्यतीत्यत्राह– धर्मश्चेति । उत्कटो ऽधर्मोत्तरभावी धर्मो ऽधर्मस्य नाशनः । चादुत्कटाधर्मो धर्मनाशकः । एवं चास्याधर्मस्य त्वत्कृतसकलधर्मापेक्षयोत्कटत्वादुत्तरकालत्वाच्चायमेव त्वया प्राक्सञ्चितस्य सकलधर्मस्य नाशक इति भावः । केचित्तु “धर्मोपसंहारमधर्मफलसंहितम्” इति पाठः । धर्मोपसंहारं धर्ममुपसंह्रियते ऽनेनेति धर्मफलं सुखं तदधर्मफलसंहितं न संभवत्यधर्मफलेन दुःखेन सहानुभवं न भवति, तत्तस्मादेव फलमन्वेति धर्मो धर्मफलं सुखमेवान्वेति, एवमधर्मो दुःखं दुःखरूपं फलमेवान्वेति । अग्रे “धर्मो नाधर्मनाशनः” इति पाठः । पूर्वकृतो धर्मो ऽधर्मस्येदानीं कृतस्य न नाशनः । चादधर्मो ऽपि धर्मनाशनो नेत्यर्थ इति वदन्ति । तत्रार्थसामञ्जस्यं व्युत्पन्नैर्विभाव्यम् ॥ ५।५१।२८ ॥
ननु किं मे धर्मो व्यर्थ एव नेत्याह– प्राप्तमिति । तावत्प्रथमम् । इतः पूर्वमिति यावत् । अस्य परदारहरणरूपस्य । क्षिप्रमेव प्रपत्स्यसे “अत्युत्कटैः पुण्यपापैः” इति न्यायादिति भावः ॥ ५।५१।२९ ॥
अतः स्वहितं चिन्तयेत्याह– जनस्थानेति । सख्यं च बुद्ध्वा ऽ ऽत्मनो हितं बुद्ध्यस्वेत्यन्वयः ॥ ५।५१।३० ॥
नन्वेवं कटुवादिनस्तव को रक्षकः इति चेत्तत्राह– काममिति । यथेष्टमित्यर्थः । तर्हि कुतस्तन्नाशे न करोषीत्यत्राह– तस्य यस्याहं दूतस्तस्य रामस्यैव मत्कर्तृकलङ्कानाशविषयो निश्चयो न । स्वाम्याज्ञां विना तदनुष्ठानमशक्यमिति भावः ॥ ५।५१।३१ ॥
तदीयनिश्चयाभावं स्पष्टयति– रामेणेति । स्वामिना स्वकर्तव्यत्वेन प्रतिज्ञातस्यार्थस्य सेवकेनानुष्ठानमयुक्तं कर्तुमिति भावः ॥ ५।५१।३२ ॥
उक्तमेवार्थं दार्ढ्याय पुनरप्याह– अपकुर्वन्निति ॥ ५।५१।३३ ॥
कालरात्री महाप्रलयकर्त्री भगवतः शक्तिः ॥ ५।५१।३४ ॥
विग्रहः शरीरम् । स्कन्धावसक्तेन स्कन्धसंबद्धकरणेन । आत्मन्यात्मत्राणे ॥ ५।५१।३५ ॥
दह्यमानां वर्तमानसमीपे लट् । प्रतोलिका वीथिः ॥ ५।५१।३६,३७ ॥
विशेषतः निष्कृष्योच्यमानं वचनमित्यर्थः । रामदासस्येत्यादिविशेषणत्रयेण राममहिमवेत्तृत्वं स्वस्य परोक्तवाक्यानुवादपूर्वं हितोपदेशाधिकारं नररक्षोतिरिक्तजात्यन्तरत्वेनापक्षपाततो न्याय्यवक्तृत्वं च सूचितम् ॥ ५।५१।३८ ॥
सभूतान्सर्वजातीयप्राणिसहितान् अनेन जगत्स्थित्युत्पत्तिसंहारकर्तृत्वं बोधितम् ॥ ५।५१।३९,४० ॥
सर्वत्र देशे ॥ ५।५१।४१,४२ ॥
उक्तमेवार्थं दार्ढ्याय पुनराह– देवाश्चेति ॥ ५।५१।४३ ॥
रामद्रुहो देवताभिरपि न त्राणमित्याह– ब्रह्मेत्यादि । ब्रह्मा स्वयंभूरित्यनेन हिरण्यगर्भः सर्वादिरुक्तः, चतुराननस्ततः प्राप्तस्रष्टृत्वाधिकारः त्रिनेत्रस्त्रिपुरोन्तको रुद्रो वेत्यनेन संहाराधिकारी सुरनायको महेन्द्रो महैश्वर्यवानिन्द्रः । उपेन्द्रो विष्णुः पालनाधिकारी एवं त्रिमूर्तिभिरपि रक्षा न सिद्ध्यति रामस्यैव त्रिमूर्तित्वात् ॥ ५।५१।४४,४५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५।५१ ॥