०४९ हनुमता रावणदर्शनम्

तस्येन्द्रजितः । यत्तु रावणस्येति तन्न, तेन हनूमति कस्यापि कर्मणो ऽकृतत्वादिति कतकः । पुत्रद्वारा स्वबन्धनकर्मणेत्यर्थ इति तीर्थः ॥ ५।४९।१,२ ॥

वज्रसंयोगेन तद्घट्टनेन संयुक्तैर्घटितैर्महार्हमणिविग्रहैर्बहुमूल्यमणिप्रधानस्वरूपैः ॥ ५।४९।३ ॥

भक्तिभिः शैवत्रिपुण्ड्रवद्रचनाविशेषैः ॥ ५।४९।४ ॥

विचित्रमाश्चर्यभूतैर्दशनच्छदैः प्रलम्बं लम्बदशनच्छदवन्तम् ॥ ५।४९।५ ॥

शिरोभिर्दशभिरिति हनूमतो दर्शनकाले रणे इव भीषणरूपकरणादिति बोध्यम् ॥ ५।४९।६ ॥

हारेणोपलक्षितम् ॥ ५।४९।७ ॥

केयूराङ्गदयोरवान्तरविशेष ऊह्यः ॥ ५।४९।८११ ॥

चतुर्भिः सागरैः परिवृतं तं कृत्स्नं लोकं भूमण्डलमिवेत्यर्थः ॥ ५।४९।१२ ॥

मन्त्री बुद्धिसहायः । सचिवः कार्यसहायः ॥ ५।४९।१३,१४ ॥

रक्षोधिपमवैक्षत, न तु रक्षः कृतपीडामित्यर्थः ॥ ५।४९।१५१७ ॥

सर्वसंपत्तिमतो ऽप्यधर्मवतो महान्दोष इत्याह– यदीति । बलवानेवंविधसमृद्धो ऽप्युन्मूलनक्षमो ऽधर्मो यद्यस्मिन्न स्यात्तदा ऽयं राक्षसेश्वरः शक्रम्य सुरलोकस्यापि विष्णुवद्रक्षिता स्यात् । यद्वा धर्म इत्यर्शआद्यजन्तम् अयं बलवान्राक्षसेश्वरो यद्यधर्मवान्न स्यात्तदा शक्रस्येत्यादि प्राग्वत् । अधर्महतत्वात्तु स्वप्रजानामपि नाशक एवेति भावः ॥ ५।४९।१८ ॥

“के न बिभ्यति” इति पाठे के नेति पदच्छेदः ॥ ५।४९।१९,२० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥ ५।४९ ॥