आविष्टः आसीदिति शेषः ॥ ५।५०।१ ॥
तेजसा वृतम् । दृष्ट्वेति शेषः । शङ्काहतात्मेत्युक्तां शङ्कामेवाह– नन्दी वानरमुख एष प्रमथगणाधिपः ॥ ५।५०।२ ॥
शप्तः मन्मुखसदृशमुखैस्तव नाशो भविष्यतीति शापः । बलिसुतो बाणो वा महेश्वरभक्तत्वान्नन्दिना प्रेषित इति शङ्का ॥ ५।५०।३ ॥
कालयुक्तं कालोचितम् ॥ ५।५०।४ ॥
कुतः आगत इति शेषः । किं वा कारणम् को वास्य प्रेषक इत्यर्थः ॥ ५।५०।५ ॥
मत्पुरीम् उद्दिश्येति शेषः । आयोधने किङ्करादिभिर्युद्धे । यद्वा मत्पुरीगमने मत्पुरीप्राप्तावित्यर्थः । आर्षः षष्ठ्यभावः ॥ ५।५०।६,७ ॥
मोक्ष्यसे बन्धनादिति शेषः ॥ ५।५०।८ ॥
चाररूपं चाराणां प्रच्छन्नवेषत्वाच्छद्मकृतवानररूपम् ॥ ५।५०।९ ॥
कुत एवं चिन्ता तत्राह– नहीति । वानरमितीदमर्थाण्णन्तम् ॥ ५।५०।१०,११ ॥
अथ वेति । अथ चेत्यर्थः । यन्निमित्तो यत्प्रयोजनस्तत्कथयस्वेति संबन्धः । एवमुक्तः प्रहस्तेनेति शेषः । रक्षोगणेश्वरं प्रहस्तमलक्षीकृत्य रावणमेव तथाकृत्वा ऽब्रवीदित्युत्तरेणान्वयः ॥ ५।५०।१२ ॥
वरुणस्य वा दूत इति शेषः । धनदेन विष्णुना च न मे सख्यम्, अतस्ताभ्यां चोदितो नास्मि ॥ ५।५०।१३ ॥
एषा वानराकृतिर्मम जातिरेव जन्मकृतैव, अतो वानर एवाहमिहागतः । वानरस्यात्रगमने किं प्रयोजनं तत्राह– दर्शन इति । राक्षसेन्द्रस्य तव दर्शने दर्शननिमित्तमिहागत इत्यर्थः । तदिदं तव दर्शनं दुर्लभं प्रकारान्तरेणाशक्यलाभमिति ज्ञात्वा तव दर्शनार्थे वनं विनाशितम् । अयं दर्शनोपायो भवत्येवेत्याह– ततः वनभङ्गाद्धेतोरित्यर्थः ॥ ५।५०।१४,१५ ॥
इदानीं युद्धप्रयोजनमाह– रक्षणार्थमिति । प्रतियुद्धा मया प्रतिभटतया स्थित्वा कृतयुद्धाः, नन्वेवं भावि बन्धाद्यपर्यालोच्य कथं युद्धं कृतं तत्राह– अस्त्रेति । अस्त्रैर्ब्रह्मास्त्रान्तैः, पाशैर्यमपाशान्तैः । एवं चेतरपाशकथापि दूरापास्तेत्युक्तम् । देवासुरैर्मिलितैरपीत्यर्थः ॥ ५।५०।१६ ॥
कुतस्तवैवं बलं तत्राह पितामहादिति । तदनुग्रहादित्यर्थः । ममापि न तु केवलं तवैवेत्यर्थः । एष वर इति । बलविशेषरूप इत्यर्थः । तर्हि कथं बन्धनमुपागतं तत्राह राजानमिति । अस्त्रं ब्रह्मास्त्रमनुवर्तितं निवृत्तमप्यनुवर्तितमिव ॥ ५।५०।१७ ॥
तदेवाह–विमुक्त इति । विमुक्तो ऽपि सास्त्र इवाभिवेदित आनीय तव ज्ञापितः एवं पीडामनुभूय मम दर्शने किं प्रयोजनं तत्राह– केनचिदिति । “रामकार्येण” इति पाठः पाङ्क्तः ॥ ५।५०।१८ ॥
रामस्य तव च कः संबन्धस्तत्राह दूत इति । ननु रामदूतेनापि सीतान्वेषणमेव कार्यम् एवंप्रयासेन मद्दर्शने किं फलं तत्राह– श्रूयतामिति । वचनं सन्देशवचनम् । तत्कथनार्थमयं प्रयास इति भावः ॥ ५।५०।१९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चाशः सर्गः ॥ ५।५० ॥